नवमि वर्गः
Technical Details
नवमि वर्गः
प्रज्ञापारमिता
१। बोधिसत्त्वः कथं भावयति प्रज्ञाम्। प्रज्ञा ह्यात्मपराभयलाभायचेदेवंविधा प्रज्ञा निष्पादयति बोधिमार्गम्। बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखानि भावयति तस्मात्प्रज्ञाम्। भावयन्प्रज्ञां शिक्षते सर्वलोकधातुवस्तूनि। प्रजहाति लोभद्वेपमोहान् प्रतिष्ठापयति महामैत्रीम्। करुणायमान उपकरोति सत्त्वान्। नित्यं परित्रातुमिच्छंस्तेषां परिणायको भवति। विभज्य देशयति सदसन्मार्गं कुशलाकुशलाश्च विपाकानिति बोधिसत्त्वस्यादिप्रज्ञाचित्तम्॥
२॥ प्रज्ञाभावनाहेतोः प्रजहात्यविद्याम्। अपाकुरुते क्लेशावरणं ज्ञेयावरणमित्यस्यात्मलाभः। विनयन्सत्त्वान्परिसान्त्वयतीति परलाभ। चरित्त्वानुत्तरां बोधिं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः। प्रज्ञाभावनया प्राप्नोति प्रथमां भूमि यावत्सर्वज्ञतामिति निष्पादयति बोधिमार्गम्॥
३। प्रज्ञां भावयन्बोधिसत्त्वःक्रमेण प्रतिष्ठापयति विशति चित्तानि। कानि विशतिः। (१) कुशलकामानुत्पादयतोऽस्य कल्याणमित्रानुत्सर्गचित्तम्। ( २ ) मदमानं परित्यजतोऽस्याप्रमादचित्तम्। (३) अनुचरतः सिक्षापदानि प्रीतं धर्मश्रवणचित्तम्। (४)धर्माञ्छृण्वतोऽविश्रान्तं कुशलचिन्ताचित्तम्। (५) भावयतश्चतुरि ब्रह्मविहारान्सम्यग्ज्ञानचित्तम्। (६) पश्यतोऽशूचिचर्यां ततः श्राम्यतः परित्यागचित्तम्। (७) पश्यत आर्यसत्यानि पोडशाकारं चित्तम्। (८)पश्यतो द्वादशाङ्गप्रतीत्यसमुत्पादं भावयतः प्रज्ञाचित्तम्। (९)श्रृण्वतः पारमिताः तत्संग्रहकामचित्तम्। (१०) अनित्यदुःखानात्मतां पश्यतः शान्तं निर्वाणं चित्तम्। (११) पश्यतः शून्यमलक्षणमप्रणिहितं निष्क्रियचित्तम्। (१२) पश्यतः स्कन्धधात्वायतनानि भूय आदीनवचित्तम् (१३)क्लेशाञ्जयतोऽसहचरचित्तम्। (१४) पालयतः कुशलधर्मानात्मसहचरचितम्। (१५) निवारयतोऽकुशलधर्मान्प्रहाणचित्तम्। (१६)आचरतः सम्यग्धर्मं विपुलचित्तम्। ( (१७) आचरतो यानद्वयमपि नित्यमुपेक्षाचित्तम्। (१८) श्रृण्वन्बोधिसत्त्वपिटकं प्रमोदानुसरणचित्तम्। (१९) स्वलाभपरलाभावनुसंवर्धयतः सर्वकुशलकर्मचित्तम्। (२०) गृह्णतः सुचरितं सर्वबुद्धधर्मगवेषणाचित्तम्॥
४। पुनःखलु प्रज्ञां भवयतो बोधिसत्त्वस्य भवन्ति दशधर्माः कुशलचिन्ताचित्ताः श्रावकप्रत्येकबुद्धावेणिकाः। के दश। (१)विभज्य चिन्तयति समाधिप्रज्ञामूलम्। (२)चिन्तयन्न परित्यजति शाश्वतोच्छेदान्तद्वयम्। (३) चिन्तयति प्रतीत्यसमुत्पादधर्मान्। (४) चिन्तयति न सत्त्वो नात्मा न पुद्गलो न जीव इति। (५) चिन्तयति न सन्ति त्रिष्वध्स्वातीतानागतप्रत्युत्पन्नधर्माः। (६) चिन्तयत्यनुत्पन्नमपि कर्म नोच्छिनत्ति हेतुफ़लम्। (७) चिन्तयम् धर्मान् शून्यनप्य कुसीदश्चावरोपयति कुशलम्। (८) चिन्तयत्यलक्षणं न च प्रतिनिवर्तते निर्वापयितुं सत्त्वान्। (९) चिन्तयन्नप्यप्रणिहितं न जहाति गवेषयितुं बोधिम्। (१० ) चिन्तयन्नप्यकृतं न परिहरति प्रकाशयितुं सांभोगिकं कायम्॥
