प्रतीत्यसमुत्पादहृदयव्याख्यानम्
Technical Details
प्रतीत्यसमुत्पादहृदयव्याख्यानम्
आचार्य नागार्जुनकृतम्
इह कश्चित् शुश्रूषमाणः श्रमणः श्रवण धारणोहापोहशक्तिसम्पन्नः शिष्य आचार्यस्य पाद [मूल] मागम्य तथागतशासनमारभ्य एवं पृष्टवान्-भगवन् अत्र
द्वादश येऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः।
क्व तेषां सङ्ग्रह इति श्रोतुमिच्छामि। इति।
तस्य तेषां धर्माणां तत्त्ववुभुत्सामवेत्य आचार्य इदमुक्तवान्
तें क्लेशकर्मदुःखेषु सङ्गृहीतास्त्रिषु [यथावन्]॥१॥
तत्र दश च द्वौ च द्वादश। अङ्गान्येव विशेषा अङ्गविशेषाः। रथाङ्गवदङ्गभाव उक्तः। कायवाङमनोमौनान्मुनिः। तेन मुनिनोद्दिष्टाः कथिताः प्रकाशिता इति पर्यायाः। ते च न प्रकृति-नियति-पुरुष-पराधीन-कर्म-ईश्वर-काल-स्वभाव-यथेच्छा-प्रजापति-यदृच्छादिकारणप्रसूताः। किं तर्हि प्रतीत्यसम्भूताः। ते द्वादशाङ्गविशेषाः क्लेशकर्मदुःखा अन्योन्यं प्रतीत्य नडकलापयोगेन त्रिषु यथावत् संक्षिप्ताः। यथावदिति अशेषेणेत्यर्थः॥१॥
पृच्छति। के पुनस्ते क्लेशाः। किं कर्म। किं दुःखम् येषु इमे प्रत्ययविशेषाः सङ्ग्रहं गच्छन्ति। आह-
आद्याष्टमनवमाः स्युः क्लेशाः।
द्वादशाङ्गविशेषाणां [मध्ये] आद्या अविद्या, अष्टमी तृष्णा, नवममुपादानम् इमे त्रयः क्लेशसङ्गृहीताः प्रत्यवगन्तव्याः। किं कर्म।
कर्म द्वितीयदशमौ च।
संस्कारो द्वितीयः भवो दशमः। [इमा] द्वौ धर्मौ कर्मसङ्गृहीतौ वेदितव्यौ।
शेषाः सप्त च दुःखम्
कर्मक्लेशसङ्गृहीताना [मङ्ग] विशेषाणां ये शेषा [अङ्ग] विशेषाः सप्त च ते दुःख [सङ्गृहीता] वेदितव्याः। तद्यथा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना जातिजरामरणम्। च शब्दः प्रियवियोगाप्रियसंयोगेष्टविघातदुःखानि सञ्चिनोति।
त्रिसङ्ग्रहा द्वादश तु धर्माः॥२॥
अत्र एते द्वादश धर्माः कर्मक्लेशदुःखा[ख्या] वेदितव्याः। [अन्यूना] धिकज्ञपनार्थस्तु शब्दः। एतावन्त एवेमे सूत्रान्तनिर्दिष्टा नातः परमस्तीति परिगणितम्॥२॥
पृच्छति। क्लेशकर्मदुःखाना[मेषां] कुतः किमुत्पद्यत इति व्याख्यातुं प्रार्थये। आह-
त्रिभ्या भवति द्वन्द्वम्
क्लेशाख्येभ्यस्त्रिभ्यः कर्माख्यं द्वन्द्वमुत्पद्यते।
द्वन्द्वात्प्रभवन्ति सप्त
दुःखाख्याः पूर्वनिर्दिष्टाः।
सप्तभ्यः।
त्रय उद्भवन्ति
क्लेशाख्याः। तेभ्यस्त्रिभ्यः क्लेशेभ्यश्च द्वन्द्वमुत्पद्यते।
भूयस्तदेव तु भ्रमति भवचक्रम्॥३॥
भवाः कामरूपारूप्यसंशब्दिताः। [ते च] अनवस्थानाच्चक्रभूताः। तेषु पृथग्जनो लोक एव परिभ्रमति। तुशब्दश्च अनियतज्ञापनार्थः। यथा चक्रमनुपूर्व्यां परिभ्रमति। न तथा त्रिषु भवेषूत्पत्तिः। [किं तर्हि] नियमो नास्तीति ज्ञापयति॥३॥
पृच्छति। अथ सर्वदेहेश्वरः सत्त्वाख्यः कर्ता। तेषु तस्य क्रिया कीदृशी। आह-
हेतुफलञ्च हि जगत्
प्रज्ञप्तिं विहाय
अन्यो नास्ति कश्चिदिह सत्त्वः।
परमार्थतः कल्पितः। कल्पितश्च नास्ति। कल्पितमात्रविषये (काम) इष्टद्रव्यं सत् न युज्यते।
