3-4 चर्यापटलम्
Technical Details
चर्यापटलम्
अधिमुक्तिचर्याभूमिमुपादाय सर्वासु बोधिसत्त्वभूमिषु बोधिसत्त्वानां समासतश्चतस्रश्चर्या वेदितव्याः। [कतमाश्चतस्रः।] पारमिताचर्या बोधिपक्ष्याचर्या [अभिज्ञाचर्या] सत्त्वपरिपाकचर्या च। तत्र षट् च पूर्वनिर्दिष्टाः पारमिताः। उपायकौशल्यपारमिता च प्रणिधानपारमिता च बलपारमिता च ज्ञानपारमिता च। इतीमा दशपारमिता अभिसमस्य पारमिताचर्येत्यु च्यते। तत्र द्वादशाकारं पूर्वनिर्दिष्टमुपायकौशल्य[मुपायकौशल्य-] पारमिता। पञ्च पूर्वनिर्दिष्टानि प्रणिधानानि प्रणिधानपारमिता। दशबलप्रयोगविशुद्धिर्बलपारमिता। सर्वधर्मेषु यथावद् व्यवस्थानज्ञानं ज्ञानपारमिता। तत्र परमार्थग्रहणप्रवृत्ता प्रज्ञा प्रज्ञापारमिता। संवृतिग्रहणप्रवृत्ता पुनर्ज्ञानपारमिता। इत्ययमनयोर्विशेषः। अपरः पर्यायः। अप्रमाणज्ञानता उपायकौशल्यपारमिता। उत्तरोत्तरज्ञानवैशेषिकता-प्रार्थना प्रणिधानपारमिता। सर्वमारैर्मार्गानाच्छेद्यता बलापारमिता। यथावज् ज्ञैयावबोधता ज्ञानपारमिता। स्मृत्युपस्थानान्युपादाय सर्वे सप्तत्रिंशद्बोधिपक्ष्या धर्माश्चतस्रश्च पर्येषणाश्चत्वारि च यथाभूतपरिज्ञानानि यथापूर्वनिर्दिष्टान्यभिसमस्य बोधिसत्त्वानां बोधिपक्ष्यचर्येत्युच्यते। यथा संवर्णिताश्च षड्भिज्ञाः प्रभावपटले बोधिसत्त्वानामभिज्ञाचर्येत्युच्यते। द्वौ च पूर्वनिर्दिष्टावप्रमेयौ विनेयाप्रमेयश्च विनयोपायाप्रमेयश्च [सर्वसत्त्वपरिपाको यथानिर्दिष्टः] सत्त्वपरिपाकपटले बोधिसत्त्वस्याभिसमस्य सत्त्वपरिपाकचर्येत्युच्यते।
आभिश्चतसृभिर्बोधिसत्त्वचर्याभिः सर्वबोधिसत्त्वचर्यांसंग्रहो वेदितव्यः। तत्रासंख्येयत्रय-दीर्घकालसमुदागमात्स्वभावविशुद्धिविशेषात्तदन्येभ्यः सर्वलौकिकश्रावकप्रत्येकबुद्धकुशलमूलेभ्यः परमबोधिफलपरिग्रहाच्चैते दश दानादयो धर्माः परमेण कालेन समुदागताः परमया स्वभावविशुद्ध्या विशुद्धाः परमञ्च फलमनुप्रयच्छन्ति। इति तस्मात्पारमिता इत्युच्यन्ते।
त्रिभिश्च कारणैः पारमितानामनुक्रमव्यवस्थानं वेदितव्यम्। कतमैस्त्रिभिः। प्रतिपक्षतः उपपत्तितो विपाकफलतश्च।
तत्र मात्सर्यं दुश्चरितं सत्त्वेषु वैरोत्पीडनता कौसीद्यं विक्षेपो मन्दमोमुहता च। अमी षड्धर्मा बोधेरावरणस्थानीयाः। एषां [षण्णां] धर्माणां प्रतिपक्षेण षट् पारमिता यथायोगं वेदितव्याः। तदन्याश्च पारमिता आभिरेव संगृहीताः। एवं प्रतिपक्षतो व्यवस्थानं भवति।