५। पुनः खलु बोधिसत्त्वस्य द्वादश भवन्ति कुशलावतारधर्ममुखानि (१) शून्यतादिसमाधिष्ववतारकुशलोऽपि न (तान्) गृह्णाति। (२) ध्यानसमाधिष्ववतारकुशलोऽपि न यथाध्यानं तत्रोपपद्यते। (३) ऋद्धिज्ञानेष्ववतारकुशलोऽपि नानास्रवान् धर्मान् लभते। (४) अध्यात्मपर्यवेक्षणधर्मेष्ववतारकुशलोऽपि न तेषु निश्चयमनुप्राप्नोति। (५) सर्वसत्त्वशून्यताद्टष्टाववतारकुशलोऽपि नोपेक्षते महामैत्रीम्। (६) सर्वसत्त्वानात्मताद्टष्टववतारकुशलोऽपि नोपेक्षते महाकरुणाम्। (७) दुर्गयुपपत्तावतारकुशलोऽपि न स कर्मनिमित्तं तत्रोपपद्यते। (८) वैराग्यावतारकुशलोऽपि न वैराग्यधर्मान् प्रतिलभते। (९)कामसुखपरित्यागावतारकुशलोऽपि नोपेक्षते धर्मसुखम्। (१०) प्रपंचमतवादपरित्यागावतारकुशलोऽपि नोपेक्षते उपायद्टष्टीः। (११) बह्वादीनवाः संस्कृत धर्मा इत्यनुचिन्तनावतारकुशलोऽपि नोपेक्षते संस्कृतम्। (१२) परमपरिशुद्धेष्वसंस्कृतधर्मेष्ववतारकुशलोऽपिनासंस्कृते प्रतिष्ठितो भवति। बोधिसत्त्वश्चेत्सर्वकुशलावतारधर्ममुखान्याचरति सम्यग्जानाति शून्यतां त्रिष्वध्वसु ब किचिदिति॥
६। यदि चैवं पश्यति पश्यति त्रिष्वध्वसु शून्यतां प्रज्ञाबलहेतोः। यदि चावरोपितानि त्रिष्वध्वसु तथागतैरप्रमेयाणि पुण्यान्यखिलं परिणामयत्यनुत्तरायां बोधौ तदेवं बोधिसत्त्वः संपश्यति त्रिष्वध्वसूपायम्।
पुनरपि पश्यन्नतीतान्धर्मान्क्षपिताननागतान्नागतान्सदैवाचरतिकुशलं पराक्रमते न च कुसदो भवति। अनुत्पन्नानपि पश्यन्नगतान्धर्मान्पराक्रमते कामयते बोधिम्। क्षणं क्षणं निरुध्यमानान्पश्यन्नपि प्रत्युत्यन्नान्धर्मान् बोधिमुपगन्तुं न चास्य चित्तविस्मृतिरित्येवं बोधिसत्त्वः पश्यति त्रिष्वध्वसूपायम्।
निरुद्धमतीतं नागतमनागतमस्थिरं प्रत्युत्पन्नम्। अपि च पश्यन्धर्माञ्चित्तचैत्तानुत्पद्यमानान्निरुध्यमानान्विशीर्यमाणान्पूयमानान्नोपेक्षते संग्रहीतुंकुशलमूलानि। उपचरति बोधिधर्मानित्येवं बोधिसत्त्वः पश्यति त्रिष्वध्वसूपामम्।
७। पुनः खलु बोधिसत्त्वः पश्यति सर्वं कुशलमकुशलमात्मानमनात्मानं भूतमभूतं शून्यमशून्यं संवृतं परमार्थं सम्यक्समाधि मिथ्यासमाधि संस्कृतमसंस्कृतं सास्रवमनास्रवं कृष्णधर्मं शुक्लधर्मं जातिमरणं निर्वाणं धर्मधातुस्वभावमेकलक्षणमलक्षणम्। न च तत्र धर्मा इत्युच्यतेऽलक्षणमिति। अपि नाम कश्चन धर्मो योह्यलक्षणो नामेत्युच्यते सर्वधर्ममुद्राक्षयामुद्रा। आसु मुद्रासु न मुद्रालक्षणमित्युच्यते सत्यं भूतं प्रज्ञोपायः प्रज्ञापारमिता।
उत्पादितबाधिचेत्तेन बोधिसत्त्वेनैवं शिक्षितव्यमेवं भावयितव्यम्। एवं भावयन्नवाप्नोत्यनुत्तरां सम्यक्सम्बोधिम्। बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञां भावयतो न चित्तं चरति धर्मतायाः परिशुद्धत्वात्। एवं परिपूरयति प्रज्ञापारमिताम्॥
( इति बोधिचित्तोत्पादसूत्रशास्त्रे प्रज्ञापारमिता नाम नवमो वर्गः॥ )