Digital Sanskrit Buddhist Canon

1-6 परिपाकपटलम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1-6 paripākapaṭalam
परिपाकपटलम्



तत्र परिपाकः कतमः। परिपाकः समासतः षड्‍भिराकारैर्वेदितव्यः। स्वभावतोऽपि परिपाच्य पुद्गलतोऽपि परिपाकप्रकारभेदतोऽपि परिपाकोपायतोऽपि परिपाचकपुद्गलतोऽपि परिपक्वपुद्गल-लक्षणतोऽपि च।



तत्रायं परिपाकस्वभावः। कुशलधर्मवीजे सति कुशलानां धर्माणामासेवनान्वयाद् या क्लेशज्ञेयावरणप्रहाणविशुद्ध्यनुकूला कायचित्तकर्मण्यता कल्यता सम्यक् प्रयोगनिष्ठा यत्र स्थिताः शास्तारं वा आगम्यानागम्य वा शास्तारं भव्यो भवति प्रतिबलोऽनन्तरं क्लेशावरणप्रहाणं वा साक्षात्कर्तुं ज्ञेयावरणप्रहाणं वा। तद्यथा व्रणो यदा परिपाटनाय निष्ठागतो भवत्यनन्तरं पाटनार्हः। सः परिपक्व इत्युच्यते। घटघटीशरावादि च मृन्मयं भाण्डं यदा परिभोगाय निष्ठागतं भवति अनन्तरं परिभोगार्ह तदा परिक्वमित्युच्यते। फलानि वा आम्रपनसादीनि यदा परिभोगाय निष्ठागतानि भवन्त्यनन्तरं परिभोगार्हाणि तदा परिपक्वानीत्युच्यन्ते। एवमेव कुशलानां धर्माणामासेवनान्वयाद् असौ सम्यक् प्रयोगनिष्ठा अनन्तरं विशुद्ध्ये संवर्तते। स परिपाकस्वभावः।



तत्र परिपाच्याः पुद्गलाः समासतश्चत्वारः। श्रावकगोत्रः श्रावकयाने। प्रत्येकबुद्धगोत्रः प्रत्येकबुद्धयाने। बुद्धगोत्रो महायाने परिपाचयितव्यः। अगोत्रस्थोऽपि पुद्गलः सुगतिगमनाय परिपाचयितव्यो भवति। बोधिसत्त्वानां बुद्धानाञ्च भगवताम् इत्येते चत्वारः पुद्गलाः एषु चतुर्षु वस्तुषु परिपाचयितव्याः। एवं परिपाच्यपुद्गलतः परिपाको वेदितव्यः।



तत्र परिपाकप्रभेदः कतमः। समासतः षड्‍विधः परिपाकः। इन्द्रियपरिपाकः कुशलमूलपरिपाकः ज्ञानपरिपाकश्च मृदुमध्याधिमात्रश्च परिपाकः।



तत्रेन्द्रियपरिपाकः। या आर्युर्वर्णकुलैश्वर्यसम्पदादेयवचनता महेशाख्यतामनुष्यत्वं महोत्साहता यामाश्रयपरिपाकफलसंपदमागम्य भव्यो भवत्यातप्तानुप्रयोगायापरिखिन्नमानसश्च भवति सर्वविद्यास्थानसमुदागमाभियोगेषु।



कुशलमूलपरिपाकः कतमः। या प्रकृत्या मन्दरजस्कतायामागम्य प्रकृत्यैवास्य पापकेष्वकुशलेषु धर्मेषु। चित्तं न क्रामति मन्दनिवरणश्च भवति मन्दवितर्क ऋजुप्रदक्षिणग्राही।



ज्ञानपरिपाकः कतमः। स्मृतिमान् भवति मेघावी प्रतिबलश्च भवति सुभाषितदुर्भाषितानां धर्माणामर्थस्य आज्ञानायोद्ग्रहणाय धारणाय प्रतिवेधाय। सहजया प्रज्ञया समन्वागतो भवति यां प्रज्ञामागम्य भव्यो भवति प्रतिबलः सर्वतोऽत्यन्तं सर्वक्लेशाच्चित्तं विमोचयितुम्। तत्रेन्द्रियपरिपाकेन विपाकावरणाद्विमुक्तो भवति। कुशलमूलपरिपाकेन कर्मावरणाद्विमुक्तो भवति। ज्ञानपरिपाकेन क्लेशावणाद्विमुक्तो भवति।



