बोध्यापत्तिदेशनावृत्तिः
Technical Details
भारतीय ( संस्कृत ) भाषायाम्
बोध्यापत्तिदेशनावृत्तिः
आर्यमञ्जुश्रिये ( कुमारभूताय ) नमः
नमो भगवते शाक्यमुनये
बुध्वा यो ह्यविकल्पतां च सुगतोऽकल्प्यानशेषांश्च सः
कारूण्यातिशयाज्जगद्धितकरो नत्वा च तं गौतमम्।
सत्त्वानां हितकाम्ययाऽऽप्तवचनात् सूत्राच्च वक्ष्यमि तां
बोध्यापत्तिकदेशनां जिनसुतव्यापत्तिसंशोधिनीम्।।
त्रैकायिकेनं सर्वाकारज्ञेन बुद्धेन भगवता शाक्यमुनिना सर्वसत्त्वहिताय बहुविधा सद्धर्मदेशना प्रवर्तिता। सङ्ग्रह ( दृष्ट्या ) सङ्कलिता सती पर्याप्ति ( आगम ) धर्मः ( बुद्धवचनानि ) द्वादशसु प्रवचनाङ्गेषु सङ्गृह्यते। इदं तावत् ( त्रिस्कन्धसूत्रं ) तेषु सूत्राङ्गे परिगण्यते। द्वादशाङ्गान्यपि पिटकत्रये सङ्गृह्यन्ते। तेषु ( त्रिपिटकेषु ) इदं ( त्रिस्कन्धसूत्र ) सूत्रपिटके ( ऽन्तर्भूतं ) भवति। मुख्यतस्तावदिदं महायानविनय ( पिटक ) मेव, ( यतो ह्यस्मिन् ) वस्तुनोऽङ्गस्य चोभयोर्निर्देशो वर्तते।
अस्येदं पौराणिकं ( कथानकम् ) तथाहि-कौतुकादीनां पञ्चत्रिंशत् आदिकर्मिकाणां बोधिसत्त्वानां राजगृहे पिण्डाय चरतामवमर्देन तदा मद्यविक्रेतुः ( एकः ) पुत्रो मृतः। तदापत्तिदेशनायै उपालिना प्रार्थितो भगवान् ( बुद्धः ) इदं ( सूत्रं ) अदेशयत्। बोधिसत्त्वकुलस्य मार्गाङ्गत्वेनेदमनुवर्तते।
अथवा राजगृहे ( समुपजातेन ) पुरोज नामधेयेन ब्राह्यणेन पञ्चत्रिंशद्- व्याधकानधिकृत्य मिथ्या मार्गो देशितः फ़लतः पञ्चत्रिंशच्छिरस्कमत्स्यरूपेण ( सः ) समुत्पन्नः। तदर्थमिदं ( सूत्रं ) देशितमिति केषुचन ग्रन्थेषूपलभ्यते, किन्तु रत्नकूटे नास्तीदं वचनमिति।
अस्याः ( बोध्यापत्तिदेशनायाः ) व्याख्यानं प्रयोजनादिना प्रकारचतुष्केणावगन्तव्यम्। कानि तानि ( प्रयोजनादीनि) पञ्चप्रकाराणि प्रयोजनादीनि। अभिधेय स्तवद् ( आदिकर्मिकाणां ) बोधिसत्त्वानाम् आपत्तयस्तच्छुद्धिकरणोपायश्च। अभिधानं तु ग्रन्थगतानि सर्वाणि वचानि। प्रयोजनं हि ( तासाम् ) आपत्तीणां शुद्धिरेव। प्रयोजन- प्रयोजनं ( प्रयोजननिष्ठा ) तदुपायेन बुद्धत्वावाप्तिः। सम्बन्ध-स्तावदुपायोपेयभाव एव यः खल्वर्थतो निर्दिष्टः ।
अयं संक्षेपार्थः- त्रिस्कन्धानां सप्त ( स्कन्धानां ) वा शुद्धिः चत्वारि वा बलानि। त्रिविधविवादादीनां चोद्य-परिहाराश्च सहैवावगन्तव्याः।
तदयमुपदेशाभिप्रायः- आनन्तर्यादि ( पञ्च ) महापातकान्यपि निरन्तरात्यन्तविप्रतिसारेण एभिश्चतुर्बलैः मासं वर्ष यावत् पञ्चभिरङ्गैः सभूमिस्पर्श ( प्रणामेन ) प्रतिदेशनया शुद्धलक्षणान्वितानि भवन्ति, शुद्धानि भवन्तीति।
मध्ये ( पापग्रस्ते ) सति मासं यावत् ( प्रतिदिनं ) षड्वारं ( प्रतिदेशयेत् ) क्षुद्रकाणां ( पापकानां कृते ) ( प्रतिदिनं ) त्रिषु यामेष्विति सप्त दिनानि ( उपर्युक्तविधिना प्रतिदेशना ) कर्तव्या। यदि आप्रत्तिसंस्पर्शाशङ्का स्यात्तदा धर्मैकाङ्गेन ( प्रतिदेशना ) विधेया। अयमेवोपदेशस्य ( वास्तविकः ) अर्थः।
यदि पूर्व 'एवं मया श्रुतम्' इति तथा अन्ते ( भगवतो भाषितमभ्यनन्दन् ) इत्याद्यन्तयोः ( वचनयोः) अभावान्नेदं बुद्धवचनमिति चेन्न, आर्यरत्नकूटधर्मपर्याय- शतसाहस्रिकासूत्रे निदानादिसर्वस्याभिहितत्वात् तत एव चांशतोऽस्य ( त्रिस्कन्धसूत्ररस्य ) निर्गतत्वाद् अस्मिन् ( त्रिस्कन्धसूत्रे ) ( एवं मया श्रुतमित्याद्यन्तवचनयोः ) अभावान्नास्ति विरोधाख्यो दोषः।
( यद्येवं ) तर्हि ( अत्र ) आपत्तिमूलस्याभावात् कस्यापि प्रतिदेशना न ज्ञायेतेति चेत् ? इदं त्वस्य ( ग्रन्थस्य ) आयन्ताभ्यां ( भागाभ्यां ज्ञातुं ) शक्यते। पञ्चत्रिंशद्बुद्धानां निश्चित (संख्या) निर्धारणं , पूर्वोक्तानां पञ्चत्रिंशद्विनेयानाम् इष्टसम्पादनं च ( तेषां ) बुद्धानां नैकटयाभिप्रायेणैवेति। नेदमस्य तात्पर्य यदत्रान्येषां ( बुद्धानां ) असमावेशो वा अन्येषु प्रणामाभावो वा। अस्मिन्नेव ( ग्रन्थे ) अग्रे इत्यादि वचनेन ( पञ्चत्रिंशदतिरिक्त बुद्धेष्वपि नमस्कारः) अभिहितः। नात्र दिशाविशेषेण प्रयोजनम्, अपि तु दीर्घायुष्ट्वान्निर्माणकायस्य तदनुकूलदिशासु विद्यमानत्वात् दशसु दिक्षु (विद्यमानसत्त्वानां ) हितार्थ दशिदिगाश्रयणाच्चात्र 'दशसु दिक्षु' इत्येवं ( कथितम् )। नात्र अतीता अनागताश्च बुद्धाः साक्षिरूपेण समुद्धृताः संवृतितो विरोधात्। अत्रोद्धृतानां सर्वेषां ( बुद्धानां नाम्ना सह ) तथागत इति ( शब्दप्रयोगो ) नास्ति, केवलं
(१२१)
चतुर्भिः सहैव। अतश्च अर्थत एवं ( सर्वेः सह तथागतशब्दस्य विद्यमानत्वं ) ज्ञातव्यं मनसा चालमम्बितव्यम्। ( शब्दशः तथागत- ( शब्द )योगेन वचनविरोधः स्यात् , समस्तपदैः देशितत्वादिति।
अत्र तावच्चतुर्भिर्बलैः पापदेशना कर्तव्या। यतो हि ( भगवता) बुद्धेन 'चतुर्धर्मनिर्देश' अजातशत्रुकौकृत्यविनोदनसूत्रयोश्च एतेषां चतुर्णा ( बलानां ) महती अनुशंसा कृता। इदं ( सूत्रद्वयं ) देयोर्बोधिसत्त्वयोः कृते समुपदिष्टम्।
