पञ्चमं प्रकरणम्
Technical Details
धातुपरीक्षा पञ्चमं प्रकरणम्॥
अत्राह - धातवः सन्ति प्रतिषेधाभावात्। उक्तं च भगवता- षड्धातुरयं महाराज पुरुषपुद्गल इत्यादि। ततश्च प्रवचनपाठाद्धातुवत्स्कन्धायतनान्येव सन्तीति। उच्यते। स्युः स्कन्धायतनानि यदि धातव एव स्युः। कथमित्याह-
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात्।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्॥१॥
तत्र षड् धातव उक्ताः पृथिव्यप्तेजोवाय्वाकाशविज्ञानाख्याः। तत्राकाशमधिकृत्योच्यते दूषणं स्वरूपनिरूपणात्। इहाकाशस्यानावरणं लक्षणमुच्यते। यद् यस्मात्पूर्वमाकाशमनावरण लक्षणाल्लक्ष्यं स्यात्, तत्र लक्षणप्रवर्तनादनावरणलक्षणात्पूर्वं नाकाशं लक्ष्यरूपमिति। यदा चैवम् -
नाकाशं विद्यते किंचित्पूर्वमाकाशलक्षणात्।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात्॥
तथाहि अलक्षणं प्रवर्तताम्। तदभावे खपुष्पवन्नास्त्याकाशमित्याह -
अलक्षणो न कश्चिच्च भावः संविद्यते क्कचित्।
इति। अत्राह - लक्षणप्रवृत्तिर्लक्ष्ये भवेत् , तत्सद्भावाल्लक्ष्यमप्यस्तीति। एतदपि नास्ति। यस्मात् -
असत्यलक्षणे भावे क्रमतां कुह लक्षणम्॥२॥
लक्षणात्पूर्वमलक्षणो भावो नास्तीत्युक्तम्। ततश्च असति असंविद्यमाने अलक्षणे लक्षणरहिते भावे कुह इदानीं लक्षणंप्रवर्ततामिति नास्ति लक्षणप्रवृत्तिः॥२॥
अपि च। इदं लक्षणं प्रवर्तमानं सलक्षणे वा प्रवर्तेत अलक्षणे वा? उभयथा च नोपपद्यत इत्याह -
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते॥३॥
तत्र अलक्षणे खरविषाणवन्न लक्षणप्रवृत्तिः। सलक्षणेऽपि भावे न लक्षणप्रवृत्तिरूपपद्यते प्रयोजनाभावात्। किं हि लक्षणवतः प्रसिद्धस्य भावस्य पुनर्लक्षणकृत्यं स्यात्? इत्यनवस्था अतिप्रसङ्गश्चैवं स्यात्। न ह्यसौ कदाचिन्न सलक्षणः स्यादिति सदैव लक्षणप्रवृत्तिः प्रसज्येत। न चैतदिष्टम्। तस्मात्सलक्षणेऽपि भावे न लक्षणप्रवृत्तिपरुपद्यते प्रयोजनाभावात्। तत्रैवं स्यात् - सलक्षणालक्षणाभ्यामन्यत्र प्रवर्तिष्यत इति। उच्यते -
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते।
किं कारणम् ? असद्भावात्। यदि सलक्षणो नालक्षणः, अथालक्षणो न सलक्षणः। अतः सलक्षणश्च अलक्षणश्चेति विप्रतिषिद्धमेतत्। न च विप्रतिषिद्धं संभवति। तस्मादसंभवादेव सलक्षणे चालक्षणे च लक्षणप्रवृत्तिर्नोपपद्यते इति॥३॥
अथापि स्यात् - यद्यपि न लक्षणप्रवृत्तिः , तथापि लक्ष्यमस्तीति एतदपि नास्ति। यस्मात् -
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते।
यदा लक्षणप्रवृत्तिरेव नास्ति तदा कथं लक्ष्यं स्यात्? नैव संभवतीत्यभिप्रायः।
अत्राह- लक्षणप्रवृत्तिस्त्वया निषिद्धा न तु लक्षणम्, ततश्च विद्यते लक्ष्यम्, लक्षण सद्भावात्। उच्यते-
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः॥४॥
लक्षणासंप्रवृत्तौ च न लक्ष्यमुपपद्यते इति प्रतिपादितम्। तदा
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसंभवः।
निराश्रयत्वात्॥४॥
यदा चैवं लक्षणं नास्ति, तदा लक्षणसद्भावाद्विद्यते लक्ष्यमिति यदुक्तं तन्न यतश्चैतदेवम् -
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते।
इति निगमनम्॥
अत्राह -यद्यापि लक्ष्यलक्षणे न स्तः, तथा (प्या)काशमस्ति, भावरूपं च भवदाकाश लक्ष्यं लक्षणं वा स्यात्। तस्माल्लक्ष्यलक्षणे अपि ष्ट इति। एतदप्ययुक्तमित्याह -
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते॥५॥
लक्ष्यलक्षणे यथा न स्तः, तथोक्तं प्राक्। यदा अनयोरभावः, तदा लक्ष्यलक्षणरहित त्वादाकाशकुसुमवन्नास्त्याकाशम्॥५॥
यद्याकाशं भावो न भवति, अभावस्तर्हि अस्तु? एतदपि नास्ति। यस्मात् -
अविद्यमाने भावे च कस्याभावो भविष्यति।
यदा आकाशं भावो न भवति, तदा भावस्यासत्त्वे कस्याभावः कल्प्यताम्? वक्ष्यति हि -
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः॥इति।
तस्माद् भावाभावादभावोऽप्याकाशं न संभवति। रूपाभावश्चाकाशमिति व्यवस्थाप्यते। यद्यपि रूपं स्यात्तदा रूपाभाव आकाशमिति स्यात्। यदा च यथोक्तेन न्यायेन रूपमेव नास्ति, तदा कस्याभाव आकाशं स्यात्?
