2-1 बोधिसत्त्वलिङ्गपटलम्
Technical Details
आधारानुधर्मयोगस्थानम्
बोधिसत्त्वलिङ्गपटलम्
उद्दानम्।
स्वभावोऽधिष्ठानं [फलानुशंसः] अनुक्रमः संग्रहेण च।
पञ्चेमानि भूतस्य बोधिसत्त्वस्य बोधिसत्त्वलिङ्गानि यैः समन्वागतो [बोधिसत्त्वो] बोधिसत्त्व इति संख्यां गच्छति। कतमानि पञ्च। अनुकम्पा प्रियवादिता वैर्यं मुक्तहस्तता गम्भीरार्थसन्धिनिर्मोचनता च। इमे पुनः पञ्च धर्माः पञ्च परिवर्तेन वेदितव्याः। स्वभावतोऽधिष्ठानतः फलानुसंशतः अनुक्रमतः संग्रहतश्च।
तत्रानुकम्पायाः स्वभावो द्विविधः। आशयगतः प्रतिपत्तिगतश्च। तत्राशयगतो हिताशयः सुखाशयश्च बोधिसत्त्वस्य सत्त्वेष्वनुकम्पेत्युच्यते। प्रतिपत्तिगतश्च स्वभावतोऽनुकम्पायाः यदाशयो भवति बोधिसत्त्वः सत्त्वेषु तदेव यथाशक्त्या यथाबलं कायेन वाचा उपसंहरति। तत्र प्रियवादितायाः स्वभावः पूर्ववदामोदनी संमोदनी उपकरा च वाग्वेदितव्या। तद्यथा संग्रहवस्तुपटले। तत्र सत्त्वं धृतिरलीनत्वं च यद्बलं बोधिसत्त्वस्य अयं वैर्यंस्वभाव इत्युच्यते। तत्र या बोधिसत्त्वस्योदारदानता असंक्लिष्टदानता वा। अयं मुक्तहस्ततायाः स्वभावो वेदितव्यः। चतस्रः प्रतिसंविदस्तासामेव चाभिनिर्हाराय यत्सम्यक् प्रायोगिकं ज्ञानमयं बोधिसत्त्वानां गम्भीरार्थसन्धिनिर्मोचनतायाः स्वभावो वेदितव्यः।
तत्रानुकम्पायाः पञ्चाधिष्ठानानि। कतमानि पञ्च। दुःखिताः सत्त्वा दुश्चरितचारिणः प्रमत्ता मिथ्याप्रतिपन्नाः क्लेशानुशयिताश्च। नारकान्सत्त्वानुपादाय शेषां केषांचित्सत्त्वानां दुःखा वेदना प्राबन्धिकी सन्ततिसमारूढा वर्तते। इमे [ते] सत्त्वा दुःखिता इत्युच्यन्ते। ये पुनर्नावश्यं दुःखिताअपि तु बहुलं कायदुश्चरितमध्याचरन्ति वाग्दुश्चरितं मनोदुश्चरितमध्याचरन्ति। तत्र चाभिरतरूपा विहरन्ति। इमे सत्त्वा दुश्चरितचारिण इत्युच्यन्ते तद्यथा औरभ्रिक-शौकरिक-कौक्कुटिकप्रभृतयः। ये पुनर्नावश्यं दुःखिता न दुश्चरितचारिणोऽपि त्वध्यवसिताः कामानुपभुञ्जते नटनर्तकहासकलासकप्रेक्षणपरा विहरन्ति आत्मोपलाडनपराः। इमे सत्त्वाः प्रमत्ता इत्युच्यन्ते तद्यथा तदेकत्याः कामोपभोगिनः। ये पुनर्नावश्यं दुःखिता न दुश्चरितचारिणो न वापि प्रमत्ताः अपि तु दृष्टिविपत्तिमाश्रित्य दुःखविमोक्षाय प्रतिपन्नाः। इमे सत्त्वा मिथ्याप्रतिपन्ना इत्युच्यन्ते तद्यथा कामानुत्सृज्य दुराख्याते धर्मविनये प्रव्रजिताः। ये पुनः सत्त्वा नावश्यं दुःखिता विस्तरेण यावन् न मिथ्याप्रतिपन्नाः अपि तु सकलबन्धनाश्च विकलबन्धनाश्च क्लेशैः इमे सत्त्वाः क्लेशानुशयिता इत्युच्यन्ते तद्यथा ये च सम्यक् प्रयुक्ताः पृथग्जना कल्याणका ये च शैक्षाः एतावदनुकम्पाधिष्ठानं बोधिसत्त्वानां येनाधिष्ठानेन येनालम्बनेनानुकम्पा प्रवर्तते। नात उत्तरि नातो भूयः।
