Digital Sanskrit Buddhist Canon

क्षणभङ्गसिद्धिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kṣaṇabhaṅgasiddhiḥ
क्षणभङ्गसिद्धिः।



नमः समन्तभद्राय।

आक्षिप्तव्यतिरेका य व्याप्तिरन्वयरूपिणी।

साधर्म्म्यवति दृष्टान्ते सत्त्वहेतोरिहोच्यते॥

यत् सत् तत् क्षणिकं यथा घटः सन्तश्चामी विवादास्पदीभूताः पदार्था इति।



हेतोः परोक्षार्थप्रतिपादकत्वं हेत्वाभासत्वशङ्कानिराकरणमन्तरेण न शक्यते प्रतिपादयितुं। हेत्वाभासाश्च असिद्वविरुद्वानैकान्तिकभेदेन त्रिविधाः। तत्र न तावदयमसिद्वो हेतुः। यदि नाम दर्शने दर्शने नानाप्रकारं सत्त्वलक्षणमुक्तमास्ते, अर्थक्रियाकारित्वं, सत्तासमवायः, स्वरूपसत्त्वं, उत्पादव्ययघ्रौव्ययोगित्वं प्रमाणविषयत्वं, सदुपलम्भप्रमाणगोचरत्वं व्यपदेशविषयत्वमित्यादि, तथापि किमनेन अप्रस्तुतेन इदानीमेव निष्टङ्कितेन। यदेव हि प्रमाणतो निरूप्यमाणं पदार्थानां सत्त्वमुपपन्नं भविष्यति; तदेव वयमपि स्वीकरिष्यामः। केवलं यदेतदर्थक्रियाकारित्वं सर्व्वजनप्रसिद्वमास्ते; तत् खल्वत्र सत्त्वशब्देनाभिसन्धाय साधनत्वेनोपात्तं। तच्च यथायोगं प्रत्यक्षानुमानप्रमाणप्रसिद्वसद्भावेषु भावेषु पक्षीकृतेषु प्रत्यक्षादिना प्रमाणेन प्रतीतमिति न स्वरूपेणाश्रयद्वारेण वाऽसिद्वसम्भावनापि॥



नापि विरुद्धः। सपक्षीकृते घटे सद्भावात्। ननु कथमस्य सपक्षत्वं, पक्षवदत्रापि क्षणभङ्गासिद्धेः। नह्यस्य प्रत्यक्षत क्षणभङ्गसिद्धिः। तथात्वेनानिश्चयात्। नापि सत्त्वानुमानतः। पुनर्निदर्शनान्तरापेक्षायामनवस्थाप्रसङ्गात्। न चान्यदनुमानमस्ति।



सम्भवे वा तेनैव पक्षेऽपि क्षणभङ्गसिद्वेरलं सत्तानुमानेनेति चेत्। उच्यते। अनुमानान्तरमेव प्रसङ्गप्रसङ्गविपर्य्ययात्मकं घटे क्षणभङ्गप्रसाधकं प्रमाणान्तरमस्ति, तथा घटो वर्त्तमानक्षणे तावत् एकामर्थक्रियां करोति। अतीतानागतक्षणयोरपि किं तामे वार्थक्रियां कुर्यादन्यां वा, नवा कामपि क्रियामिति त्रयः पक्षाः। नात्र प्रथमपक्षो युक्तः कृतस्य करणायोगात्। अथ द्वितीयोऽभ्युपगम्यते तदिदमत्र विचार्य्यताम्। यदा घटो वर्त्तमानक्षणभावि कार्य्यं करोति तदा किमतीतानागतक्षणभाविन्यपि कार्य्ये शक्तोऽशक्तो वा। यदि शक्तस्तदा वर्त्तमानक्षणभाविकार्य्यवत् अतीतानागतक्षणभाव्यपि कार्य्यं कुर्य्यात् तत्रापि शक्तत्वात् शक्तस्य क्षेपायोगात्। अन्यथा वर्त्तमानक्षणभाविनोऽपि कार्य्यस्याकरणप्रसङ्गात् पूर्व्वापरकालयोरपि शक्तत्वेनाविशेषात्, समर्थस्य च सहकार्य्यपेक्षाया अयोगात्। अथाशक्तस्तदा एकत्र कार्य्ये शक्ताशक्तत्वविरुद्धधर्म्माध्यासात् क्षणविध्वंसो घटस्य दुर्व्वारप्रसरः स्यात्।



नापि तृतीयः पक्षः सङ्गच्छते शक्तस्वभावानुवृत्तेरेव। यदा हि शक्तस्य स्वभावस्य विलम्बोऽप्यसह्यस्तदा दूरीत्सारितमकरणम्। अन्यथा वार्त्तमानिकस्यापि कार्य्यस्याकरणं स्यात् इत्युक्तं। तस्माद् यद् यदा यज्जननव्यवहारपात्रं, तत्तदा तत् कुर्य्यात्। अकुर्व्वच्च न जननव्यवहारभाजनम्। तदेवमेकत्र कार्य्ये समर्थेतरस्वभावतया प्रतिक्षणं भेदात् घटस्य सपक्षत्वमक्षतम्।



