चतुर्दशमं प्रकरणम्
Technical Details
संसर्गपरीक्षा चतुर्दशमं प्रकरणम्।
अत्राह - अस्त्येव भावस्वभावः, तत्संसर्गोपदेशात्। इह यन्नास्ति, न तस्य संसर्गः, तद्यथा वन्ध्यासुतदुहित्रोः। अस्ति च संस्काराणां संसर्गोपदेशः। चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम्, त्रयाणां संनिपातः स्पर्शः, स्पर्शसहजा वेदनेति विस्तरः। तथा संज्ञा च वेदना च संसृष्टावेतौ धर्मौ नासंसृष्टाविति संस्काराणां संसर्गोपदेशः। तदेवं संसर्गोपदेशाद्विद्यत एव भावस्वभाव इति। उच्यते। स्यादेतदेवम्, यदि संसर्ग एव भवतो भवेत्, न त्वस्ति, यस्मात् -
द्रष्टव्यं दर्शनं द्रष्टा त्रीण्येतानि द्विशो द्विशः।
सर्वशश्च न संसर्गमन्योन्येन ब्रजन्त्युत॥१॥
तत्र द्रष्टव्यं रूपम्,दर्शनं चक्षुः, द्रष्टा विज्ञानम्। एषां त्रयाणां द्विशो द्विशः संसर्गो नास्ति। चक्षुषो रूपस्य च, चक्षुषो विज्ञानस्य च, विज्ञानस्य रूपस्य च संसर्गो नास्ति। इत्येवं द्विशो द्विशः संसर्गो न भवति। सर्वशोऽपि त्रयाणामप्येषां युगपच्च संसर्गो नास्ति॥१॥
यथा च द्रष्टव्यदर्शनद्रष्टणां द्विशो द्विशः सर्वशश्च संसर्गाभावः,
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम्।
रागस्य रक्तस्य च संसर्गो नास्ति, रागस्य रञ्जनीयस्य च, त्रयाणामपि युगपत्संसर्गो नास्ति। यथा चैषाम्, एवम् -
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च॥२॥
अन्योन्येन संसर्गं न व्रजन्ति। त्रयः प्रकारास्त्रिधा, त्रिधाभावस्त्रैधम्। तेन त्रैधेन शेषाः क्लेशा द्वेषमोहादयः, ते एते द्वेषद्विष्टद्वेषणीयादिना त्रैधेन श्रोत्रश्रोतृश्रोतव्यादिना च॥२॥
कस्मात्पुनरेतेषां संसर्गो नास्तीत्याह -
अन्येनान्यस्य संसर्गस्तच्चान्यत्वंन विद्यते।
द्रष्टव्यप्रभृतीनां यन्न संसर्गं व्रजन्त्यतः॥३॥
यदित्ययं यस्मादर्थे। यदि द्रष्टव्यादीनां परस्परमन्यत्वं स्यात्, तदा क्षीरोदकयोरिव अन्येन अन्यस्य संसर्गः स्यात्। तच्चान्यत्वं यस्मादेषां द्रष्टव्यप्रभृतीनां न संभवति, अतो नैते संसर्ग ब्रजन्ति॥३॥
अपि च।
न च केवलमन्यत्वं द्रष्टव्यादेर्न विद्यते।
कस्यचित्केनचित्सार्धं नान्यत्वमुपपद्यते॥४॥
न च केवलं कार्यकारणभावस्थितानां द्रष्टव्यादीनामन्यत्वं न संभवति, घटपटादीनामपि पदार्थानां सर्वेषां नैव संभवतीत्यवसीयताम्॥४॥
यथा चैषां द्रष्टव्यप्रभृतीनां परस्परतोऽन्यत्वमसत्, तथा प्रतिपादयन्नाह -
अन्यदन्यत्प्रतीत्यान्यन्नान्यदन्यदृतेऽन्यतः।
यत्प्रतीत्य च यत्तस्मात्तदन्यन्नोपपद्यते॥५॥
इह यदेतद् घटाख्यं वस्तु पटादन्यदिति व्यपदिश्यते, तदेतदन्यदन्यत्प्रतीत्य अन्यद्भवति। अन्यवस्तुनः ऋते, ऋतेऽन्यतः, विना अन्यत्, अन्यदन्यन्न भवति। यच्च पटाख्यं वस्तु अन्यद् घटाख्यं वस्तु प्रतीत्य अन्यद्भवति, तस्मात्पटाख्याद्वस्तुनः तद् घटाख्यं वस्तु नान्यद्भवतीत्यवसीयताम्। यस्मात्, यत्प्रतीत्य यद्भवति, तस्मात्तदन्यन्न भवति, सापेक्षत्वाद् बीजाङ्कुरवत् ह्रस्वदीर्घवच्चेति। तथा च वक्ष्यति -
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतत्॥
इति॥५॥
