नवमोऽधिकारः
Technical Details
नवमोऽधिकारः
सर्वाकारज्ञतायां द्वौ श्लोकौ। तृतीयस्तयोरेव निर्देशभूतः।
अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः।
अप्रमेयेण कालेन अमेयावरणक्षयात्॥१॥
सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला।
विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम्॥२॥
कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वशुभं
कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात्।
सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता
रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता॥३॥
सर्वधर्माश्च बुद्धत्वं धर्मो नैव न कश्चन।
शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते॥४॥
धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम्।
शुभस्यनिमित्तत्वाल्लब्धमेघोपमं मतम्॥५॥
बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं
प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम्।
भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं
दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु॥६॥
परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा।
सर्वदुश्चरितेभ्यश्च जन्ममरणतो ऽपि च॥७॥
उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः।
सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम्॥८॥
शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं
जननमरणसर्वक्लेशपापेषु रक्षा।
विविधभयगतानां सर्वरक्षापयानं
प्रततविविधदुःखापायनोपायगानां॥९॥
बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति स सत्त्वान्प्रविनेतुम्।
यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम्॥१०॥
आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत्।
सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम्॥११॥
क्लेशज्ञेयवृतीनां सततमनुगतं बीजमुत्कृष्टकालं
यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः।
बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्ति-
स्तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात्॥१२॥
स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते।
शमाभिरामं करूणायते जनमघा[भवा]भिरामे ऽन्यजने तु का कथा॥१३॥
प्रवृत्तिरूद्धित्तिरवृतिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया।
समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते॥१४॥
यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम्।
यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्वगणेषु सर्वगम्॥१५॥
यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते।
तथ दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते॥१६॥
यथाग्निर्ज्वलते ऽन्यत्र पुनरन्यत्रशाम्यति।
बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम्॥१७॥
अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः।
तथा जिणे विनाभोगं देशनायाः समुद्भवः॥१८॥
यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम्।
बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम्॥१९॥
यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः।
तथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः॥२०॥
यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा।
तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः॥२१॥
पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला।
नशुद्धा नापि चाशुद्धा तथता बुद्धता मता॥२२॥
शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः।
बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम्॥२३॥
न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते।
तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः॥२४॥
दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च।
चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते॥२५॥
बुद्धानाममले धातौ नैकता बहुता न च।
आकाशवददेहत्वात्पूर्वदेहानुसारतः॥२६॥
बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा।
जगत्कुशलसस्येषु महामेघोपमा मता॥२७॥
पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता।
ज्ञानालोककरत्वाच्च महादित्योपमा मता॥२८॥
अमेया रश्मयो यद्वद्व्यमिश्रा भानुमण्डले।
सदैककार्या वर्तन्ते लोकमालोकयन्ति च॥२९॥
तथैवानास्रवे धातौ बुद्धानामप्रमेयता।
मिश्रैककार्या कृत्येषु ज्ञानालोककरामता॥३०॥
यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः।
भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः॥३१॥
यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम्।
तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम्॥३२॥
यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत्।
सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते॥३३॥
यथैवादित्यरश्मीनां मेघाद्यावरणं मतम्।
तथैव बुद्धज्ञानानामावृतिः सत्वदुष्टता॥३४॥
यथा पांशुवशाद्वस्रे रङ्गचित्राविचित्रता।
तथा ऽवेधवशान्मुक्तौ ज्ञानचित्राविचित्रता॥३५॥
गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु।
बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा॥३६॥
सर्वेषामविशिष्टापि तथता शुद्धिमागता।
तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः॥३७॥
श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते।
प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते॥३८॥
बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति।
तथागतविभुत्वस्य तत्कलां नानुगच्छति॥३९॥
अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते।
यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते॥४०॥
पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम्।
सर्वार्थवृत्तौ सर्वेषां गुनद्वादशशतोदये॥४१॥
मनसोऽपि परावृत्तौ विभुत्वं लभ्यते परम्।
विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले॥४२॥
सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम्।
क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि॥४३॥
विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम्।
अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम्॥४४॥
