चित्तोत्पादसंवरविधिक्रमः
Technical Details
चित्तोत्पादसंवरविधिक्रमः
नमो मञ्जुश्रिये कुमारभूताय
सर्वदुर्गतितो हीनं सर्वावरणवर्जितम्।
बोधिचित्तं नमस्यामि सम्बुद्धपददायकम्॥१॥
सम्बुद्धं चापि सद्धर्म बोधिसत्त्वगणानपि।
लिखामि बोधिसत्त्वानां यथावद् संवरक्रमम्॥२॥
तत्र प्रथमं सर्वबुद्ध-बोधिसत्त्ववन्दना-पूजादि-विधिपूर्वकम्, कल्याणमित्रे शास्तृसंज्ञाम् उत्पाद्य एवम् अध्येषितव्यम्- यथा पूर्वतथागतार्हत्-सम्यक्सम्बुद्धैः महाभूमिस्थितबोधिसत्त्वैश्च पूर्वम् अनुत्तरसम्यक्सम्बोधौ चित्तोत्पादः कृतः तथा एवं नाम्नो ममापि आचार्योऽनुत्तरसम्यक्सम्बोधौ चित्तम् उत्पादयेद् इति त्रिः वदेत्।
एवम् अध्येष्य त्रिशरणगमनम्- समन्वाहर आचार्य। अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं द्विपदानां श्रेष्ठं बुद्धं भगवन्तं शरणं गच्छामि। समन्वाहर आचार्य। अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं धर्माणामुत्तमं शान्तविरागं धर्म शरणं गच्छामि। समन्वाहर आचार्य। अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं गणानामुत्तमं आर्यबोधिसत्त्वावैवर्तिकबोधिसत्त्वसंघं शरणं गच्छामि इति त्रिः वदेत्।
एवं विशिष्टं शरणगमनं कृत्त्वा भगवन्तं शाक्यमुनिं, दशदिशां सर्वबुद्धान् बोधिसत्त्वांश्च मनसा आलम्ब्य प्रणमनं यथालब्धं पूजादिकं च कुर्यात्। आचार्यम् सम्मुखं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकासनोऽपि वा कृताञ्जलिः चित्तम् उत्पादयेत्।
दशदिगवस्थिताः सर्वे बुद्धबोधिसत्त्वाः! माम् समन्वाहरत। आचार्य! समन्वाहर। अहमेवंनामा- अस्यां जातावन्यासु वा जातिष्वनवराग्रे वा दान-शील-भावनायं कुशलमूलं मया कृतं स्यात् कारितं क्रियमाणं वा अनुमोदितं भवेत् तैः कुशलमूलैः यथा पूर्वकैः तथागतार्हत्सम्यक्सम्बुद्धैः महाभूमिप्रविष्टैः महाबोधिसत्त्वैश्च अनुत्तरसंयक्सम्बोधौ चित्तमुत्पादितं तथा एवंनामा अहमपि एतत्कालप्रभृति यावद्बोधिमण्डं अनुत्तरसम्यक्महासम्बोधौ चित्तम् उत्पादयेयम्। अतीर्णान् सत्त्वान् तारयेयम्। अमुक्तसत्त्वान् मोचयेयम्। अनाश्वस्तान् आश्वासयेयम्। अपरिनिर्वृतान् परिनिर्वापयेयम्। एवं त्रिः वदेत्।
तथैव आचार्याभावेऽपि स्वयं बोधिचित्तोत्पादविधिः- तथागतशाक्यमुनिं दशदिक्सर्वतथागतांश्च मनसा विचिन्त्य वन्दना-पूजादिविधिं च कृत्वा अध्येषणासहितमाचार्यपदविरहितशरणगमनादिक्रमं पूर्ववद् निष्पादयेत्। एवं उत्पन्नचित्तः पुद्गलः बोधिचित्तवृद्ध्यर्थ अन्तशो दिवा त्रिवारं रात्रौ च त्रिवारं-
बुद्धं च धर्मञ्च गणोत्तमं च यावद्धि बोधिं शरणं गतोऽस्मि।
दानादिकृत्यैश्च कृतैर्मयैभिः बुद्धो भवेयं जगतो हिताय॥३॥
इति बोधिचित्तमुत्पादयेत्। बोधिचित्तव्याघातकेभ्यश्चतुर्भ्यो र्धर्मेभ्यो व्यावृत्तो भवेत्। कतमे चत्वारः ? गुरुदक्षिणीयविसंवादनम्, परेषु अकौकृत्यस्थानीयेषु कौकृत्योपादनम्, उत्पन्नचित्तेभ्यो बोधिसत्त्वेभ्यो द्वेषेण अवर्णभाषणम्, सर्वसत्त्वेषु मायाशाठ्याचरणञ्च।