अत्राह - यदि घटादन्यः पटः स्यात्, तं च पृथग्भूतं पटमपेक्ष्य अन्यो घटः स्यात्, तदा को दोष इति। उच्यते -
यद्यन्यदन्यदन्यस्मादन्यस्मादप्यृते भवेत्।
तदन्यदन्यदन्यस्मादृते नास्ति च नास्त्यतः॥६॥
एकोऽत्र अन्यशब्द उपदर्शने, अपरश्च अर्थान्तरपरामर्शी, अन्यश्च प्रसिद्धोच्चारणम्, इति अन्यशब्दत्रयोपादानम्। यदि हि एतद् घटाख्यं वस्तु पटादन्यस्मादन्यत् स्यात्, तद् घटाख्यं वस्तु अन्यस्मादपि पटाख्यादृते अन्यद्भवेत्, तदा च पटनिरपेक्षस्यैव एकैकस्य घटस्य अन्यत्वं भवेत्। यद्धि यस्मादन्यत्, तत्तेन विनापि सिद्धयति। तद्यथा। स एव घटो न स्वरूपनिष्पत्तावन्यं पटमपेक्षते। एवमन्यत्वमपि यदि घटस्य अन्यस्मात्पटादृते भवेत्, तदानीं पटनिरपेक्षस्य घटस्य परत्वं स्यात्। न तु एकैकस्य पटनिरपेक्षस्य घटस्यान्यत्वं दृष्टम्। तस्मादन्य व्रवतीति ब्रुवता यदपेक्ष्य यदन्यत्, ततस्तदन्यन्न भवतीति स्फुटमभ्युपेतं भवति॥
अत्राह - यदि खलु अन्यत्वमेवं कुतश्चित्कस्यचिन्नास्ति, ननु इदमपि तदा न संभवति वक्तुम् - यस्मादन्यत्प्रतीत्य अन्यदन्यद्भवतीति, तस्मादेव तदन्यदन्यन्न भवतीति। उच्यते। यत एव हि परस्परापेक्षिकी भावानामन्यत्वसिद्धिः, अत एव अन्यदित्युच्यते लौकिके व्यवहारे स्थित्वा। वस्तुतस्तु परीक्ष्यमाणमन्यत्वं न संभवतीति ब्रूमः॥
यदि तर्हि एवमप्यविद्यमानेऽप्यन्यत्वे लोकसंवृत्या पटादन्यो घट इति व्यपदिश्यते, अथ कस्माद् बीजाङ्कुरयोरपि एवमन्यत्वं न व्यपदिश्यते? उच्यते। नैव हि लोको घटपटयोरिव बीजाङ्कुरयोरन्यत्वं प्रतिपद्यते, घटपटयोरिव जन्यजनकत्वाभावप्रसङ्गात्, यौगपद्यभावप्रसङ्गात्। अपि च। यस्माद्बीजमात्रमु त्वा बीजकार्यं वृक्षमुपदर्शयति पुमान् लोके - अयं वृक्षो मयोप्त इति, तस्माल्लोकेऽपि कार्यकारणभूतानां नास्त्येव परत्वमिति व्यवस्थाप्यते॥६॥
अत्राह - यदि पदार्थान्तरे पदार्थान्तरसापेक्षा परबुद्धिः स्यात्, स्यादेष दोषः -तस्मात्तदन्यन्न भवतीति। न त्वेवं ब्रूमः। किं तर्हि इह अन्यत्वं नाम सामान्यविशेषोऽस्ति, तद्यत्र समवेतम् स पदार्थः पदार्थान्तरनिरपेक्षयापि पर इत्युच्यते, तस्मादुक्तदोषानवसरोऽस्मत्पक्षे इति। उच्यते स्यादेतदेवम्, यदि अन्यत्वमेव स्यात्, न त्वस्ति। इहेदमन्यत्वं कल्प्यमानमन्यस्मिन् वा कल्प्येत अनन्यस्मिन् वा? उभयथा च नोपपद्यत इति प्रतिपादयन्नाह -
नान्यस्मिन् विद्यतेऽन्यत्वमनन्यस्मिन्न विद्यते।
तत्र अन्यस्मिन्नन्यत्वमस्तीति कल्प्यते, किं तदानीमन्यत्वपरिकल्पनया ? अन्यव्यपदेश सिद्धयर्थं हि भवता अन्यत्वं परिकल्प्यते। स च अन्यव्यपदेशो विनाप्यन्यत्वेन सिद्ध एव, यस्मा ल्लब्धान्यव्यपदेश एव पदार्थेऽन्यस्मिन् अन्यत्वं कल्प्यते, इत्येवं तावदन्यस्मिन्नन्यत्वं न संभवति इदानीमनन्यस्मिन्नपि अन्यत्वं नास्ति, यस्मादनन्य उच्यते एकः, तत्र च अन्यत्वविरुद्धमेकत्वमस्तीति यतः विरोधादनन्यस्मिन्नपि अन्यत्वं न संभवति। यच्च इदानीं नान्यस्मिन्ननन्यस्मिन् विद्यते तद्वयतिरिक्तस्य पदार्थान्तरस्यासंभवाद् एतद्वयतिरिक्तेऽपि पदार्थे न संभवति, तत्रैवास्ति। यदा चैवमन्यत्वमेव नास्ति, तदा अन्यत्वसमवायनिबन्धनः अन्यबुद्धिध्वनिप्रवृत्तिहेतुरन्योऽपि पदार्थों नास्तीति सिद्धम्॥