अत्र ( त्रिस्कन्धसूत्रे) को नाम धर्मः ? इत्युपालिना पृच्छा कृता। अयं तस्मिन् समये भगवतो बुद्धस्यान्तेवासित्वात् विनयवचनानि संगातुपालेर्निदिष्टत्वाच्च अर्हत्परिपृच्छयोक्तो विनयविनिश्चयः, यतो हि महायानापत्तिवस्तून्यनेन निर्धारितानि। अतः इदं ( त्रिस्कन्धसूत्रं ) विशिष्टं वचनम्। सामान्येनेदं रत्नकूटमभिधीयते, त्रिस्कन्ध इत्यप्यभिधीयते। नमस्कारप्रतिदेशनाद्यपरिमित- पुण्यस्कन्धादीनां ( निर्देशकः ) अयं लघुः त्रिस्कन्धः , न तु बृंहीयान्। अत्र बोध्यापत्तिदेशनायां बोधेरभिप्रायस्तावन्महाबोध्यर्थकः। सत्त्व इत्यवशिष्टं ( पदम् )। अथवा बोध्या पातयतीति बोध्यापत्तिरिति तृतीयायाः प्रयोगः करणीयः। इमे हि आदिकर्मिकबोधिसत्त्वा अधिमुक्तिचर्याभूमिस्थिता ( विनेय )-जनाः , न तु प्राथमभूमिका बोधिसत्त्वा ति ज्ञातव्यम्। अस्यामापत्तौ सत्यां दुर्गतौ गम्यते। अस्या आपत्तेः स्थूलायाः सूक्ष्मायाः पाराजयिक-दुष्कृतादुष्कृतानां च क्रमः सूत्रस्यास्य
(१२२)
पूर्वभागाद् अन्येभ्यश्च ( ग्रन्थेभ्यः ) ज्ञातव्यः। प्रतिदेशनागतोपायाः सूत्रस्यास्यान्तिमे ( भागे ) विस्तरेणावसेयाः। इदं तावदापत्तीनां विशोधनमात्रम्। तासु आपत्तिषु सतीषु प्रतिदेशनैव विशुद्धिः। साऽपि द्विविधा -
(१) पारमर्थिकी प्रतिदेशना- ( इयं ) ( अजातशत्रुः ) कौकृत्य- विनोदसूत्रानुसारं सर्वधर्मनिःस्वभावताचिन्तनमेव। इयं हि महापतिदेशना। यथोक्तम् -
ऋजुः स्थित्वा च सम्पश्येन्महती सैव देशना।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते।।
इत्युक्तम्।
(२) सांवृतिकी प्रतिदेशना- इयं तावच्चतुर्भिबलैः सकौकृत्येन च मनसा सर्व नमस्कारादिकं मायोपमबुद्ध्या करणीयमिति। ( इयं हि ) लघुप्रतिदेशना।
एतदर्थ ( सूत्रार्थम् उपालिना ) निवेदिते सति भगवान् तेषां बोधिसत्त्वानामर्थाय रश्मिभिर्दशदिगवस्थितान् चतुस्त्रिंशद्बुद्धादीन् अनेकान् निमन्त्रयामास।
अत्राकाशस्थितानां ( बुद्धबोधिसत्त्वानामग्रे उक्तापत्तिकाः ) बोधिसत्त्वाः सकौकृत्याः पूजां चित्तोत्पादं शरणगमनं नमस्कारात् प्रभृति पापदेशनं यावत् युगपत् कृत्वा सर्वपापैः सुविशुद्धाः ( भूत्वा ) प्रथमभूमिस्थिता अभूवन्। तदनु तदनुयायिनां तावात् विजने स्थाने मण्डलेन पूजया ( पञ्चत्रिंशद्बुद्धानां ) चित्रोपस्थानेन गुरूपदेश
(१२३)
तश्चित्तोत्पादादिना सह प्रतिदेशनाकरणेन सर्वपापविशुद्धिर्भविष्यतीति। फलतश्च सम्यक्संबुद्धत्वमवाप्स्यते। अयमेवास्य विधिरिति।
तद (नन्तरं) सर्वप्रथमं यथार्थप्रतिदेशना तावत् आश्रयबलैनैवं पापप्रतिदेशनम्- 'अहं अमुकानामा' इत्यादिना अभिहितम्। इदमत्र ज्ञातव्यं यत् आश्रयभूतान् पञ्चत्रिंशद्बुद्धान् सम्पूज्य समभ्यर्च्य द्विविधिबोधिचित्तोत्पार्दो विधेयः। तदनन्तरं द्वितीयतः शरणगमनं कर्तव्यम्। अत्र 'अहं अमुकनामा' इति सामान्यतोऽपि ( निर्देशे ) विशेषतः स्वमसाधारणं नामोच्चारणीयम् भीमसेनेषु महाभीमसेनवत्। न केवलं स्वयमेव, अपि तु अन्यैः कल्याणमित्रैर्ये आत्मानमुपकृतवन्तः मातापितरौ यौ कृतज्ञताया भाजनभूतौ , अनन्तैश्च सत्त्वैः आगगनं व्यापिभिः सत्त्वैर्ये आत्मना उपकार्याः तैः सर्वेः सह शरणं गन्तव्यम्। कस्मिन् ? बुद्धदिषु। कथम् ? वाचा चित्तेन च। ( इत्येवं ) शरणगमनस्वरूपादिकमपि ज्ञातव्यम्।
अत्र बुद्धस्य ( तात्पर्यद्वयम्)- शास्ता फलप्राप्तश्च यश्च त्रिकायात्मकः। इदं तावद् अस्माकं तच्छरणगमनस्य तात्पर्यम् यद् ( बुद्ध्या ) तन्निर्भरत्वं नाम। नमस्कारार्थोऽप्यत्र कायवाक्चित्तैस्तथैव सुनियतत्वं नाम। तथैव धर्मोऽपि पर्याप्ति ( परियत्ति )- प्रतिपत्तिभेदेन ( द्विविधः )। सोऽपि आगमाधिगमपरमार्थात्मकः , हेतुफलात्मक ( इत्यर्थः )। संघोऽपि प्रतिपन्नकाश्रयाभेद्यार्थकत्वेन संघ ( उच्यते )। सोऽपि श्रावक-प्रत्येकबुद्ध-बोधिसत्त्वसंघ इति ( त्रिविधः )। अत्र तु बोधिसत्त्वसंघ इति अवैवर्तिकसंघ एवाभिप्रेतः।
इत्येवम् आश्रयबलं प्रतिपाद्य इदानीं विदूषणासमुदाचारबलेन पापदेशनार्थ तथागते त्याद्युक्तम्। तदपि पापवस्तुप्रतिदेशनाङ्गत्वेन पञ्चत्रिंशद्बुद्धेषु नमस्करणमेव, अनेन पापशुद्धिर्भवतीति। तत्र ( क्रमेण ) आगामिनः सर्वे बुद्धाः सम्मुखागता रत्न-सिंह-पदम्-
(१२४)
चन्द्रासनेषु ( विराजिताः ) प्रव्रजितनिर्माणकायाः लक्षणानुव्यञ्जनप्रभायुक्ताः कायवर्ण-क्षेत्र-दिग्दिगन्तर-चीवरायुधादीन् धारयित्वा वज्रपर्यङ्कमुद्रास्थिता विविधपर्षद्भिः सह बुद्धाः वक्ष्यमाणक्रमेण मध्यभागत आरभ्य क्रमशः दशसु दिशासु विराजमाना आलम्बनीयाः। ( तानभिलक्ष्य नमस्कारादि करणीयम् )। तदपि ( कल्पनया ) अनेककायान् निर्माय वाक्चित्ताधिमुक्त्या तच्चरणेषु नमस्करणीयमिति। अथवा मन्दप्रज्ञाः ( तथाविधालम्बनभावनायामसमर्थाः ) ( पुरूषा ) अपि एकमुखः द्विहस्तः धर्मदेशना ( मुद्राविराजितः ) पिण्डपातार्थ चारिकां चरन् वा भूमिस्पर्शादिमुद्रास्थितो वा बुद्धः इति विदित्वा सर्वांश्च (बुद्धान्) श्वेतवर्णादीन् यथारुचि समानवर्णान् विदित्वा नमस्करणीयाः। एतेष्वस्माकं शास्ता प्रमुखः। एनं विहाय शेषाः ( अन्ये बुद्धाः ) अनेककल्पपर्यन्तं विराजन्त इति ज्ञातव्यम्।
