सूत्रार्थसमुच्चयोपदेशः
Technical Details
सूत्रार्थसमुच्चयोपदेशः
नमो रत्नत्रयाय
संदृश्य गम्भीरमुदारमब्ध्याकाशोपमं सूत्रसुमातृकां च।
श्रीमद्गुरोरास्यसमुद्गतार्थान् दुष्प्रापणीयांन् विलिखामि चाहम्॥१॥
अत्र बोधिसत्त्वानां रत्नोपमाः पञ्चाशद् धर्माः प्राणोपमादयः। तान् अभिधास्ये किञ्चित्। तद्यथा-
आयुर्जीवितमाधार ऊष्मविज्ञानयोर्हि यः। २ अ ब।
यथा सत्त्वाः प्राणेषु स्निह्यन्तः प्राणांश्चाश्रयन्ते, तथा बोधिसत्त्वा अपि प्राणोपमबोधिचित्ते स्निह्यन्तस्तदाश्रयन्ते। मातापितृसमो धर्मस्तु शून्यता-करुणे। तदनोत्पादे न बोधिसत्त्वसम्भवः। गृहिणीवत् मृति-शिक्षा-कर्मणिसंचितिसंज्ञानि अहोरात्रं त्रिः समागमः। गृहवद् दश कुशलानि। इमामि तु गृहमेव दुर्गतिद्वारपिधानात्। धनोपमानि आर्यसप्तधनानि, अल्पेच्छता, संतोषश्च। मित्रवत् त्रिधातुप्रयोगं कुर्वन्नपि निर्वाणाशयता, विपुलदानेऽपि विपाकनिरपेक्षता, सर्वधर्मानुत्पादज्ञानेऽपि कर्मविपाकानुत्सर्गः, सर्वधर्मनैरात्म्यज्ञानेऽपि सत्त्वेषु करुणोत्पादः। मूलसमाः श्रद्धा, श्रवणं, त्यागः , क्षान्तिश्च। क्षेत्रोपमं शीलम्। बन्धुसमाः दशपारमिताः। आचार्योपमास्तु षडनुस्मृतयः। उपाध्यायोपमास्तु आर्यकाश्यप-परिपृच्छासूत्रे बोधिचित्ताविस्मरणाय चत्वारो धर्माः। श्रेष्ठिसमाः शिक्षासमुच्चये चतुर्दशापकारप्रतिपक्षाः। भगिनीसमानि चतुरप्रमाणानि।
दासोपमानि चतुःसंग्रहवस्तूनि। प्रजोपमस्तु श्व-दास-चाण्डालवदहङ्कार-नाशः। नेत्रोपमे तु आशयाध्याशयविशुद्धी। धात्रीसमं कल्याणमित्रम्। राजोपमं त्रिरत्नम्। तोयसंकारोपमा त्रिमण्डलपरिशुद्धिः। मार्गदर्शकसमाः स्मृति-सम्प्रजन्य-योनिशोमनसिकाराप्रमादाः, चतुर्विपर्यासप्रतिपक्षसेवनञ्च। चर्र्नवत् सत्त्वापरित्यागानुग्रहौ। अलङ्कारोपमाः श्रद्धा, शीलं, त्यागः, श्रुतं, प्रज्ञा च। व्याधिपीडोपमं तु आध्यात्मिकबाह्यवस्त्वभिनिविष्टचित्तम्। हतचित्तपुरुषवत् गृहस्थो बोधिसत्त्व एवं विचारयति- कदाऽहं ब्रह्मचारी भवेयम्। प्रव्रजित एवं चिन्तयति- कदाऽहं जगतो दुःखानि मोक्तुं क्षम इति। कुसीदोपमं गृहस्थेन क्षेत्रादीनाम् अपरित्यागः। प्रव्रजितेन दौःशील्यादीनामप्रहाणम्। शीलस्कन्धसूत्रे- ' भिक्षवः, प्रव्रजितेन हस्तियुद्धदर्शनमपि मिथ्याजीव इति उक्तम्।
