बलिविधिः
बलिविधिरभिधीयते। प्रथमतः पद्मभाजनादिकं विशिष्टान्नपानखाद्यादिपूरितं पुरतः संस्थाप्य यँ- कारेण वायुमण्डलं तदुपरि रँ-कारेणाग्निमण्डलं ततः शुक्ल-आःकारपरिनिष्पन्नं मुण्डत्रयं कृतचुल्लिकोपरि संस्थितं पद्मभाजनं विचिन्त्य तत्र स्थितयावदेकभक्तादिकं ॐँ त्राँ आँ खँ हूँ लाँ माँ पाँ ताँ वँकारजातपञ्चामृतपञ्चप्रदीपरूपेण निष्पाद्य पवनमण्डलबलप्रेरितप्रज्वलिताग्निना प्रविलीनदशबीजाधिष्ठितदशसमयद्रव्यमभिनवोदितदिवाकरवर्णमालोक्य पारदवर्णहूँकारजनितवितस्तिमात्रान्तरोपस्थिताऽधोमुखामृतमयं खट्वाङ्गं विभावयेत्। ततस्तदपि बाष्पविलीनं मिश्रीभूय पारदसदृशं शीतीभूतं चिन्तयेत्। तदुपरि आलिकालिपरिणतं ॐँ आः हूँ इत्यक्षरत्रयं दृष्ट्वा तद्रश्मयश्च दशदिग्वर्तिवीरवीरेश्वरीणां ज्ञानामृतमाकृष्य तत्रैवाक्षरेषु प्रविष्टाश्चिन्तनीयाः। ततः ॐँकारादिकमपि क्रमशो विलीनमवलोक्य त्र्यक्षरेणैव यथेष्टमधितिष्ठेत्। ततो ज्वाला (जाल)मुद्रां बद्धवा फेंकारपाठपूर्वकं भगवतीमाकृष्य पुरतः संस्थाप्यार्घपाद्यादिकपुरःसरं संपूज्य ऊर्ध्वविकचवज्राञ्जलिकृतकरद्वये तत्पात्रमवस्थाप्य ध्यात्वा वा बलिस्वीकारार्थमिदं पठेत्-
देव्यः प्रमाणं समयः प्रमाणं तदुक्तवाचश्च परं प्रमाणम्।
एतेन सत्येन भवेयुरेता देव्यो ममानुग्रहहेतुभूताः॥
ततस्तदमृतभाण्डं वामावर्तेन भ्रामयेत्। ॐँ वज्रारल्लि होः हूँ जः हूँ वँ होः वज्रवाराहीसमयस्त्वं दृश्य होः इत्यनेन वारत्रयोच्चारितेन उपढौकयेत्। भगवती च सूक्ष्महूँकारोद्भवशुक्लैकशूकवज्रजिह्वारश्मिनाऽऽत्मानं प्रीणयन्ती चिन्तनीया। ततस्ताम्बूलादिकं दत्त्वा सम्पूज्य संस्तुत्याभिमतसिद्धिं प्रार्थयेत्।
भवशमसमसंगा भग्नसंकल्पसङ्गाः
खमिव सकलभावं भावतो वीक्षमाणाः।
गुरुतरकरुणाम्भः स्फीतचित्ताम्बुनाथाः
कुरुत कुरुत देव्यो मय्यतीवानुकम्पाम्॥
ततोऽष्टश्मशानस्थानां (ना)ॐँ ख ख खाहि खाहि सर्वयक्षराक्षसभूतप्रेतपिशाचोन्मादापस्मारडाकडाकिन्यादय इमं बलिं गृह्णन्तु समयं रक्षन्तु मम सर्वसिद्धिं प्रयच्छन्तु यथैवं यथेष्टं भुञ्जथ पिबथ जिघ्रथ मातिक्रमथ मम सर्वाकारतयात्मसुखविवृद्धये सहायका भवन्तु हूँ हूँ फट् फट् स्वाहा। अनेन वार त्रयोच्चारितेन ढौकयेत्। तदमृतभक्षणात् स्फीताश्चिन्तनीयाः। समुदायेन ताम्बूलादिकं दत्त्वा सम्पूज्य संस्तुत्याच्छोमकहस्तेन संच्छोभ्य न्यूनाधिकविधिपरिपूरणार्थं शताक्षरं पठेत्।
ततः कमलावर्तमुद्रया परितोष्य मुद्रोपसंहारेणालिङ्गनाभिनयपूर्वकं वामानामिकयाङ्गुष्ठच्छोटिकादानपूर्वकं वज्रमुरिति पठन् तच्चक्रमात्मन्यन्तर्भावयेत्। ततः प्रणिधानं कृत्वा देवीरूपेण विहरेत्। भगवतीमन्त्रेणैव बलिर्देय इत्याम्नायः। सुप्रसिद्ध एव (ष)बलिविधिः॥
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project