षष्ठं प्रकरणम्
Technical Details
रागरक्तपरीक्षा षष्ठं प्रकरणम्।
अत्राह -विद्यन्त एव स्कन्धायतनधातवः। कुतः? तदाश्रयसंक्लेशोपलब्धेः। इह यन्नास्ति, न तदाश्रयसंक्लेशोपलब्धिरस्ति बन्ध्यादुहितुरिव वन्ध्यासूनोः। सन्ति च रागादयः क्लेशाः संक्लेशनिबन्धनम्। यथोक्तं भगवता - बालो भिक्षवे अश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितः चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते। सोऽभिनिविष्टः सन् रागमुत्पादयति। रक्तः सन् रागजं द्वेषजं मोहजं कर्माभिसंस्करोति कायेन वाचा मनसेति विस्तरः। उच्यते। स्युः स्कन्धायतनधातवो यदि रागादय एव क्लेशाः स्युः। इहायं रागः परिकल्प्यमानो बालपृथग्जनैः सति रक्ते नरे परिकल्प्येत असति वा? उभयथा च न युज्यत इत्याह -
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति॥१॥
तत्र रागः सक्तिरध्यवसानं सङ्गोऽभिनिवेश इति पर्यायाः। रक्तो रागाश्रयः। स यदि रक्तो रागात्पूर्वं रागतिरस्कृतो रागरहितो भवेत्, तदा तं रागतिरस्कृतं रक्तं प्रतीत्य रागो भवेत्। एवं सक्ति रक्ते रागो भवेदिति युक्तम्। न त्वेवं संभवति, यद्रागरहितो रक्तः स्यात्। अर्हतामपि रागप्रसङ्गात्॥१॥
यद्येवं सति रक्ते न रागः, असति तर्हि रक्ते रागोऽस्तु। एतदप्ययुक्तमित्याह -
रक्तेऽसति पुना रागः कुत एव भविष्यति।
यदा सति रक्ते रागो नास्ति, तदा कथमसति रक्ते निराश्रयो रागः सेत्स्यति? न हि असति फले तत्पक्कता संभवतीति॥
अत्राह - यद्यपि त्वया रागो निषिद्धः, तथापि रक्तोऽस्ति, अप्रतिषेधात्। न च रागमन्तरेण रक्तो युक्तः, तस्मादयमप्यस्तीति। उच्यते। स्याद्रागो यदि रक्तः स्यात्। यस्मादयं रक्त इष्यमाणः सति वा रागे परिकल्प्येत, असति वा? उभयथा च नोपपद्यते इत्याह -
सति वासति वा रागे रक्तेऽप्येष समः क्रमः॥२॥
तत्र यदि सति रागे रक्तः परिकल्प्येत, तत्रापि एष एव रागानुपपत्तिक्रमोऽनन्तरोक्तो रक्तेऽपि तुल्यः।
रक्ताद्यदि भवेत्पूर्वं रागो रक्ततिरस्कृतः।
इत्यादि। अथासति रागे रक्त इष्यते, एतदप्ययुक्तम्। यस्मात् -
रागेऽसति पुना रक्तः कुत एव भविष्यति।
इति। तस्माद्रक्तोऽपि नास्ति। रागरक्ताभावाच्च स्कन्धादयोऽपि न सन्तीति॥२॥
अत्राह - नैव हि रागरक्तयोः पौर्वापर्येण संभवो यत इदं दूषणं स्यात्, किं तर्हि रागरक्तयोः सहैवोद्भवः। चित्तसहभूतेन रागेण हि चित्तं रज्यते, तच्च रक्तमिति। अतो विद्येते एव रागरक्ताविति। उच्यते। एवमपि -
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः।
सहोत्पादोऽपि न युक्तो रागरक्तयोः। यस्मात् -
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम्॥३॥
सहभावात् सव्येतरगोविषाणवदित्यभिप्रायः॥३॥
अपि च। अनयो रागरक्तयोः सहभावः एकत्वे परिकल्प्येत पृथक्त्वे वा? तत्र यदि एकत्वे, तन्न युज्यते। यस्मात्
नैकत्वे सहभावोऽस्ति
कस्मात्पुनर्नास्तीत्याह - न तेनैव हि तत्सह।
न हि रागस्वात्मा रागादव्यतिरिक्तो रागेण सहेति व्यपदिश्यते॥
इदानीं पृथक्त्वेऽपि सहभावाभावमाह -
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति॥४॥
न हि पृथग्भूतयोरालोकान्धकारयोः संसारनिर्वाणयोर्वा सहभावो दृष्ट इति॥४॥