एतेषु प्रथमं तावन्मध्ये विराजमानस्य लोकपतेर्बुद्धस्य गुणा(नाख्यातुं) तथागतेत्याद्याह। ( तथागत-तात्पर्य ) शब्दबलेन तथता- ( अधिगम )-वानित्युक्तम्, तथताधिगमलीनत्वात् पुनरागतत्वाच्च ( तथागत इत्युच्यते )। अत एव स सर्वेभ्यः ( आर्यपुद्गलेभ्यो देवेभ्यश्च ) विशिष्ट इति। क्लेशज्ञेयावरणारीणां हन्तृत्वाद् अर्हन् इति। अनेन बोधिसत्त्वेभ्यस्तस्य वैशिष्ट्यं ( प्रर्दिशतम् )। सम्यगि ति अविपरीतम्। अनेन संसाराद् हीनयानाच्च ( वैशिष्ट्यं प्रतिपादितम् ) सम्पन्न इति सम्भारद्वयेन स्व-परार्थ- ( सम्पद्भ्यां च सम्पन्नं ) कायद्वयमिति। प्रहाणस्य ज्ञानस्य च भेदद्वयेन बुद्धो भवतीति। आभ्यां तावत् संसारनिर्वाणस्थितेभ्यः सर्वपुद्गलेभ्यो विशिष्टः ( बुद्धः ) प्रदर्शितः शाक्यमुनिरिति तदर्थः। ( अर्थतः ) तज्ज्ञानं सामर्थ्य गुणाश्चैव ( बुद्धत्वम् )। 'शा' इति ज्ञानम् अशेषज्ञानमित्यर्थः। 'क्य' इत्यवबोधः। 'मुनिः' इत्यद्वयतया युक्तत्वम्। मुनिः ( शाक्य ) इति वा शाक्यराजवंशे जातत्वाद् दोषजन्मनां विजेता इति। एतत्तावत्तत् कारित्रम्। गुणेन शाक्य- ( शब्द ) स्य ( तात्पर्यम् ) अतिविशिष्टमिति।
(१२५)
कायवाक्चित्तानाम- साधारणसंवरेण स मुनिः। तस्मै नमस्कार इति त्रिभिर्द्वारैः श्रद्धाप्रसादयोगेन नमस्करणम्। अयं ( बुद्धः ) मध्यासनासीनः पीत ( वर्णः ) धर्मोपदेशमुद्रान्वित इत्यवगन्तव्यम्।
पूर्ववत् पञ्च विशेषणानि त्रिस्रश्च व्याख्याः पश्चाद् आगामिभिः ( सर्वबुद्धैः ) च सम्बद्धा इत्यवबोध्यम्। ज्ञानादीनां तात्पर्य दृष्टान्त- ( बलेन ) अर्थबलेन च शब्दद्वयेन एकेन वा व्यक्तीकरिष्यते।
(२) उपरिष्टाद् गगनगर्भ( बुद्ध ) - क्षेत्रे स्थितः नील ( वर्णः ) ( हस्तयोः ) धृतवज्रद्वयः , ( स च तथागतः ) वज्रगर्भप्रमर्दी इति। अत्र 'वज्रम्' इति वज्रोपमं निर्विकल्पकं ज्ञानम्। तच्च सर्वगुणोत्पत्तिस्थानत्वाद् 'गर्भः' इत्यपि। क्लेशादीनां सर्वेषां ( विपक्षावरणानां ) प्रहाणं तत्कारित्रम्।
(३) पूर्वस्यां दिशि रत्नभव( बुद्ध ) - क्षेत्रे ( तथागतः ) रत्नार्चीः श्वेत ( वर्णः ) द्वाभ्यां कराभ्यां क्रमशः ) वज्रं सूर्य च धारयन् विराजते। अत्र रत्नमिति रत्नवत्सर्वविध ( प्रातिहार्यादि ) - बलान्वितत्वात्, तदिदं ( एतेषां ) गुणः। अर्चिरिति ज्ञानप्रकाशः। तत्स्वभावस्य स्फुटत्वात्तेन अज्ञानान्धकारोऽपनीयते। तदेवं अर्चिस्तावत्तत्कारित्रमिति। येन सर्वसत्त्वानाम् अज्ञानं दूरीक्रियते।
(४) ( तथागतः ) नागेश्वरराजः दक्षिणपूर्वदिशायां नागव्याप्तस्य ( बुद्ध ) क्षेत्रस्य ( शास्ता ) भवति। ( अयं ) नील ( वर्णः ) ( द्वाभ्यां हस्ताभ्यां क्रमशः ) नागलतां नीलसर्प च धारयति। नाग इति ज्ञानम्। यथा नागे शैत्यं दुष्टत्वं च भवति तथैव ज्ञानमपि क्लेश ( सन्ताप ) -रहितं निमित्तानां विनाशकमिति। ऐश्वर्य हि ( तेषां ) कृत्यम् , येन सर्वगुणाधिपतित्वं निर्वाह्यते। राजेति तद्गुणः, येन राजेव सर्वेषु प्रतापवान् मनोज्ञः निर्भयश्च।
(१२६)
(५) ( तथागतः ) वीरसेनः दक्षिणस्यां दिशि वीरवत्यां ( बुद्ध ) -भूमौ ( शास्तृत्वेन तिष्ठति )। पीत ( वर्णः ) स ( द्वाभ्यां हस्ताभ्यां क्रमशः ) पुस्तकं खङ्गं च धारयन् विराजते। वीर इति ज्ञानम्, यन्निर्द्वन्द्रम् अदम्यं च। अथवा वीरेति कर्म, येन सत्त्वानां सर्वविधसांसारिकरणानां विनाशः क्रियते। सेनेति गुणः। अयं हि अनेकगुणगणान्वित इति।
(६) दक्षिणपश्चिमायां दिशि नन्दवती ( बुद्ध ) क्षेत्रे ( तथागतः ) वीरनन्दी, पिङ्गल ( वर्णः ) ( हस्तद्वये क्रमशः ) सूर्य रक्तपदं च धारयन् ( विराजते )। अत्र वीरेति ज्ञानं कर्म च। ( अर्थस्त्वस्य ) पूर्ववदवगन्तव्यः। नन्दनं ( एतेषां ) गुणः। करूणान्वितेन मनसा इमे सत्त्वहिताय प्रवृत्ताः सन्तीति।
(७) ( तथागतः ) रत्नाग्निः प्रतीच्यां ( दिशि ) आभासवती ( बुद्ध- ) क्षेत्रेऽस्ति ( शास्ता )। रक्त ( वर्ण ) -मणिरत्नम् अग्निमण्डलं च ( हस्तयोः क्रमशः ) धारयन् विराजते। रत्नमित्यत्र ज्ञानम्। ( येन रत्नवद् ) कल्पनारहितेन अर्थाः प्राप्यन्ते। अथवा रत्नं ( एतेषां ) गुणः, ( येन ) समाध्यादयः सर्वाः लोकोत्तरसम्पत्तयः प्राप्यन्ते। अग्निरिति ( तेषां ) कारित्रम्, ( येन ) ते ज्ञानेन महता वीर्येण च सत्त्वहितं प्रसाध्य क्लेशादींश्च दहन्ति।
(८) ( तथागतः ) रत्नचन्द्रप्रभः शुक्ल ( वर्णः ) पश्चिमोत्तरदिशायां सुप्रभे ( बुद्ध- ) क्षेत्रेऽस्ति ( शास्ता )। ( हस्तयोः ) रत्नं चन्द्र ( मण्डलं ) च धारयति। रत्नमत्रापि पूर्ववदेतेषां गुणः। चन्द्रश् ( चैतेषां ) ज्ञानमिति। ज्ञानमस्य परिपूर्णं अत्यन्तशीतलं प्रकाशमानमित्यर्थः। प्रभा चैतेषां कारित्रम्। कर्माणि क्लेशादींश्च ( आवरणानि ) अपकृष्य धर्मतां प्रकाशयतीत्यर्थः।
(१२७)
(९) ( तथागतः ) अमोघदर्शनः हरित ( वर्णः ) उदीच्यां दिशि दुन्दुभिघोषे ( नाम बुद्ध- ) क्षेत्रे ( विराजते )। ( अयं हस्तद्वयेन ) बुद्धचक्षुर्द्वयं धारयति। दर्शनमित्येषां ज्ञानम्, अनावरणज्ञानमित्यर्थः। अथवा दर्शनमेतेषां गुणः। ते महाप्रज्ञाकरूणानेत्राभ्यां धर्मतां प्रकाशयन्ति सत्त्वहितं च साधयन्तीत्यर्थः। अमोघश्चैतेषां कारित्रम्, येन ते सर्वसत्त्वान् अभ्युदयनिः श्रेयसफलयोर्नियमेन स्थापयन्ति।
(१०) ( तथागतः ) रत्नचन्द्रः पूर्वोत्तरदिशायां मरीचिकानाम्नि ( बुद्धक्षेत्रे तिष्ठति )। ( अयं ) हरितश्वेत ( वर्णः ) ( हस्तयोः ) रत्नं चन्द्रं च धारयन् बुद्धः एवास्ति। रत्नमित्येतेषां गुणः। चन्द्र इति ज्ञानम्, यच्चैतेषां कारित्रम्। ( अर्थस्त्वस्य ) पूर्ववदवगन्तव्यः।
(११) तदनन्तरं ( तथागतः ) निर्मलः भस्मव्यापिनि ( बुद्ध- ) क्षेत्रे ( विराजते )। ( अयं ) धूम ( वर्णः ) भस्म ( वर्णो ) व। ( हस्तयोः क्रमशः ) निर्मलादर्शद्वयं धारयन् तिष्ठति। निर्मलमित्यत्र ज्ञानम्, यच्चावरणप्रहाणं ( करोति )। अन्यान् ( सत्त्वान् ) निर्मलीकर्तुमस्ति तत्सामर्थ्यम्। आगन्तुकमलीमसबलादिरहितत्वादत्यन्त-प्रकाशितत्वं ( तेषां ) गुणः। एभ्यः पूर्ववन्नमस्कारो विधेयः। प्रथमं दशकम्।