पञ्चेमानि बोधिसत्त्वानां प्रियवादिताया अधिष्ठानानि। कतमानि पञ्च। सम्यगालपना सम्यगानन्दना सम्यगाश्वासना सम्यक्प्रवारणा न्यायोपदेशश्च। तेषां पुनः प्रतिभागो वेदितव्यः। तद्यथा संग्रहवस्तुपटले। एभिः पच्चभिरधिष्ठानैरेभिरालम्बनैर्बोधिसत्त्वानां प्रियवादिता प्रवर्तते। नात उत्तरि नातो भूयः।
पञ्चेमानि बोधिसत्त्वस्य वैर्याधिष्ठानानि वेदितव्यानि। कतमानि पञ्च। यैरेव पञ्चभिराकारैर्बोधिपक्षपटले धृतिबलाधानता बोधिसत्त्वानामुक्ता तान्येव बोधिसत्त्वस्य वैर्याधिष्ठानानि वे दितव्यानि। यैरधिष्ठानैर्यैरालम्बनैर्बोधिसत्त्वस्य वैर्य प्रवर्तते। नात उत्तरि नातो भूयः।
पञ्चेमानि बोधिसत्त्वस्य मुक्तहस्तताया अधिष्ठानानि। कतमानि पञ्च। अभीक्ष्णदानता प्रमुदितदानता सत्कृत्यदानता असंक्लिष्टदानता अनिश्रित्यदानता च। एषां पुनर्विस्तरेण विभागो वेदितव्यः। तद्यथा दानपटले। एभिरधिष्ठानैरेभिरालम्बनैर्बोधिसत्त्वानां मुक्तहस्तता प्रवर्तते। नात् उत्तरि नातो भूयः।
पञ्चेमानि बोधिसत्त्वस्य गम्भीरार्थसन्धिनिर्मोचनताया अधिष्ठानानि। कतमानि पञ्च। ये ते तथागतभाषिताः सूत्रान्ताः गम्भीरागम्भीरावभाषाः शून्यता-प्रतिसंयुक्ता इदंप्रत्ययता। प्रतीत्यसमुत्पादानुलोमाः। इदं प्रथममधिष्ठानम्। विनये वा पुनरापत्तिकौशल्यमापत्तिव्युत्थान-कौशल्यं च। इदं द्वितीयमधिष्ठानम्। मातृकायां वा पुनरविपरीतं धर्मलक्षणव्यवस्थानम्। इदं तृतीयमधिष्ठानम्। आभिप्रायिकनिगूढधर्मसंज्ञार्थविभावनता। इदं चतुर्थमधिष्ठानम्। सर्वधर्माणाञ्च धर्मार्थनिर्वचनप्रकारभेदः। इदं पञ्चममधिष्ठानम्। येनाधिष्ठानेन येनालम्बनेन बोधिसत्त्वानां गम्भीरार्थसन्धिनिर्मोचनता प्रवर्तते। नात उत्तरि नातो भूयः।
अनुकम्पा बोधिसत्त्वस्य सत्त्वेष्वादित एव तावद्वैरप्रहाणाय संवर्तते। तथानुकम्पको बोधिसत्त्वः सर्वसत्त्वार्थक्रियासु अदिनमनाः प्रयुज्यते। तस्मिंश्च प्रयोगे न परिखिद्यते। अनुकम्पा तद्-बहुलविहारिता चास्यानवद्यदृष्टधर्मसुखविहाराय परानुग्रहाय च संवर्तते। ये च भगवता मैत्र्या अनुशंसा उक्तानास्य काये विषं क्रामति न शस्रमित्येवमादयः। तेऽप्यनुकम्पकस्य बोधिसत्त्वस्य सर्वे वेदितव्याः। इत्ययमनुकम्पाया बोधिसत्त्वानां फलानुशंसो द्रष्टव्यः।
