बोधिसत्त्वादिकर्मिक-मार्गावतार-देशना
Technical Details
बोधिसत्त्वादिकर्मिक-मार्गावतार-देशना
परमगुरवे नमः।
संसारे दुर्गतिघ्नं च निर्याणाभ्युदयप्रदम्।
दशदिक्सर्वरत्नं च गुरुपादं नमामि च॥१॥
इह यः स्वभावतो महाकरुणाप्रज्ञावान् महायानगोत्रीयः, यश्च पूर्वजन्मसु महायानभावुकः पुरुषः संसारसुनिर्विण्णचित्तः मरणानुस्मृतिकश्च समस्तबाह्याध्यात्मिक-वस्तुस्वल्पाभिनिवेशः, 'एकसत्कल्याणमित्रत एकाविपर्यस्तमार्गश्रवणे किं न स्यात्? अहमेकं सन्तं अन्वेष्यामि' - एवं चिन्तयन् सः कल्याणमित्रानुरुपं गुरुमन्विष्य अन्यत्र निर्दिष्टवत् त्रिशरणगमनविशिष्टः, अनन्तगतीः विषयीकृत्य, सदाशयः, अनुत्तरमहाबोधावसाधारणचित्तोत्पादः, सदध्याशयः, मायाशाठ्यरहितबोधिप्रस्थानमहाचित्तोः बोधिसत्त्वशीलस्य त्रिशिक्षां सुष्ठु गृह्णीयात्। ततः श्वश्वपचदाससंज्ञकस्य मायाशाठ्यरहितस्य तस्य बोधिसत्त्वस्य संभारमार्गीयत्वाद् अहोरात्रं काय-वाक्-चित्तसमस्तकर्माणि न व्यर्थानि भवन्ति।
एवं तेन चित्तेन भोजनमात्राज्ञानम्, इन्द्रियद्वारसंवरणम्, अणुमात्रेऽप्यवद्ये भयदर्शनम्, अहर्निशं योगञ्च आपादयेत्। ततः श्वासप्रश्वासमपि परार्थम् अभिलषितुकामः सः पञ्चमप्रहर उत्थाय, उच्चारप्रस्रावत्यागादिचर्या सुनिर्वर्त्य मध्यदेशप्रत्यन्तजनपदविशेषे स्नात्वा, समस्तगतीः अवलम्ब्य चतुरप्रमाणैर्बोधौ चित्तमुत्पाद्य, त्रिरत्नप्रतिमासमक्षं सुलिप्य सुगन्धपुष्पप्रकरं सुविकीर्य तदग्रतो भूमौ जानुनी संस्थाप्य, कृताञ्जलिः दशदिग्लोकधात-समस्तबुद्ध-समस्तधर्ममहायानसंघसमक्षं च असंख्यानिर्वाच्यकायव्यूहान् निर्माय तेषाञ्चैकैकम् चरणयोः सुप्रणमेत्। तान् अपरिमितविपुलाप्रमेयामिषपूजया पूजयेत्।
ततः प्रतिकायं अनिर्वचनीयमुखानि प्रतिमुखं चानिर्वचनीयजिह्वा निर्माय, स्वपरपापान् अशेषान् दिशेत्। स्वपरपुण्यानि चानुमोदयेत्। अचिरम् अभिसम्बोधिप्राप्तान् बुद्धान् भगवतो धर्मचक्रप्रवर्तनाय अध्येषयेत्। ये धर्मचक्रं प्रवर्त्य आयुः संस्कारान् परिजिहीर्षन्ते, ( तान्) आसंसारम् अपरिनिर्वाणाय प्रार्थयेत। तेषां समस्तकुशलानाम् अनुत्तरसम्यक्सम्बोधौ परिणामनां कुर्यात्। यथा सूत्रे आगतानि तथा प्रत्यङ्गपदानि सविस्तरं पठेत्।
ततः सप्तपूजानन्तरं सर्वसत्त्वान् अवलम्ब्य त्रिशरणगमनपदानि त्रिः पठेत्। ततः बोधिचित्तमुत्पादयेत्, यथा विधौ प्राप्यते तथा च कुर्यात्। अन्तशश्च एवम्-
बुद्धं च धर्मञ्च गणोत्तमं च
यावद्धि बोधिं शरणं गतोऽस्मि।
दानादि-कृत्यैश्च कृतैर्मयैभिः
बुद्धो भवेयं जगतो हिताय॥२॥ इति त्रिः पठेत्।