(१२) शूरदत्त इत्यादिना द्वितीयं दशकम्। तथागतः शूरदत्तः शुक्ल ( वर्णः ) ऊर्ध्वदिशायां श्रीवत्सनामके बुद्धक्षेत्रे ( विराजते )। इमे ( द्वाभ्यां हस्ताभ्यां ) पत्रफलयुक्तं श्रीफलवृक्षं धारयन्ति सत्त्वार्थ च कुर्वन्ति। अत्रेमान् ऊर्ध्वमासने विराजमानान् विचिन्त्य स्वतः नमस्कारकरणेन पापानि विशुध्यन्ति। अत्र 'शूरः' इत्यनेनायं अद्वयज्ञानद्वारा सर्वविकल्पप्रहायक इत्यमिप्रेतः। अथवा शूर इति तद्गुणः। इमे परेभ्यः सर्वसुखोपकरणानि सर्वदा अनिर्बाधं वितरन्ति। 'दत्त' इत्यनेन तत्कार्याणि प्रदर्श्यन्ते। ( इमे ) त्रैधातुकेभ्यः सर्वसत्त्वेभ्यः यथाभिलषितवस्तुप्रदानं कुर्वन्ति। एभ्यस्त्रिभिः ( काय-वाक्- चित्त- ) द्वारैः सप्रसादं नमस्कारः करणीयः।
(१२८)
(१३) ( तथागतः ) ब्रह्या पूर्वदिशायां विगतावरणनामके ( बुद्ध )क्षेत्रे ( तिष्ठति )। पिङ्गलवर्णोऽयं ( द्वाभ्यां हस्ताभ्यां क्रमशः ) पदम् सूर्य च धारयन् ( विराजते। अत्र सर्वावरणरहितं ज्ञानमेव ब्रह्म। अथवा ( अयं ) सर्वसत्त्वानां सांसारिक ( मल )-शोधकत्वाद् ब्रह्यवद् 'ब्रह्येति' , ( इदं ) ( मलशोधनम् ) एव तत्कारित्रम्। अथवा ब्रह्येति स्व-परविशुद्धिकारकाणां अपरिमितगुणानां योगादयं ( तथा ) ब्रह्येत्यभिधीयते। ( अयमेव ) तद्गुणः।
(१४) ( तथागतः ) ब्रह्यदत्तः दक्षिणपूर्वदिशायां अशोकनामके ( बुद्धक्षेत्रे ) ( शास्ता ) विद्यते। पीत ( वर्णः ) अयं ( द्वाभ्यां हस्ताभ्यां क्रमशः ) चन्द्रं पद्मं च धारयन् ( विराजते )। अत्र ब्रह्येति तज्ज्ञानं गुणश्च। एतयोर्व्याख्यानं पूर्ववद् ( अवगन्तव्यम् )। तेन ( गुणेन ) सर्व सत्त्वेभ्यो विशुद्धसुखप्रदातृत्वं नाम तत्कारित्रम्।
(१५) ( तथागतः ) वरूणः दक्षिणदिशायां विमले ( बुद्ध ) क्षेत्रे ( तिष्ठति )। नील ( वर्णो ) ऽयं जलमण्डलमध्ये धर्मचक्रमुद्रया ( विराजते )। वरूणेन ( जलेन ) तज्ज्ञानं द्योत्यते, यदत्यन्तं विमलं स्वच्छं च। अथवा ( जलमिति ) तत्कारित्रम्। अर्थात् महाकरूणया ( अयं ) सत्त्वसन्ततिं सद्धर्मेन आर्द्रयति। ( अत ) एव तज्जलम्। देव इति गुणवाचकः ( शब्दः) शक्ति-ऋद्ध्यादिभिश्च युक्तः।
(१६) ( तथागतः ) वरूणदेवः दक्षिणपश्चिमदिशायां आभावत्यां ( बुद्धक्षेत्रे ) ( शास्ता )। ( अयं हि ) श्वेत ( वर्णः )। द्वाभ्यां ( हस्ताभ्यां क्रमेण ) मण्डलम् आदर्श च धारयन् ( विराजते )। अत्र जलेन ( अर्थाद् ) वरूणेन तज्ज्ञानम् ( अभिधीयते )। पूर्ववदस्य ( व्याख्यानम् )। देव इति तत्कारित्रम्, ऋद्ध्यादिभि सर्वसत्त्वार्थकरणम्। अयमपि 'देव' -शब्दः गुणवाचकः।
(१७) ( तथागतः ) भद्रश्रीः पश्चिमदिशायां सुखावतीक्षेत्रे ( तिष्ठति )। रक्तवर्णोऽयम्। ( द्वाभ्यां हस्ताभ्यां क्रमशः ) पद्मं कल्पवक्षं च धारयन् ( विराजते )। अत्र श्रीरिति तद्गुणः, स च
(१२९)
स्व परार्थसम्पद्। भद्रेति ज्ञानं कारित्रं च, तच्चानुत्तरज्ञानमिति। एभिः नैर्वाणिक- भद्रमार्गेण परे ( विनेय- ) जना निर्वाणाभिमुखमाकृष्यन्ते।
(१८) ( तथागतः ) चन्दनश्रीः उत्तरपश्चिमदिशायां सुगन्धव्यापिनि ( बुद्धक्षेत्रे ) शास्ता । ( अयं हि ) पिङ्गल ( वर्णः ) , ( हस्तयोश्) चन्दनवृक्षं श्रीफलं च धारयन् विराजते। तज्ज्ञानमेवात्र चन्दनम्, अनेन अविद्यादिसन्तापमपसार्य शीतलीकरणात् अथवा चन्दनमिति तद्गुणः, बलादिगुणेन सर्वत्र व्यापनात्। श्रीरित्येतस्य कारित्रमर्थः, अस्य व्याख्यानं पूर्ववदवगन्तव्यम्।
(१९) ( तथागतः ) अनन्तौजाः रक्त ( वर्णः ) उत्तरदिशायां तेजस्वत्यां ( बुद्धक्षेत्रे ) ( शास्ता ) विद्यते। ( अयं द्वाभ्यां हस्ताभ्यां क्रमशः ) सूर्यमण्डलद्वयं धारयन् बहुलैरनुयायिभिः परिवृतो विराजते। तज्ज्ञानमेवात्रौजः। प्रभास्वरज्ञानेन विपरीतं ( अन्धकारं ) प्रकाशीकुर्वन् तथाप्रभावक्षमः। अनन्तेति तत्कर्माणि गुणाश्च , तैश्च असंख्यसत्त्वानां कल्याणं भवतीति। ( स च ) अपरिमितैः रूप्यरूपिगुणैः समन्बितः।
(२०) ( तथागतः ) प्रभासश्रीः श्वेत ( वर्णः )। स चोत्तरपूर्वदिशायाम् अमोघवत्यां ( बुद्धक्षेत्रे ) ( शास्ता ) विद्यते। ( स आत्मनः करकमलयोः ) श्वेतप्रभामण्डलं धारयन् जीवनं च यापयन् विराजते। प्रभास इति तज्ज्ञानम्। सूर्यसदृशेन तज्ज्ञानेन स्वपरक्लेशज्ञेयावरणान्धकारं दूरीभवति। श्रीरिति तद्गुनाः कर्माणि चेति। तान्यपि पूर्ववद् द्विविधानीत्यवागन्तव्यम्।
(२१) ( तथागतः ) अशोकश्रीः ( वर्णेन ) श्वेतनीलः। अधोदिशायाम् आवरणविगते ( बुद्ध ) -क्षेत्रे ( सः ) शास्ता। ( हस्ताभ्यां ) अशोकविटपं धारयन् विराजते। अत्राशोक इति ज्ञानम्, यत् संसारापगतम् आवरणरहितं च। अथवा ( अशोकेति ) तत्कारित्रम्, समस्तसत्त्वानां शोकात् संसारदुःखान्मोचकत्वात् स
(१३०)
( शोक- ) रहित इत्यभिधीयते। श्रीरिति तद्गुणः। एभ्यस्त्रिभिर्द्वारैः प्रसादयुक्तेन ( मनसा ) नमस्कारः करनीयः। ( इदं द्वितीयं दशकम् )
(२२) इदानीं तृतीयं दशकमारभ्यते। ऊर्ध्वदिशायां तृष्णाविगते (बुद्ध) क्षेत्रे नारायणः ( शास्ता ) भवति। ( स च ) नील ( वर्णः ) हस्ताभ्यां ) मेरू पद्मं च धारयन् धर्मचक्रमुद्रया स्थितः सन् परिवारजनेभ्यः ( शिष्येभ्यः ) धर्ममुपदिशन् सत्त्वान् यापयति। अत्रापि नारायणो नाम तज्ज्ञानम् यत् सर्व (विध) कल्पनारहितमिति। (सर्व) सत्त्वानां संसारासक्तितृष्णाभ्यां मोचने ( सदा ) तत्परत्वं तत्कारित्रम्। अपत्य इति बुद्धः। यस्तदुत्पन्नः मैत्र्यादिगुणयुक्तश्च। ( अत एव ) अपत्यः पुत्र इति वाऽभिहितः।
