जातिनिराकृति
Technical Details
जातिनिराकृति
नमो मञ्जुश्रिये॥
मुग्धाङ्गुलीकिसलयाङ्घ्रिसुवर्णकुम्भाद्
वान्तेन कान्तिपयसा घुसृणारुणेन।
यो वन्दमानमभिसिञ्चति धर्मराज्ये
जागर्तु यो हितसुखाय स मञ्जुनाथः॥
सुहृदामनुरोधेन यथामति यथास्मृति।
ह्रियं विहाय लिख्यन्ते वादस्थानानि कानिचित्॥
तत्र तावदादौ जातिवाद एव निराक्रियते। इह यद्वस्तुनो भेदाभेदाभ्यामभिधेयं न भवति तद्वस्तु न भवति। यथा व्योमकमलम्। न च वस्तुनो भेदाभेदाभ्यामभिधेयं सामान्यमिति। व्यापकानुपलब्धिः। न तावदयमसिद्धो हेतुः। न हि व्यक्तिभ्यो भिन्नमभिन्नं वा सामान्यं शक्यमभिधातुम्। उभयथाप्यसामान्यात्मतास्वभावप्रसङ्गात्। तथा हि यदि तावद्व्यक्तिभ्योऽर्थान्तरमेव सामान्याभिमतं वस्तु तदा कथं तत्तासां सामान्यं नाम। यत् खलु यतोऽर्थान्तरं न तत्तस्य सामान्यम्। यथा गोरश्वः। अर्थान्तरं च गोर्गोत्वमिति। विरुद्धव्याप्तोपलम्भः। ननु च व्यक्तिभ्योऽर्थान्तरं च स्यात् सामान्यं च तासामिति। न विरोधमिह पश्यामः। न चैतन्मन्तव्यम्। अर्थान्तरं चेदर्थान्तरस्य सामान्यं सर्वं सर्वस्य सामान्यं स्याद्विशेषाभावादिति। यद्धि खल्वेकं वस्त्वनेकत्र समवेतं तत्तदीयं सामान्यम्। गोषु चाश्वो न समवेत इति कथमसौ गवां सामान्यं स्यादिति कुतो विशेषाभावः। तदयमनैकान्तिको हेतुः कथमिष्टसिद्धये पर्याप्नुयात्। तदेतदपि बालप्रलापमनुहरति। स हि विशेषो बुद्धिमता वक्तव्यो यः सामान्याभिमतपदार्थमात्रभावी सन्नसंकरेण व्यवस्थामुपपादयेत्। अयं चानेकार्थसमवायः संख्यासंयोगकायद्रव्यादिष्वप्यस्तीति तान्यपि सांख्यादिसंमतानि सामान्यानि स्युः। अथैवं मन्येथाः। सत्यप्यनेकार्थसमवाये यदेव समानज्ञानाभिधानप्रवृत्तिनिमित्तं तदेव सामान्यं नान्यत्। समानानां हि भावः सामान्यम्। भवतोऽस्मादभिधानप्रत्ययावितिभावः। तदाह। ...........( ) समानज्ञानाभिधानप्रसवात्मिका जातिरिति ( )। एतदपि स्वप्रक्रियामात्रप्रदीपनम्। तथा ह्यत्र विकल्पद्वयमुदयते। किं ते स्वरूपेण समानाः [ 2b ] .......( ) तोरुत्पन्नायेषु तत्सामान्यं तथाविधबोधाभिधानप्रवणम्। आहोस्विदसमाना एवेति। तत्र यदि ते स्वत एव समानाः संमाने ज्ञानाभिधान .....( ) मेव प्रवर्तयिष्यन्ति। किं तत्र सामान्येनार्थान्तरेण। तथा च तदसामान्यमेव। तद्बलेन समानयोर्ज्ञानाभिधानयोरप्रवृत्तेः॥ अथसमानाः, न तर्हि तेषां सामान्यमस्ति समानानां भावः सामान्यमित्युक्तवानसि। असमानां च भावः सामान्यमिति ब्रुवाणः श्लाघनीयप्रज्ञो देवानांप्रियः। स्वयमसमानस्वभावा अपि ते नैव समानास्त इति चेत्। किं ते क्रियन्ते। अथाऽध्यवसीयन्ते। तत्र न तावत्क्रियन्ते। तेषां स्वहेतुभिरेव कृतत्वात्। कृतस्य च पुनः करणायोगात्। अभूतप्रादुर्भावलक्षणत्वात्करणस्य समानात्मना क्रियन्त इति चेत्। ननु यैषां निष्पन्नतया कृञः कर्मता नास्ति कथं ते क्रियन्ते नाम। स्यादेतत्, येन धर्मिरूपेण ते निष्पन्ना न तेन करोतेः कर्मभावमनुभवन्ति। समानेन पुना रूपेण [ 3 a ] निष्पन्नास्तेन क्रियन्त इति न किंचिदत्रानुपपन्नम्। एवं तर्हि तदेव समानं रूपं सामान्येन कियत इति स्यात् तस्य च भावनिष्पत्तावनिष्पन्नस्य कारणान्तरतः पश्वादुपजायमानस्य तद्भावता ब्रह्मणाप्यशक्ता साधयितुम्। अर्थान्तरमेव तद्भवतु, न किंचिदनिष्टमापद्यत इति चेत्। सामान्यान्तरमेव तर्हि तन्नेत्यसामान्यजन्ममभ्युपेतं स्यात्। तथा च तदपि भेदानामसमानानां कथं सामान्यमिति पर्यनुयोगे तेनापि तद्व्यतिरिक्तसमानरूपकरणोपगमे सत्यपरापरकर्मसामान्यपरिकल्पनात्मकमनवस्थानमप्रतिविधानमासज्यते न च भेदानामसमानरूपं प्रच्यवते। नापि द्वितीयपक्षश्रयणं श्रेयः। न ह्यन्येनान्ये समाना नाम प्रतीयन्ते तद्वन्तो नाम प्रतीयेरन्। भूतवत्कण्ठे गुणेन। अन्यथा हि येन केनचिदप्यन्येन ये केचन समानाः प्रतीयेरन् प्रतिनियमनिबन्धनाभावात्। एकेनानेकसमवायेनान्येनान्ये समानाः प्रतीयन्ते, ततो नातिप्रसङ्ग इति चेत्। वार्तमेतत् [ 3 b ] न ह्यवयविद्रव्यद्वित्वादिसंख्यानामप्येकत्वानेकसमवायित्वे न स्तः। येन तेभ्योऽवयवादयो न गम्येरन्। अथ तेषां स्वाश्रयेषु समानज्ञानाभिधानसामर्थ्याभावाददोष एषः ननु सामान्यमपि भेदेष्वेकत्वानेकसमवायाभ्यामेव समप्रत्ययहेतुतया परिकल्पितम्। तौ वाऽवयव्यादीनामपि युष्माभिरभ्युपेताविति तेषामपि तथाभावः कथमपाकियेत। असामान्यस्वभावत्वान्न ते समानज्ञानहेतव इति चेत्। ननु समानज्ञानाहेतुत्वे सत्यसमानस्वभावता। तस्यां च सत्यां समानज्ञानाहेतुत्वमिति स्फुटमितरेतराश्रयत्वम्। तथा ह्येकत्वादेः समानत्वात्सामान्याभिमतभाववदारभ्य द्रव्यादेरपि किं न सामान्यरूपतेति पर्यनुयोगे समानप्रत्ययाप्रत्ययत्वादित्युत्तरमुक्तवानसि। ततस्तदपि समानप्रतीतिनिमित्तस्य समानत्वात्समानमवयव्यादेरपि किं न स्यादित्यस्मदीये पुनः पर्यनुयोगे सन्यसामान्यरूपत्वादिति ब्रुवाणः ............ ( ) नेकं च ब्रूयात्। तस्य च साक्षादेकत्वनित्यत्वे प्रतिज्ञाय पुनरुपदेशान्तरेण तत एव प्रतिवहतीति कथं नोन्मतः। तस्माद्भेदामेदाभ्यां .... [4 a] ( ) सामान्यमिति सिद्धम्। नन्वयमनैकान्तिको हेतुः। यद्यपि हि सामान्यं भेदाभेदाभ्यां केवलाभ्यां वाच्यं न तथाप्यवस्तु प्रकारान्तरस्याप्युभयात्मना लक्षणस्य संभवाद्भिन्नाभिन्नमेव हि सामान्यं जैनजैमिनीयाः प्रतिजानते॥ यदाहुः॥
