सप्तमोऽधिकारः
Technical Details
सप्तमोऽधिकारः
प्रभावलक्षणविभागे श्लोकः।
उत्पत्तिवाक्चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम्।
ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः॥१॥
परेषामुपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा। वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां[यया] वाचं तत्र गत्वोपपन्ना भाषन्ते। चित्ते ज्ञानं चेतः पर्यायाभिज्ञा। पूर्वशुभाशुभाधाने ज्ञानं पूर्वनिवासाभिज्ञा। यत्र विनेयास्तिष्ठन्ति तत्स्थानगमनज्ञानं ऋद्धिविषयाभिज्ञा। निःसरणे ज्ञानमास्रवक्षयाभिज्ञा, यथा सत्त्वा उपपत्तितो निःसरन्तीति। एषु षट्स्वर्थेषु सर्वत्र लौकधातौ सप्रभेदेषु पदापरोक्षमव्याहतं ज्ञानं स प्रभावो बोधिसत्त्वानां षडभिज्ञासंगृहीतः। प्रभावलक्षणविभागे स्वभावार्थं उक्तः।
हेत्वर्थमारभ्य श्लोकः।
ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण।
यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति॥२॥
येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस्तत्संदर्शयति।
फलार्थमारभ्य श्लोकः।
येनार्यदिव्याप्रतिमैर्विहारै-
र्ब्राह्मैश्च नित्यं विहरत्युदारैः।
बुद्धांश्च सत्वांश्च स दिक्षु गत्वा
संमानयत्यानयते विशुद्धिम्॥३॥
त्रिविधं फलमस्य प्रभावस्य संदर्शयति। आत्मन आर्यादिसुखविहारमतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्त्वानां विशोधनं च।
कर्मार्थं षड्विधमारभ्य चत्वारः श्लोकाः।
दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः।
मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान्।
संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः॥४॥
स्वयं च सर्वलोकधातूनां ससत्त्वानां सविवर्तसंवर्तानां मायोपमत्वदर्शनात्। परेषां यथेष्टं तत्संदर्शनात्। अन्यैश्च विचित्रैः कम्पनज्वलनादिप्रकारैः। दशवशितालाभात्। यथा दशभूमिकेऽष्टम्यां भूमौ निर्दिष्टाः।
रश्मिकर्मारभ्य श्लोकः।
रश्मिप्रमोक्षैर्भृशदुःखितांश्च
आपायिकान्स्वर्गगतान्करोति।
मारान्वयान् क्षुब्धविमानशोभान्
संकम्पयंस्त्रासयते समारान्॥५॥
द्विविधं रश्मिकर्म संदर्शयति। अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनम्। मारभवनानां च समारकाणां कम्पनोद्वेजनम्।
विक्रीडनकर्म चारभ्य श्लोकः।
समाधिविक्रीडितमप्रमेयं संदर्शयत्यग्रगणस्यमध्ये।
सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम्॥६॥
अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्त्वार्थकरणाच्च। त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणम्। विनेयवशेनयथेष्टोपपत्तिनिर्माणम्। उत्तमनिर्माणं च तुषितभवनवासादिकम्।
क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः।
ज्ञानवसित्वात्समुपैति शुद्धिं
क्षेत्रं यथाकामनिदर्शनाय।
अबुद्धनामेषु[?] च बुद्धनाम
संश्रावणात्तन्क्षिपते ऽन्यधातौ॥७॥
द्विविधपापविशोधनया। भाजनपरिशोधनया ज्ञानवशित्वाद्यथेष्टं स्फटिकवैदूर्यादिमयबुद्धक्षेत्रसंदर्शनतः। सत्त्वपरिशोधनया च बुद्धनामविरहितेषु लोकधातुषूपपन्नानां सत्त्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात्।
योगार्थमारभ्य श्लोकः।
शक्तो भवत्येव च सत्त्वपाके
संजातपक्षः शकुनिर्यथैव।
बुद्धात्प्रशंसां लभते ऽतिमात्रा-
मादेयवाक्यो भवति प्रजानाम्॥८॥
त्रिविधं योगं प्रदर्शयति। सत्त्वपरिपाचनशक्तियोगं प्रशंसायोगमादेयवाक्यतायोगं च।
वृत्त्यर्थमारभ्य श्लोकः।
षड्धाप्यभिज्ञा त्रिविधा च विद्या
अष्टौ विमोक्षा ऽभिभुवस्तथाऽष्टौ।
दशापि कृत्स्नायतनान्यमेयाः
समाधयो धीरगतः प्रभावः॥९॥
षड्भिः प्रभेदैर्बोधिसत्त्वस्य प्रभावो वर्तते। अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः।
एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः।
स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम्।
परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः॥१०॥
त्रिविधं माहात्म्यं दर्शयति। वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात्। अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात्। भवनिर्भयतामाहात्म्यं च।
॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः॥