(२३) ( तथागतः ) कुसुमश्रीः पूर्वदिशायां कुसुमविकासनामके ( बुद्ध ) क्षेत्रे ( शास्ता ) भवति। ( अयं ) पीत ( वर्णः )। ( हस्ताभ्यां क्रमशः ) पीतकुसुमं श्रीफलं च धारयन् विराजते। तद्गुणसम्पल्लक्षणैः सुशोभितं व्याप्तं च। कुसुमवत्तज्ज्ञानं विकसितम्। श्रीरिति तत्कारित्रम्। ते तथाविधया श्रिया सम्पत्त्या च समन्विता इति।
(२४) दक्षिणपूर्वदिशायां ब्रह्मव्यापिनि ( बुद्धक्षेत्रे ) ब्रह्मज्योतिर्विक्रीडिताभिज्ञो नाम तथागतः श्वेतवर्णश्च। ( स एकेन करेण ) पद्मम् अपरेण च प्रकाशपुञ्जं धारयन् ( विराजते )। अत्रापि तथागत ( शब्दस्य ) अर्थः पूर्ववत् अर्हन्नादयोऽपि पूर्ववदेव द्रष्टव्याः। ( सूत्र ) मध्ये बुद्धद्वयेन सह तथागतविशेषणयोगः, अतः पूर्ववर्तिषु पश्चाद्वर्तिषु च ( सर्वबुद्धेषु विशेषणमिदम् ) अवगन्तव्यम्। अत्र ब्रह्मेति ज्ञानम् प्रकाशबलं च, यतो हि स अत्यन्तं ज्योतिष्मान् बलान्वितश्च। विक्रीडितेति तत्कारित्रम्, यतो हि ऋद्ध्यादिभिः सत्त्वार्थः साधयते। चित्तेन ज्ञानेन वा ( हितादि- ) कार्याणां स्फुटम् उपायावगमः 'अभिज्ञा' इति।
(१३१)
(२५) दक्षिणदिशायां पद्मावत्यां ( बुद्ध- ) क्षेत्रे पद्मज्योतिर्विक्रीडिताभिज्ञस्तथागतो विराजते। स रक्त ( वर्णः ) ( हस्ताभ्यां ) पद्मं सूर्यं ( मण्डलं ) च धारयन्त्या मुद्रया तिष्ठति। अत्र पद्ममि ति तज्ज्ञानम्, यत् पद्मस्य ( जलस्य पङ्कस्य च ) दोषे निर्लिप्तं विरजस्कं विकसितं च। ज्योतिरिति तद्गुणः। विक्रीडितेत्यादि तत्कारित्रम्।
(२६) दक्षिण-पश्चिमदिशायां मणिवर्तने ( नाम बुद्ध ) क्षेत्रे ( तथागतः ) धनश्रीः शुक्लप्रकाशयुक्तः रक्तवर्णश्च ( तिष्ठति )। यः खलु ( हस्तयोः ) मुद्रया रत्नद्वयं धारयन् ( विराजते )। अत्र धनमिति ज्ञानम्, यच्चाक्षयं महाज्ञानमभिधीयते, तच्च चिन्तामणिगुण इव महागुणान्वितं च। ( अतः ) सर्वेच्छापरिपूरणं तावत् तत्कारित्रम्। श्रीरिति गुणः। सा ( श्रीः ) द्विविधा।
(२७) पश्चिमदिशायां प्रभावती ( नामके ) ( बुद्ध ) - क्षेत्रे ( तथागतः ) स्मृतिश्रीः ( शास्ता ) पीत ( वर्णः )। ( हस्ताभ्यां क्रमशः ) पुस्तकं खङ्गं च ( धारयन् विराजते )। अत्र स्मृतिरिति तज्ज्ञानम्, अविस्मृतमहाज्ञानधारण्या समन्वितत्वात्। अथवा स्मृतिरेव तेषां ( प्रमुखः ) गुणः, अचिन्त्यविमुक्तिगुणान्वितत्वाच्च। श्रीरेव तत्कारित्रमपि।
(२८) पश्चिमोत्तरदिशायां अनिमित्त ( बुद्ध- ) क्षेत्रे हरित ( वर्णः ) ( तथागतः ) सुपरिकीर्तितनामधेयश्रीः। हस्ताभ्यां तथागतोष्णीषं स्वशिरसि धारयन् ( विराजते )। नामधेयेति तज्ज्ञानम् , अक्षयं ज्ञानं बिभ्राणास्ते ( विद्यन्ते )। श्रीरिति तत्कर्म। सुपरिकीर्तितेति तद्गुणः। ( समस्तेषु ) लोकधातुषु प्रथितत्वमेव सुपरिकीर्तितत्वम्।
(२९) उत्तरदिशायाम् इन्द्रप्रभ ( बुद्ध- ) क्षेत्रे पीत- ( वर्णः ) ( तथागत ) इन्द्रकेतुध्वजराजः ( स्वीयहस्ताभ्यां क्रमशः ) रत्नकेतुं ध्वजं च धारयन् ( विराजते )। इन्द्रकेतुरिति तज्ज्ञानम्।
(१३२)
यथेन्द्रियैर्विषयाः परिज्ञायन्ते, तथा तज्ज्ञानेन धर्मताऽवगम्यते तया च सुशोभितत्वात् स केतुरिति। ध्वज इति तद्गुणः समस्तसत्त्वेभ्यः संसारविजयदायकगुणेन युक्तत्वात्। राजेति तत्कर्म, यत् सर्व कृत्यं निष्पादयति।
(३०) उत्तरपूर्वदिशायां लीलावत्यां ( बुद्ध- ) क्षेत्रे श्वेत ( वर्णः ) ( तथागतः ) सुविक्रान्तश्रीः भूमिस्पर्शमुद्रया स्थितः। 'सु' इति तज्ज्ञानम्, तच्च सम्यग्ज्ञानमिति। विक्रान्तेति तत्कर्म, येन सर्वसत्त्वानां मारदमनं क्लेशदमनं च सम्पाद्यते। श्रीरिति तेषां गुणः। ( तद्व्याख्यानं ) द्विविधं पूर्ववदेव।
(३१) अधः स्तन्यां दिशायाम् अक्लिष्ट ( नामके ) ( बुद्ध- ) क्षेत्रे श्याम ( वर्णः ) ( तथागत ) विजितसंग्रामस्तिष्ठति। ( सहस्ताभ्यां ) कवचं खड्गं च धारयन् ( विराजते )। संग्रामविजय स्तावदेतेषां कर्म ( अनेन ) सर्वसत्त्वानां कर्मक्लेशसंग्रामो विनिवार्यते। 'वि' इति तज्ज्ञानम् विजेतृत्वं च तद्गुणः स्व-परसंसारविजयक्षमत्वात्।
(३२) एभ्यः पुनः ( उक्तेभ्या बुद्धक्षेत्रेभ्यः ) बहिर्भागे पूर्वदिशायां श्रीवत्से ( बुद्ध- ) क्षेत्रे ( तथागतः ) विक्रान्तगामी ( शास्ता ) श्वेत ( वर्णः ) भूमि-स्पर्श ( मुद्रया ) अभयमुद्रया च ( विराजमानोऽस्ति )। विक्रान्तेत्यनेन तत्कारित्रं ( प्रदर्श्यते )। पूर्ववदेवास्य व्याख्यानम्। गामीति तज्ज्ञानम्, यच्च पर्यन्तावबोधः। श्रीरिति तद्गुणः पूर्ववत्।
(३३) दक्षिणदिशायाम् अवभासव्यूहनामके ( बुद्ध- ) क्षेत्रे ( तथागतः ) समन्तावभासव्यूहश्रीः पीत ( वर्णः ) स्थित। ( स्वीयहस्ताभ्यां क्रमशः ) सूर्य रत्नदण्डं च धारयन् ( विराजते )। समन्तावभासेति तत्कर्म, यतो हि तेन ज्ञानेन सत्त्वानाम् अविद्याया निवारणं क्रियते। व्यूहेति तज्ज्ञानम्, यदपरिमितं ( परिपूर्ण ) च। श्रीरिति गुणवैशिष्ट्यम्।
(१३३)