कथमुपपत्तितः। इहादित एव भोगनिरपेक्षो बोधिसत्त्वः त्यक्त्वा आगारिकान् कामान् शीलसमादानं करोति। शीलगौरवाच्च परविहेठं क्षमते। नो तु परं विहेठयति। समादानतश्च क्षान्तितश्च विशुद्धिशीलो निश्चलेन निरन्तरेण कुशलपक्षप्रयोगेण प्रयुज्यते। स तथा वीर्येणाप्रमत्तः स्पृशति कुशलाञ्चित्तस्यैकाग्रताम्। स तथा समाहितचित्तो यथाभूतं ज्ञेयं जानाति दृश्यं पश्यति। एवमेषामेवानुक्रमेणोपपत्तितो व्यवस्थानं वेदितव्यम्।
कथं फलविपाकतः। इह बोधिसत्त्वस्य दृष्टे धर्मे एतान् दानादीन् कुशलान्धर्मान् समादाय वर्तमानस्य तन्निदानमायत्यां बाह्यतश्च भोगसम्पत्प्रतिलम्भो भवति दानकृतः। अध्यात्मिकश्च पञ्चाकार आत्मभावसम्पत्प्रतिलम्भो भवति तदन्यशीलादि-पारमिताकृतः।
पञ्चाकारा आत्मभावसम्पत्कतमा। सुगतिपर्यापन्नो दिव्यमानुष्यकस्तदन्यसत्त्वायुरादिविशेषवान्। इयं प्रथमा सम्पत्। सहजा च कुशलमूलप्रयोगे अखेदता परव्यतिक्रमसहिष्णुता च परोपतापप्रियता। इयं द्वितीया सम्पत्। सहजा सर्वारम्भेषु दृढव्यवसायता। इयं तृतीया सम्पत्। सहजा च मन्दरजस्कस्य स्वचित्तवशिता चित्तकर्मण्यता सर्वार्थेषु क्षिप्राभिज्ञतायै। इयं चतुर्थी सम्पत्। सहजञ्च मतिवैपुल्यं पाण्डित्यं विचक्षणता च सर्वार्थेषु। इयं पञ्चमी सम्पत् इतीदं फलविपाककृतमन्यदनुक्रमव्यवस्थानं षण्णां पारमितानां वेदितव्यम्।
तत्र चतसृभिः पारमिताभिः [सह] सम्भारेण स्वभावेन परिवारेण रक्षया च परिपूर्णा बोधिसत्त्वानामधिशीलं शिक्षा वेदितव्या। ध्यानपारमितया अधिचित्तं शिक्षा। प्रज्ञापारमितया अधि [प्रज्ञं] शिक्षा। न च बोधिसत्त्वस्योत्तरि शिक्षामार्ग उपलभ्यते। त्रिभिः अतः सर्वबोधिसत्त्वशिक्षामार्गंसंग्रहात्षडेव पारमिता [ व्यवस्थापिता]। नात उत्तरि नातो भूयः।
चत्त्वारि चेमानि बोधिसत्त्वानां समासतः कृत्यानि। यैरेषां सर्वकृत्यसंग्रहो भवति। बोधाय कुशलाभ्यासः। तत्पूर्वकश्च तत्त्वार्थप्रतिवेधः प्रभावसमुदागमः। सत्त्वपरिपाचनता च। एतानि च चत्वारि कृत्यानि बोधिसत्त्वाः आभिश्चतसृभिश्चर्याभिर्यथाक्रमं कुर्वन्त्यनुतिष्ठन्ति। तस्मादपि तदुत्तरा चर्या न व्यवस्थाप्यते।
इति बोधिसत्त्वभूमावाधारे निष्ठे योगस्थाने चतुर्थं चर्यापटलम्।