चतुर्थो वर्गः
Technical Details
दानपारमिता
चतुर्थो वर्गः
१। बोधिसत्त्वः कथं दानं ददाति। दानमात्मपरोभयलाभाय चेदेवंविधं दानं निष्पादयति बोधिमार्गम्। बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखानि ददाति तस्माद्दानम्। दानमुत्सृजन्नित्यमुत्पादयत्यात्मवित्तेषु त्यागचित्तम्। याचकेषु मातापितृगुरुकल्याणमित्रेष्विवोत्पादयत्यादरचित्तम्। जनयति मातापितृगुरुकल्याणमित्रसंज्ञाम्। पुत्र इवोत्पादयति दरिद्रेषु हीनेषु करुणाचित्तम्। जनयति पुत्रसंज्ञाम्। यथाप्रार्थितं वितरत्यादरेण मुदितचित्तेनेत्युच्यते बोधिसत्त्वस्यादिदानचित्तम्॥
२। दानचर्याहेतोः प्रसरति यशः। यत्र व कचिज्जायते भवन्त्यस्य प्रभृतानि धनानीत्यस्यात्मलाभः। तर्पयन्सत्त्वानां चित्तं शिक्षयति विनयति विदधाति तानविमत्सरानित्येष परलाभः। वितरन्नलक्षणं महादानं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्येष उभयलाभः। दानचर्याहेतोः प्राप्नोति वर्तिपदम्। उपसंगृह्णात्यप्रमेयान्सर्वसत्त्वान्यावदाप्राप्ते र्बुद्धत्वस्याक्षयधर्मकोशभ्येत्येवं निष्पादयति बोधिमार्गम्॥
३। दानं त्रिविधम्। प्रथमं धर्मदानं द्वितीयमभयदानं तृतीयमामिपदानम्। धर्मदानमुद्बोधयति लोकाञ्छीलग्रहणाय प्रव्रज्याचित्तचरणाय। मिथ्याद्टष्टेः प्रहाणाय देशयति शाश्वतोच्छेदौ, चतुरः विपर्यासान् पापानामादीनवं च, विभज्य प्रकाशयति परमार्थम् अनुशंसति वीर्यगुणान्भाषते प्रमादात्ययपापमित्युच्यते धर्मदानम्। यदि सत्त्वो विभेति नृपात्संहाद्व्याब्राद्वृकाज्जलादग्ने र्दस्योश्चौराद्वा बोधिसत्त्वो दृष्टे तत्परित्रायत् इत्यमयदानम्। आत्मनो वित्तानि यावद् रत्नं हस्तिनमश्वं रथं वस्राणि धान्यं वाससी पेयं खाद्यं यावत्कवलमात्रमेकसूत्रं प्रभूतमल्पं वा वितरन्न मात्सर्यं कुरुते। यथाप्रार्थितं तर्पयति याचकानित्यामिषदानम्॥
४। आमिषदानं पुनः पञ्चविधम्। प्रथमं सरलचित्तदानं द्वितीयं श्रद्धा चित्तदानं तृतीयं यथाकालदानं चतुर्थं स्वहस्तेन दानं पंचमं यथाधर्मदानम्॥
५। अदातव्यं दानं पुनः पंचप्रकारम्। अधर्मेणोपार्जितं धनं न दातव्यं स्यापरिशूद्धत्वात्। मद्यं न दातव्यं परेभ्यो विषं च सत्त्वानां विक्षेपसत्त्वात्। मृगयोपकरणानि न दातव्यानि परेभ्यस्सत्त्वानां क्लेशकरत्वात्। न दातव्याः परेभ्यस्सत्त्वानां हिसकत्वात्। गीतं स्त्रियश्च न दातव्याः परेभ्यश्चित्तपवित्रताया दूषकत्वात्। संक्षेपत उच्यते। यन्न यथाधर्मं यच्च विक्षेपकरं विक्षेपकरं सत्त्वानां तन्न दातव्यं परेभ्यः। शिष्टं सर्वं यत्सुखयति सत्त्वांस्तदुच्यते यथाधर्मदानम्॥