प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम्।
अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले]पदे॥४५॥
मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम्।
बुद्धसौख्यबिहारे ऽथ दाराऽसंक्लेशदर्शने॥४६॥
आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम्।
चिन्तितार्थसमृद्धौ च गतिरूपविभावने॥४७॥
इत्येमेयपरावृत्तावमेयविभुता मता।
अचिन्त्यकृत्यानुष्ठानाद्बुद्धानाममलाश्रये॥४८॥
शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां।
शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम्।
व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितै-
रपक्वः पक्वो वा [न]च पुनरशेषं ध्रुवमिह॥४९॥
तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवर्ती
महाबोधिं नित्यां ध्रुवमशरणानां च शरणम्।
लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा]सर्वसमयं
तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि॥५०॥
क्वचिद्धर्माञ्चकं [धर्म्यं चक्रं] बहुमुखशतैर्दर्शयति यः
क्वचिज्जन्मान्तर्धिं क्वचिदपि विचित्रां जनचरीम्।
क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत्
न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते॥५१॥
न बुद्धानामेवं भवति ममपक्वो ऽयमिति चाप्र-
पाच्यो ऽयं देही अपि च अधुनापाच्यत इति।
विना संस्कारं तु प्रपचमुपयात्येव जनता
शुभैर्धर्मैर्नित्यं दिशि दिशिः समन्तात्त्रयमुखम्॥५२॥
यथायत्नं भानुः प्रततविषदैरंशविसरैः
प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते।
तथा धर्मार्कोऽपि प्रशमविधिधर्मांशुविसरैः
प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते॥५३॥
यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो
ऽप्रमेयो ऽसंख्येयो न च स पुनरेति व्ययमतः।
तथैकस्माद् बुद्धाद् [पाका]भवति सुमहान् परिपाक[पाक]निचयो
ऽप्रमेयो ऽसंख्येयो न च पुनरेति[पुनरुपैति] व्ययमतः॥५४॥
यथा तोयैस्तृप्तिं व्रजति न महासागर इव
न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः।
तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनै-
र्नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत्॥५५॥
सर्वधर्मद्वयावारतथताशुद्धिलक्षणः।
वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः॥५६॥
क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च।
वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च।
सर्वतस्तथताज्ञानभावना समुदागमः।
सर्वसत्वद्वयाधानसर्वथाऽक्षयता फलम्॥५७॥
कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः।
समाधिधारणीद्वारद्वयामेयसमन्वितः॥५८॥
स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः।
धर्मधातुर्विशुद्धो ऽयं बुद्धानां समुदाहृतः॥५९॥
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिकोऽपरः।
कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः॥६०॥
सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः।
क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः॥६१॥
समः सूक्ष्मश्च तच्छिष्टः[च्छ्लिष्टः] कायः स्वाभाविको मतः।
संभोगविभुताहेतुर्यथेष्टं भोगदर्शने॥६२॥
अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः।
द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता॥६३॥
शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः।
बुद्धनिर्माणकायोऽयं महामायो[महोपायो] विमोचने॥६४॥
त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः।
साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निर्दर्शितः॥६५॥
आश्रयेणाशयेनापि कर्मणा ते समा मताः।
प्रकृत्या ऽस्रंसनेनापि प्रबन्धेनैषु नित्यता॥६६॥
आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम्।
समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च॥६७॥
आदर्शज्ञानमममापरिच्छिन्नं सदानुगम्।
सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा॥६८॥
सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम्।
संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत्॥६९॥
सत्त्वेषु समताज्ञानं भावनाशुद्धितोऽमलं [मतम्]।
अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते॥७०॥
महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम्।
यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम्॥७१॥
प्रत्यवेक्षणकं ज्ञाने [नं]ज्ञेयेष्वव्याहतं सदा।
धारणीनां समाधीनां निधानोपममेव च॥७२॥
परिषन्मण्डले सर्वविभूतीनां निदर्शकम्।
सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम्॥७३॥
कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु।
चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम्॥७४॥
कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा।
अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा॥७५॥
धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात्।
कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः॥७६॥
गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः।
अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये॥७७॥
या ऽविद्यमानता सैव परमा विद्यमानता।
सर्वथा ऽनुपलम्भश्च उपलम्भः परो मतः॥७८॥
भावना परमा चेष्टा भावनामविपश्यताम्।
प्रतिलम्भः परश्चेष्टः प्रतिलम्भं च पश्यताम्॥७९॥
पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः।
मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते॥८०॥
पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं।
अकल्पबोधिसत्वानां प्राप्ता बोधिर्निरूप्यते॥ ८१॥
भिन्नाश्रया भिन्नजलाश्च नद्यः
अल्पोदकाः कृत्यपृथक्त्वकार्याः।
जलाश्रितप्राणितनूपभोग्या
भवन्ति पातालमसंप्रविष्टाः॥८२॥
समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च।
मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम्॥८३॥
भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः।
परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः॥८४॥
बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः।
मिश्रेककार्याश्च महोपभोग्याः सदा महासत्वगणस्य ते हि॥८५॥
इतिनिरूपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः।
शुभपरमसुखाक्षयाकरत्वात् शुभमतिरर्हति बोधिचित्तमाप्तुम्॥८६॥
॥ महायानसूत्रालंकारे बोध्यधिकारो नवमः॥