पंचमो वर्गः
Technical Details
शीलपारमिता
पंचमो वर्गः
१। बोधिसत्त्वः कथमाचरतिशीलम्। शीलमात्मपरोभयलाभाय चेदेवंविधं शिलं निष्पादयति बोधिमार्गम्। बोधिसत्त्वः कामयतेविनेतुं सत्त्वानपर्हतुं दुःखान्याचरति तस्माच्छीलम्। शीलमाचरन्सर्वाणि पवित्रयति कायवाङ्मनःकर्माणि। अकुशलचर्यासु परिहरति चित्तम्। सम्यक्प्रभवति चावज्ञापयितुं दुष्कृतं शीलविधातं च। क्षुद्रेष्वपि पातकेषु चित्तेन विभेति नित्यमित्युच्यते बोधिसत्त्वस्यादिशीलचित्तम्।
२। शीलाचरणहेतोः सर्वान् परित्यजति पापात्ययान् कुशलावासेपूत्पद्यते नित्यमित्यस्यात्मलाभः। शिक्षयति सत्त्वानकर्तुं दुष्कृतमिति परलाभः। चरित्वाबोधये शीलं परिणाम्य सत्त्वेष्वात्मना सलाभिनः करोतित्युभवलाभः। शीलाचरणहेतोर्लभते वैराग्यं यावत्क्षपयत्यास्रवान्परिपूरयति चानुत्तरां सम्यक्सम्बोधिमिति निष्यादयति बोधिमार्गम्॥
३। शीलं तावत्त्रिविधम्। प्रथमं कायशीलं द्वितीयम् वाक्शीलं तृतीयं चित्तशीलम्। उद्गृह्णन्कायशीलं साकल्येन परिहरतिहिंसास्तैन्यकाममिथ्याचारान्। विरतः प्राणातिपाताद्विरतोऽदत्तादानाद्विरतोऽब्रह्मचर्यान्नपुनर्विदधाति प्राणातिपातादीनां हेतुप्रत्यायांन्स्तेषामुपायांश्च न च प्रहरतो सत्त्वान्दण्डेन काष्ठेनेष्टिकया प्रस्तरेण वा। परकीयमर्थजातं परकीयं भोग्यजातं यावत्तृणमात्रमपि पत्रमात्रमपि नादत्तमादत्ते न च खलु पुनः कदाचिदपिमोहकं रूपं निरिक्षते। चतुर्षु सादरीभवतीर्यापथेष्वित्युच्यते कायशीलम्॥
४। उद्गृह्णन्वाक्शीलं साकल्येन प्रजहाति मृषावादं पैशुन्यं पारुष्यं सम्भिन्नप्रलापम्। न कदापि प्रतारयति न च संगतान्भिनत्ति नाभ्याख्याति न च कृत्रिमां वाचमुदाहरति नापि लोकाप्रासादकमुपायमारचयति भाषते विश्वस्तं मधुरमकपटं भाषते नित्यहितम्। शिक्षयति कुशलमाचरितुमित्युच्यते वाक्शीलम्॥
५। उद्गृह्णंश्चित्तशीलं निरुणद्धि लोभद्वेषमिथ्याद्टष्टीः। नित्यं विदधाति मृदुचित्तम्। नात्ययानाचरति। श्रद्धधाति पापकर्मणामशूभं फ़लं भवतीति भवनाबलेन नाशुभान्यचरति। क्षुद्रेष्वपि पारेषु जनयति गुरुतर (पाप) संज्ञाम्। अज्ञानतः कुर्वन्पापानि विभेति पश्चात्तत्पत्ते सत्त्वेषु नोत्पादयति द्वेषम्। द्टष्ट्वा सत्त्वानुत्पादयति स्नेहचित्तम्। कृतं जानाति प्रत्युपकरोप्यविमत्सरचित्तः। पुण्याचरणे छन्दं जनयन् नित्यं शिक्षयति जनान्। नित्यंभावयति मैत्रीचित्तम्। करुणायतेसर्वेष्वित्युच्यते चित्तशीलम्॥
६। एतेषां दशकुशलकर्मपथानां पंचाकारो लाभः निगृह्यते दुश्चरितमिति प्रथमः। उत्पद्यते कुशलचित्तमिति द्वितीयः। निरुध्यन्ते क्लेशा इति तृतीयः। परिपूर्यते विशुद्धचित्तमिति चतुर्थः। समेधते शीलमिति पंचमः॥
७। कुशलमचरन्पुरुषो न चरति चेत्प्रमादमधिगच्छति सम्यक्स्मृतिम्। विविनक्ति कुशलाकुशलम्। ज्ञातव्यमेवंविधः प्रभवति पुरुषो ध्रुवमाचरितुं दशकुशलकर्माणि। चतुरशीतिसहस्राण्यम्प्रमेयाणि शीलाङ्गानि दशकुशलेष्वेव शीलेष्वन्तर्भवन्ति। सन्तीमानि दशकुशलशीलानि सर्वकुशलशीलमूलानि। प्रहाणात्कायवाक्चित्तशूभानां निरोधात्सर्वाकुशलधर्माणामुच्यते शीलमिति॥
