पञ्चमश्चित्तोत्पादः
Technical Details
पञ्चमश्चित्तोत्पादः
सम्प्रति पञ्चमचित्तोत्पादाधिकारः-
स दुर्जयाभूमिगतो महात्मा
क्षमो न जेतुं ह्यपि सर्वमारैः।
पञ्चमबोधिसत्त्वभूमौ स्थितो बोधिसत्त्वस्तु सर्वलोकधातुस्थितैर्देवपुत्र-मारैरपि जेतुं न क्षमः तत्परेषां मारकिङ्करादीनां कः पुनर्वादः? अत एव अस्या भूमेर्नाम सुदुर्जयेति। बोधिसत्त्वस्तु-
ध्याने विशिष्टे सुमतेश्च सत्य-
सूक्ष्मस्वभावाधिगमेऽतिदक्षः॥१॥
ज्ञातव्यः। तत्र दशपारमितासु ध्यानपारमितैव अतिविशिष्टा भवति। सुमतीति आर्याः। तेषां सत्यानि सुमतिसत्यानि आर्यसत्यानीत्यर्थः। स्वभावस्तु स्वरूपम्। सूक्ष्मज्ञानाधिगतस्वभावस्तु सूक्ष्मस्वभावः, भद्रमतिसत्यानां सूक्ष्म-स्वरूपस्य ज्ञानेऽतिदक्षो भवति। चतुरार्यसत्यानि तु दुःख-समुदय-निरोध-मार्गाः। भगवता सत्यं तु द्वयमेव दिष्टमिति तद्यथा-संवृतिसत्यं परमार्थसत्यञ्च। यथा-पितापुत्रसमागमसूत्रे-
सत्य इमे दुवि लोकविदूनां दिष्ट स्वयं अश्रुणित्व परेषाम्।
संवृति या च तथा परमार्थो सत्यु न सिध्यति किं च तृतीयु॥
इत्युक्तम्। मध्यमकशास्त्रेऽपि-
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥
इत्युक्तम्। अतः क्वसत्यद्वयातिरिक्तानि अन्यानि चतुरार्यसत्यानि सन्तीति चेत्-आरव्यायते- यद्यपि एवम्, तथापि हेयोपादेययोः पृथक् पृथक् हेतुफल-भावदेशनार्थंम् अत्र चतुरार्यसत्यानि उक्तानि। तत्र हेयपक्षस्तु संक्लेशः। तत्फलं च दुःखसत्यम्। हेतुश्च समुदयसत्यम्। उपादेयपक्षस्तु व्यवदानम्, तस्य फलं निरोधसत्यम्। तत्प्राप्तिहेतुर्मार्गसत्यम्। तत्र दुःख-समुदयमार्गसत्यानां संवृति-सत्येऽन्तर्भावः। निरोधसत्यं परमार्थसत्यस्वरूपम्। तथाऽपरं सत्यं यत् किंचित् स्यात् तस्यापि यथायोगं सत्यद्वयेऽन्तर्भाव एव निश्चेयः। किं चतुःसत्याति-रिक्तमपरमपि सत्यमस्तीति चेत्? आख्यातम्। यथा- बोधिसत्त्वपञ्चमभूमौ - "इदं दुःखमार्य-सत्यमिति यथाभूतं प्रजानाति। अयं दुःखसमुदय आर्यसत्यमिति यथाभूतं प्रजानाति। अयं दुःखनिरोध आर्यसत्यमिति यथाभूतं प्रजानाति। इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति। स संवृतिसत्यकुशलश्च भवति। परमार्थ-सत्यकुशलश्च भवति। लक्षणसत्यकुशलश्च भवति। विभागसत्यकुशलश्च भवति। निस्तीरणसत्यकुशलश्च भवति। वस्तुसत्यकुशलश्च भवति। प्रभवसत्यकुशलश्च भवति। क्षयानुत्पादसत्यकुशलश्च भवति। मार्गज्ञानावतारसत्यकुशलश्च भवति। सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया यावत्तथागतज्ञान-समुदय-सत्यकुशलश्च भवति। स परसत्त्वानां यथाशयसंतोषणात्संवृतिसत्यं प्रजानाति। एकनय-समवसरणात्परमार्थसत्यं प्रजानाति। स्वसामान्यलक्षणानुबोधाल्लक्षणसत्यं प्रजानाति। धर्मविभागव्यवस्थानानुबोधाद्विभागसत्यं प्रजानाति। स्कन्धधात्वायतन-व्यवस्था-नानुबोधान्निस्तीरणसत्यं प्रजानाति। चित्तशरीरप्रपीडनो-पनिपातितत्वाद्वस्तुसत्यम्, गतिसंधिसंबन्धनत्वात्प्रभवसत्यम्, सर्वज्वरपरिदाहात्यन्तोपशमात्क्षयानुत्पादसत्यम्, [अद्वयानुत्पादसत्यम्,] अद्वयाभिनिर्हारान्मार्गज्ञानावतारसत्यम्, सर्वाकाराभिसंबोधः सर्वबोधिसत्त्वभूमिक्रमानुसंधिनिष्पादनतया-यावत्तथागतज्ञानसमुदयसत्यं प्रजानाति। " इत्युक्तवत्।
इति मध्यमकावतारभाष्ये सुदुर्जयाख्यः पञ्चमश्चित्तोत्पादः।