ततः स्वकायार्पणं, ततः महापुरुषाणां धर्मनये महारथिनां च मार्गे अवस्थानाय प्रतिजानीयात्। ततः स्वशय्यायां पर्यङ्कमाभुज्य गुरुभट्टारक-श्री-बोधिभद्रकृत-समाधि-(सम्भार) परिवर्त्तोक्तानिनवाङ्गानि ज्ञात्वा शमथविपश्यनायोगं भावयेत्। सोऽपि लयौद्धत्यादिसमस्तदोषान् प्रहाय भावनीयः।
ततः चक्षुरुन्मील्य, निःश्वस्य, बाह्याभ्यन्तरवस्तुदर्शने-'अहो! आश्चर्यम्, अहो! आश्चर्यम्। आकाशोपमानुत्पादतः प्रतीत्यसमुत्पादबलेन नानाभासेयमवस्थितिः अयम् ' अहो! आश्चर्यम्' इति विचिन्त्य अष्टमायोपमरुपेण जानीयात्। ततो महाकरुणचित्तेन समस्तादृश्यसत्त्वेभ्यो धर्मदेशनार्थ यथाबोधि महायान-सूत्रपाठं कुर्यात्।
ततः भोजनावसरे-'षट्त्रिंशदशुचिपरिपूर्णेन असारेण नाशपर्यवसितेन कायेनानेन तद्बुद्धधर्मकाय-सारमन्वेषयामि' इति विचिन्त्य न पुष्ट्यर्थ, नापि रसासक्तया यानधिया भोक्तव्यम्। भोजनमात्रापि ज्ञातव्या। अष्टाङ्गचिकित्सातन्त्रे-
अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्।
आश्रयं पवनादीनां चतुर्थमवशेषयेत्॥३॥ इति।
तद्भोजनं चतुर्भागेषु विभाज्यम्। प्रथमो भागस्त्रिरत्नेभ्यो गुरवे चार्पणीयः। एकं भागं स्वयमेव भुञ्जीत्। एको भागो बालेभ्योऽनाथेभ्यश्च देयः। एकश्च भागः कुक्कुरकाकादितिर्यग्भ्यो देयः। कैश्चिच्चर्यासङ्ग्रहोऽन्यथापि कथितः। अन्यो नयस्तु चर्यासङ्ग्रहप्रदीपोक्तवत्।
ततः पूर्वाह्णयामेष्वपि पञ्चमप्रहरे यथोक्तवत् सर्वं कार्यम्। मध्याह्ने सन्ध्यायां रात्रेः प्रथमे मध्ये च यामे सर्वथा यथोक्ताः सर्वे विधयः पूरयितव्याः।'तादृग्योगिनस्तस्य निद्राशयनकालनियमो नास्ति' एवं गुरवो वदन्ति। तादृग्योगिनः सम्भारमार्गीयाः, मोक्षमार्गीयकुशलमूलोत्पादकामआदिकार्मिका अहोरात्रं व्यर्थमनवस्थिताः, तादृग्भ्य आपत्तिदोषः कथं भवेत्। यदि दुर्वासनाबलाद् आपत्तिर्भवेत्, एवं शीघ्रम् प्रतिकुर्यात्।
एवं तेषां षड्यामानाम् अष्टादशधा विभागे कृते सति चतुःपञ्चाशत्क्षणा भविष्यन्ति। बोधिसत्त्वा अपि उत्तममध्यमा ( ऽधमाः) नव स्युः।गुरुपदेशतः प्रतिपत्त्युपायान् जानीयात्।
श्रेष्ठैः समाख्याततमं सुमार्ग बोधिप्रभाद्यैः कलितश्च शिष्यैः।
गत्त्वा महायानकुलाभिजातैः प्राप्यं पदं तद् द्विपदेन्द्रकस्य॥४॥
गुरुर्हि भट्टारकबोधिसत्त्वः बोधिप्रभैर्भिक्षुवरैः प्रणुन्नः।
अनूदिता शीलजयेन भिक्षुणा चरेन् महायानपथानुयायी॥५॥
'बोधिसत्त्वादिकर्मिकमार्गावतारदेशना' आचार्यदीपङ्करश्रीज्ञानविरचिता समाप्ता॥
तेनैव पण्डितेन लोकचक्षुषा च जयशीलेन अनूदिता॥