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम्।
शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम्॥ १॥
न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात्।
व्येतुदेति विशेषेण सहैकत्रोदयादि सत्॥ २॥
यथा कल्माषवर्णस्य यथेष्टवर्णविग्रहः।
चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणा॥ ३॥
यदा तु शबलं वस्तु युगवत्प्रतिपद्यते।
तदान्यानन्यभेदादि सर्वमेव प्रतीयते॥ ४॥
एकात्मकं भवेदेकमिति नेश्वरभाषितम्।
तथा हि तदुपेतव्यं यद्यथैवोपलभ्यते ( )॥ ५॥ इति॥
अत्र प्रतिविधीयते [4 b। भेदाभेदयोरन्योन्यप्रतिषेधरूपत्वादेकविधेरपरनिषेधनान्तरीयकत्वात्कथमनयोरेकाधिकरणत्वं मत्तोन्मत्तेतरः प्रतिपद्येत। तथाहि। तन्नाम तस्मादभिन्नं यदेव यत्। भिन्नं च तत्तस्माद्यद्यन्न भवति। अतश्व व्यक्तिभ्यः सामान्यं भिन्नमभिन्नं चेति ब्रुवाणो व्यक्तयः सामान्यं न च व्यक्तयः सामान्यमिति ब्रूते। कथं च स्वस्थचेतनश्वेतस्यपि तदेतदारोपयेत्। प्रयोगः। यद्यदेवं न तदतद्भवति यथोष्णं वह्रिरूपं नानुष्णम्। व्यक्तय एव सामान्यमिति स्वभावविरुद्धोपलब्धिप्रसङ्गः। उभयथा प्रतीतेरुभयोपगम इति चेत्। ननु प्रतीतिरप्रतीतेर्बाधिका न तु मिथ्याप्रतीतेः। वितथस्यापि प्रतीतिदर्शनात्। अन्यथा हि प्रतीतियथानुसारिणा भवता द्विचन्द्रादयो ... ... ... वशात्ते निह्नूयन्स इति चेत्। इहाप्येतदनुमानमसिद्ध्यादिदोषत्रयरहितलिङ्गजं किं न पश्यति देवानांप्रियः। [ 5 a] न संविदो युक्तिभिरस्ति बाधेति चेत्। ननु किमियं राज्ञामाज्ञा येनाविचार्य गृह्येत प्रत्यक्षस्वभावा संवित्। तच्च ज्येष्ठप्रमाणमतो न बाध्यत इति चेत्। न तर्हि तदनुमानं प्रमाणं स्यात्। लक्षणयुक्ते बाधासंभवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वासः। यथानुमानाभासो बाध्यते प्रत्यक्षाभासोऽपि किं न बाध्यते। बाध्यतामध्यक्षाभासः। प्रत्यक्षैव पुनरियं संवित्तिस्तत्कथं न बाध्यत इति चेत्। नन्वियमपि प्रत्यक्षाभासवानुमानेन बाध्यमानत्वात्। अथ प्रत्यक्षमेव प्रत्यक्षस्य तदाभासतां बाध्यत्वात्साधयति न त्वनुमानमित्यभिनिवेशः। कथं तर्हि ज्वालादिविषयायाः प्रत्यभिज्ञाया व्यक्त्यपेक्षया प्रत्यक्षाभासता व्यवस्थाप्यते। न खलु ज्वालादीनामक्षणिकत्वमध्यक्षमवधारयेत्। तस्मादनुमानमेव ज्वालादीनां क्षणिकतां साधयेत्। बाधकमेतस्या इत्यकामकेनापि कुमारिलेनाभ्युपेतव्यम् [6 a]। न शक्यं वक्तुं सामान्यमेव केवलं तया विषयीक्रियत इति तथाभावे हि तदेवेदं बुद्धिज्वालात्वमिति स्यात् न तु सैवेयं ज्वालेति। तस्मान्नानैकान्तिको हेतुरित्यलं बहुभाषितयेति॥ ॥ जातिनिराकृतिरियं जितारिपादानाम्॥