2-2 पक्षपटलम्
Technical Details
पक्षपटलम्
उद्दानम्।
सुकृतकर्मान्तता कौशल्यं परानुग्रहः परिणामनं च पश्चिमम्।
गृहिपक्षे वा प्रव्रजितपक्षे वा वर्तमानस्य बोधिसत्त्वस्य समासतश्चत्वारो धर्मा वेदितव्याः। येषु गृही प्रव्रजितो व बोधिसत्त्वः शिक्षमाणः क्षिप्रमेवानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। कतमे चत्वारः। सुकृतकर्मान्तता कौशल्यं परानुग्रहः परिणामना च।
तत्र कतमा बोधिसत्त्वस्य सुकृतकर्मान्तता। या पारमितासु नियतकारिता निपुणकारिता नित्यकारिता अनवद्यकारिता च। कथञ्च बोधिसत्त्वो नियतकारी भवति यदुत दाने। इह बोधिसत्त्वः संविद्यमाने देयधर्मे याचनके सम्यक् प्रप्युपस्थिते अपकारिण्युपकारिणि वा गुणवति दोषवति वाऽवश्यं ददाति। नास्य दानचित्तं कश्चिद्विकम्पयितुं समर्थो भवति मनुष्यो वाऽमनुष्यो वा श्रमणो वा ब्राह्मणो वा कश्चिद्वा पुनर्लोके सहधर्मेण। कथं च बोधिसत्त्वो निपुणकारी भवति यदुत् दाने। इह बोधिसत्त्वः संविद्यमाने देयधर्मे सम्यक् प्रत्युपस्थिते याचनके सर्वं ददाति। नास्त्यस्य किञ्चिद्यदपरित्याज्यं भवति सत्त्वेभ्यः आध्यात्मिकमपि वस्तु प्रागेव बाह्यम्। कथं च बोधिसत्त्वो नित्यकारी भवति यदुत दाने। इह बोधिसत्त्वो अपरिखिद्यमानो दानेन सततसमितमेव सर्वकालं यथोत्पन्नं दानं ददाति। कथं च बोधिसत्त्वः अनवद्यकारी भवति यदुत दाने। इह बोधिसत्त्वो यत्तत्संक्लिष्टं दानं वर्णितं दानपटले तत्संक्लिष्टं वर्जयित्वा असंक्लिष्टं दानं ददाति। एवं हि बोधिसत्त्वः सुकृतकारी भवति यदुत दाने। यथा दाने एवं शीलक्षान्तिवीर्यध्यानप्रज्ञापारमितासु यथायोगं वेदितव्यम्। एत एव चत्वार आकारा नियतकारिता निपुणकारिता नित्यकारिता अनवद्यकारिता च।
तत्र कतमद्बोधिसत्त्वस्य कौशल्यम्। तत्समासतो दशविधं वेदितव्यम् प्रतिहतानां सत्त्वानां प्रतिघातापनयायोपायकौशल्यम्। मध्यस्थानामवतारणाय अवतीर्णानां परिपाचनाय परिपक्वानां विमोचनायोपायकौशल्यम्। लौकिकेषु सर्वशास्त्रेषु कौशल्यम्। बोधिसत्त्वशीलसंवरसमादाने स्खलितप्रत्यवेक्षणाकौशल्यम् सम्यक्प्रणिधानकौशल्यम्। [श्रावकयानकौशल्यं] प्रत्येकबुद्धायानकौशल्यम् महायानकौशशल्यञ्च। एषां सर्वेषामेव कौशल्यानां पूर्ववद्यथायोगं तत्र तत्रास्यामेव बोधिसत्त्वभूमौ प्रविभागो वेदितव्यः। एतानि पुनर्बोधिसत्त्वस्य दश कौशल्यानि पञ्चकृत्यानि कुर्वन्ति। पूर्वकैश्चतुर्भिः कौशल्यैर्बोधिसत्त्वः सत्त्वान् स्वार्थे सन्नियोजयति। लौकिकेषु सर्वशास्त्रेषु कौशल्येन बोधिसत्त्वः सर्वपरप्रवादानभिभवति। बोधिसत्त्वशीलसंवरसमादाने स्खलितप्रत्यवेक्षणाकौशल्येन बोधिसत्त्वः आपत्तिं [न] वापद्यते। आपन्नो वा यथाधर्मं प्रतिकरोति। सुविशुद्धं शीलसंवरसमादानं परिकर्षति। सम्यक् प्रणिधानकौशल्येन बोधिसत्त्वः आयत्यां सर्वाभिप्रेतार्थसमृद्धिमधिगच्छति। त्रिभिन्नं कौशल्यैर्बोधिसत्त्वो यथा गोत्रेन्द्रियाधिमुक्तानां तदुपमं धर्मं देशयति। अनुकूलां युक्तिं व्यपदिशति। एवमेभिर्दशभिः कौशल्यैर्बोधिसत्त्वः पञ्चकृत्यानि करोति। यैरस्य पञ्चभिः कृत्यैः सर्वकृत्यसमाप्तिर्भवति। दृष्टधार्मिकसांपरायिकं चार्थमारभ्य।