दानरिचिर्लभते पंचबिधं कीर्तिकुशललाभम्। सामीप्यं लभते सर्वसतामिति प्रथमः। सर्वे सत्त्वास्तं द्रष्टुमभिलषन्तीति द्वितीयः। जनकायं प्रविष्टः सत्क्रियते जनैरिति तृतीयः। प्रसरन्नस्य यशोवर्णः श्रूयते दशसु दिक्ष्विति चतुर्थः। भवति बोधेः सम्यगुत्तमो हेतुरिति पंचमः॥
६। बोधिसत्त्वः सर्वदातेत्युच्यते। सर्वदानं न बहुधनं किन्तु दानचित्तम्। यथाधर्मं धनमुपार्ज्योपादाय यद्ददाति तदुच्यते सर्वदानम् परिशुद्धचित्तेन यदशाठयदानं तदुच्यते सर्वदानम्। दरिद्रान्द्टष्ट्रा दयाचित्तेन यद्ददाति तदुच्यते सर्वदानम्। दुःखितान्द्टष्ट्रा करुणाचित्तेन यद्ददाति तदुच्यते सर्वदानम्। दरिद्रोऽल्पधनोऽपि यद्ददाति तदुच्यते सर्वदानम्। स्पृहणीयानि रत्नजातान्युदारचित्तेन यद्ददाति तदुच्यते सर्वदानम्। अपश्यञ्छीलाशीलं क्षेत्राक्षेत्रं यद्ददाति तदुच्यते सर्वदानम् अपश्यज़् ण्छिलाशीलं क्षेताक्षेत्रं यद्ददाति तदुच्यते सर्वदानम्। अगवेषयन्देवमानुपकल्याणसुखानि यद्ददाति तदुच्यते सर्वदानम्। गवेषयन्ननुत्तरां बोधि यद्ददाति तदुच्यते सर्वदानम्। दित्सया दानकाले प्रदाय यन्नानुशोचति तदुच्यते सर्वदानम्॥
७। यदि पुष्पाणि ददाति लभते धारणीसप्तबोधिपुष्पाणि। यदि गन्धं ददाति लभते शीलसमाधिप्रज्ञाः। (शीलसमाधिप्रज्ञाधूपं प्रज्वाल्य ) धूपयति चात्मानम्। यदि फ़लं ददाति लभते पूरयति चानास्रवफ़लम्। यद्याहारं ददातिकायवाग्रू पवलसुखसम्पन्नोभवति। यदि वस्त्राणि ददाति लभतेऽवदातं रूपमपनयत्याह्रीक्यमनपत्राप्यम्। यदि प्रदीपं ददाति बुद्धचक्षुर्लभते भास्वरं सर्वधर्मस्वभावानाम्। यदि हस्त्यश्वरथयानानि ददाति लभतेऽनुत्तरं यानमृद्धिंच। यद्यलङ्कारान्ददाति लभते ऽशीत्यनुव्यञ्जनानि। यदि रत्नानि ददाति लभते द्वात्रिंशन्महापुरुषलक्षणानि। परिश्रमेण [ सत्त्व- ] सेवां यद्याचरति लभते दशवलानि चतुर्वैशरद्यानि।
संक्षेपत उच्यते। राष्ट्रं नगरं दारान्पुत्राञ्छिर श्चक्षुर हस्तपादौ यावत्सर्वकायं ददात्यन्तरा चित्रमात्सर्यं प्राप्तमनुत्तरां बोधिं परिनिर्वापयितुं सत्त्वान्। बोधिसत्त्वो महासत्त्व आचरन्दानचर्यां भवत्यवित्तद्टष्टि र्दानादानयोरलक्षणत्वात्ततस्मात्पूरयति दानपारमिताम्॥
( इति बोधिचित्तोत्पादसृत्रशास्त्रे दानपारमिता नाम चतुर्थो वर्गः॥)