अत्राह - यद्यपि अन्यत्वं नास्ति, तथापि अन्यस्तावदस्ति। न च असति अन्यत्वे अन्यो भवितुमर्हति, अतोऽन्यत्वं भविष्यतीति। उच्यते -
अविद्यमाने चान्यत्वे नास्त्यन्यद्वा तदेव वा॥७॥
यदा अन्यत्वमेव नास्तीति प्राक् प्रतिपादितम्, तदा कुतः असति अन्यत्वे अन्यद्वा तदेव वा भविष्यति? तदेवेति अनन्यत्वमित्यर्थः। तस्मान्नास्ति अन्यद्वा तदेव वा॥७॥
अत्राह - विद्यन्त एव दर्शनादयः, संसर्गसद्भावात्। इह दर्शनादीनां यद्यपि अन्यत्वं नास्तीति प्रतिपादितम्, तथापि त्रयाणां संनिपातः संगतिः स्पर्श इति संसर्गोऽस्ति। ततश्च संसर्गसद्भावाद् विद्यन्त एव दर्शनादय इति। उच्यते। स्युरेवम्, यदि तेषां संसर्ग एव स्यात्। न त्वस्ति। यथा च नास्ति, तथा प्रतिपादयन्नाह -
न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते।
इह यदि दर्शनादीनां संसर्गः स्यात्, स एकत्वेन वा परिकल्प्येत अन्यत्वेन वा? तत्र एकत्वे नास्ति संसर्गः। न हि एककं क्षीरमुदकनिरपेक्षमुदकेन संसृज्यत इत्युच्यते। पृथक्त्वेऽपि संसर्गो नास्ति। न हि उदकात्पृथगवस्थितं क्षीरमुदकेन संसृज्यत इति कथ्यते। एवं दर्शनादीनां यदि एकत्वे सति संसर्गः परिकल्प्यते, सोऽनुपपन्नः। एककस्यापि चक्षुषः संसृष्टिप्रसङ्गात्। अथ पृथक्त्वम्, एवमप्यनुपपन्नः। एककस्यापि चक्षुषो रूपादिभ्यः पृथग्भूतस्य संसृष्टिप्रसङ्गात्। असति संसर्गे नास्ति दर्शनादिकमिति सिद्धम्॥
अत्राह -यद्यपि संसर्गो नास्ति, तथापि संसृज्यमानं संसृष्टं संस्रष्टा चास्ति, तदप्रतिषेधात्। न च संसर्गमन्तरेण संसृज्यमानं संसृष्टं संस्रष्टा च संभवति। तस्मात्संसर्गोऽपि भविष्यतीति। उच्यते। एतदपि न युक्तम्। यस्माद्यदा संसर्ग एव नास्तीति प्रतिपादितम्, असति च संसर्गे तदा कुतः संसृज्यमानादिकम्? तत्र वर्तमानसंसर्गक्रियासाधनकर्मभूतं संसृज्यमानम्, संसृष्टं निष्पन्नसंसर्गक्रियम्, संस्रष्टा कर्ता क्रियानिष्पत्तौ स्वातन्त्र्येणावस्थितः। तदत्र संसर्गाभावादेव संसृज्यमानादिकमपश्यंस्तत्प्रतिषेधं निगमयन्नाह -
संसृज्यमानं संसृष्टंसंस्रष्टा च न विद्यते॥८॥
इति। यथोक्तं भगवता [ उपालिपरिपृच्छायाम्]
सर्वसयोगि तु पश्यति चक्षु -
स्तत्र न पश्यति प्रत्ययहीनम्।
[नैव च] चक्षु पपश्यति [रूपं]
तेन सयोगवियोगविकल्पः॥
आलोकसमाश्रित पश्यति चक्षु
रूप मनोरम चित्रविचित्रम्।
येन च योगसमाश्रित चक्षु -
स्तेन न पश्यति चक्षु कदाचि॥
ते परिनिर्वृत लौकिक शूरा
येहि स्वभावत ज्ञातिभि धर्माः।
कामगुणैर्हि चरन्ति असङ्गाः
सङ्ग विवर्जिय सत्त्व विनेन्ति॥
नो पि च सत्त्व न जीविह कश्चि
सत्त्वहितं च करोन्ति जिनेन्द्राः।
सत्त्वु न अस्ति करोन्ति च अर्थम्॥
सङ्गु न विद्यति अत्र कदाचि
तस्य न विद्यति वेदन लोके॥
तथा -
भावितु मार्ग पवर्तितु ज्ञान
शून्यक धर्म निरात्मक सर्वि।
येन विभावित भोन्तिमि धर्मा -
स्तस्य भवेत्प्रतिभानमनन्तम्॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संसर्गपरीक्षा नाम चतुर्दशमं प्रकरणम्॥