अत्र प्रयोगः। यद् यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयत्येव। यथा अन्त्या कारणसामग्री स्वकार्य्यं। अतीतानागतक्षणभाविकार्य्यजननव्यवहारयोग्यश्चायं घटो वर्त्तमानक्षणभाविकार्य्यकरणकाले सकलक्रियातिक्रमकाले ऽपीति स्वभावहेतुप्रसङ्गः। अस्य च द्वितीयादिक्षणभाविकार्य्यकरणव्यवहारगोचरत्वस्य प्रसङ्गसाधनस्य वार्त्तमानिककार्य्यकरणकाले सकलक्रियातिक्रमकाले च घटे धर्म्मिणि पराभ्युपगममात्रतः सिद्वत्वात् असिद्विस्तावदसम्भविनी। नापि विरुद्वता, सपक्षे अन्त्यकारणसामग्र्यां सद्भावसम्भवात्।



नन्वयं साधारणानैकान्तिको हेतुः। साक्षादजनकेऽपि कुशूलाद्यवस्थित-वीजादौ विपक्षे समर्थव्यवहारगोचरत्वस्य साधनस्य दर्शनादिति चेत्। न। द्विविधो हि समर्थव्यवहारः पारमार्थिकः औपचारिकश्च। तत्र यत्पारमार्थिकम् जननप्रयुक्तं जननव्यवहारगोचरत्वं तदिह साधनत्वेनोपात्तं। तस्य च कुशूलाद्यवस्थित वीजादौ कारणकारणत्वात् औपचारिकजननव्यवहारविषयभूते सम्भवाभावात् कुतः साधारणानैकान्तिकता। न चास्य सन्दिग्धव्यतिरेकिता विपर्य्यये बाधकप्रमाणसद्भावात्। तथाहीदं जननव्यवहारगोचरत्वं नियतविषयत्वेन व्याप्तमिति सर्व्वजनानुभवसिद्धम्। न चेदं निर्निमित्तं। देशकालस्वभावनियमाभावप्रसङ्गात्। न च जननादन्यन्निमित्तमुपलभ्यते। तदन्वयव्यतिरेकानुविधानदर्शनात्।



यदि च जननमन्तरेणापि जननव्यवहारगोचरत्वं स्यात् तदा सर्व्वस्य सर्व्वत्र जननव्यवहार इत्यनियमः स्यात्। नियतश्चायं प्रतीतः। ततो जननाभावे विपक्षे नियतविषयत्वस्य व्यापकस्य निवृत्तौ निवर्त्तमानं जननव्यवहारगोचरत्वं जनन एव विश्राम्यतीति व्याप्तिसिद्वेरनवद्यो हेतुः। न चैष घटो वर्त्तमानकार्य्यकरणक्षणे सकलक्रियातिक्रमणे च अतीतानागतक्षणभाविकार्य्यं जनयति। ततो न जननव्यवहारयोग्यः। सर्व्वः प्रसङ्गः प्रसङ्गविपर्य्ययनिष्ठ इति न्यायात्।



अत्रापि प्रयोगः। यद्‍यदा यन्न करोति। तत्तदा तत्र समर्थव्यवहारयोग्यं यथा शाल्यङ्कुरमकुर्व्वन् कोद्रवः शाल्यङ्कुरे। न करोति चैष घटो वर्त्तमानक्षणभाविकार्य्यकरणकाले सकलक्रियातिक्रमकाले चातीतानागतक्षणभाविकार्य्यमिति व्यापकानुपलब्धिर्भिनत्ति समर्थक्षणादसमर्थक्षणम्।



अत्राप्यसिद्धिर्नास्ति वर्त्तमानक्षणभाविकार्य्यकरणकाले सकलक्रियातिक्रमकाले च अतीतानागतक्षणभाविकार्य्यकरणस्यायोगात्। नापि विरोधः सपक्षे भावात्। न चानैकान्तिकता पूर्व्वोक्तेन न्यायेन समर्थ व्यवहारगोचरत्वजनकत्वयोविधिभूतयोः सर्व्वोपसंहारवत्या व्याप्तेः प्रसाधनात्।



यत्पुनरत्रोक्तं यद्‍यदा यन्न करोति न तत्तदा तत्र समर्थमित्यत्र कः करोत्यर्थः। किं कारणत्वं ? तत्कार्य्योत्पादानुगुणसहकारिसाकल्यं ? आहोस्वित् कार्य्याव्यभिचारः ? कार्य्यसम्बन्धो वेति? तत्र कारणत्वमेव करोत्यर्थः। ततः पक्षान्तरभाविनो दोषा अनभ्युपगमप्रतिहताः।





