द्वितीयो वर्गः
Technical Details
द्वितीयो वर्गः
बोधिचित्तोत्पादः
१। बोधिसत्त्वः कथं बोधिचित्तमुत्पादयति। कैश्च प्रत्ययैः बोधि समुदागच्छति। यदि बोधिसत्त्वः परिचिनोति कल्याणमित्राणि। पूजयति बुद्धान् संगृह्णाति कुशलमूलानि। गवेपयति प्रणीतधर्मान्। भवति नित्यं सुरतचित्तः। क्षमते दुःखान्यापतितानि। भवति मैत्रः कारुणिक ऋजुचित्तः। भवति समचित्तशयः। श्रद्धयाभिनन्दति महायानम्। गवेषयति बुद्धप्रज्ञाम्। यदि पुरुषस्य सन्तिमे दशधर्मा उत्पादयत्यनुत्तरसम्यक्सम्बोद्दिचित्तम्॥
२। पुनश्चत्वारःप्रत्यया यैश्चित्तमुत्पादयति संग्रहीतुमनुत्तरां बोधिम्। कतमे चत्बारः। अनुविचिन्तयन्बुद्धान्बोधिचित्तमुत्पादयतीति प्रथमः। प्रत्यवेक्षमाणकायस्यादीनवान् बोधिचित्तमुत्पादयतीति द्वितीयः। दयमानः सत्त्वेषु बोधिचित्तमुत्पादयतीति तृतीयज़्ः। गवेषयन्नुत्तमं फ़लं बोधिचित्तमुत्पादयती चतुर्थः॥
३। बुद्धानुविचिन्तना पुनः पञ्चप्रकारा। अनुविचिन्तयति यद्दशदिक्ष्वतीतानागतप्रत्युत्पन्नाः सर्वे बुद्धाश्चित्तोत्पादारम्भेऽधुनाहमिवासन् क्लेशस्वभावान्ते चाभवन्सम्यक्सम्बुद्धा अनुत्तरा भगवन्त इति हेतो र्बोधिचित्तमुत्पादयामीति प्रथमा। अनुविचिन्तयति यत् सर्वे त्रिष्वध्वसु बुद्धा महोत्साहमुदपादयन् पृथक्पृथग्वाप्तुमनुत्तरां बोधिम्। यदि बोधिः प्राप्तव्यो धर्मो मयापि प्राप्तव्येतिहेतोरुत्पादयामि बोधिचित्तमिति द्वितीया। अनुविचिन्तयति यत्सर्वे त्रिष्वध्वसु बुद्धा उदपादयन्महाप्रज्ञां प्रत्यतिष्ठिपन्नाद्यावरणे वरचित्तं संचिन्वन्तो दुष्करचर्यामुददीधरन्नात्मानमत्यक्रमिषुस्त्रिधातुम्। अहमप्येवमात्मानमुद्धरेयमिति हेतोरुत्पादयामि बोधिचित्तमिति तृतीता। अनुविचिन्तयति यत्सर्वे त्रिष्वध्वनु बुद्धा लोकनायकाः पारंगता जातिजरामरणक्लेशमहासमुदात्। अहमपि पुरुषः पारं ब्रजेयमिति हेतोरत्पादयामि बोधिचित्तमिति चतुर्थी। अनुविचिन्तयति यत्सर्वे त्रिप्वध्वसु बुद्धा उदपादयन्महावीर्यमुदसृजन्नात्मभावं जीवितं धनानि चामार्गयन्सर्वज्ञताम्। अहमपि साम्प्रतमनुसरेयं बुद्धानिति हेतोरुत्पादयामि बोधिचित्तमिति पंचमी॥
४। कायस्यादीनवप्रत्यवेक्षा बोधिचित्तोत्पादाय पुनः पंचप्रकारा। आत्मानं प्रत्यवेक्षते यत्काये ऽस्मिन्नुभये पञ्चस्कन्धाश्चतुर्महाभूतानि कुर्वन्त्यप्रमेयाण्यशुभकर्माणीतिकामयते तत्परित्यागमिति प्रथमा। आत्मानं प्रत्यवेक्षते यत्कायेऽस्मिन्नवच्छिद्राणि येभ्यः स्रवन्ति दुर्गन्धिमलामेध्यानीति कुरुते तं प्रत्यनादरमितिद्वितीया। आत्मानं प्रत्यवेक्षते यत्कायेऽस्मिल्लोभद्वेषमोहा अप्रमेयाः क्लेशा निर्दहन्ति कुशलचित्तमिति कामयते निर्वापयितुमिति तृतीया। आत्मानं प्रत्यवेक्षते यत्कायोऽयं फ़ेनबुद्बुदवत्क्षणंक्षणमुत्पद्यते निरुध्यते तेन धर्माः प्रहातव्या इति कामयते प्रहातुमिति चतुर्थी। आत्मानं प्रत्यवेक्षते यत्कायोऽयमविद्यावृततया सर्वदा करित्यशुभकर्माणि संसरति षड्गतिषु न चास्य लाभ इति पंचमी।
५। उत्तमफ़लगवेषणा बोधिचित्तोत्पादाय पुनः पंचप्रकारा। पश्यति तथागतानां भास्वरनिर्मलां सल्लक्षणानुव्यञ्जननिष्पत्तिं यां संगच्छतः क्लेशा व्यपगता भवन्तीति संगृह्णतीति प्रथमा। पश्यति तथागतानां धर्मकायं नित्यमवस्थितं परिशुद्धं निष्कलंकमिति संगृह्णतीति द्वितीया। पश्यति तथागतानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनपरिशुद्धधर्मस्कन्धामिति संगृह्णतीति तृतीया। पश्यति तथागतानां दश बलानि चत्वारि वैशरद्यानि महाकरुणां त्रीणि स्मृत्युपस्थानानीति संगृह्णतीति चतुर्थी। पश्यति तथागतानां सर्वज्ञतां कृपां सत्त्वेषु यन्मैत्रीकरुणाभ्यां समावृत्य विभ्रान्तान्नयति सर्वान्सन्मार्गमिति संगृह्णतीति पञ्चमी॥