पृच्छति। यद्येवम्, तर्हि अस्माल्लोकात् कः परलोकं सङ्क्रामति। आह। अस्माल्लोकात्परलोकं सूक्ष्मोऽणुरपि न सङ्क्रामति। अथ च
शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः॥४॥
आत्मात्मीयरहितेभ्यो धर्मेभ्यः क्लेशकर्माख्येभ्यः पञ्चहेतुभ्यः शून्येभ्य आत्मात्मीयरहिता दुःखतया कथिताः फलकल्पिताः शून्याः सप्त धर्माः प्रभवन्तीत्यर्थः। तद्यथा आत्मात्मीयरहितास्ते नान्योन्यं पुनरात्मीयाः। अथ च स्वभावतोऽनात्मधर्मभ्यः स्वभावतोऽनात्मधर्माः प्रभवन्ति। एवमवगन्तव्यमिति ज्ञापितम्॥४॥
अत्र स्वभावतोऽनात्मधर्मेभ्य एव स्वभावतोऽनात्मधर्माः प्रभवन्ति इत्यत्र को दृष्टान्तः। अत्रोच्यते-
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः।
एभ्यो दृष्टान्तेभ्यः कल्पितेभ्योऽपि स्वभावतोऽनात्मनश्च परलोकसिद्धिर्वेदितव्या। तद्यथा-गुरुमुखादुश्चरिता यदि शिष्यं सङ्क्रामन्ति। गुरुणोच्चरितास्तद्विराहता अपि स्युरिति न सङ्क्रामन्ति। शिष्येण प्रोक्तमपि नान्यतोऽस्ति। अहेतुभूतत्वात्। यथा गुरुमुखादुच्चरिताः तथा मरणांशिकचित्तमपि। शाश्वत [आख्य] दोषः स्यात् परलोके न सङ्क्रमः। परलोकोऽपि नान्यतो भवति। अहेतुदोषसत्त्वात्। यथा गुरुणोच्चारितहेतोः शिष्येणो [च्चारितः] स एव अन्यो वा इति न निर्णेतुं शक्यते। तथा मरणचित्तं प्रतीत्य औपपत्त्यंशिकं चित्तमपि तदेव तातोऽन्यद्वा इति न वक्तुं शक्यते। तथा। यथा प्रदीपात्प्रदीपः, मुखात् दर्पणे प्रतिबिम्बमुत्पद्यते। मुद्रातः प्रतिमुद्रोत्पद्यते। अर्ककान्तादग्निः बीजादङ्कुरफलानि अम्लरसात् रसवत्पुनः, शब्दात्प्रतिश्रुत्कश्चोत्पद्यते। ते च त एव वा ततोऽन्ये वा इति न ज्ञातुं शक्यते। तथा-
स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरवधार्यौ॥५॥
तत्र पञ्चस्कन्धा रूपवेदनासंज्ञासंस्कारविज्ञानाख्याः स्कन्धाः। तेषां प्रतिसन्धिर्निषिद्धः। हेतोर्हि फलमन्यदुत्पद्यते।
अस्मात् लोकात्परलोकं न कोऽपि भावः सूक्ष्मोऽपि सङ्क्रामति। एवं चक्रभ्रमणं भ्रान्तिविकल्पवासनया समुत्पद्यते। अन्त इति तु विपर्ययः। ततो निवर्तयितव्यम्। अनित्यदुःखशून्यानात्मभावान् न नित्यभावान् व्यामुह्यात्। असति व्यामोहे न रागः। असति रागे न द्वेषः। असति द्वेषे न कर्म करोति। असति कर्मणि नोपादीयते भावः। असत्युपादाने न भवमभिसंस्करोति। असति भवे न जातिः। असत्यां जातौ न कायचित्तयोर्दुःखं भवेत। एवमचिन्त्यात् तद्धेतुपञ्चकान्नान्यत्फलमुत्पद्यते। अयं मोक्षो वेदितव्यः। एवं शाश्वतोच्छेदादिदुर्दृष्टयोऽपनीता भवन्ति॥५॥
अत्र द्वौ श्लोकौ भवतः-
य उच्छेदं प्रकल्पयत्यतिसूक्ष्मेऽपि वस्तुनि।
प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति॥६॥
नापनेयमतः किञ्चित्प्रक्षेप्यं नापि किञ्चन।
भूतश्च भूततो दृष्ट्वा भूतदर्शी विमुच्यते॥७॥
आचार्य नागार्जुनकृतं
प्रतीत्यसमुत्पादहृदयव्याख्यानं समाप्तम्।