युगनद्धक्रमः पञ्चमः
Technical Details
[५]
युगनद्धक्रमः पञ्चमः
नमः श्रीवज्रधराय
फलहेत्वात्मकं नाथं सर्वद्वन्द्वविवर्जितम्।
प्रणम्य लिख्यते सम्यग् युगनद्धक्रमोत्तमः॥१॥
संसारो निर्वृतिश्चेति कल्पनाद्वयवर्जनात्।
एकीभावो भवेद् यत्र युगनद्धं तदुच्यते॥२॥
सङ्क्लेशं व्यवदानं च ज्ञात्वा तु परमार्थतः।
एकीभावं तु यो वेत्तिं स वेत्ति युगनद्धकम्॥३॥
साकारभावसङ्कल्पं निराकारत्वकल्पनाम्।
एकीकृत्य चेरद् योगी स वेत्ति युगनद्धकम्॥४॥
ग्राह्यं च ग्राहकं चैव द्विधा बुद्धिर्न विद्यते।
अभिन्नता भवेद् यत्र तदाह युगनद्धकम्॥५॥
शाश्वतोच्छेदबुद्धी तु यः प्रहाय प्रवर्तते।
युगनद्धक्रमाख्यं वै तत्त्वं वेत्ति स पण्डितः॥६॥
प्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते।
युगनद्ध इति ख्यातः क्रमोऽयं बुद्धगोचरः॥७॥
प्रज्ञोपायसमापत्त्या ज्ञात्वा सर्वं समासतः।
यत्र स्थितो महायोगी तद् भवेद् युगनद्धकम्॥८॥
यत्र सोपधिशेषं च तथाऽनुपधिशेषकम्।
इत्येवं कल्पना नास्ति तत् तद्धि युगनद्धकम्॥९॥
यत्र पुद्गलनैरात्म्यं धर्मनैरात्म्यमित्यपि।
कल्पनाया विविक्तत्वं युगनद्धस्य लक्षणम्॥१०॥
ज्ञात्वा क्रमेण तत्त्वज्ञः स्वाधिष्ठानप्रभास्वरम्।
तयोरेव समाजं यद् युगनद्धक्रमो ह्ययम्॥११॥
पिण्डग्राहनुभेदाभ्यां प्रवेशस्तथतालये।
उत्थानं च ततो यत्र समन्ताद् युगनद्धकम्॥१२॥
संवृतिं परमार्थं च पृथग् ज्ञात्वा विभागतः।
सम्मीलनं भवेद् यत्र युगनद्धं तदुच्यते॥१३॥
तथातलम्बनं नैव व्युत्थानं यत्र नैव हि।
युगनद्धं भवेत् तच्च योगिनां पदमव्ययम्॥१४॥
सुप्तः प्रबुद्ध इत्येतदवस्थाद्वयवर्जितम्।
युगनद्धं वदेच्छास्ता स्वापबोधविवर्जितम्॥१५॥
समाधानासमाधानं यस्य नास्त्येव सर्वथा।
युगनद्धे स्थितो योगी भावाभावविवर्जितः॥१६॥
अस्मृतिस्मृतिनिर्मुक्तः सततोदयलक्षणः।
विचरेदिच्छया योगी युगनद्धक्रमे स्थितः॥१७॥
रागारागविनिर्मुक्तः परमानन्दमूर्तिमान्।
आसंसारं स्थितिं कुर्याद् युगनद्धविभावकः॥१८॥
कार्यं च कारणं चैव कृत्वाऽभिन्नंस्वभावतः।
या स्थितिर्योगिनां बुद्धा युगनद्धं वदन्ति तत्॥१९॥
उत्पत्तिक्रम एकोऽयम् उत्पन्नक्रम इत्यपि।
एकत्वं तु द्वयोर्यत्र युगनद्धस्तदुच्यते॥२०॥
देवता परिशुद्धेयम् अशुद्धेयं भवेदिति।
इति या कल्पनाऽभिन्ना यत्र तद् युगनद्धकम्॥२१॥
रूपीति चाप्यरूपीति कल्पनाद्वयवर्जनात्।
यःशान्तिं वेत्ति योगीन्द्रः स प्राप्तो युगनद्धकम्॥२२॥