न चात्रपक्षे कारणत्वसामर्थ्ययोः पर्य्यायत्वेन व्यापकानुपलम्भस्य साध्याविशिष्टत्वमभिधातुमुचितं। समर्थव्यवहारगोचरत्वाभावस्य साध्यत्वात्। कारणत्वसमर्थव्यवहारगोचरत्वयोश्च बृक्षशिंशपयोरिव व्यावृत्तिभेदोऽस्तीत्यनवसर एव एवंविधस्य क्षुद्रप्रलापस्य। तदेवं प्रसङ्गप्रसङ्गविपर्य्ययहेतुद्वयबलतो घटे दृष्टान्ते क्षणभङ्गः सिद्धः। तत्कथं सत्त्वादन्यदनुमानं दृष्टान्ते क्षणभङ्गसाधकम्। नास्तीत्युच्यते। न चैवं सत्त्वहेतोर्वैयर्थ्यं। दृष्टान्तमात्र एव प्रसङ्गप्रसङ्गविपर्य्ययाभ्यां क्षणभङ्गप्रसाधनात् नन्वाभ्यामेव पक्षेऽपि क्षणभङ्गसिद्धिरस्त्विति चेत्। अस्तु को दोषः। यो हि प्रतिपत्ता प्रतिवस्तु यद्‍यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयतीत्या दिकमुपन्यसितुं अनलसस्तस्य तत एव क्षणभङ्गसिद्धिः। यस्तु प्रतिवस्तु तन्न्यायोपन्यासप्रयासभीरुः स त्त्वेकत्रधर्म्मिणि यद्‍यदा यज्जननव्यवहारयोग्यं तत्तदा तज्जनयतीत्यादिन्यायेन सत्त्वमात्रमस्थैर्य्यव्याप्तमवधार्य्यसत्त्वादेवान्यत्र क्षणिकत्वमवगच्छतीति। कथमप्रमत्तोवैयर्थ्यमस्याचक्षीत तदेवमेकार्थकारिणो घटस्य द्वितीयादिक्षणभाविकार्य्यापेक्षया समर्थेतरस्वभावविरुद्वधर्म्मा ध्यासात् भेद एवेति क्षणभङ्गतया सपक्षतामावहति घटे सत्त्वेहेतुरुपलभ्यमानो न विरुद्वः।



न चाय मनैकान्तिकः। अत्रैव साधर्म्म्यवति दृष्टान्ते सर्व्वोपसंहारवत्या व्याप्तेः प्रसाधनात्। ननु विपर्य्यये बाधकप्रमाणबलाब्द्याप्तिसिद्धिस्तस्य चोपन्यासवार्त्तापि नास्ति तत्कथं व्याप्तिः प्रसाधितेति चेत्। तदेतत् तरलतरबुद्धिविलसितं। तथा हि उक्तमेतत् वर्त्तमानक्षणभाविकार्य्यकरणकाले अतीतानागतक्षणभाविकार्य्येऽपि घटस्य शक्तिसम्भवे तदानीमेवैतत् करणमकरणे च शक्ताशक्तस्वभावतया प्रतिक्षणं भेद इति क्षणिकत्वेन व्याप्तैव सा अर्थक्रियाशक्तिः।



नन्वेवं अन्वयमात्रमस्तु विपक्षात् पुनरेकान्तेन व्यावृत्तिरिति कुतो लभ्यमिति चेत्, व्याप्तिसिद्धेरेव। ब्यतिरेकसन्देहे व्याप्तिसिद्धिरेव कथमिति चेत्, न द्विविधा हि व्याप्तिसिद्धिरन्वयरूपा च कर्त्तृधर्म्मः। साधनधर्म्मवति धर्म्मिणि साध्यधर्म्मस्यावश्यम्भावो यः। व्यतिरेकरूपा च कर्म्मधर्म्मः साध्याभावे साधनस्यावश्यमभावो यः। एनयोश्चैकतरप्रतीतिनियमेन द्वितीयप्रतीतिमाक्षिपति। अन्यथा, एकस्याः एव सिद्धः। तस्माद्। यथा विपर्य्यये बाधकप्रमाणबलात् नियमवति व्यतिरेके सिद्धे अन्वयविषयः संशयः पूर्व्वं स्थितोऽपि पश्चात्परिगलति। ततोऽन्वयप्रसाधनार्थं न पृथक्साधनमुच्यते। तथा प्रसङ्गतद्विपर्य्ययहेतुद्वयबलतो नियमवत्यन्वये सिद्धे व्यतिरेकविषये पूर्व्वं स्थितोऽपि सन्देहः पश्चात्परिगलत्येव। न च व्यतिरेकसाधकमन्यत् प्रमाणं व्यक्तव्यम्। ततश्च साध्याभावे साधनस्यैकान्तिको व्यतिरेकः। साधने सति साध्यस्यावश्यमन्वयो वेति न कश्चिदर्थभेदः तदेवं विपर्य्ययबाधकप्रमाणमन्तरेणापि प्रसङ्गप्रसङ्गविपर्य्ययहेतुद्वयबलात् अन्वयरूपव्याप्तिसिद्वौ सत्त्वहेतोरनैकान्तिकस्याभावादतः साधनात् क्षणभङ्गसिद्विरनवद्येति।