बोधिचित्ताव्याघातकान् चतुर्धर्मान् शिक्षेत। कतमांश्चतुरः ? जीवितस्यापि हेतोः प्रजानन् अमृषावादम्, सर्वसत्त्वेषु अध्याशयविशुद्ध्या स्थितिः न मायाशाठ्येन, उत्पन्नचित्तेषु बोधिसत्त्वेषु शास्तृसंज्ञामुत्पाद्य दशसु दिक्षु सम्यग्गुणाख्यानम्, ये सत्त्वाः कुशले स्थापिताः तेषाम् अनुत्तरसम्यक्सम्बोधौ स्थापनं न तु श्रावकप्रत्येकबुद्धत्वेष्विति।
विशेषेणाभिज्ञां शीघ्रं लब्धुकामो बोधिसत्त्वः आर्य-अवलोकितेश्वर-परिपृच्छा-सप्तधर्मक-नाम-महायानसूत्रं शिक्षेत। बोधिचित्तोत्पादानुशंसा तु "गण्डव्यूहसूत्रा" -दिभ्यो ज्ञातव्या।
तत्र प्रथमं विधिवद् उत्पन्नबोधिचित्तस्य बोधिसत्त्वस्य सर्वबोधिसत्त्वशीलशिक्षां सुशिक्षितुकामनया बोधिसत्त्वं बोधिसत्त्वसंवरस्थितं,बोधिसत्त्वसंवरविधिज्ञं बोधिसत्त्वसंवरप्रदानेन शिष्यानुग्रहसमर्थ कल्याणमित्रं नमस्कृत्य तच्चरणे निपत्य अध्येषणा- "आचार्य ! तवाहं बोधिसत्त्वशीलसंवरसमादानमाकांक्षाम्यादातुं तदर्हस्यनुपरोधेन मुहूर्तमस्माकमनुकम्पया दातुं श्रोतुञ्च" , "इत्येवं त्रिवारं अध्येषितव्यम्।
"कुलपुत्र ! त्वं श्रृणु। त्वम् एवं सत्त्वान् अनुत्तीर्णान् उत्तार्य, अमुक्तान् मोचयित्वा, अनाश्वतान् आश्वास्य, अपरिनिर्वृत्तान् परिनिर्वाप्य, बुद्धवंशानुच्छेदम् इच्छसि? ततस्त्वं चित्तोत्पाददार्ढ्य समादानदार्ढ्यञ्च कुरु।" न त्वन्यैः सह प्रतिस्पर्धाहेतवे। नान्यैर्बलाद् ग्राहितोऽसि? एवं पृच्छेत्।
तत्पश्चात् तथागतशाक्यमुनेः निषिक्तां प्रतिमां पटचित्रम् वा पुरतोऽवस्थाप्य तथागतशाक्यमुन्यादीन् दशदिक्सर्वलोकधात्ववस्थितान् सर्वबुद्धबोधिसत्त्वान् पुरतो भावयेत्। यथाशक्ति बाह्यपञ्चपूजया पूजां वन्दनं च कुर्यात्।
तदनन्तरं कल्याणमित्रम् उच्चासनस्थितं शास्तृसंज्ञया नमस्कृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकासनेन वापि कृताञ्जलिः कल्याणमित्रं बोधिसत्त्वसंवरग्रहणाय एवम् अध्येषयेत्-
"आचार्यो बोधिसत्त्वशीलसंवरसमादानं मे शीघ्रं ददातु" इत्येवं त्रिवारं कल्याणमित्रम् अध्येषेत। ततः कल्याणमित्र उपविष्ट उत्थितो वापि सः बोधिसत्त्वसंवरग्राहकं तं एवं परिपृच्छेत्- "एवंनामा त्वं बोधिसत्त्वोऽसि बोधौ च कृतप्रणिधानः। एवं पृष्टे सति तेन ग्राहकबोधिसत्त्वेनापि आमेति प्रतिज्ञातव्यम्"।
ततः 'अक्षयाप्रमेयानुत्तरपुण्यमहानिधिभूतः सर्वबुद्धगुणरत्नाकरो बोधिसत्त्वसंवरोऽचिरेण अधिगम्यत' इति चिन्तयन् चित्तप्रसादात् सहर्ष तूष्णीभूय कृताञ्जलिस्तिष्ठेत्।
अथ स कल्याणमित्रः त्रिकालसर्वबोधिसत्त्वसर्वशिक्षापदानि सर्वञ्च शीलंसंवरशीलं , कुशलधर्मसङ्ग्राहकशीलं, सत्त्वार्थक्रियाशीलञ्च समासतः शिष्यम् अबबोध्य- "सर्वबोधिसत्त्वशिक्षापदानि तानि च सर्वबोधिसत्त्वशीलानि किं मत्तः गृहीतुकामोऽसि" एवं शिष्यं पृच्छेत्। तस्मिन् तथा "गृहीतुकामोऽस्मि" इति प्रतिज्ञाते सति बोधिसत्त्वसंवरो दातव्यः।