८। शीलं पंचविधम्। प्रथमं प्रातिमोक्षशीलम्। द्वितीयं ध्यानसहचरशीलम्। तृतीयमनास्रवशीलम्। चतुर्थमिन्द्रियदमनशीलम्। पंचममविज्ञप्तिशीलम्। चतुरुदीरितज्ञप्तिकर्मणोपाध्यादवाप्तमुच्यते प्रातिमोक्षशीलम्। चतुर्मौलध्यानचतुरसमापत्तिध्यानमुच्यते ध्यानशीलम्। मौलचतुर्ध्यानप्रथमध्यानासमापत्तिरुच्यतेऽनास्रवशीलम्। दमन्निन्द्रियाणि विदधाति सम्यक्स्मृतिचित्तम्। पश्यञ्छृण्वन्बुध्यञ्जानब्रू पशब्दगन्धरसस्प्रष्टव्यानि नोत्पादयत्यसंप्रजन्यमित्युच्यत इन्द्रियदमनशीलम्। उत्सृजत्यात्मभावमनागतेऽध्वन्यकर्तुं पुनरशुभमित्युच्यतेऽविज्ञप्तिशीलम्।
९। बोधिसत्त्व आचरति शीलं श्रावकप्रत्येकबुद्धावेणिकम्। अवेणिकत्वादुच्यते कुशलशीलग्रहणम्। कुशलशीलग्रहणत्वात्करोति सर्वसत्त्वांल्लाभिनः गृह्णन् मैत्रीचित्तशीलं परित्रायते सुखयितुं सत्त्वान्। गृह्णन् करुणाचित्तशीलं क्षमते सर्वदुःखान्युद्धर्तुं विपत्तिः। गृह्णन्मुदिताचित्तशीलं नन्दत्यकुशीदत्वाच्च कुशलान्याचरति। गृह्णन्नुपेक्षाचित्तशीलं शवुमित्रयोर्भवति समः परिहर्तुं रागद्वेषम्। गृह्णाति दानशीलं शिक्षयितुं सान्त्वयितुं च सर्वसत्त्वात्। गृह्णन् क्षान्तिशीलं भवति नित्यं मृदुचित्तो द्वेषावरणबप्रहीणत्वात्। गृह्णन्वीर्यशीलं वर्धयति प्रतिदिनं कुशलकर्माण्यप्रतिनिवर्तनात्। गृह्णन्श्यानशीलं प्रजहाति रागमकुशलं वर्धयितुध्यानाङ्ग़ानि। गृह्णन् प्रज्ञाशीलं बहु शृणोति कुशलमूलं (तत्प्रति) अतृप्तेः। गृह्णाति कल्याणमित्रसंग्रहशीलं परिपूरयितुं बोधिमनुत्तरं मार्गम्। गृह्णात्यकल्याणभित्रपरित्यागशीलं परित्यक्तुं त्रिविधं दुश्चरितमष्टौ भयस्थानानी॥
१०। बोधिसत्त्वो गृह्णन्परिशुद्धशीलं न प्रतिष्ठितो भवति कामधातौ न च रूपधातौ नापि च प्रतिष्ठितो भवत्यरूपधाताविति परिशुद्धशीलम्। परिहरति रागरजास्यपनयति द्वेषावग्णं निरुणद्ध्यविद्यावरणमिति परिशुद्धशीलम्। परिहारति द्वावन्तौ शाश्वतम् चोच्छेदं चाप्रतिलौमहेतुप्रत्ययेनेति परिशुद्धशीलम्। न स्पृशति रूपवेदनासंज्ञासंस्कारविज्ञानानि प्रज्ञप्तिलक्षणानीति परिशुद्धशीलम्। न बध्नाति हेतौ नोत्पादयति द्टष्टीर्न प्रतिष्ठापयति विचिकित्साकौकृत्ये इति परिशुद्धशीलम्। न प्रतिष्ठापयति रागद्वेषमोहास्त्रीण्यकुशलमूलानीति परिशुद्धशीलम्। न प्रतिष्ठापयत्यात्ममानं मदमानमभिमानं मानातिमानं महामानं मृदुः कुशलस्निग्धो भवतीति परिशुद्धशीलम्। नेञ्जति लाभालाभनिन्दाप्रशंसायशोऽयशसुखदुःखेषु नानुलिप्यते लोकसत्ये शून्ये प्रज्ञतौ भवति चानुगतः परमार्थसत्यमिति परिशुद्धशीलम्। अक्लेशमपरितापं शान्तं विमुक्तिलक्षणमिदंशीलम्। संक्षेपत उच्यते कायजीवित निरपेक्षोऽनित्यसंज्ञादर्शनेनोत्पादयति वैराग्यं सोद्योगं कुशलमूलं भावयन्नभ्युत्साहेन वीर्यमाचरतीति परिशूद्धशीलम्। बोधिसत्त्वस्य शीलमाचरतो न भवति परिशूद्धचित्तद्टष्टिः संज्ञाविमुक्तिहेतोरितीयं शीलपारमिता॥
( इति बोधिचित्तात्पादसुत्रशास्त्रे शीलपारमिता नाम पंचमो वर्गः॥ )