सुस्वभावोपमो योनिशोमनसिकारवान्। मूकोपमः परदोष-भ्रान्त्यनाख्याता, स्वगुणानाख्याता, अपरनिन्दकश्च। अन्धोपमोऽपरदोषद्रष्टा। गृहीतचौरोपमः सद्धर्मविनाशे सद्धर्मग्राहकः। बालोपमः सुवाक्, स्फूर्तिमान्, सुखदः, सुतोषः, सुपोषः, सुभरः, सन्तुष्टश्च। दूतोपमस्तु बोधिसत्त्वो बह्वर्थो बहुक्रिय उदारचित्तश्च। अमात्योपमो दृढप्रतिज्ञः। पण्डितोपमोऽप्रतिहतसत्त्वः प्रत्युपकारी च। शिष्योपमस्तु त्रिर्दिवा त्रिश्च रात्रौ गुरुपर्युपासकः, कृतपुण्यसम्भारसञ्चयः संवरपोषकश्च। प्रत्युत्थापकोपमः सर्वसत्त्वबुद्धत्वप्रापणपूर्वम् स्वबुद्धत्वकामः। अन्धनायकोपमः स्वबुद्धभावपूर्व परार्थक्रियाः। प्रथमकल्पमनुष्योपम आचरण-शील-जीविका-विधि-दृष्टिसम्पन्नः। सकामपुरुषोपमः समस्तचर्यापथपरार्थपरिणामनः, यथा- 'आर्यरत्नमेघसूत्रोक्तम्'। अन्धकारोपमो महामध्यमकार्थनित्यवासः। घातकोपमस्त्यक्तमिथ्यादृष्ट्युत्पादः। चौरोपमः त्यक्तप्रमादानादरः। शत्रूपमस्तु अह्रीप्रमादः। मूर्खोपमः स्मृति-सम्प्रजन्यविरहितः। मत्तोपमः चतुःकृष्णः। तिर्यगुपमोऽज्ञातशिक्षानयः। वधिकोपमो निष्करुणाचारः। अकृतज्ञोपमस्त्यक्तप्रातिमोक्षसंवरः। अनाथोपम उपायकौशल्यरहितः। उन्मत्तोपमः कार्याकार्यानभिज्ञता।
माराभिभूतोपमः पञ्च-पञ्चाशद्-द्वात्रिंशदान्तरायिकधर्मामभिज्ञता। के च (ते) पञ्चपञ्चाशद्? 'आर्यबोधिसत्त्वपिटके' तद्यथा- आन्तरायिक एको धर्मः- प्रमादः। आन्तरायिकौ द्वौ धर्मौ-अह्रीक्यम् अनपत्राप्यञ्च। त्रयः- रागो द्वेषो मोहश्च। चत्वारः- चतस्रः असद्गतयः। पञ्चप्राणातिपातोऽदत्तादानम् काममिथ्याचारो मृषावादो मद्यपानं च। षड्-बुद्ध-धर्म-संघ-शील-आचार्य-ज्येष्ठानादरः। सप्त- सप्तविधा मानाः। अष्टौ-मिथ्याष्टकम्। नव- नवधा चित्ताघातवस्तूनि। दश- दशाकुशलानि इति प्राप्तम्।
द्वात्रिंशद् आन्तरायिका धर्मा अपि ' आर्यमहायानोपदेशसूत्रे' तद्यथा-' पुत्रि! महायानान्तरायिका धर्मास्तु द्वात्रिंशत्। तैरान्तरायिकैः सर्वज्ञतायां शीघ्रं न निर्याणं भवति। के च