त्वमेवंनामा भदन्त आयुष्मान् कुलपुत्रो वा मत् बोधिसत्त्व इत्येव संज्ञकात् "सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च। यानि शिक्षापदानि यच्छीलमतीतानां सर्वबोधिसत्त्वानामभूत्। यानि शिक्षापदानि यच्छीलमनागतानां सर्वबोधिसत्त्वानां भविष्यति। यानि शिक्षापदानि यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां सर्वबोधिसत्त्वानां भवति। येषु शिक्षापदेशु यच्छीलेऽतीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः। अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते। प्रत्युत्पन्नाः सर्वबोधिसत्त्वाः शिक्षन्ते। तेन प्रतिगृह्णामीति प्रतिज्ञातव्यम्"। एवम् आचार्येण त्रिवारं "ग्रहीष्यसि किं" इति उक्त्वा शिष्येण "आम् सुगृहीष्यामि" इति त्रिवारं अभिहिते संवरं समादद्यात्।
ततः स कल्याणमित्रः शिष्याय बोधिसत्त्वसंवरं सत्त्वा दशदिक्सर्वबुद्धबोधिसत्त्वेभ्यः पञ्चाङ्गनमस्कारपूर्व कृताञ्जलिः एवं त्रिवारं वदेत्- "प्रतीगृहीतमनेन एवंनाम्ना बोधिसत्त्वेन मम एवंनाम्नो बोधिसत्त्वस्यान्तिकाद् यावत् त्रिरपि बोधिसत्त्वशीलसंवरसमादानम्। सोऽहमेवंनामात्मानं साक्षिभूतमस्यैतन्नाम्नो बोधिसत्त्वस्य परमार्याणां विपरोक्षाणामपि सर्वत्र सर्वसत्त्वाविपरोक्षबुद्धीनां दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वारोचयाम्यस्मिन् बोधिसत्त्वशीलसंवरसमादानम्"। इति त्रिवारं दशदिक्सबुद्धबोधिसत्त्वेभ्य उक्त्वा, नमस्कृत्य च गुरुशिष्यौ उत्तिष्ठेताम्।"
तत उत्थाय कल्याणमित्रः बोधिसत्त्वसंवरग्राहकं बोधिसत्त्वम् एवं ब्रूयात्-"एवंनाम बोधिसत्त्व! त्वं शृणु- इयं हि धर्मता। यदा बोधिसत्त्वेन बोधिसत्त्वसंवरसमादानकर्मवाचना परिसम्पाद्यते तदा दशदिक्सर्वबुद्धक्षेत्रेषु बुद्धबोधिसत्त्वेषु एतादृङ्निमित्तानि प्रादुर्भवन्ति। ते बुद्धबोधिसत्त्वा एवं कस्मिंश्चिद् बुद्धक्षेत्रे एवंनामा बोधिसत्त्व एवंनाम्नो बोधिसत्त्वाद् बोधिसत्त्वसंवरसमादानं गृह्णाति इति संजानन्ति"। अतः ते भगवन्तो बुद्धा ते च बोधिसत्त्वा धर्मस्नेहात् पुत्रान् भ्रातृकानिव सन्दधते। तथा सन्धानात् पुण्यज्ञानसम्भारवृद्धिर्भविष्यतीति वक्तव्यम्।
अथ तेन कल्याणमित्रेण स बोधिसत्त्व एवं वक्त्व्यः। एवंनामबोधिसत्त्व। त्वं शृणु। बोधिसत्त्वसंवरसमादानमिदं अश्रद्दधानानाम् अग्रे न वाच्यम्। यतोऽश्रद्धेभ्यो बोधिसत्त्वसंवरप्रदर्शने अश्रद्दधाना सत्त्वास्ते बोधिसत्त्वसंवरं अश्रद्धया परित्यजन्ति। अतो यावद् बोधिसत्त्वो बोधिसत्त्वसंवरस्थितः पुण्यराशियुक्तो भवति तावद् अश्रद्धया स तेनैव अपुण्यराशिना च युक्तो भवति। यतो बोधिसत्त्वः सत्त्वान् सर्वदुःखेभ्यः परिरक्षति अन्यांश्च पापेभ्यो निवारयति। अतः सकुशलो बोधिसत्त्वो गोपायति।
अथ शिक्षापदपाराजिकस्थानभूतान् संवरनाशहेतून् दर्शयित्वा दुष्कृतान् क्लिष्टाक्लिष्टान् अपि दर्शयेत्। कल्याणमित्रः समासतो 'बोधिसत्त्वसंवरविंशकम्' तथा बोधिसत्त्वभूमेः शीलपरिवर्त्तञ्च भाषेत।
बोधिचित्तोत्पाद-बोधिसत्त्वसंवरविधिर्महाचार्यदीपङ्करश्रीज्ञान-कृतः समाप्तः॥
तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-कुशलमतिना (द्गे वै ब्लो ग्रोस् ) चानूदितः॥
पुनस्तेनैव पण्डितेन लोकचक्षुषा भिक्षु-जयशीलेन (छुल् ख्रिम्स् र्ग्यल् व) च संशोध्य निर्णीतः॥