एवं वै यः स्थितो योगी युगनद्धक्रमे स्थितः।
उच्यते स हि सर्वज्ञः तत्त्वदर्शी च विश्वधृक्॥२३॥
मायाजालाभिसम्बुद्धः संसारार्णवपारगः।
कृतकृत्यो महायोगी सत्यद्वयनये स्थितः॥२४॥
एतदेवाद्वयं ज्ञानम् अप्रतिष्ठितनिर्वृतिः।
बुद्धत्वं वज्रसत्त्वत्वं सर्वैश्वर्यं तथैव च॥२५।
वज्रोपमसमाधिस्तु निष्पन्नक्रम एव च।
वज्रोपमसमाधिश्चाप्यद्वयं तच्च कथ्यते॥२६॥
अनुत्पादादयः शब्दा अद्वयज्ञानसूचकाः।
अस्यैव वाचकाः सर्वे नान्यत् तत्राभिधीयते॥२७॥
महामुद्रात्मिकां सिद्धिं सदसत्पक्षवर्जिताम्।
अनेनैव गता बुद्धा गङ्गायाः सिकतोपमाः॥२८॥
घटमानो महायोगी युगनद्धपदे स्थितः।
भावयेद् युगनद्धं तु चर्यां चापि तदन्वयाम्॥२९॥
यथात्मनि तथा शत्रौ यथा भार्या तथात्मजा।
यथा माता तथा वैश्या यथा डोम्बी तथा द्विजा॥३०॥
यथा वस्त्रं तथा चर्म यथा रत्नं तथा तुषम्।
यथा मूत्रं तथा मद्यं यथा भक्तं तथा शकृत्॥३१॥
यथा सुगन्धि कर्पूरं तथा गन्धममेध्यजम्।
यथा स्तुतिकरं वाक्यं तथा वाक्यं जुगुप्सितम्॥३२॥
यथा रुद्रस्तथा वज्री यथा रात्रीस्तथा दिवा।
यथा स्वप्नं तथा दृष्टं यथा नष्टं तथा स्थितम्॥३३॥
यथा सौख्यं तथा दुःखं यथा दुष्टस्तथा सुतः।
यथाऽवीचिस्तथा स्वर्गस्तथा पुण्यं तु पापकम्॥३४॥
एवं ज्ञात्वा चरेद् ज्ञानी निर्विशङ्कस्तु सर्वकृत्।
प्रच्छन्नव्रतमासाद्य सिध्यन्ते सर्वसम्पदः॥३५॥
प्रकाश्य पुण्यं यत् प्राप्तं पञ्चक्रममनुत्तरम्।
अनेन क्रीडतां लोको युगनद्धसमाधिना॥ इति।३६॥
युगनद्धक्रमः पञ्चमः समाप्तः॥
कृतिरियम् आचार्यनागार्जुनपादानाम्। ग्रन्थप्रमाणमस्य श्लोकाः पञ्चत्रिंशत्।
॥ पञ्चक्रमः समाप्तः॥
प्रज्ञाकरुणयोरैक्यं ज्ञात्वा यत्र प्रवर्तते।
युगनद्ध इति ख्यातः क्रमोऽयं बुद्धगोचरः॥
(पञ्चक्रमः, ५ः७)
अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर-
क्षुब्धधीरधिवीचिसञ्चयगतप्रालेयपादोपमः।
श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते
सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः॥
(सुभाषितरत्नकोशे विद्याकरः)
न सत्या नासत्या न च तदुभयी नाप्यनुभयी
निरुल्लेखा सर्वाकृतिवरमयी मध्यमकधीः।
जिनः शास्ता सैव स्थिर-चलजगत्तत्त्वमपि सा
स्वसंवित्तिर्देवी जयति सुखवज्रप्रणयिनी॥
(अमृतकणिकाभिधायां नामसंगीतिटिकायाम्, रविश्रीः)
ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत्।
तेषां च यो निरोध एवंवादी महाश्रमणः॥
शुभमस्तु