आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्
Technical Details
२४
आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्।
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते॥१॥
परिज्ञा च प्रहाणं च भावना साक्षिकर्म च।
चतुर्णामार्यसत्यानामभावान्नोपपद्यते॥२॥
तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः॥३॥
संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः।
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते॥४॥
धर्मे चासति संघे च कथं बुद्धो भविष्यति।
एवं त्रीण्यपि रत्नानि ब्रूवाणः प्रतिबाधसे॥५॥
शून्यतां फलसद्भावमधर्मं धर्ममेव च।
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे॥६॥
अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम्।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे॥७॥
द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥८॥
येऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने॥९॥
व्यवहारमनाश्रित्य परमार्थो न देश्यते।
परमार्थमनागम्य निर्वाणं नाधिगम्यते॥१०॥
विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम्।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता॥११॥
अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः।
धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम्॥१२॥
शून्यतायामधिलयं यं पुनः कुरुते भवान्।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते॥१३॥
सर्वं च युज्यते तस्य शून्यता यस्य युज्यते।
सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते॥१४॥
स त्वं दोषानात्मनीनानस्मासु परिपातयन्।
अश्वमेवाभिरूढः सन्नश्वमेवासि विस्मृतः॥१५॥
स्वभावाद्यदि भावानां सद्भावमनुपश्यसि।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि॥१६॥
कार्यं च कारणं चैव कर्तारं करणं क्रियाम्।
उत्पादं च निरोधं च फलं च प्रतिबाधसे॥१७॥
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा॥१८॥
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते।
यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते॥१९॥
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते॥२०॥
अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति।
अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते॥२१॥
स्वभावतो विद्यमानं किं पुनः समुदेष्यते।
तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः॥२२॥
न निरोधः स्वभावेन सतो दुःखस्य विद्यते।
स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे॥२३॥
स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते॥२४॥
यदा दुःखं समुदयो निरोधश्च न विद्यते।
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति॥२५॥
स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम्।
परिज्ञानं ननु किल स्वभावः समवस्थितः॥२६॥
प्रहाणसाक्षात्करणे भावना चैवमेव ते।
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च॥२७॥
स्वभावेनानधिगतं यत्फलं तत्पुनः कथम्।
शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः॥२८॥
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः।
संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः॥२९॥
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते।
धर्मे चासति संघे च कथं बुद्धो भविष्यति॥३०॥
अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते॥३१॥
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि।
न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति॥३२॥
न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति।
किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि॥३३॥
विना धर्ममधर्मं च फलं हि तव विद्यते।
धर्माधर्मनिमित्तं च फलं तव न विद्यते॥३४॥
धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम्।
धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम्॥३५॥
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे।
यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे॥३६॥
न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया।
कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः॥३७॥
अजातमनिरुद्धं च कूटस्थं च भविष्यति।
विचित्राभिरवस्थाभिः स्वभावे रहितं जगत्॥३८॥
असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च।
सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते॥३९॥
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति।
दुःखं समुदयं चैव निरोधं मार्गमेव च॥४०॥