प्रियवादी बोधिसत्त्वो दृष्टे धर्मे चतुर्विधं वाग्दोषं विजहाति मृषावादं पैशून्यं षारुष्यं सम्भिन्नप्रलापञ्च। सा चास्य बागात्मानुग्रहाय परानुग्रहाय च प्रवृत्ता भवति। दृष्ट एव च धर्मे आयत्यां च प्रियवादी बोधिसत्त्वः आदेयवचनो भवति ग्राह्यवचनः। इत्ययं बोधिसत्त्वस्य प्रियवादितायाः [फला] नुशंसो वेदितव्यः।
धीरो बोधिसत्त्वो दृष्टे [तावत] धर्मे सर्वेण सर्वमालस्यकौसीद्यापगतो भवति प्रमुदितचित्तश्च। बोधिसत्त्वशीलसंवरसमादानं करोति। कृत्वा च न विषीदति। आत्मानं च परञ्च क्षान्त्यानुगृह्णाति। आयत्यां च सर्वबोधिसत्त्वकृत्यसमारम्भेषु प्रकृत्या दृढसमारंभो भवति। नाकृत्वा विनिवर्तते। इतीमे बोधिसत्त्वानां वैर्यफलानुशंसा वेदितव्या।
मुक्तहस्तताया गम्भीरार्थसन्धिनिर्मोचनतायाश्च फलानुशंसा वेदितव्याः। तद्यथा प्रभावपटले दानप्रभावे प्रज्ञाप्रभावे च। अयमेषां बोधिसत्त्वविज्ञानां फलानुशंसः।
कश्चैषामनुक्रमः। पूर्वं तावद्बोधिसत्त्वोऽनुकम्पया सत्त्वाननुगृह्णाति तेषु च सापेक्षो भवत्यर्थकामः। ततश्चाकुशलात्स्थानाद्व्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय युक्तिं भाषते ग्राहयति व्यपदिशति। एवमवतीर्णेषु च सत्त्वेषु सत्त्वविप्रतिपत्तिषु [च] क्लेशविप्रकृतास्वर्थविधासु विमर्दसहो भवति। प्रतिपत्तिविप्रति [पत्ति] स्थितानां सत्त्वानामनुत्सर्गतया। स एवं धीरः एकत्यान्सत्त्वानामिषसंग्रहेण परिपाचयति एकत्यान्धर्मसंग्रहेण तदेकत्यांस्तदुभाभ्यां धर्माभिषसंग्रहाभ्याम्। अयमेषां पञ्चानां बोधिसत्त्वलिङ्गानामनुक्रमो वेदितव्यः।
पञ्चेमानि बोधिसत्त्वलिङ्गानि षट्पारमिताः। आसां षण्णां पारमितानां कतमया पारमितया कतमद्बोधिसत्त्वलिङ्गं संगृहीतम्। अनुकम्पा ध्यानपारमितया संगृहीता। प्रियावादिता शीलपारमितया प्रज्ञापारमितया च संगृहीता। वैर्यं वीर्यपारमितया क्षान्तिपारमितया प्रज्ञापारमितया च संगृहीतम्। मुक्तहस्तता दानपारमितायैव संगृहीता। गम्भीरार्थसन्धिनिर्मोचनता ध्यानपारमितया प्रज्ञापारमितया च संगृहीता एवमिमानि [पञ्च बोधि] सत्त्वलिङ्गानि पञ्चपरिवर्तेन वेदितव्यानि। स्वभावतोऽधिष्ठानतः फलानुसंशतोऽनुक्रमतः संग्रहतश्च वेदितव्यानि।
इति बोधिसत्त्वभूमावाधारानुधर्मे योगस्थाने प्रथमं बोधिसत्त्वलिङ्गपटलम्।