अष्टमोऽधिकारः
Technical Details
अष्टमोऽधिकारः
बोधिसत्त्वपरिपाके संग्रहः श्लोकः।
रूचिः प्रसादः प्रशमो ऽनुकम्पना
क्षमाथ मेधा प्रबलत्वमेव च।
अहार्यताङ्गैः समुपेतता भृशं
जिनात्मजे तत्परिपाकलक्षणम्॥१॥
सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः।
कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम्॥२॥
गुणज्ञताथाशुसमाधिलाभिता
फलानुभूतिर्मनसोऽध्यभेद[द्य?]ता।
जिनात्मजे शास्तरि संप्रपत्तये
मतं हि सम्यक्परिपाकलक्षणम्॥३॥
सुसंवृत्तिः क्लिष्टवितर्कवर्जना
निरन्तरायोऽथ शुभाभिरामता।
जीनात्मजे क्लेशविनोदनायतन्-
मतं हि सम्यक्परिपाकलक्षणम्॥४॥
कृपा प्रकृत्या परदुःखदर्शनं
निहीनचित्तस्य च संप्रवर्जनम्।
विशेषगत्वं जगदग्रजन्मता
परानुकम्पापरिपाकलक्षणम्॥५॥
धृतिः प्रकृत्या प्रतिसंख्यभावना
सुदःखशीताद्यधिवासना सदा।
विशेषगामित्वशुभाभिरामता
मतं क्षमायाः परिपाकलक्षणम्॥६॥
विपाकशुद्धिः श्रवणाद्यमोषता
प्रविष्टता सूक्तदुरूक्तयोस्तथा।
स्मृतेर्महाबुद्धयुदये च योग्यता
सुमेधतायाः परिपाकलक्षणम्॥७॥
शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा।
मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम्॥८॥
सुधर्मतायुक्तिविचारणाशयो
विशेषलाभः परपक्षदूषणम्।
पुनः सदा मारनिरन्तरायता
अहार्यतायाः परिपाकलक्षणम्॥९॥
शुभाचयो ऽथाश्रययत्नयोग्यता
विवेकतोदग्रशुभाभिरामता।
जिनात्मजे ह्यङ्गसमन्वये पुन-
र्मतं हि सम्यक्परिपाकलक्षणम्॥१०॥
इति नवविधवस्तुपाचितात्मा
परपरिपाचनयोग्यतामुपेतः।
शुभ[धर्म]मयसततप्रवर्धितात्मा
भवति सदा जगतो ऽग्रबन्धुभूतः॥११॥
व्रणेऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता।
तथाश्रयेऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता
[मुशन्तिपक्वताम्]॥१२॥
विपाचनोक्ता परिपाचना तथा
प्रपाचना चाप्यनुपाचनापरा।
सुपाचना[चा]प्यधिपाचना मता
निपाचनोत्पाचनना च देहिषु॥१३॥
हिताशयेनेह यथा जिनात्मजो
व्यवस्थितः सर्वजगद्विपाचयन्।
तथा न माता न पिता न बन्धवः
सुतेषु बन्धुष्वपि सुव्यवस्थिताः॥१४॥
तथाजनो नात्मनि वत्सलो मतः
कुतोऽपि सुस्निग्धपराश्रये जने।
यथा कृपात्मा परसत्ववत्सलो
हिते सुखे चैव नियोजनात्मतः॥१५॥
न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा।
अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते॥१६॥
सदाप्रकृत्याध्यविहिंसकः स्वयं
रतोऽप्रमत्तोऽत्र परं निवेशयन्।
परंपरानुग्रहकृत् द्विधा परे
विपाकनिष्यन्दगुणेन पाचकः॥१७॥
परेऽपकारिण्युपकारिबुद्धिमान्
प्रमर्षयन्नुग्रमपि व्यतिक्रमम्।
उपायचित्तैरपकारमर्षणैः
शुभे समादापयतेऽपकारिणः॥१८॥
पुनः स यत्नं परमं समाश्रितो
न खिद्यते कल्पसहस्रकोटिभिः।
जिनात्मजः स[त्त्व]गणं प्रपाचयन्
परैकचित्तस्य शुभस्य कारणात्॥१९॥
वशित्वमागम्य मनस्यनुत्तरं
परं समावर्जयतेऽत्र शासने।
निहत्य सर्वामवमानकामतां
शुभेन संवर्धयते च तं पुनः॥२०॥
स तत्वभावार्थनये सुनिश्चितः करोति सत्वान्सुविनीत संशयान्।
ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः॥२१॥
इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः।
तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या॥२२॥
॥ महायानसूत्रालंकारे परिपाकाधिकारोऽष्टमः॥