६। कृपा सत्त्वेषु बोधिचित्तोत्पादाय पुनः पञ्चप्रकारा। पश्यति सत्त्वानविद्यया विनिबद्धानिति प्रथमा। पश्यति सत्वान्नानादुःखपर्यवस्थितानिति द्वितीया। पश्यति सत्त्वन्संगृह्णतोऽकुशलकर्माणीति तृतीया। पश्यति सत्त्वान्कुर्वतो गुरुतराणि दुश्चरितानीति चतुर्थी। पश्यतिसत्त्वाननाचरतः सम्यग्धर्ममिति पञ्चमी॥
७। अविद्याबन्धनं पुनश्चतुःप्रकारम्। पश्यति सत्त्वान्मोहरागविभ्रान्तान्वेदयतो महाकृच्छ्रदुःखानीति प्रथमम्। पश्यति सत्त्वानश्रद्दधानान्हेतुफ़लयोः कुर्वतोऽशुभकर्माणीति द्वितीयम्। पश्यति सत्त्वानुत्सृजतः सम्यग्धर्मं श्रद्दघानान् मृषामार्गमिति तृतीयम्। पश्यति सत्त्वान्क्लेशनद्यां मज्जतश्चतुःप्रवाहेषून्मज्जत इति चतुर्थम्॥
८। नानादुःखपर्यवस्थानं पुनश्चतुःप्रकारम्। पश्यति सत्त्वान्बिभ्यतो जातिजराव्याधिमरणेभ्यो विमोक्षमगवेषयतः कर्माणि पुनः कुर्वत इति प्रथमम्। पश्यति सत्त्वाञ्च्छोकपरिदेवदौर्मनस्यदुःखितान्नित्यमविश्रान्तकर्मण इति द्वितीयम्। पश्यति सत्त्वान्प्रियवियोगदुःखमूढानुपायासक्तानिति तृतीयम्। पश्यति सत्त्वानप्रियसंयोगदुःखितान्नित्यमतिक्रान्तभेदेर्ष्यानपि कृताप्रियानिति चतुर्थम्॥
९। अकुशलसंग्रहःपुनश्चतुःप्रकारः। पश्यति सत्त्वान्कामारागात्कुर्वतोऽशुभानिति प्रथमः। पश्यति सत्त्वाञ्जानतोऽपि कामानां दुःखोत्पादकतमनुत्सृजतः कामानिति द्वितीयः। पश्यति सत्त्वान्सुखं कामयतोऽपि शीलपादविमुखानिति तृतीयः। पश्यति सत्त्वान्दुःखमनभिनन्दतोऽपि चरतोऽविरतं दुःखायेति चतुर्थः॥
१०। गुरुतरपापाचारः पुनश्चतुःप्रकारः। पश्यति सत्त्वानपराध्यतोगुरुशीलं भयेऽपि प्रमादिन इति प्रथमः। पश्यतिसत्त्वान्कुर्वतोऽत्यन्ताशुभानि पञ्चानन्तर्यकर्माणि द्रोहावृतत्वेन नोत्पादयतो ह्रियमपत्रपांचेति द्वितीयः। पश्यति सत्त्वान्निन्दतो महायानवैपुल्यसद्धर्मान्वाल्यपरिगृहीतान्समुद्गतमदमानानिति तृतीयः। पश्यति सत्त्वान्बुद्धिमतोऽप्युच्छिन्दतः कुशलमूलान्यथापि मानिनो न कदाप्यनुशोचत इति चतुर्थः॥
११। सम्यग्धर्मानाचरणं पुनश्चतुःप्रकारम्। पश्यति सत्त्वानष्टाक्षणेषु न शृण्वतः सद्धर्ममजानतश्चरितुं कुशलमिति प्रथमम्। पश्यति सत्त्वान्बुद्धोत्पादे नापितं सद्धर्मं शृण्वतोऽपि न गृह्णत इति द्वितीयम्। पश्यति सत्त्वानुद्गृह्णत स्तैर्थिकवादान्कुर्वत आत्मक्लमथानुयोगान् नित्यमपगच्छतो विमोक्षादिति तृतीयम्। दृश्यति सत्त्वांल्लब्धं नैवसंज्ञानासंज्ञां नाम समाधि निर्वाणमिवोद्गृह्णतः कुशलविपाकान्ते पुनश्च्यवतस्तिसृतिषु दुर्गतिष्विति चतुर्थम्॥
१२। बोधिसत्त्वः पश्यति सत्त्वानविद्ययाकर्माणि कुर्वतो दीर्घरात्रं वेदयतो दुःखानि परित्यजतःसद्धर्मं विस्मरतो निःसरणमार्गनित्येवं कारणादुत्पादयति महामैत्रीं करूणां प्रदीप्तशिरस्राणवच्च गवेषयत्यनुत्तरां सम्यग्यम्बोधिं सर्वान्सत्त्वा केशदुःखितानहमुद्धरामि निरवशेषमिति। बुद्धात्मजाः संक्षेपेण मेयदमुक्तम्। वादिकर्मिको बोधिसत्त्वः सकारणं चित्तमुत्पादयतीति। विस्तरेण चेदुच्येत न तस्य परिमाणं न तस्य पर्यन्तः॥
( इति बोधिचित्तोत्पादसुत्रशास्त्रे बोधिचित्तोत्पादो नाम द्वितीयो वर्गः॥)