एकोनविंशत्यधिकारः
Technical Details
एकोनविंशत्यधिकारः
आश्चर्य विभागे त्रयः श्लोकाः।
स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ।
दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः॥१॥
वीर्यारम्भो ह्यनास्वादो धानेषु सुख एव च।
निष्कल्पना न प्रज्ञायामाश्चर्यं धीमतां ग[म]तं॥२॥
तथागतकुले जन्मलाभो व्याकरणस्य च।
अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते॥३॥
वैराग्यं करुणां चैत्य भावनां परमामपि।
तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता॥४॥
न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु।
सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां॥५॥
अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं।
क्षान्तिः सर्वत्र सत्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि॥६॥
ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका।
विज्ञेया बोधिसत्वानां तास्वेव समचित्तता॥७॥
स्थापना भाजनत्वे च शीलेष्वेव च रोपणं।
मर्षणा चापकारस्य अर्थे व्यापारगामिता॥८॥
आवर्जना शासने ऽस्मिंश्छेदना संशयस्य च।
सत्वेषु उपकारित्वं धीमतामेतदिष्यते॥९॥
समाशयेन सत्वानां धारयन्ति सदैव ये।
जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च॥१०॥
दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च।
पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः॥११॥
श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात्।
अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात्॥१२॥
बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात्।
पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः॥१३॥
अनर्हदेशनां ये च सत्वानां गूहयन्ति हि।
शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम्॥१४॥
अववादं च यच्छन्ति मारानावेदयन्ति हि।
पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः॥१५॥
संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः।
यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम्॥१६॥
सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः।
पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः॥१७॥
सर्वदोद्यमवन्तो ये सत्वानां परिपाचने।
सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु॥१८॥
द्वयसंपत्तिदातारस्तदुपाये च कोविदाः।
पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः॥१९॥
अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः।
सर्वया[नो]पदेष्टारः सिद्वयोगानियोजकाः॥२०॥
सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः।
पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः॥२१॥
सत्वकृत्यार्थमुद्युक्ताः संभारान्पूरयन्ति ये।
संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च॥२२॥
लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च।
पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः॥२३॥
असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः।
कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः॥२४॥
षट्सु पारमितास्वेव वर्तमाना हि देहिनः।
भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः॥२५॥
वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं।
विशेषगमनं भूमौ बोधिं चानुत्तरां सदा॥२६॥
त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च।
प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः॥२७॥
दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे।
शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये॥२८॥
विना[आ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता।
सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि॥२९॥
भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका।
आस्वादनं विकल्पश्च धीराणां हानिहेतवः॥३०॥
स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च।
ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात्॥३१॥
प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना।
लोभत्वेन तथ वृत्तिः शान्तवाक्कायता तथा॥३२॥
सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता।
एते हि बोधिसत्वानामभूतत्वाय देशिताः।
विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः॥३३॥
ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि।
षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु॥३४॥
धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः।
बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं॥३५॥
नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः।
एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः॥३६॥
क्षेत्रेणं नाम्ना कालेन कल्पनाम्ना च तत्पुनः।
परिवारानुवृत्या च सद्धर्मस्य तदिष्यते॥३७॥
संपत्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां।
भावनायाश्च सातत्ये समाधानाच्युतावपि।
कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा॥३८॥
पूजा शिक्षासमादानं करुणा शुभभावना।
अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च।
सर्वभूमिषु धीराणामवश्यकरणीयता॥३९॥
कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा।
दुःखाधिवासना चैव कुशलस्य च भावना॥४०॥
अनास्वादः सुखे चैव निमित्तानामकल्पना।
सातत्यकरणीयं हि धीमतां सर्वभूमिषु॥४१॥
धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च।
वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः।
प्रज्ञा पारमितानां च प्रधानं धीमतां मतम्॥४२॥
विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः।
ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु॥४३॥
पुनः सत्वव्यवस्थानं सप्तधा तथताश्रयात्।
चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः॥४४॥
योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता।
प्रमाणैर्विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम्॥४५॥
आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि।
समुदागमभेदाच्च त्रिविधं यानमिष्यते॥४६॥
आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः।
प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा॥४७॥
सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं।
सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते॥४८॥
प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि।
साश्रयाश्चित्तचैत्तास्तु बध्यन्ते ऽत्र सबीजकाः॥४९॥
पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं।
सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम्॥५०॥
तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं।
दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम्॥५१॥
तथतालम्बनं ज्ञानमनानाकारभावितं।
सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते॥५२॥
तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः।
तत्त्वं तु बोधिसत्वानां सर्वतः ख्यात्यपास्य तत्॥५३॥
अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः।
आश्रयस्य परावृत्तिर्मोक्षो ऽसौ कामचारतः॥५४॥
अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान्।
अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत्॥५५॥
परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने।
सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम्॥५६॥
बोधिसत्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च।
चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च॥५७॥
सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता।
देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः॥५८॥
आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा।
ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च॥५९॥
उदागममहत्वं च महत्वं बुद्धकर्मणः।
एतन्महत्वयोगाद्धि महायानं निरुच्यते॥६०॥
गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा।
दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च॥६१॥
सत्वानां परिपाकश्च क्षेत्रस्य च विशोधना।
अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना]॥६२॥
आधिमोक्षिक एकश्च शुद्धाध्याशयिको ऽपरः।
निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते।
बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु॥६३॥
कामेष्वसक्तस्स्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च।
धर्मे ऽचलस्तत्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः॥६४॥
अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च।
धीरो ऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः॥६५॥
आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः।
योगी निमित्ते कुशलो ऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः॥६६॥
दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः।
स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः॥६७॥
दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः।
दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः॥६८॥
धर्मेरतोऽधर्मरतः [धर्मेऽरतोऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः।
धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः॥६९॥
भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः।
सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः॥७०॥
विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः।
विशाल[विसार]लज्जस्तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः॥७१॥
इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः।
शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः॥७२॥
बोधिसत्वो महासत्वो धीमांश्चैवोत्तमद्युतिः।
जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः॥७३॥
विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः।
कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा॥७४॥
सुतत्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः।
उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः॥७५॥
आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च।
सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्वः॥७६॥
अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात्।
अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः॥७७॥
अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात्।
बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः॥७८॥
निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात् क्रमदर्शनस्य।
बोधाद्भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्त्वः॥७९॥
लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च।
निर्जल्पबुद्धिर्हतमानमानी ह्यपक्कसंपक्कमतिश्च धीमान्॥८०॥
॥ महायानसूत्रालंकारे गुणाधिकारः [ एकोनविंशतितमः?] समाप्तः॥