चतुर्थश्चित्तोत्पादः
Technical Details
चतुर्थश्चित्तोत्पादः
सम्प्रति दान-शील-क्षान्ति-पारमिताभ्यो वीर्यपारमिताया अतिरेकदेशना-द्वारेण चतुर्थचित्तोत्पादमधिकृत्य आख्यायते-
गुणा अशेषा अनुगम्य वीर्यं
द्वयोस्तु हेतुर्मतिपुण्यराश्योः।
यतो भवेत् प्रोज्ज्वलमेव वीर्यम्
अर्चिष्मती भूः खलु सा चतुर्थी॥१॥
कुशलकर्मानुत्साहमये तु सर्वथा दानादाप्रवृत्तेः सर्वगुणोत्पादोऽसंभवः। पूर्वोक्तगुणसञ्चयसमुत्सुके तु प्राप्ताप्राप्तयोर्वृद्धिप्राप्तिसंभवाद् यस्य कस्यचिद् गुणस्य हेतुस्तु वीर्यमेव अस्ति। सम्भारद्वयहेतुस्तु पूर्वत आख्यातः। तद् वीर्यं स्वगुणपरिशुद्धिद्वारा यस्यां भूमावधिज्वलति सा तु चतुर्थी बोधिसत्वभूमिः अर्चिष्मतीति स्यात्। अपि च, कस्य हेतोरर्चिष्मतीति आख्यायते-नामावतार-हेतुदेशनार्थम्-
सम्बोधिपक्षस्य विभावनातो
जातोऽवभासः सुगतस्य पुत्रे।
ताम्रप्रभाया अधिकं विभाति
इत्युक्तम्। एवम् अस्यां भूमौ बोधिसत्त्वे सप्तत्रिंशद् बोधिपाक्षिकधर्मभावनेन पूर्वाख्यातताम्रप्रभाया विशिष्टोऽवभास उपपद्यते। तस्मात् सम्यग्ज्ञानाग्नि-प्रभोपपादेन सा बोधिसत्त्वभूमिरर्चिष्मतीत्याख्यायते। सप्तत्रिंशद् बोधिपाक्षिका धर्मस्तु एवम्-चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि आर्याष्टाङ्गमार्गश्चेत्युक्ताः। तत्र चत्वारि स्मृत्युपस्थानानि-"जिनपुत्रा, बोधिसत्त्वोऽस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ प्रतिष्ठितोऽध्यात्मं काये कायानुदर्शी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोकोऽभिध्यादौर्मनस्ये। बहिर्धा काये (कायानुदर्शी विहरति, आतापी संप्रजानन् स्मृतिमान् विनीय लोकेऽभिध्यादौर्मनस्ये) अध्यात्मं बहिर्धा काये। एवमेवाध्यात्मं वेदनासु बहिर्धा वेदनासु अध्यात्मं बहिर्धा वेदनासु। एवमध्यात्मं चित्ते बहिर्धा चित्तेऽध्यात्मं बहिर्धा चित्ते। अध्यात्मं धर्मेषु धर्मानुदर्शी (विहरति आतापी संप्रजानन् स्मृतिमान् ) बहिर्धा धर्मेषु धर्मानुदर्शी ... एवमध्यात्मं बहिर्धा धर्मेषु...। " इति विस्तृतनिर्देशवत्।
चत्वारि सम्यक्प्रहाणानि यथा- "सोऽनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय च्छन्दं जनयति व्यायच्छते वीर्यमारभते चित्तं प्रगृह्णाति सम्यक्-प्रणिदधाति। उत्पन्नानां पापकानाम-कुशलानां धर्माणां प्रहाणाय [इतिपूर्ववत् ]। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय [इतिपूर्ववत्]। उत्पन्नानां कुशलानां धर्माणां स्थितयेऽसंप्रमोषाय वैपुल्याय भूयोभावाय (भावनाय) परिपूरये [च्छन्दं जनयति, व्यायच्छते-तु पूर्ववत्]। "
चत्वारो ऋद्धिपादाः " छन्दसमाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं भावयति विवेकनिश्चितं विरागनिश्चितं निरोधनिश्चितं व्यवसर्गपरिणतं [तद्वत्] वीर्य [समाधिप्रहाणसंस्कारसमन्वागतं ऋद्धिपादं ] भावयति चित्त [समाधि-प्रहाणसंस्कारसमन्वागतं ऋद्धिपादं] भावयति मीमांसा [समाधिप्रहाणसंस्कार-समन्वागतं ऋद्धिपादं ] भावयतीत्यादि पूर्ववत्। "
पञ्चेन्द्रियाणि तद्यथा-"स श्रद्धेन्द्रियं भावयति [इति तद्वत्] विवेकनिश्चितं...वीर्येन्द्रियं....स्मृतीन्द्रियं....समाधीन्द्रियं...प्रज्ञेन्द्रियं...स। "भावयति विरागनिश्चितं इत्यादि। पञ्चबलानि तु तान्येवासपक्षपराजितानि पूर्ववत्।
सप्त बोध्यङ्गानि- तद्यथा-" (स) स्मृति-संबोध्यङ्गं भावयति, [इत्यादि] धर्मप्रविचय [बोध्यङ्गं ] वीर्य [संबोध्यङ्गं] प्रीति [संबोध्यङ्गं ] प्रस्त्रब्धि-[संबोध्यङ्गं] समाधि [संबोध्यङ्गं] उपेक्षा [संबोध्यङ्गं भावयति इत्यादि पूर्ववत् ]। "
आर्याष्टाङ्गमार्गस्तु यथा-" सम्यक्दृष्टिं भावयति [विरागनिश्चितं निरोध- निश्चितं व्यवसर्गपरिणतं] सम्यक्सङ्कल्पं [अपि पूर्ववत्] सम्यग्वाचं........ सम्यक्कर्मान्तं......सम्यगाजीवं......सम्यग्व्यायामं.....सम्यक्स्मृतिं...सम्यक्समाधिं। " [भावयति इत्यादि पूर्ववत्। ] अस्यां भूमौ न केवलं बोधिपाक्षिकभावनोत्पादोऽपितु-
संक्षीयते चात्मदृशोऽनुषङ्गः॥२॥
अस्यां भूमौ तस्य आत्मदृष्टिक्षयोऽपि भवति-तथा-"जिनपुत्रा, बोधिसत्त्वस्य अस्यामर्चिष्मत्यां बोधिसत्त्वभूमौ स्थितस्य यानीमानि सत्कायदृष्टि-पूर्वङ्गमानि आत्मसत्त्वजीवपोष (पुरुष) पुदलस्कन्धधात्वायतनाभिनिवेश-समुच्छ्रितानि उन्मर्ज्जितानि निमज्जितानि विचिन्तितानि वितर्कितानि केलायितानि ममायितानि धनायितानि निकेतस्थानानि, तानि सर्वाणि विगतानि भवन्ति स्म। " इत्युक्तम्।
इति मध्यमकावतारभाष्येऽर्चिष्मती नाम चतुर्थश्चित्तोत्पादः।