Digital Sanskrit Buddhist Canon

त्रिस्वभावनिर्देशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Trisvabhāvanirdeśaḥ
॥ नमो मञ्जुश्रिये कुमारभूताय॥

आचार्यवसुबन्धुप्रणीतः

त्रिस्वभावनिर्देशः



कल्पितः परतन्त्रश्च परिनिष्पन्न एव च।

त्रयः स्वभावा धीराणां गम्भीरज्ञेयमिष्यते॥१॥



यत् ख्याति परतन्त्रोऽसौ यथा ख्याति स कल्पितः।

प्रत्ययाधीनवृत्तित्वात् कल्पनामात्रभावतः॥२॥



तस्य ख्यातुर्यथाख्यानं या सदाऽविद्यमानता।

ज्ञेयः स परिनिष्पन्नस्वभावोऽनन्यथात्वतः॥३॥



तत्र किं ख्यात्यसत्कल्पः कथं ख्याति द्वयात्मना।

तस्य का नास्तिता तेन या तत्राऽद्वयधर्मता॥४॥



असत्कल्पोऽत्र कश्चित्तं यतस्तेन हि कल्प्यते।

यथा च कल्पयत्यर्थ तथाऽत्यन्तं न विद्यते॥५॥



तद्धेतुफलभावेन चित्तं द्विविधमिष्यते।

यदालयाख्यं विज्ञानं प्रवृत्त्याख्यं च सप्तधा॥६॥



संक्लेशवासनाबीजैश्चितत्वाच्चित्तमुच्यते।

चित्तमाद्यं द्वितीयं तु चित्राकारप्रवृत्तितः॥७॥



समासतोऽभूतकल्पः स चैष त्रिविधो मतः।

वैपाकिकस्तथा नैमित्तिकोऽन्यः प्रातिभासिकः॥८॥



प्रथमो मूलविज्ञानं तद्विपाकात्मकं यतः।

अन्यः प्रवृत्तिविज्ञानं दृश्यदृग्वित्तिवृत्तितः॥९॥



सदसत्त्वाद् द्वयैकत्वात् संक्लेशव्यवदानयोः।

लक्षणाभेदतश्चेष्टा स्वभावानां गंभीरता॥१०॥



सत्त्वेन गृह्यते यस्मादत्यन्ताभाव एव च।

स्वभावः कल्पितस्तेन सदसल्लक्षणो मतः॥११॥



विद्यते भ्रान्तिभावेन यथाख्यानं न विद्यते।

परतन्त्रो यतस्तेन सदसल्लक्षणो मतः॥१२॥



अद्वयत्वेन यच्चास्ति द्वयस्याभाव एव च।

स्वभावस्तेन निष्पन्नः सदसल्लक्षणो मतः॥१३॥



द्वैविध्यात् कल्पितार्थस्य तदसत्त्वैकभावतः।

स्वभावः कल्पितो बालैर्द्वयैकत्वात्मको मतः॥१४॥



प्रख्यानाद् द्वयभावेन भ्रान्तिमात्रैकभावतः।

स्वभावः परतन्त्राख्यो द्वयैकत्वात्मको मतः॥१५॥



द्वयाभावस्वभावत्वादद्वयैकस्वभावतः।

स्वभावः परिनिष्पन्नो द्वयैकत्वात्मको मतः॥१६॥



कल्पितः परतन्त्रश्च ज्ञेयं संक्लेशलक्षणम्।

परिनिष्पन्न इष्टस्तु व्यवदानस्य लक्षणम्॥१७॥



असद्‍द्वयस्वभावत्वात् तदभावस्वभावतः।

स्वभावात् कल्पिताज्ज्ञेयो निष्पन्नोऽभिन्नलक्षणः॥१८॥



अद्वयत्वस्वभावत्वाद् द्वयाभावस्वभावतः।