(३४) पश्चिमायां खलु दिशायां श्रीवत्से ( बुद्ध- ) क्षेत्रे ( तथागतः ) रत्नपद्मविक्रामी रक्त ( वर्णः ) ( तिष्ठति )। हस्ताभ्यां क्रमशः )। मणिरत्नं पद्मं च धारयन् ( विराजते )। अत्र रत्नेति तद्गुणः। पद्मेति तज्ज्ञानम्, यच्च मलरहितम्। विक्रामीति तत्कारित्रम्, पूर्ववदस्य व्याख्यानम्।
(३५) उत्तरदिशायां रत्न ( भूमिबुद्ध ) -क्षेत्रे रत्न पद्मसुप्रतिष्ठितशैलेन्द्रराजः तथागतः अर्हन् सम्यक्संबुद्धः विराजमानो यापयति। पद्मं सिंहः रत्नं चन्द्रश्च तेषामासनम्। तेषां ( वर्णः ) आकाशवन्नीलम्। स हस्ताभ्यां मेरूपर्वतमुत्थाप्य धारयति।
( अनेन प्रकारेण ) आवाहनं कृत्वा प्रतिदेशना करणीया। साधकः तथा ( सपरिवारान् सर्वबुद्धान् सम्मुखस्थान् ) विदित्वा प्रतिदेशयेत्। तथागतेत्यादिपदानामर्थः पूर्ववदवगन्तव्यः । अत्र रत्न पद्मेत्याद्यासनैः तद्गुणः कार्य ज्ञानं च प्रदर्श्यन्ते। अत्र अन्येभ्य एतेषामासन ( वैशिष्टयमपि ) ज्ञातव्यम्। क्वचिच्चन्द्र इत्यप्युपलभ्यते तेन तत्कर्मेति ज्ञातव्यम्। किन्तु ( पद्ममिति ) सर्वेषां ( बुद्धानां ) सामान्येनासनम् । शैलेन्द्रेति तज्ज्ञानं गुणश्च। पर्वतराज इव तेषामचलं ज्ञानम्, मेरूरिव च तद्गुणः। राजेति तत्कारित्रम्। तेभ्यः श्रद्ध्या त्रिभिः ( कायवाक्चित्तैः ) नमस्कारो विधेयः। इमे ( सर्वे ) पदार्थाः। सर्व एवेमे बोधिसत्त्वेभ्यः औपचारिकमात्रम् आपत्त्यभावात्। अनागतानां कृतेऽयमपवादः। ( एवं ) विचारयन् प्रतिदेशयेत्।
तदित्थं नमस्कारव्याख्यानसमनन्तरमिदानीं तेषां सर्वेषां समक्षं देशना ( विधेया )। तदर्थमेषां बुद्धानां स्वाभिमुखं ध्यानाकर्षणार्थ प्रार्थना 'एवं प्रमुखे' त्यादिना कथिता। अत्र ( प्रतिदेशना-काले ) आत्मनः जानुद्वयं भूमौ प्रतिष्ठाप्य हस्ताभ्यां शिरसि अञ्जलिं बद्ध्वा सादरं ( पूर्वोक्तं ) कथयित्वा तान् स्वसाक्षिणः अवगच्छेत्। अत्र एवमिति पञ्चत्रिंशद् ( बुद्धा ) एव।
(१३४)
( एवमिति ) अनेन विनेयान् प्रति ध्यानाकर्षणमेव। अन्यत्र ( प्रमुखेति ) आदिना तेषां सर्वेषां साक्षीकरणं नाम। पूर्वेत्यादिना समस्तलोक ( व्यापिन्यः ) दशदिशः ( प्रदर्श्यन्ते )। आकाशव्यापिनः सर्वे बुद्धा आलम्बनीयाः। तथागतेत्यादीनामर्थः सुगमः। 'यावन्तः' इति संख्याया असंख्येयत्वमिति। 'यापयन्ति' इति महाकृपया ( सर्वदा ) सत्त्वानामवलोकनं पालनं चेति। 'ध्रियन्ते' 'तिष्ठन्ति' इति यावत्संसारमवस्थानम्। भगवन्त इति सौभाग्यशालित्वं चतुर्मारदमनं चेति। 'ते' इति सर्वे पञ्चत्रिंशद् ( बुद्ध- ) आदयः। 'माम्' इत्यत्र स्वनामोच्चारणं कर्तव्यम्। 'समन्वाहरतु' इत्यनेन चित्तान्यथात्वं न भवेदित्येतदर्थम् अध्येषणा।
द्वितीयदेशनायाः कालदृष्ट्या निर्देशं कर्तु 'मया ( अस्यां ) जातौ' इत्यादिकमभिहितम्। 'मया' एतावत्कालपर्यन्तमेतावत् पापं कृतम् इत्येवं मनसि विचिन्त्य कौकृत्यमनुभवितव्यम् । अत्र 'अस्यां जातौ' इति इह जन्मनि कृतपापानां स्मरणमिति। ततः पूर्वमतीतमुपादायापरिमितानादिकालपर्यन्तं संसारः। अनादिकाल इति सामान्यतया सांसारिकाणां जीवानामाकाशवदनन्तत्वं नाम। तत्र संसरणमिति चक्रवत् पुनः पुनरूत्पादविनष्टत्वमिति। तदपि यथा पूर्वजन्मसु संसरणं तथैव इह जन्मन्यनागते चापि जन्मनि ( संसरणम् ) इति। 'अन्यासु वा जातिषु' इत्यनेन तिर्यगादिषड्योनिषु ( जन्मग्रहणं प्रदर्शितम् )।
तृतीयः खलु स्वभावेन स्वपापदेशनमित्थम्- ' पापकम्' इत्यादिना। तदपि 'मया अद्य यावद् एतावत् पापं कृतम्' इत्येवं विप्रतिसारपूर्वकं मानसिकं खेदं प्रकटयन् देशना कर्तव्या- अयमेवास्यार्थः। पापान्यपि कर्माण्यविद्यामाश्रित्य रागादिभिस्त्रिभिः प्रत्ययैः कायादिभिस्त्रिभिर्द्वारैः सम्पाद्यन्ते। तानि कर्माण्यपि त्रिविधानि- कृतानि असञ्चितानि, अकृतानि सञ्चितानि, कृतानि
(१३५)
सञ्चितानि चेति त्रीणि पापानि। एतानि सर्वाणि ( पापानि ) सूत्रानुसारं ज्ञातव्यानि। अत्र पापमित्यनेन ( तदेव पापं ग्रहीतव्यं येषाम् ) आभासः दुर्गतिगमनात् पूर्व भवति। दुर्गतिफलत्वेनोत्पन्नत्वात् सद्भिर्गीर्हेतत्वाच्च अकुशलानीत्युच्यन्ते। तान्येव कर्माणि यानि ( कायादिस्कन्धेषु ) लिप्तानि वासितानि च भवन्ति। कायादिभिः कृतानि प्राणातिपातादि दश ( अकुशलानि ) भवन्ति। ( कर्मणा) गुरूलघ्वादिभेदः ज्ञातव्यः। इमान्यपि त्रिविधानि- साक्षात् स्वयं कृतानि, परैः कारितानि, कृतानुमोदितानि चेति। ( एतेषां ) त्रयाणां समानो विपाकः। कृतमिति सम्पादितं कर्म। सर्वाण्येतानि महायाने समुपवर्णितान्येव। इमानि सामान्यतः सर्वसाधारणानि। महायाने समुपवर्णितान्येव। इमानि सामान्यतः सर्वसाधारणानि। विशेषतः अदत्तादानादिषु गुरूतरेषु पञ्चसु अत्र त्रीण्येव निर्दिष्टानि। सत्त्वहिताय अष्टविधचैत्येषु समर्पितं सुवर्णादिकं तावद् धनं ( स्तौपिकम् ) इति। संघः अभेद्यत्वात्। श्रावक-बोधिसत्त्वभेदेन ( संघस्तावद् द्विविधः )। तत्रापि प्रथमे ( बोधिसत्त्व- ) संघे ( बोधिसत्त्वानां ) द्वयमित्यादि ( आवश्यकम् )। द्वितीये ( श्रावकसंघे ) चतुर्णा भिक्षूणां ( सामग्र्यं ) आवश्यकम्। तत्रापि गुरूतरं तावत् चतुर्दिगवस्थितस्य संघस्य अतिथ्यादीनां च धनस्य साक्षादपहरणं लुण्ठनं चेति। अत्यन्तं गुरूतराणि पञ्चानन्तर्याणि ( कर्मणि ) भवन्ति। तान्यपि ( अतो हेतोः ) आनन्तर्याणि ( यतः ) तेषां ( फलरूपेण प्राप्तानां ) दुःखानां मध्ये न भवत्यन्तरालः, न च भवति पापतत्फलानां कश्चित् सीमा। सहैव निर्दोषत्वमल्पदोषत्वं चापि ज्ञातव्यम्।