मृदुपरिपाकः कतमः। द्वाभ्यां कारणाभ्यां मृदुः परिपाको भवति। अदीर्घकालाभ्यासतश्चेन्द्रियकुशलमूलज्ञानपरिपाकहेतोः अपरिपुष्टनिहीनहेत्वभ्यासतश्च। मध्यः परिपाकोऽनयोरेव द्वयोः कारणयोरन्यतरवैकल्यादन्यतरसान्निध्याच्च वेदितव्यः। अधिमात्रः पुनः परिपाक उभयोरनयोः कारणयोरवैकल्याद्वेदितव्यः।



तत्र परिपाकोपायः कतमः। स सप्तविंशतिविधो वेदितव्यः। धातुपुष्टया वर्तंमानप्रत्ययोपसंहारतः अवतारतो रतिग्रहणतः आदिप्रस्थानतः अनादिप्रस्थानतः शुद्धिदूरतः शुद्ध्यासन्नतः प्रयोगतः आशयतः आमिषोपसंहारतः धर्मोपसंहारतः ऋद्ध्यावर्जनतया धर्मदेशनया गुह्यधर्माख्यानतः विवृतधर्माख्यानतः मृदुप्रयोगतो मध्यप्रयोगतः अधिमात्रप्रयोगतः श्रवणतः चिन्तनतो भावनतः संग्रहणतो निग्रहणतः स्वयंकृततः पराध्येषणतः तदुभयतश्च।



तत्र धातुपुष्टिः कतमा। या प्रकृत्या कुशलधर्मबीजसंपदं निश्रित्य पूर्वकुशलधर्माभ्यासादुत्तरोत्तराणां कुशलधर्मबीजानां परिपुष्टतरा परिपुष्टतमा उत्पत्तिः स्थितिः। इयमुच्यते धातुपुष्टिः।



तत्र वर्तमानप्रत्ययोपसंहारः कतमः। दृष्टे धर्मे अविपरीता धर्मदेशना। तत्र चाविपरीतग्राहिता। यथावद्धर्मानुधर्मप्रतिपत्तिश्च। तत्र धातुपुष्टेः पूर्वकेण हेतुना वर्तमानः परिपाको निवर्तते। वर्तमानप्रत्ययोपसंहारतो वर्तमान एवं हेतुर्वर्तमानः परिपाको वेदितव्यः।



तत्रावतारः कतमः। श्रद्धाप्रतिलम्भमधिपतिं कृत्वा आगारिकस्य दुश्चरितविवेकशिक्षापदसमादानम्। अनागारिकां वा प्रव्रजतः कामविवेकशिक्षापदसमादानम्।



रतिग्राहः कतमः। या सर्वदुःख-नैर्याणिकीञ्च प्रतिपदं कामसुखात्मक्लमथान्त-विवर्जिताञ्च सुखां प्रतिपदमागम्य स्वाख्याते धर्मविनये शासनाभिरतिः



तत्रादिप्रस्थानं कतमत्। य एव तत्प्रथमतः संवेजनीयेषु धर्मेषु संवेगमागम्य न्यायार्थप्रतिपादने चानुशंसां विदित्वाऽवतारः। इदमेवादिप्रस्थानमित्युच्यते।



अनादिप्रस्थानं कतमत्। या अवतीर्णस्य पुद्गलस्य परिपाच्यमानतायां वर्तमानस्य बोधिसत्त्वेभ्यो बुद्धेभ्यश्चानध्युपेक्षामागम्य विवृतानाञ्च स्थानानां भूयो भूयः उत्तानक्रियामागम्य उत्तरोत्तरपरिपाकगमनता।



तत्र विशुद्धिदूरता कतमा। यत् कौसीद्यं वा आगम्य प्रत्ययवैधुर्यं वा महता दीर्घेण कालेन प्रभूतैर्जन्मान्तरापरिवर्तैः कल्पपरिवर्तैर्वा भव्यो भवति विशुद्धये। एतद्विपर्ययेण विशुद्ध्यासन्नता वेदितव्या।



तत्र प्रयोगः कतमः। या स्वार्थप्राप्तौ तीव्रच्छन्दतामागम्य विनिपातभयं वाऽमुत्र दृष्टे वा धर्मे परतोऽयशोभयमागम्य शिक्षापदेष्वनुपालना सातत्यकारिता सत्कृत्यकारिता च।