किं चान्यत् -
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः॥५॥
यदि एकत्वे सहभावः स्यात्, तदा यत्र यत्रैकत्वं तत्र तत्र सहभाव इत्येकस्यापि सहभावः स्यात्। पृथक्त्वेऽपि सहभावे इष्यमाणे यत्र यत्र पृथक्त्वं तत्र तत्र सहभाव इति अश्वादिव्यतिरिक्तस्य पृथगवस्थितस्य गोः असहायस्य सहभावः स्यात्॥५॥
किं च -
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः॥६॥
पृथक्त्वे सहभावश्च रागरक्तयोः परिकल्प्यते। किमनयोः सिद्धः पृथक्पृथग्भावः? किं रागनिरपेक्षो रक्तः सिद्धो यतस्तयोः सहभावः स्यात्? पृथक्पृथक्सिद्धयोरेव हि गवाश्वयोः सहभावो दृष्टः। न त्वेवं रागरक्तौ पृथक्पृथक्सिद्धाविति नास्त्यनयोः सहभावः॥६॥
अथवा। पृथक्पृथगसिद्धयोर्न सहभाव इति कृत्वा -
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः।
परिकल्प्यते भवता, किमिदानीं सहभावेनाकिंचित्करेण परिकल्पितेनेत्याह -
सहभावं किमर्थं तु परिकल्पयसे तयोः॥७॥
रागरक्तयोः सिद्धयर्थं सहभावः परिकल्प्यते। सच पृथक्पृथगसिद्धयोर्नास्तीति पृथक्पृथक् सिद्धिरभ्युपगम्यते त्वया। नन्वेवं सति सिद्धत्वात्किमनयोः सहभावेन कृत्यम्?
अथ -
पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि।
पृथक्पृथग् रागरक्तयोः सिद्धिर्नास्तीति कृत्वा यद्यनयोः सहभावमिच्छसि, स च पृथक्पृथगसिद्धयोर्नास्तीति -
सहभावप्रसिद्धयर्थ पृथक्त्वं भूय इच्छसि॥८॥
नन्वेवं सति इतरेतराश्रयायां सिद्धौ स्थितायां कस्येदानीं सिद्धौ सत्यां कस्य सिद्धिरस्तु ?॥८॥
यावता -
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि॥९॥
नास्त्येव स पृथग्भावः सहभावानपेक्षो यस्मिन् पृथग्भावे सति सहभावसिद्धिः स्यादित्यसंभावयन्नाह -
कतमस्मिन्पृथग्भावे सहभावं सतीच्छसि॥९॥
तदेवं यथोदितविचारपरामर्शेन रागरक्तयोरसिद्धिं निगमयन्नाह -
एवं रक्तेन रागस्य सिद्धिर्न सह नासह।
इति। यथा च रागरक्तयोर्न पौर्वापर्येण सिद्धिः नापि सहभावेन, एवं सर्वभावानामपीत्यतिदिशन्नाह -
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह॥१०॥
इति द्वेषद्विष्टमोहमूढादीनां रागरक्तवदसिद्धिर्योज्यते॥१०॥
अत एवोक्तं भगवता -
यो रज्येत यत्र वा रज्येत येन वा रज्येत, यो दुष्येत यत्र वा दुष्येत येन वा दुष्येत, यो मुह्येत यत्र वा मुह्येत येन वा मुह्येत, स तं धर्म न समनुपश्यति तं धर्म नोपलभते। स तं धर्ममसमनुपश्यन्ननुपलभमानो ऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्तः समाहित इत्युच्यते। तीर्णः पारग इत्युच्यते। क्षेमप्राप्त इत्युच्यते। अभयप्राप्त इत्युच्यते। यावत् क्षीणास्रव इत्युच्यते। निःक्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञ आजानेयो महाभागः कृतकृत्यः कृतकरणीयः अपहतभारोऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशितापरमपारमिप्राप्तः श्रमण इत्युच्यते। इति विस्तरः॥
तथा -
ये रागदोषमदमोहसभाव ज्ञात्वा
संकल्पहेतुजनितं वितथप्रवृत्तम्।
न विकल्पयन्ति न विरागमपीह तेषाम्
[आशु] सर्वभवभावविभावितानाम्॥
इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ
रागरक्तपरीक्षा नाम षष्ठं प्रकरणम्॥