द्वात्रिंशत्? तद्यथा- श्रावकप्रत्येकबुद्धयानकामिता, इन्द्रब्रह्मत्वकामिता, जन्मसंस्थब्रह्मचर्यम्, कुशलमूलैकरागः, भोगसम्पत्मात्सर्यम्, सत्त्वविषमदानम्, शीलशैथिल्यम्, परचित्तारक्षणम्, व्यापाद-प्रतिघानुशयः, तच्चित्तलयः, मुषितस्मृतिता, श्रवणानर्थिकता, अविचारणा, अनार्यचर्या, मानातिमानविवृद्धिः, काय-वाक्-चित्त-कर्मापरिशुद्धिः, सद्धर्मापरिरक्षणम्, आचार्यधर्मप्रतिच्छादनम्, संग्रहवस्तूत्सर्गः, सम्मोदनीयधर्मत्यागः, पापमित्रसेवनम्, बोध्यपरिणामनेति त्रिस्कन्धविपक्षता, अल्पकुशलमूलमन्यना, अनुपायपतितबुद्धिः, पराङ्मुखीभूय त्रिरत्नाशंसनम्, बोधिसत्त्वव्यापादचिन्तनम्। अश्रुतधर्मप्रहाणम्, मारकर्मानवबोधः, लोकायतमन्त्रग्रहणम्, सत्त्वापरिपाचनम्, संसारादपरिखेद' , इति।
' पुत्रि! द्वात्रिंशद् इमे महायानस्य आन्तरायिकाः सम्यक् व्यपदिष्टाः। तैरन्तरायैः सर्वज्ञताऽनिःसरणम्। किं तर्हि? तथापि पुत्रि, यावन्तो हि महायानगुणा अन्तराया अपि तावन्तस्तावद् इत्युक्तम्। अपि च, अप्रमेया अन्तरायधर्मा बहुषु सूत्रेषु दृश्यन्ते, किन्तु अत्र ग्रन्थगौरवात् न निरुप्यन्ते। एतन्मार्गस्थीकृतादिकर्मिकबोधिसत्त्वैस्तत्तत्सूत्रेषु द्रष्टव्यम्, आस्थितये च प्रयतितव्यम्।'
अपराण्यपि सांकथ्यानि बहूनि वर्तन्ते-सुघोरपरुषं सुदुःसहं दुखं चिरं सह्यत इदमपि महदाश्चर्यम्। चतुरोघविक्षिप्तं पौनःपुन्येन कङ्कालयानारोहणं तदपि महदाश्चर्यम्। भार्या गृहं च प्रहाय सुव्रतादानेऽपि सदा कायवाङ्मनोविक्षेप इदमपि महदाश्चर्यम्। स्वल्पमात्रस्यापि कुशलमूलस्य अभावेऽपि तस्यैवार्थतो बुद्धज्ञानगवेषणम् इदमपि महदाश्चर्यम् प्रतिमोक्षशिक्षाभावेऽपि- महायानश्रेष्ठबोधिद्वयगवेषणम् इदमपि महदाश्चर्यम्। इत्यादिषु महाश्चर्येषु बहुष्वपि सत्सु, जम्बूद्वीपपुरुषस्य विकल्पाचाराः कथं वक्तुं शक्यन्ते। तस्माद् भवन्तो मुक्तिकामा विद्वांसस्तैरुन्मत्तैः सह अकृतसंसर्गा अप्रमत्तास् तिष्ठन्तु। एवं ते करुणाविषयत्वव्यतिरिक्ताः उत्तममार्गव्यपदेशेऽपि तत्र न प्रविशन्ति, किमहं करवाणि। यावद् अभिज्ञता न प्राप्यते तावद् अन्येषां विपाकासंभवात् खड्गवत् स्थातव्यम्। सद्गुरुर्गवेषणीयः, सदा सूत्राणि च द्रष्टव्यानि।
सूत्रसमुच्चयोपदेशो महाविद्वदाचार्यदीपङ्करश्रीज्ञान-विरचितः समाप्तः॥
तेनैव भारतीयमहोपाध्यायेन महासंशोधकलोकचक्षुषा जयशीलेन ( छुल् ख्रिमस् र्ग्यल् व ) च अनूद्य सम्पाद्य च निर्णीतः॥