त्रयोदशोऽधिकारः
Technical Details
त्रयोदशोऽधिकारः
प्रतिपत्तिविभागे षट् श्लोकाः।
द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः।
द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि॥१॥
यथार्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति। तत्र द्विधा पुद्गलधर्म नैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः। द्वयमिथ्यात्वसम्यक्त्त्वं विवर्ज्यं त्रयं। अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य। भावे चाप्रणीहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः। एतत्समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात्। न सम्यक्त्वमलोकोत्तरत्वात्।
अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां।
श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते॥२॥
एवमर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति। श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति।
पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा।
तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते॥३॥
एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं [नैरात्म्यं तथा प्रतिविध्य यथोक्तं] तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते। एवमनुधर्मं प्रतिपद्यते।
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं।
आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः॥४॥
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरमिति। विशिष्टतरयानाभावात्। आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिरिति तद्भूमिकैरेवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्त्वसमतया।
कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम्।
ज्ञेयावरणज्ञानाया[हानाय] भावनायां प्रयुज्यते॥५॥
श्लोको गतार्थः।
व्यवस्थानविकल्पेन ज्ञानेन सहचारिणा।
अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु॥६॥
शेषेणानुधर्मचारित्वं दर्शयति। व्यवस्थानाविकल्पेनेति भूमिव्यवस्थानज्ञानेनाविकल्पेन च। सहचारिणेत्यनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण। एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं।
प्रतिपत्तावप्रमादक्रियायां चत्वारः श्लोकाः।
सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः।
सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते॥७॥
चतुर्भिश्चक्रैरप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः। तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति। सुलाभश्चीवरपिण्डपातादीनां जीवितपरिष्काराणामकृच्छ्रेण लाभात्। स्वधिष्ठानो दुर्जनैर्दस्युप्रभृतिभिरनधिष्ठितत्वात्। सुभूमिरारोग्यभूमित्वात्। सुसहायकः सभागशीलदृष्टिसहायकत्वात्। सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात्।
बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः।
अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान्॥८॥
अनेन द्वितीयेन सत्पुरूषं दर्शयति। आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात्।
स्वालम्बना मुसंभरा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव?] देशिता।
सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता॥९॥
अनेन तृतीयेन योनिशोमनस्कारसंगृहीतमात्मनः सम्यक्प्रणीधानतां दर्शयति। सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च।
रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं।
समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता॥१०॥
अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति। रतिहेतुत्वेन यतः प्रतिरूपदेशवासे ऽभिरमते। क्षणोपपत्तिहेतुत्वेन यतः सत्पुरूषायाश्रयं लभते। आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं सम्पद्यते।
क्लेशत एव क्लेशनिःसरणे श्लोकास्रयः।
धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।
तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः॥११॥
यदुक्तं भगवता। नाहमन्यत्र रागाद्रागस्य निःसरणं वदाम्येवं द्वेषान्मोहादिति। तत्राभिसंधिं दर्शयति। यस्माद्धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात्। तस्माद्रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनामित्येवं तत्राभिसंधिर्वेदितव्यः।
धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।
तस्मात्संक्लेशनिर्देशे स संविद्[संधिर] धीमतां मतः॥१२॥
यदुक्तं। अविद्या च बोधिश्चैकमिति। तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः। अविद्या बोधिधर्मता स्यात्तदुपचारात्।
यतस्तानेव रागादीन्योनिशः प्रतिपद्यते।
ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः॥१३॥
तानेव रागादीन्योनिशः प्रतिपद्यमानस्तेभ्यो विमुच्यते तस्मात्परिज्ञातास्त एव तेषां निःसरणं भवतीत्ययमत्राभिसंधिः।
श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं।
न खलु जिनसुतानां बाधकं दुःखमुग्रं
नरकभवनवासैः सत्त्वहेतोः कथंचित्।
शमभवगुणदोषप्रेरिता हीनयाने
विविधशुभविकल्पा बाधका धीमतां तु॥१४॥
न खलु नरकवासो धीमतां सर्वकालं
विमलविपुलबोधेरन्तरायं करोति।
स्वहितपरमशीतस्त्वन्ययाने विकल्पः
परमसुखविहारे ऽप्यन्तरायं करोति॥१५॥
अनयोः श्लोकयोरेकस्य द्वितीयः साधकः। उभौ गतार्थौ।
निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः।
धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता।
मायादिसदृशी ज्ञेया आकाशसदृशी तथा॥१६॥
यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यतेऽथ च।
अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नास्ति स दृश्यते ऽथ च॥१७॥
यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः।
मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि॥१८॥
मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं।
न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते॥१९॥
धर्माभावश्च धर्मोपलब्धिश्चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चादिति त्रासस्थानं बालानां। तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस्ततस्त्रासं प्रतिषेधयति। तथा चित्रे नतोन्नतसादृश्येन लुति[टि]तप्रसादिततोयसादृश्येन च यथाक्रमं। चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति। यथा तोयं प्रकृत्या प्रसन्नमागन्तुकेन तु कालुष्येण लुति[टि]तं भवत्येवं चित्तं प्रकृत्या प्रभास्वरं मतमागन्तुकैस्तु दौषैर्दूषितमिति। न च धर्मताचित्तादृते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते। तस्माच्चित्ततथतैवात्र चित्तं वेदितव्यं।
रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः।
बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत्।
यथैकपुत्रके तस्मात्सदा हितकरं मतम्॥२०॥
सत्त्वेषु हितकारित्वन्नैत्यापत्तिं स रागजां।
द्वेषो विरुद्यते त्वस्य सर्वसत्त्वेषु सत्पथा[सर्वथा]॥२१॥
यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति।
तथाविधायां प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपे ऽपि देहिषु॥२२॥
मैत्री यतः प्रतिघचित्तमतो विरुद्धं
शान्तिर्यतो व्यसनचित्तमतो विरुद्धं।
अर्थो यतो निकृतिचित्तमतो विरुद्धं
ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं॥२३॥
यत्सत्त्वेषु बोधिसत्त्वस्य प्रेम सो ऽत्र रागो ऽभिप्रेतस्तत्कृतामापत्तिं तेषां प्रतिषेधयति। सत्त्वहितक्रियाहेतुत्वात्। कपोतीमुदाहरति तब्दहुरागत्वात् अपत्यस्नेहाधिमात्रतया सकृपे बोधिसत्त्वे देहिषु सत्त्वेषु प्रतिघो विरुध्यते। बोधिसत्त्वानां सत्त्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ल्हादश्च प्रीत्युत्पादात्। यत इमे मैत्र्यादयस्तत एव प्रतिघचित्तं विरुद्धं। तत्पूर्वकाणि च व्यसनचित्तादीनि।
प्रतिपत्तिभेदे पञ्च श्लोकाः।
यथातुरः सुभैषज्ये संसारे प्रतिपद्यते।
आतुरे च यथा वैद्यः सत्त्वेषु प्रतिपद्यते॥२४॥
अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते।
वणिग्यथा पुनः पण्ये कामेषु प्रतिपद्यते॥२५॥
यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते।
पिता यथा सुते बाले सत्त्वाहेठे प्रपद्यते॥२६॥
अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते।
वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते॥२७॥
मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते।
प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता॥२८॥
यथा यस्मिन्प्रतिपद्यते तदभिद्योतयति। यथेति सुभैषज्यादिष्विवातुरादयः। यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात्। कारुण्येन क्लेशातुरसत्त्वापरित्यागात्। स्वप्रणिहितत्वचित्तकरणात्। दानादिपारमिताभिश्च यथाक्रमं भोगवृद्धिनयनात्। कायादिकर्मपरिशोधनात्। सत्त्वापकाराकोपात्। कुशलभावनानिरन्तराभियोगात्। समाध्यनास्वादनात्। ज्ञेयाविपर्यासाच्च।
प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः।
इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः।
परमविमलनिर्विकल्पगुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण॥२९॥
इति निर्विकल्पेन धर्म नैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश्चाविकल्पना त्रिमण्डलपरिशुद्धिर्वेदितव्या। द्वयपरिपाचनशोधनेषु [सु]युक्त इति सत्त्वानामात्मनश्च।
॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः॥