द्वादशो वर्गः
Technical Details
द्वादशो वर्गः
पुण्यपरिग्रहः
१। बोधिसत्त्वस्यालक्षणचित्तमाचरितस्यापि चित्तं न कर्ममु प्रतिष्ठितं भवति। कर्मलक्षणानि जानन्नपि करोति कर्माणि। कुशलमूलमाचरितुं बोधिममिसम्बोद्धुं न परित्यजति संस्कृतम्। सत्वार्थं चरन्महाकरुणां नाधितिष्ठत्यसंस्कृतम्। सर्वबुद्धसम्यक्प्रज्ञार्थं न परित्यजति जातिमरणं निर्वापयितुमपर्यन्तान्सत्त्वाननुपधिनिर्वाणधातौ नाधितिष्ठति निर्वाणमित्युच्यते बोधिसत्त्वस्य महासत्त्वस्य गम्भीरं चित्तमभिसम्बोद्धमनुत्तरां सम्यक्सम्बोधिम्॥
२। बुद्धपुत्रा बोधिसत्त्वः परिपूरति दश धर्मान्न च प्रत्यावर्ततेऽनुत्तरायाः सम्यक्सम्बोधेः। कतमे दश। पथमं बोधिसत्त्वो गम्भीरमुत्पादयति बोधिचित्तं सत्त्वानपि शिक्षयत्युत्पादयितुं चित्तम्। द्वितीयं नित्यमभिनन्दन्तथागतं प्रियदानेन पूजयति गम्भीरं चवरोपयति कुशलमूलम्। तृतीयं धर्मान्गवेषयितुं गौरवचित्तेन पूजयति धर्मगुरून्धर्मः श्रृण्वन्न च परिश्राग्यति। चतुर्थं पश्यन्भिक्षुसंघं भिन्नं द्विधाविभक्तं परम्परं विवदमानं भण्डनं कुर्वाणं गवेपयत्युपायं संगमयति च। पञ्चमं पश्यन्नाष्ट्रे वर्धमानान्यशुभानि क्षीयमाणान्बुद्धधर्मान्देशयति तथा वाचयति यावदेकामपि गाथां येनानुच्छिन्नो भवति धर्मः। एकचित्तं परिपालयति धर्मं न च गणयति कायजीवितम्। षष्ठं परित्रायते सत्त्वान्पश्यन्मीतान्दुःखितान्ददाति चाभयम्। सप्तमं जनयति चर्योत्साहं गवेषयति चैवं महायानं वैपुल्यमतिगम्भीरं सूत्रधर्मं बोधिसत्त्वपिटकम्। अष्टमं लब्ध्वेमान्धर्मान्धारयति वाचयति पर्यवाप्नोतियथाभाषितमाचरति यथाभाषितमवतिष्ठते। नवमं धर्ममधितिष्ठन्नुत्साहयति बहुतरसत्त्वान्प्रवेष्टुं धर्मे। दशमं धर्मे प्रवेश्य प्रकाशयन्संदर्शयंल्लाभप्रामोद्यववोधयति सत्त्वान्। बोधिसत्त्वः परिपूर्येमान्दाशधर्माननुत्तराया बोधे र्न प्रतिनिवर्तते॥
३। बोधिसत्त्वेनाचरितव्यमेवमिदंसूत्रम्। अचिन्त्यं खल्वेवंविधं सूत्रं यज्जनयति सर्वमहामैत्रीकरुणाबीजम्। इदं सूत्रं चित्तमुत्पादयितुं नयति चावबोधयति च बद्धसत्त्वान्। इदं सूत्रमुत्पादहेतु र्बोधिमभिसंप्रस्थितानाम्। इद सूत्रं परिपूरकं सर्वबोधिसत्त्वानामक्षोम्यचर्यायाः। इदं सूत्रमतीतानागतप्रत्युत्पन्नबुद्धैरनुपरिगृहीतम्। कुलपुत्राः कुलदुहितरश्चेत्कामयन्ते संग्रहीतुमनुत्तरां बोधि देशयितव्यमेवं रूपं सूत्रं। जंबूद्वीपेऽनुच्छेदाय [बुद्धधर्माणां] अप्रयेया अपर्यन्ताः सत्त्वाः श्रृण्वन्त्विदं