तत्र कतमो बोधिसत्त्वस्य परानुग्रहः। इह बोधिसत्त्वश्चत्वारि संग्रहवस्तूनि निश्रित्य दानं प्रियवादितामर्थचर्यां समानार्थताञ्च तदेकत्यानां सत्त्वानां हितमप्युपसंहरति। सुखमप्युपसंहरति। [हितसुखमप्युपसंहरति।] अयं बोधिसत्त्वानां परानुग्रहस्य समासनिर्देशः। विस्तरनिर्देशः पुनः पूर्ववद्वेदितव्यः तद्यथा स्वपरार्थपटले।
तत्र कतमा बोधिसत्त्वस्य परिणामना। इह बोधिसत्त्वो यत्किञ्चिदेभिस्त्रिभिर्मुखैरुपचितोपचितं कुशलमूलं सुकृतकर्मान्ततया कौशल्येन परानुग्रहेण च तत्सर्वमतीतानागतप्रत्युत्पन्नमनुत्तरायां सम्यक्संबोधौ घनरसेन प्रसादेन परिणामयति। न तस्य कुशलमूलस्यान्यं फलविपाकं प्रतिकांक्षति नान्य [त्रा] नुत्तरामेव सम्यक्संबोधिम्। ये च केचिद्भगवता गृहिणां वा प्रव्रजितानां वा बोधिसत्त्वानां शिक्षाधर्मा व्यपदिष्टाः सर्वेषां तेषामेष्वेव चतुर्षु संग्रहो वेदितव्यः सुकृतकर्मान्ततायां कौशल्ये परानुग्रहे परिणामनायां च। तस्मादेवं सुकृतकर्मान्तस्य बोधिसत्त्वस्य कुशलस्य परानुग्रहप्रवृत्तस्य परिणामकस्य एवं दुष्प्रापा दुरधिगमा च बोधिरासन्ना समासन्ना वेदितव्या। अतीतानागतप्रत्युत्पन्नेष्वध्वसु ये केचिद्बोधिसत्त्वा गृहि-प्रव्रजित पक्षेषु शिक्षमाणा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धवन्तोऽभिसंभोत्स्यन्तेऽभिसंबुध्यन्ते च सर्वे ते एभिरेव चतुर्भिर्धर्मैः। नात उत्तरि नातो भूयः। एवमपि चतुर्षु धर्मेषु सम्यक्प्रयुक्तो गृही प्रव्रजितो वा बोधिसत्त्वो भवति। अपि तु गृहिणो बोधिसत्त्वस्यान्तिकात्प्रव्रजितस्य बोधिसत्त्वस्य सुमहान् विशेषः। सुमहान् नानाकरणं वेदितव्यम्। तथाहि प्रव्रजितो बोधिसत्त्वः परिमुक्तो भवत्यादित एव तावन्मातापितृपुत्तदारादिकलत्रपरिग्रहदोषात्। अपरिमुक्तस्तु गृही वेदितव्यः। पुनः प्रव्रजितो बोधिसत्त्वः परिमुक्तो भवति तस्यैव परिग्रहस्यार्थे कृषिवणिज्या-राजपौरुष्यादि-परिक्लेशे व्यासङ्गदुःखेभ्यः। अपरिमुक्तस्तु गृही वेदितव्यः। पुनः प्रव्रजितो बोधिसत्त्व एकान्तसङ्कलीकृतं ब्रह्मचर्यं शक्नोति चरितुं [न तु] गृही बोधिसत्त्वः। पुनः प्रव्रजितो बोधिसत्त्वः सर्वेषु बोधिपक्ष्येषु धर्मेषु क्षिप्राभिज्ञो भवति। यद्यदेव कुशलमारभते तत्र तत्रैव लघुलध्वेव निष्ठां गच्छति। न तु तथा गृही बोधिसत्त्वः। पुनः प्रव्रजितो बोधिसत्त्वः परेषां व्रतनियमे स्थितत्वाद् आदेयवचनो भवति। न तु तथा गृही बोधिसत्त्वः। इत्येवंभागीयैर्धर्मैः सुमहदन्तरं गृहि-प्रव्रजितयोर्बोधिसत्त्वयोर्वेदितव्यम्।
इति बोधिसत्त्वभुमावाधारानुधर्मे योगस्थाने द्वितीयं पक्षपटलम्।