अपि च, परप्राणातिपातादीनां दशकुशलानां कर्ता ( पुरूषः ) तस्मिन्नेव मासे निःसंकोचं प्रतिदेशनायां प्रविशेदित्यपि ज्ञेयम्। इमान् आदीनवान् निर्देष्टुं कर्मावरणानीत्युक्तानि ।
(१३६)
तथा हि- इत्येवं दाहकरान् विपाकान् अनुविचिन्त्य स्वचित्तदोषान् अपसारयन् अत्यन्तं विप्रतिसारेण सह प्रतिदेशयेत्। अयमेव तावद् वाक्यार्थः। अत्रापि एतेषां कर्मणामावरणस्य तात्पर्य ज्ञानस्य स्पष्टताया बाधकमिति।
कथमेषां विपाकः? नारकीयसत्त्वादयोऽष्टाभिरक्षणैः समन्विता भवन्ति, ( यतो ह्यस्यामवस्थायां ) नास्ति सद्धर्माचरणस्यावसरः। केचन तदानीन्तनैर्दुःखै ( पीडिता भवन्ति ) , केचन पश्चात्तनैरिति । इत्थम् अवसराभावान्नास्ति तेषां कॄते क्षणसम्पत्।
तेषु ( प्रथमः ) तावन्नरक आत्यन्तिकैर्दुःखैरन्वितः। ( तेऽपि द्विविधाः- ) भूयिष्ठा अभूयिष्ठाश्च। तयोः प्रथमे तावत् शीताः ( अष्टौ नरकाः, अष्टौ च ) उष्णा इत्येवं षोडशधा भवन्ति
(१३७)
( नरकाः )। द्वितीयतश्च स्थान-दृष्ट्या चेमे भवन्ति द्विप्रकारकाः। सर्वे इमे महास्मृत्युपस्थानसूत्रानुसारमवगन्तव्याः। ( सर्वे तावदिमे नरका ) कृतातिमात्रदुष्टकर्मणां फलानि।
तिर्यञ्चोऽज्ञानिनो भवन्ति। ते जरायुजादियोनिषु सम्भवन्ति। ते ( तिर्यञ्चो ) अपि द्विविधा भवन्ति । आकारेण तावच्चतुर्विधाः। ते चाधमयोनिजाः। मध्यमकर्मिकास्तावत् प्रेताः। इष्यमाणान्यप्यन्नादिकानि तैर्नोपलभ्यन्ते। दुष्टो यमलोकस्तेषां स्थानम्। तेऽपि द्विधा ज्ञातव्याः। एतासां तिसृणां दुर्गतीनां हेतवः प्रायेण प्राणातिपात-मत्सर- मोहजादिकर्माणीत्यवगन्तव्याः। अत इमे त्रयः 'दुर्गतयः' इत्युच्यन्ते।
अन्ततश्च लघूनां दुष्कर्माणां फलं प्रत्यन्तप्रदेशे ( जन्म )। इम एव मनुष्यदेवेषूपपन्नानामक्षणाः। दुष्टगतिजनकत्वाद् दुर्गतयः। यस्मिन् प्रदेशे धर्मादीनां ( सर्वथा ) अभावः स प्रत्यन्तः ( प्रदेशः )। देशगतोऽयं प्रत्यन्तः। म्लेच्छा इत्यज्ञानिनो मूडाः कुत्सितभाषा भाषिणश्च। अथवा प्रत्यन्ता म्लेच्छा इत्यपि केचिद् अभिप्रयन्ति। तेऽप्यनेन दुष्कर्मणां सम्पादनेन दुर्गतिषु गच्छन्ति। दीर्घायुषो देवा बहुलपुण्यत्वेन सह गादाहङ्कारिणो भवन्ति। तेऽपरिमितकालं यावत्तत्र तिष्ठन्ति। ते मिथ्यादृष्टयोऽपि भवन्ति, प्रायशो रूपधातौ निवासं कुर्वन्ति। अथवा दुष्टस्य ( चित्तस्य ) निरोधाभ्यासं कृत्वा निरोधसंज्ञिनो ( असंज्ञिनः ) भवन्तीत्यप्युच्यते। सर्वे ते पश्चान्मरणाद् नरकेषु गच्छन्ति। ( दैवात् ) मनुष्ययोनावपि जन्मसम्भवे रूपाद्याधिपत्यकारिषु चक्षुरादिपञ्चसु षट्सु वेन्द्रियेषु दोषसद्भावात्ते सद्धर्मार्थस्य न ज्ञातारो भाग्यवन्तश्च न भवन्तु। तेषु एकस्य द्वयोस्त्रयाणां चतुर्णां पञ्चाणां षण्णां व ( इन्द्रियाणां ) विकलत्वं सम्भाव्यते। ( तेषु ) मानसेन्द्रिये दोषावस्थानमत्यन्तं दुर्भाग्यकरम्। सम्यग्दृष्टिविकलानां सत्त्वानां 'न सन्ति बुद्धादयः' इत्यध्ववसायिनी विपरीतदृष्टिरेव उच्छेददृष्टिः। इयं सर्वाकुशलेषु महासावद्या गुरूतरा। शाश्वताद्यन्यदृष्टयोऽपि ( मिथ्यादृष्टयः ) सन्ति।
(१३८)
इत्येवमष्टौ भवन्ति ( अक्षणाः )। बुद्धानां ( लोके ) प्रादुर्भावः सामान्येन भवति, तथापि ते बुद्धस्य ( लोके ) आगमनकाले न केवलं नस्मकारादिकं न कुर्वन्त्यपितु अपवादमपि कुर्वन्ति। अपि च, इदमेवाभिलक्ष्य बुद्धशून्ये स्थाने जन्मापि अष्टमः ( अक्षणः )।
इत्थं ( पापानां ) स्वरूपमभिधाय कस्मिन् विषये ( स्थाने ) प्रतिदेशयितव्यमितीदं 'बुद्धे' त्यादिनाऽभिधीयते। स एव सम्यक् साक्षी, न त्वन्यः। अत्र भगवान् बुद्ध इति शाक्यमुनिरित्येवमादयः। सर्वज्ञत्वात्ते ज्ञानभूताः, शुभाशुभाना सुस्पष्टावगमाद् 'चक्षुर्भूताः'। साक्षिभूता इति शुभाशुभयोर्विशेस्यावबोधका इति। शब्दभ्रान्तेरभावात्ते प्रमाणभूताः, अविसंवादका इत्यर्थः। मनोज्ञानेन सर्वज्ञातृत्वात्ते ज्ञतारः। प्रज्ञाचक्षुषा सर्वदर्शकत्त्वात्ते विपश्यकाः ( विदर्शकाः ) इति। 'अग्रतः' इत्यनेन साम्प्रतिकः स्वसम्मुखीभावः।
केन विधिना प्रतिदेशयितव्यम् ? 'आविष्करोमि' इत्यादिना। अर्थात् सम्यक्तयेदं ( कथनं ) न तु सम्प्रलापादिरूपेण। अत्र वचनेन व्याहरणमेवाविष्करणाम्। ( देशना अप्रतिच्छादनेति ) मनसा पृथक्शः प्रतिदेशनेति। इममेव ( अर्थं ) स्वीकृत्य वाक्ये 'अप्रतिच्छादनम्' इति। 'न प्रतिच्छादयामि' इति विशदीकरोमीत्यर्थः। एवंविधया प्रतिदेशनया ( सर्वेभ्यः पापेभ्यः ) विशुद्धिभीवष्यति।
एवं बलद्वयं प्रदर्श्य सम्प्रति प्रत्यापत्तिबलेन पापदेशनार्थम् "आयत्यां संवरमापद्ये" इत्युक्तम्। तदपि पौर्विकं ( पूर्वकलकृतं पापकर्म संस्मृत्य ) विप्रतिसारं करोति। इदानीं प्रतिदेशयति, अनागते ( पापस्य ) अकरणं प्रतिजानाति। प्रतिदेशनायां ( कृतायां ) यदि पुनः ( पाप- ) आचरणं क्रियेत तदा पापवृद्धिरेव स्यात्। यथा ( भोजनोदकादिना यदि ) रोगेण हानिर्भवेत् तदा सम्प्रति भोजनोदकादिकम् अवरोधनीयम्। अतोऽनन्तरमपि दश अकुशलादिदोषणां प्रवाहो विच्छेदनीयः, अनागते च ( एवंविधं पापं ) अनाचरितुं संवरः प्रतिज्ञा वा ग्रहणीया। ( अनेन विधिना समस्तानां ) पापानां विशुद्धिर्भविष्यति।
(१३९)