सूत्रम्। कुलपुत्राः कुलदुहितरश्चेच्छृण्वन्तीदं सूत्रं लभन्ते ऽचिन्त्यमतीतीक्ष्णं महाप्रज्ञाव्यूहमप्रमेयं च पुण्यफ़लविपाकम्। तत् कस्य हेतोः। इदं सूत्रं विवृणोत्यप्रमेयं सुपरिशुद्धं प्रज्ञानेन्नं करोति बुद्धविजं निरन्तरमनुच्छिन्नम्। परिपालयति सत्त्वानप्रमेयदुःखदुःखितान्। अवभासयति सर्वमविद्यामोहान्धकारम्। भिनत्ति चतुरो मारान्मारकर्माणि च। नाशायति सर्व तीर्थिकाणां मिथ्याद्टष्टिम्। निर्वापयति सर्वं क्लेशमहाज्वनलम्। अपनयति [अविद्या-] प्रत्ययजनितान्संस्कारान्। छिनत्ति लोभं मात्सर्यं शीलभेदं द्वेषं कौसीद्यं विक्षेपं मूढतां (च) षड् गुरुव्याधीन्। अपनयति कर्मावरणं विपकावरणं क्लेशावरणं द्टष्ट्यावरणमविद्यावरणं ज्ञानावरणंभावानावरणं। संक्षेपत उच्यते। इदं सूत्रं निर्वापयति निरवशेषं सर्वाकुशलधर्मान्। समेधयति सर्वकुशलधर्माग्निस्कन्धम्। कुलपुत्राः कुलदुहितरश्चेत्सूत्रमिदं श्रुत्वारोचयन्त्यनुमोदयन्त्याश्चर्यचित्तमुत्पादयन्ति ज्ञातव्यं तैः पूजिता अप्रमेया बुद्धाः। गम्भीरमवरोपितं कुशलमूलम्। तत्कस्य हेतोः अस्य सूत्रस्य त्रिष्वध्वसु बुद्धैराचरितत्वाद्यः खलु (मार्गा-) वचरः श्रृणोति चेदं सूत्रं स्वात्मानं धन्यं मन्यते। लभते च महाकुशललाभम्। यः कश्चिल्लिखतीदं वाचयतीदं सूत्रं ज्ञातव्यं स पुरुषः प्राप्नोत्यप्रमेयमपर्यन्तं पुण्यफ़लविपाकम्। तत्कस्य हेतोः। अस्य सूत्रस्यापर्यन्ता लम्बनत्वादप्रम यमहाप्रणिधानोत्पादकत्वात्सर्वसत्त्वानुग्राहकत्वादनुत्तरसम्बोधिनिष्पादकत्वाल्लब्धः पुण्यफ़लविपाकोऽप्येवयमेयः। यदि कश्चिदवबुध्यार्थं तथाचरति यथा सर्वबुद्धैरसंख्येयेषु कल्पेष्वक्षयप्रज्ञया भाषितं तस्य पुण्यफ़लविपाकोऽप्यक्षयो भवति। यस्मिन्प्रदेशे धर्मशास्ता देशयतीदं सूत्रं ज्ञातव्यं तस्मिन्प्रदेशे स्तूपः कारयितव्यः। कस्मात्। सम्यग्धर्मस्य तत्र जनितत्वात्। एदं सूत्रं यस्मिन्देशे नगरै ग्रामे विहारे कुटयां वा भवति ज्ञातव्यं तत्र भवति [३ तथागतस्य ] धर्मकायः। यदि पुरुषः पूजयति गन्धपुष्पैः संगीतेन वितानेन चमरच्छत्रैर्गीतैः स्तौत्रैर्नमस्कारैः ज्ञातव्यं स पुरुष बुद्धबीजं बहुलिकरोति कि पुनर्वक्तव्यं यो निरवशेषं गृह्णति धारयति सूत्रमिदम्। स पुरुषः पूरयति पुण्यप्रज्ञानिष्पत्तिमनागतेऽध्वनि लभते व्याकरणं प्राप्नित्यनुत्तरां सम्यक्सम्बोधिम्॥
( इति बोधिचित्तोत्पादसूत्रशास्त्रे पुण्यपरिग्रहो नाम द्वादशो वर्गः॥ )
परिनिष्ठितं बोधिचित्तोत्पादसूत्रशास्त्रम्॥