शाक्यसिंहस्तोत्रम् (यशोधराकृतम्)
Technical Details
शाक्यसिंहस्तोत्रम्
यशोधराकृतम्
एषो हि भवतस्तातो जन्ममृत्युजरान्तकः।
सर्वार्थसिद्धनाम्नेति शाक्यसिंहोऽधुना सुत॥ १॥
यस्य छायामुपाश्रित्य दिव्यातिसुन्दरो भवेः।
द्वात्रिंशल्लक्षणधरं पितरं दर्शयाधुना॥ २॥
चतुरशीतिसाहस्रं स्त्रीणां विहाय निर्मदः।
तपोवनमगाद् योऽसौ वन्दयैनं महर्द्धिकम्॥ ३॥
सप्तरत्नानि राज्यं च महैश्वर्यपदं वरम्।
हित्वा प्रव्रजितो योऽसौ तं दर्शय जगद्गुरुम्॥ ४॥
मायाख्यायाः पितामह्या योऽजनद्दक्षकुक्षितः।
लुम्बिन्यामुदयात् सूर्य इव तं पितरं नम॥ ५॥
अभयायाः कुलेश्वर्या येन पादाम्बुजे नतम्।
त्रैधातुकाधिपं देवं पितरं त्वं सदा नम॥ ६॥
विश्वामित्रमुपाध्यायं योऽयोजयत् सुसंवरे।
बालक्रीडाभिरक्तात्मा तातमेनं सदा नम॥ ७॥
जम्बूतरुसमासीनं पञ्चर्षयो हतत्विषः।
निर्मानिनः प्राभजन् यमेनं तातं सदा नम॥ ८॥
पितरं बोधयित्वा योऽत्याजयत्तु षडंशकम्।
दयाकरं जगद्वन्द्यं जनकं प्रणमात्मज॥ ९॥
योऽजयद्देवदत्तादीन् मानिनः सर्ववित् सुधीः।
सर्वफलादिदं विज्ञं सुधियं जनकं भज॥ १०॥
यात्रायामातुरं जीर्णं मृतं दृष्टिविवर्जितम्।
स्वयं विज्ञोऽपि पप्रच्छ सदा तं जनकं भज॥ ११॥
कामाग्निर्नाहरद्यस्य चित्तं प्रमदवासिनः।
निरञ्जनं निर्विकल्पं सुत तं जनकं भज॥ १२॥
कनकाश्वं समारुह्य छन्दकेन बहिर्ययौ।
देशान्निशीथे त्रिदशैः स्तूयमानं मुदा भज॥ १३॥
हयं निवर्तयामास छन्दकं च तपोवनात्।
सुकण्ठाभरणं दत्त्वा भणैनं वनचारिणम्॥ १४॥
नैरञ्जनामुपासृत्य प्राकरोद् यस्तपोव्रतम्।
जगद्धितार्थं षड्वर्षमेनं भज तपःपरम्॥ १५॥
बोधिद्रुमसमासीनो जित्वा मारं सुदुःसहम्।
प्रालभद्बोधिरत्नं यो दर्शयैनं तथागतम्॥ १६॥
मृगदावस्थितः काश्यां धर्मचर्क्र प्रवर्तयन्।
ब्रह्मादिभिर्वृतो योऽसौ दर्शयैनं गुरुं सुत॥ १७॥
इति मात्रोदितं श्रुत्वा राहुलः सोऽतिविस्मितः।
प्रणम्य पितरं पश्यन् मुदमाप स्मिताननः॥ १८॥
श्रीशाक्यसिंहस्तोत्रं यशोधराकृतं समाप्तम्।