Digital Sanskrit Buddhist Canon

विंशतिका विज्ञप्तिमात्रतासिद्धिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Viṁśatikā vijñaptimātratāsiddhiḥ
विंशतिका विज्ञप्तिमात्रतासिद्धिः



विज्ञप्तिमात्रमेवेदमस्ददर्थावभासनात्।

यद्वत् तैमिरिकस्यासत्केशोण्ड्रकादिदर्शनं॥१॥



न देशकालनियमः संतानानियमो न च।

न च कृत्यक्रिया युक्ता विज्ञप्तिर्यदि नार्थतः॥२॥



देशादिनियमः सिद्धः स्वप्नवत् प्रेतवत्पुनः।

संतानानियमः सर्वैः पूयनद्यादिदर्शने॥३॥



स्वप्नोपघातवत्कृत्यक्रिया नरकवत्पुनः।

सर्वं नरकपालादिदर्शने तैश्च बाधने॥४॥



तिरश्चां संभवः स्वर्गे यथा च नरके तथा।

न प्रेतानां यतस्तज्जं दुःखं नानुभवन्ति ते॥५॥



यदि तत्कर्मभिस्तत्र भूतानां संभवस्तथा।

इष्यते परिणामश्च किं विज्ञानस्य नेष्यते॥६॥



कर्मणो वासनान्यत्र फलमन्यत्र कल्प्यते।

तत्रैव नेष्यते यत्र वासना किं नु कारणं॥७॥



रूपाद्यायतनास्तित्वम् तद्विनेयजनं प्रति।

अभिप्रायवशादुक्तमुपपादुकसत्ववत्॥८॥



नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः

यतः स्वबीजाद्विज्ञप्तिर्यदाभास प्रवर्तते।

द्विविधायतनत्वेन ते तस्या मुनिरब्रवीत्॥९॥



तथा पुद्गलनैरात्म्यप्रवेशो हि अन्यथा पुनः।

देशना धर्मनैरात्म्यप्रवेशः कल्पितात्मना॥१०॥



न तदेकं न चानेकं विषयः परमाणुशः।

न च ते संहता यस्मात्परमाणुर्न सिध्यति॥११॥



षट्केन युगपद्योगात्परमाणोः षडंशता।

षण्णां समानदेशत्वात्पिण्डः स्यादणुमात्रकः॥१२॥



परमाणोरसंयोगे तत्संघातेऽस्ति कस्य सः।

न चानवयवत्वेन तत्संयोगाद् न सिध्यति॥१३॥



दिभागभेदो यस्यान्ति तस्यैकत्वं न युज्यते।

छायावृती कथं वा अन्यो न पिण्डश्चेन्न तस्य ते॥१४॥



एकत्वे न क्रमेणेतिर्युगपन्न ग्रहाग्रही।

विच्छिन्नानेकवृत्तिश्च सूक्ष्मानीक्षा च नो भवेत्॥१५॥



प्रत्यक्षबृद्धिः स्वप्नादौ यथा स च यदा तदा।

न सोऽर्थो दृश्यते तस्य प्रत्यक्षत्वं कथं मतं॥१६॥



उक्तं यथा तदाभासा विज्ञप्तिः स्मरणं ततः।

स्वप्नदृग्विषयाभावं नाप्रबुद्धोऽवगच्छति॥१७॥



अन्योन्याधिपतित्वेन विज्ञप्तिनियमो मिथः।

मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फलं॥१८॥



मरणं परविज्ञप्तिविशेषाद्विक्रिया यथा।

स्मृतिलोपादिकान्येषां पिशाचादिमनोवशात्॥१९॥



कथं वा दण्डकारण्यशून्यत्वमृषिकोपतः।

मनोदण्डो महावद्यः कथं वा तेन सिध्यति॥२०॥



परचित्तविदां ज्ञानमयथार्य कथं यथा।

स्वचित्तज्ञानं अज्ञानाद्यथा बुद्धस्य गोचरः॥२१॥



विज्ञप्तिमात्रतासिद्धिः स्वशक्तिसदृशी मया।

कृतेयं सर्वथा सा तु न चिन्त्या बुद्धगोचरः॥२२॥



विंशतिका विज्ञप्तिमात्रतासिद्धिः।

कृतिरियमाचार्य वसुबन्धोः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project