इत्येवं बलत्रयं प्रदर्श्य सम्प्रति चतुर्थस्य प्रतिपक्षसमुदाचारबलस्य प्रतिपादनार्थम् 'बुद्धाः' इत्यादिकम् ( उक्तम् )। अत्र सर्वेषां पापानां पुन पुनः वृद्धिरोधनार्थ पुण्यसंचयार्थ च सन्ततिस्थकुशलस्य प्रदर्शनं तावदौषधिरिव ज्ञेयम्। अत्र बोधिसत्त्वस्य समस्ताः परिणामनाः षट्पारमिताप्रतिसंयुक्ता भवन्ति। आभिः परिगृहीतत्वादिमाः पारमितासदृशा एव। सा ( परिणामना ) अपि द्विविधा। तत्र सोत्तरा सर्वानुकूला। ते ( परिणामनाकर्त्रा ) भद्रं जन्म लब्धमित्यपि ज्ञातव्यम्। त्रैधातुकयोनिषु स देवो मनुष्यादिर्वेति। "दानं ...अन्तशः" इति दानानुकूल्यम्। तत्रोत्तममपि ( दानं ) ज्ञातव्यम्। तिर्यग्योनिरिति श्वानादयः। लघुगोचरोऽयम् महत्तमोऽपि ग्रहणीयः। "आलोपः" इति लघु वस्तु, महदपि ज्ञातव्यम्। शीलमिति शीलानुकूल्यम्, ( यथा- ) संवरशीलादीनि ( त्रिविधशीलानि )। अत्यन्तावदातत्वाद् विशुध्युत्पादाद् वा कुशलमूलान्युच्यन्ते। क्षान्त्यनुकूल तावद् ब्रह्यचर्यम् तच्च पापविरहितं सत् मैत्र्यादिषु स्थित्वा आक्रुष्टस्य अकरणेन अर्थाद् अप्रत्याक्रुष्टेन श्रमणधर्मेण युक्तम्। रागरहितैस्तावद् आक्रुष्टकर्माणि न करणीयानि। वीर्यानुकूल्येन भव्यसत्त्वाः परिपाच्यन्ते। महावीर्ये स्थितेन मया पञ्चाभिज्ञाभिः सर्वसत्त्वानां विपरीतदृष्टिनिवारणं विपरीतमार्गादपसारणं कृत्वा ( चित्त ) -सन्ततिं परिपाच्य सन्मार्गाधिरूदाः क्रियन्ते। ( अर्थात् ) मुक्ताः कृतार्थाः क्रियन्त इत्येवं ज्ञातव्यम्। ध्यानानुकूल्येन प्रणिधि-प्रस्थानौ ( चित्तोत्पादौ ) संवृतिपरमार्थो ( बोधिचित्तोत्पादौ च )
(१४०)
क्रियेते। अत्र ( चित्तस्य ) एकाग्रतया अवस्थानं तावद् अविपर्यस्तो मार्ग इति।
अनुत्तरज्ञानानुसारम् अर्थात् प्रज्ञापारमितानुसारं परिणामयितव्यम्। इदमनुत्तरज्ञानं तावदद्वयधर्मताऽवबोध इति। ( अयमेव ) ज्ञानसम्भार इत्यपि। ( षट्सु पारमितासु पूर्ववर्तिन्यः ) चतस्रः ( पारमितास्तु ) पुण्यसम्भारे संगृह्यन्ते। पञ्चमी ( ध्यानपारमिता ) उभयोः ( सम्भारयोः संगृह्यते )। षष्ठी ( प्रज्ञापारमिता ) तद्भिन्नत्वेन ( ज्ञानसम्भारे अभ्युपगता ) भवति। ( इत्येवम् इमः ) षट्पारमिताः द्वयोः सम्भारयोः ( यथायथं ) संगृह्यन्ते।
एतासां षण्णां पारमितानां नयः कीदृशः? एतदर्थ ( मूले ) 'एकध्यं पिण्डयित्वा' इत्यादिकमुक्तम्। पृथक्-पृथक् कुशलानां वस्तूनां चैकत्र सम्पिण्डनं क्रियते, सम्मिश्रणं ( मेलनं ) चाप्युच्यते। अविच्छेद इति संवरः, ( अर्थात् ) प्रकृतितः असम्भेदापादनम्। क्व परिणामयेत् ? अनुत्तरबुद्धेषु ( तेषां समक्षं परिणामयेत् )। सा ( परिणामना ) अनुत्तरा श्रावकादिभ्यो विशिष्टत्वात्। निरूत्तर इति बुद्धः, लोकमतिक्रम्य स्थितत्वात्। सोऽपि द्विविधः। सर्वेभ्य उत्तरः बोधिसत्त्वः। ( अतः ) बोधिसत्त्वो गुरूः अर्थादुत्तरः। तस्मादपि गुरूः ( उत्तरो व ) भगवान् बुद्धः तदुत्तरस्य कस्याप्यभावात्। स एव बोधिसत्त्वमहासत्त्वः, ( स ) एव हि सर्वज्ञः। सर्वेभ्य इयं परिणामना तावत् परिशुद्धत्रिमण्डलेत्यप्युच्यते, यश्चानुपलम्भ एव। इयं खलु बोधिसत्त्वानां सामान्यपरिणामना। अनुत्तरबुद्धत्वावाप्यते परिणामना तावदुपायकौशलम्। एतत्परिणामनार्थ 'यथा' इत्याद्युक्तम्। यदि नास्ति स्वयं परिणामनाज्ञानं तदा अनेन ( पूर्वोक्तविधिना ) परिणामनं प्रणीतेत्यादिना सादरं ( परिणामयितव्यम् )। त्रैकालिकबुद्धैः कृतायाः परिणामनायाः सदृशी परिणामना मयाऽपि सादरं करणीयेति
(१४१)
महाववादः। त्रिस्कन्धानुसारं परिणामना तावत् 'सर्वं पापं प्रतिदेशयामि' इत्यादिना ( कथिता )। अयं पापदेशनास्कन्धः, कुशलाकुशलानुमोदनास्कन्धः विषयप्रस्तुतिदृष्ट्या आनन्द - स्कन्ध एव। महापरिनिर्वाणमनधिगन्तुं सर्वबुद्धानां ( प्रार्थना ) धर्मचक्रं प्रवर्तयितुं चाध्येषणा ' याचनास्कन्धः '। एभिस्त्रिभिः ( स्कन्धैः ) अपरिमितः पुण्यस्कन्धः संचीयते।
एतदनन्तरं प्रणीधानम्। बुद्धत्वमवाप्तुं प्रणिधानकाले भवतु अनुत्तरज्ञानमित्याकारकं ( प्रणिधानं क्रियते ) सर्वपापप्रतिपक्षभूतं शरणगमनं श्रेयः। अत्रापि शरणगमनस्य ( अभिप्रायस्तावद् ) 'नरोत्तमा जिनाः' इत्यादिना ( निर्दिष्टः ) । ( शरणगमनादिकं तु ) सामान्येन पूर्वं प्रदर्शितम्। 'तथापि' इति बुद्धमात्रमेव शरणगमननिष्ठेति ( नान्यत् )। ( धर्मस्य संघस्य च शरणगमनं) नात्र कथितम्। अत्र 'नरोत्तमाः' इति मनुष्यरूपधारी निर्माणकायः। 'गुणाः' इति दशबलादयो बुद्धगुणाः। 'वर्णान्' इति विशेषेण स्तवः। अनन्तेति पञ्चत्रिंशद् ( बुद्धादयः )। सागरोऽत्र उपमारूपेण समुपस्थापितः, यश्चाक्षयः। अञ्जलि- ( शब्देन ) काय- ( प्रणामः ) ( द्योत्यते )। वाक्चित्ताभ्यां हि शरणगमनं निष्पद्यते।
चतुर्भिश्च बलैरेवं सर्वपापं विशुध्यति।
सम्भारपरिपूर्त्त्याऽतो बुद्धत्वाप्तिं प्रजानताम्।।
संक्षेपेणात्र चाख्यातं ज्ञेय सूत्रैश्च भूयसा।
ज्ञात्वैवं बलयत्नाभ्यां कर्त्तव्या पापदेशना।
प्रशस्या कायरत्नाप्तिः कौसीद्यं मिद्धमुत्सृजेत्।
स्वमनः स्वेन दृष्ट्वाऽहो मानं स्त्यानं न च क्रियात्।।
(१४२)
कृपाबलात् सत्त्वहिते मदीया
बोध्यापदां देशनवृत्तिरेषा।
तज्जामलैः पुण्यमयैर्हि सत्त्वाः
नागस्य राजेव भवन्तु बुद्धाः।
सर्वदृष्टिप्रहाणाय यः सन्मार्गमदेशयत्।
सिंहवन्मारदमकस्तं नमस्यामि गौतमम् ।।
बोध्यापत्तिदेशनावृत्तिः महाचार्येण आर्यनागार्जुनेन विरचिता समाप्ता ।।
भारतीयमहपण्डितेन शान्तरक्षितेन भोटदेशीयानुवादकेन ञेवा देवघोषेण चानूदिता संशोधिता च।
(१४३)