तत्राशयः कतमः। धर्मेषु च या सम्यक् सन्तीरणा-क्षान्तिमागम्यास्माद्धर्मविनयादसंहार्यतायै परेषाञ्चाधिगमेऽभिसंप्रत्यय गुणसंभावनामागम्य या त्रिषु रत्नेषु स्वार्थप्राप्तौ चाविचला श्रद्धधानता।



आभिषोपसंहारः कतमः। यः सर्वेण च सर्वं भोजनपानादिविकलानां भोजनपानाद्युपसंहारः। अनुकूलपानभोजनादिविकालानाञ्चानुकूलपानभोजनाद्युपसंहारः।



तत्र धर्मोपसंहारः कतमः। यदुद्देशतो वा धर्माणामनुप्रदानं सम्यगर्थविवरणतो वा।



ऋद्ध्यावर्जनता कतमा। या ऋद्धिमत ऋद्धिप्रातिहार्यविदर्शना सत्त्वानुकम्पया सत्त्वानामाशयविशुद्धिं वाऽधिपतिं कृत्वा प्रयोगविशुद्धिं वा एते सत्त्वाः प्रातिहार्यं दृष्ट्वा श्रुत्वा वा आशयशुद्धिं वा शासने प्रतिलप्स्यन्ते प्रयोक्ष्यन्ते सम्यगिति। ते च तेन प्रातिहार्येणावर्जितमानसा आशयशुद्धिं वा प्रतिलभन्ते प्रयुज्यन्ते वा सम्यक्।



तत्र देशना कतमा। स्वयं स्वार्थप्राप्तावशक्तस्य सद्धर्मदेशना सम्यक् प्रतिपत्तिसहायभूता। शक्तस्यापि च क्षिप्राभिज्ञतायै अनुकूला सद्धर्मदेशना।



तत्र गुह्यधर्माख्यानं कतमत्। या बालप्रज्ञानां सत्त्वानामत्युदारगम्भीरार्थधर्मप्रतिच्छादनता उत्तानसुप्रवेशसुखोपायावतारधर्मदेशनता।



विवृतधर्माख्यानं कतमत्। या पृथुप्रज्ञानां सत्त्वानां सुखप्रविष्टबुद्धशासनानयानामत्युदारगम्भीरस्थानविवरणता।



तत्र मृदुः प्रयोगः कतमः। यः सातत्यप्रयोगविवर्जितः सत्कृत्यप्रयोगविवर्जितश्च।



मध्यः प्रयोगः कतमः। यः सातत्यप्रयोगविवर्जितो वा सत्कृत्यप्रयोगविवर्जितो वा। इत्यनयोर्द्वयोः प्रयोगयोरन्यतरविवर्जितः।



अधिमात्रः प्रयोगः कतमः। यस्तदुभयप्रयोगसंयुक्तः सातत्यप्रयोगसंयुक्तः सत्कृत्यप्रयोगसंयुक्तश्च।



तत्र श्रुतं कतमत्। यो बौद्धप्रवचनाधिमुक्तस्य सूत्रादीनां धर्माणां श्रवणोद्ग्रहण-धारणस्वाध्यायाभियोगः।



चिन्ता कतमा। प्रविवेके धर्मनिध्यानाभिरतस्य अर्थाभ्यूहनासंलक्षणानिश्चयः।



भावना कतमा। शमथप्रग्रहोपेक्षानिमित्तेषु सम्यगुपलक्षणापूर्विका शमथविपश्यनोपेक्षाऽभ्यासरतिः।



संग्रहः कतमः। सम्यग् निरामिषचित्तस्य निश्रयदानमाचार्योपाध्यायन्यायेन। पृथग्विधा च परिचर्या तद्यथा ग्लानोपस्थानपरिचर्या धर्म्यचीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिचर्या शोककौकृत्यप्रतिविनोदनपरिचर्या क्लेशप्रतिविनोदनपरिचर्या। इत्येवंभागीयाः पृथग्विधा परिचर्यां वेदितव्याः।