निष्पन्नात् कल्पितश्चैव विज्ञेयोऽभिन्नलक्षणः॥१९॥



यथाख्यानमसद्‍भावात् तथाऽसत्त्वस्वभावतः।

स्वभावात् परतन्त्राख्यान्निष्पन्नोऽभिन्नलक्षणः॥२०॥



असद्‍द्वयस्वभावत्वाद् यथाख्यानास्वभावतः।

निष्पन्नात् परतन्त्रोऽपि विज्ञेयोऽभिन्नलक्षणः॥२१॥



क्रमभेदः स्वभावानां व्यवहाराधिकारतः।

तत्प्रवेशाधिकाराच्च व्युत्पत्त्यर्थं विधीयते॥२२॥



कल्पितो व्यवहारात्मा व्यवहर्त्रात्मकोऽपरः।

व्यवहारसमुच्छेदस्वभावश्चान्य इष्यते॥२३॥



द्वयाभावात्मकः पूर्वं परतन्त्रः प्रविश्यते।

ततः प्रविश्यते तत्र कल्पमात्रमसद्‍द्वयम्॥२४॥



ततो द्वयाभावभावो निष्पन्नोऽत्र प्रविश्यते।

तथा ह्यसावेव तदा अस्तिनास्तीति चोच्यते॥२५॥



त्रयोऽप्येते स्वभावा हि अद्वयालम्बलक्षणाः।

अभावादतथाभावात् तदभावस्वभावतः॥२६॥



मायाकृतं मन्त्रवशात् ख्याति हस्त्यात्मना यथा।

आकारमात्रं तत्रास्ति हस्ती नास्ति तु सर्वथा॥२७॥



स्वभावः कल्पितो हस्ती परतन्त्रस्तदाकृतिः।

यस्तत्र हस्त्यभावोऽसौ परिनिष्पन्न इष्यते॥२८॥



असत्कल्पस्तथा ख्याति मूलचित्ताद् द्वयात्मना।

द्वयमत्यन्ततो नास्ति तत्रास्त्याकृतिमात्रकम्॥२९॥



मन्त्रवन्मूलविज्ञानं काष्ठवत्तथता मता।

हस्त्याकारवदेष्टव्यो विकल्पो हस्तिवद् द्वयम्॥३०॥



अर्थतत्त्वप्रतिवेधे युगपल्लक्षणत्रयम्।

परिज्ञा च प्रहाणं च प्राप्तिश्चेष्टा यथाक्रमम्॥३१॥



परिज्ञाऽनुपलम्भोऽत्र हानिरख्यानमिष्यते।

उपलम्भनिमित्ता तु प्राप्तिः साक्षात्क्रियाऽपि सा॥३२॥



द्वयस्यानुपलम्भेन द्वयाकारो विगच्छति।

विगमात् तस्य निष्पन्नो द्वयाभावोऽधिगम्यते॥३३॥



हस्तिनोऽनुपलम्भश्च विगमश्च तदाकृतेः।

उपलम्भश्च काष्ठस्य मायायां युगपद् यथा॥३४॥



विरुद्धधीवारणत्वाद् बुद्ध्या वैयर्थ्यदर्शनात्।

ज्ञानत्रयानुवृत्तेश्च मोक्षापत्तिरयत्नतः॥३५॥



चित्तमात्रोपलम्भेन ज्ञेयार्थानुपलम्भता।

ज्ञेयार्थानुपलम्भेन स्याच्चित्तानुपलम्भता॥३६॥



द्वयोरनुपलम्भेन धर्मधातूपलभ्भता।

धर्मधातूपलम्भेन स्याद् विभुत्वोपलम्भता॥३७॥



उपलब्धविभुत्वश्च स्वपरार्थप्रसिद्धितः।

प्राप्नोत्यनुत्तरां बोधिं धीमान् कायत्रयात्मिकाम्॥३८॥



इति त्रिस्वभावनिर्देशः समाप्तः॥

कृतिराचार्यवसुबन्धुपादानामिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project