अत्राह - विद्येते एव भावाभावौ, तत्परीक्षकसद्भावात्। अस्ति च भवान् भावाभावयोः परीक्षकः, य एवाह -
अविद्यमाने भावे च कस्याभावो भविष्यति।
इति। तस्माद् भवतो भावाभावपरीक्षकस्य सद्भावात् परीक्ष्यावपि भावाभावौ विद्येते इति। उच्यते। एतदप्ययुक्तम्। यस्मात् -
भावाभावविधर्मा च भावाभावमवैति कः॥६॥
स्यातां भावाभावौ यदि, तदा तयोः परीक्षको भावो व स्यादभावो वा। यदि भाव इष्यते, तस्य
लक्ष्यलक्षणनिर्मुक्तो नैव भावोऽपि विद्यते।
इत्युक्तं दूषणम्। अथ अभावः,
अविद्यमाने भावे च कस्याभावो भविष्यति।
इत्यत्रोक्तमेतद्दुषणम्। न च भावाभावविसदृशधर्मा कश्चित् तृतीयः पदार्थोऽस्ति, योऽनयोरवगमक इति नास्ति भावाभावयोः परीक्षकः। अत एवोक्तं भगवता -
भावानभावानिति यः प्रजानति
स सर्वभावेषु न जातु सज्जते।
यः सर्वभावेषु न जातु सज्जते
स आनिमित्तं भजते समाधिम्॥इति।
तथा -
योऽपि च चिन्तयि शून्यकधर्मान्
सोऽपि कुमार्गपपन्नकु बलः।
अक्षर कीर्तित शून्यक धर्माः
ते च अनक्षर अक्षर उक्ताः॥
शान्त पशान्त य चिन्तयि धर्मान्
सोऽपि च चिन्त न जातु न भूतः।
चित्तवितर्कण सर्वि पपञ्चाः
सूक्ष्म अचिन्तिय बुध्यथ धर्मान्॥
इति विस्तरः॥६॥
इदानीं प्रतिपादितमर्थं निगमयन्नाह -
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम्।
आकाशम्
इति। यथा चाकाशम्, एवम् -
आकाशसमा धातवः पञ्च ये परे॥७॥
पृथिव्यादिधातवो ये पञ्च परेऽवशिष्यन्ते, तेऽपि आकाशवद् भावाभावलक्ष्यलक्षणपरिकल्पस्वरूपरहिताः परिज्ञेया इत्यर्थः ॥७॥
तदेवं पदार्थानां स्वभावे व्यवस्थिते अविद्यातिमिरोपहतमतिनयनतया अनादिसंसाराभ्यस्त तया भावाभावादिविपरीतदर्शना निर्वाणानुगाम्यविपरीतनैःस्वभाव्यदर्शनसन्मार्गपरिभ्रष्टाः
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम्॥८॥
द्रष्टव्योपशमं शिवलक्षणं सर्वकल्पनाजालरहितं ज्ञानज्ञेयनिवृत्तिस्वभावं शिवं परमार्थ स्वभावम्। परमार्थमजरममरमप्रपञ्चं निर्वाणं शून्यतास्वभावं ते न पश्यन्ति मन्दबुद्धितया अस्तित्वं नास्तित्वं चाभिनिविष्टाः सन्त इति। यथोक्तमार्यरत्नावल्याम् -
नास्तिको दुर्गतिं याति सुगतिं यात्यनास्तिकः।
यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः॥इति॥
आर्यसमाधिराजे चोक्तं भगवता -
अस्तीति नास्तीति उमेऽपि अन्ता
शुद्धी अशुद्धीति इमेऽपि अन्ता।
तस्मादुमे अन्त विवर्जयित्वा
मध्येऽपि स्थानं न करोति पण्डितः॥
अस्तीति नास्तीति विवाद एषः
शुद्धी अशुद्धीति अयं विवादः।
विवादप्राप्त्या न दुखं प्रशाम्यते
अविवादप्राप्त्या च दुःखं निरुध्यते॥इति।
तस्मादसंभव एव यत्सांसारिकेण मार्गेण निर्वाणमधिगम्यत इति॥८॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
धातुपरीक्षा नाम पञ्चमं प्रकरणम्॥