निग्रहः कतमः। आत्मगतां संक्लेशारक्षां संविधाय स्खलितचोदना मृदौ व्यतिक्रमे। मध्ये व्यतिक्रमेऽवसादना। अधिमात्रे व्यतिक्रमे प्रवासना। तत्र या च चोदना या चावसादना सा तेषामेव हितसुखार्थं तदन्येषाञ्च। या पुनः प्रवासना पुनः प्रतिसंहरणाय सापि तेषां चान्येषां च हितसुखाय। या पुनरप्रतिसंहार्या प्रवासना सा परेषामेव हितसुखाय। तथाहि परेषां प्रवासनां व्यतिक्रमनिदानम्। परेषूपलभ्याव्यतिक्रमाय चेतयते।



कथं स्वयं परिपाचयति। आनुलोमिकञ्च धर्मं देशयति अकुशलात् स्थानाद्युत्थाप्य कुशले स्थाने प्रतिष्ठापनाय। यथावादी च भवति तथाकारी। धर्मानुधर्मप्रतिपन्नस्तत्स्वभावानुवर्ती। येनैनं परे नैवमाह। त्वमेव तावत् स्वयं नाकुशलात्स्थानाद्युत्थितः कुशले च स्थाने प्रतिष्ठितः कस्मात्त्वं तत्र परं समादापयितव्यं चोदयितव्यं स्मारयितव्यं मन्यसे। त्वमेव तावत् परैश्चोदयितव्यः स्मारयितव्यः समादापयितव्यः।



कथं परमध्येषते। यस्यान्तिके सत्त्वानामधिमात्रश्च प्रेमगौरवं निविष्टं भवति। यश्चोपायज्ञो भवति धर्मदेशनायां सुशिक्षितः। स्तमध्येषते व्यापारयति परिपाकाय।



उभाभ्यामाभ्यां समस्ताभ्यां स्वपराध्येषणाकृतः परिपाको वेदितव्यः।



इत्यनेन सप्तविंशतिविधेन परिपाकोपायेन सा षड्‍विधा परिपाकप्रभेद संपद्वेदितव्या। इन्द्रियपरिपाकस्य कुशलमूलपरिपाकस्य ज्ञानपरिपाकस्य मृदुमध्याधिमात्रस्य च परिपाकस्य।



तत्र परिपाचकाः पुद्गलाः कतमे। समासतः षट् बोधिसत्त्वाः षटसु बोधिसत्त्वभूमिषु व्यवस्थिताः सत्त्वान् परिपाचयन्ति। अधिमुक्तिचर्याभूमिस्थितो बोधिसत्त्वोऽधिमुक्तिचारी। शुद्धाध्याशयभूमिस्थितो बोधिसत्त्वः शुद्धाध्याशयः। चर्याप्रतिपत्तिभूमिस्थितो बोधिसत्त्वश्चर्याप्रतिपन्नः। नियत भूमिस्थितो बोधिसत्त्वो नियत-पतितः। नियतचर्या-प्रतिपत्तिभूमिस्थितो बोधिसत्त्वो नियतचर्याप्रतिपन्नः। निष्ठागमनभूमिस्थितो बोधिसत्त्वो निष्ठागतः। तत्रागोत्रस्थानां पुद्गलानां सुगतिगमनाय परिपाकः पुनः पुनः प्रत्यावर्त्यो भवति पुनः पुनः करणीयः। गोत्रस्थानां पुनः परिपाको न प्रत्यावर्त्यो भवति न पुनः पुनः करणीयः।



तत्र परिपक्वपुद्गललक्षणं कतमत्। श्रावकः पूर्वकुशलाभ्यासाद् यदामृदुपाकव्यवस्थितो भवति स मृदुच्छन्दो भवति मृदुप्रयोगश्चापायानपि गच्छति न च दृष्टे धर्मे श्रामण्यफलमधिगच्छति न च दृष्टे धर्मे परिनिर्वाति। यदा तु मध्यपाकव्यवस्थितो भवति स मध्यच्छन्दश्च भवति मध्यप्रयोगो न चापायान् गच्छति। दृष्टे च धर्मे श्रामण्यफलं प्राप्नोति। नो तु दृष्टे धर्मे परिनिर्वाति। अधिमात्रे परिपाके स्थितः अधिमात्रच्छन्दो भवति अधिमात्रप्रयोगश्च न चापायान् गच्छति। दृष्टे च धर्मे श्रामण्यफलं प्राप्नोति। दृष्ट एव च धर्मे परिनिर्वाति।



प्रत्येकबुद्धस्तथैव वेदितव्यः यथा श्रावकः। तत्कस्य हेतोः। तुल्यजातीयोऽस्य मार्गः श्रावकैः। अयन्तु श्रावकेभ्यः प्रत्येकबुद्धस्य विशेषः। पश्चिमे भवे पश्चिमे आत्मभावप्रतिलम्भेऽनाचायकं पूर्वाभ्यासवशात् सप्तत्रिंशद्वोधिपक्ष्यान् धर्मान् भावयित्वा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करोति। तस्मात्प्रत्येकबुद्ध इत्युच्यते।



बोधिसत्त्वः पुनरधिमुक्तिचर्याभूमिस्थितो मुदुपरिपाको वेदितव्यः। अध्याशयशुद्धो चर्याप्रतिपत्तिभूमौ च मध्यपरिपाकः। नियातो निष्ठितश्चाधिमात्रपरिपाकः। तत्र मृदुपाकव्यवस्थितो बोधिसत्त्वो मृदुच्छन्दो भवति मृदुप्रयोगः अपायांश्च गच्छति। प्रथमकल्पासंख्येयपर्यन्ततश्च स वेदितव्यः। उत्तप्तैरचलैः सुविशुद्धैश्च बोधिपक्ष्यैः कुशलैधर्मैः सर्वैरेव विसंयुक्तो भवति। मध्यपाको बोधिसत्त्वो मध्यच्छन्दो भवति मध्यप्रयोगः। न चापायान् गच्छति द्वितीयकल्पासंख्येयपर्यन्ततश्च भवति। उत्तप्तैरचलैश्च बोधिपक्ष्यैः कुशलैर्धर्मैः संयुक्तो भवति। सुविशुद्धैर्विसंयुक्तः। अधिमात्रपाकस्थितो बोधिसत्त्वः अधिमात्रच्छन्दो भवत्यधिमात्रप्रयोगश्च। न चापायान् गच्छति। तृतीयकल्पासंख्येयपर्यन्ततश्च भवति। उत्तप्तैरचलैः सुविशुद्धैर्बोधिपक्ष्यैः कुशलैर्धर्मैः समन्वागतो भवति। तत्र प्रकृत्या घनत्वादुज्ज्वलत्वादधिमात्रमहाफलत्वान्महानुशंसत्वाच्चोत्तप्ता इत्युच्यन्ते। अप्रत्यावर्त्यत्वादपरिहाणीयत्वाद्विशेषगामित्वादचला इत्युच्यन्ते। बोधिसत्त्वभूमौ निरुत्तरत्वात्सुविशुद्धा इत्युच्यन्ते।



तत्र यश्चामिषकृतः परिपाको यश्च ऋद्ध्यावर्जनजो यश्च गुह्यधर्माख्यानजो यश्च मृदुप्रायोगिको यश्च श्रुतमात्रकृतः परिपाक इत्येष पञ्चविधः परिपाकः दीर्घकालाभ्यासादप्येषां धर्माणां मृदुक एव भवति प्रागेवेत्तककालाभ्यासात्। तदन्यैस्तु सर्वैः परिपाकस्य कारणैः परिपाकस्य त्रिप्रकारनयो वेदितव्यः। मृदुकेनाभ्यासेन मृदुको मध्येन मध्यः अधिमात्रेणाधिमात्रः परिपाको वेदितव्यः। तस्य च मृदुमध्याधिमात्रस्य परिपाकस्यैकैकस्य त्रिप्रकारनयो वेदितव्यः। मृदुकस्य [मृदु-] मृदुको मृदुमध्यो मृद्वधिमात्रः। मध्यस्य च मध्यमृदुको मध्यमध्यो मध्याधिमात्रः। अधिमात्रस्याधिमात्रमृदुरधिमात्रमध्योऽधिमात्राधिमात्रः। इत्येवं भागीयोत्तरोत्तरप्रभेदनयेनाप्रमाणः परिपाकप्रभेदः सत्त्वानां बुद्धबोधिसत्त्वकृतो वेदितव्यः।



तत्र बोधिसत्त्वः एभिः परिपाककारणैर्यथानिर्दिष्टैरात्मनश्च बुद्धधर्मपरिपाकायेन्द्रियपरिपाकं कुशलमूलपरिपाकं ज्ञानपरिपाकञ्च मृदुमध्याधिमात्रञ्च समुदानयति परसत्त्वानाञ्च परपुद्गलानां यानत्रयनिर्याणाय।



इति बोधिसत्त्वभूमावाधारे योगस्थाने षष्ठं परिपाकपटलम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project