ननु च साधनमिदमसिद्वं, न हि कारणबुध्या कार्य्यं गृह्यते। तस्य भावित्वात्। न च कार्य्यबुध्या कारणम्। तस्यातीतत्वात्। न च वर्त्तमानग्राहिणा ज्ञानेन अतीतानागतयोर्ग्रहणमतिप्रसङ्गात्। न च पूर्व्वापरयोः कालयोरेकः प्रतिसन्धाताऽस्ति क्षणभङ्गभङ्गप्रसङ्गात्। कारणाभावे तु कार्य्याभावप्रतीतिः स्वसम्बेदनवादिनो मनोरथस्याप्यविषयः। न च पूर्ब्बोतरकालयोः सम्बित्ती ताभ्यां वासना तया च हेतुफलावसायी विकल्प इति युक्तं। स हि विकल्पो गृहीतानुसन्धायकोऽतद्रूपसमारोपको वा न प्रथमः पक्षः। एकस्य प्रतिसन्धातुरभावे पूर्व्वापरग्रहणयोरयोगात्। विकल्पवासनाया एवाभावात्। नापि द्वितीयः; मरीचिकायामपि जलविज्ञानप्रामाण्यप्रसङ्गात्। तदेवमन्वयव्यतिरेकयोरप्रतिपत्तेरर्थक्रियालक्षणम् सत्त्वमसिद्वमिति॥



किञ्च प्रकारान्तरादपीदं साधनमसिद्वं। तथा हि वीजादीनां सामर्थ्यं वीजादिज्ञानात् कार्य्यादङ्कुरादेर्वा निश्चेतव्यं। कार्य्यत्वञ्च वस्तुत्वसिद्वौ सिध्यति, वस्तुत्वञ्च कार्य्यान्तरात्। कार्य्यान्तरस्यापि कार्य्यत्वं वस्तुत्वसिद्वौ। तद्वस्तुत्वञ्च तदपरकार्य्यान्तरादित्यनवस्था। अथानवस्थाभयात् पर्य्यन्ते कार्य्यान्तरं नापेक्षते, तदा तेनैव पूर्व्वेषामसत्त्वप्रसङ्गात् नैकस्याप्यर्थक्रियासामर्थ्यं सिध्यति। ननु कार्य्यत्वसत्त्वयोर्भिन्नव्यावृत्तिकत्वात्। सत्तासिद्वावपि कार्य्यत्वसिद्वौ का क्षतिरिति चेत्। तदसङ्गतम्, सत्यपि कार्य्यत्वसत्त्वयोर्व्यावृत्तिभेदे सत्त्वसिद्वौ कुतः कार्य्यत्वसिद्धिः। कार्य्यत्वं ह्यभूत्वाभावित्वं, भवनञ्च सत्ता। सत्ता च सौगतानां सामर्थ्यमेव। ततश्च सामर्थ्यसन्देहे भवतीत्येव वक्तुमशक्यं कथमभूत्वाभावित्वं कार्य्यत्वं सेत्स्यति। अपेक्षितपरव्यापारत्वं कार्य्यत्वमित्यपि नासतो धर्म्मः सत्त्वञ्च सामर्थ्यं तच्च सन्दिग्धमिति कुतः कार्य्यसिद्धिः। तदसिद्वौ पूर्व्वस्य सामर्थ्यं न सिध्यतीति सन्दिग्धासिद्वो हेतुः।



तथा विरुद्वोऽप्ययं, तथा हि क्षणिकत्वे सति न तावत् अजातस्यानन्वयनिरुद्वस्य वा कार्य्यारम्भकत्वं सम्भवति। न च निस्पन्नस्य तावान् क्षणोऽस्ति यमुपादाय कस्मैचित् कार्य्याय व्यापार्य्येत्। अतः क्षणिकपक्ष एव अर्थक्रियानुपपत्तेर्विरूद्वता। अथवा विकल्पेन यदुपनीयते, तत्सर्व्वमवस्तु, ततश्च वस्त्वात्मके क्षणिकत्वे साध्येऽवस्तूपस्थापयन्ननुमानविकल्पो विरुद्वः। यद्वा, सर्व्वस्यैव हेतोः क्षणिकत्वे साध्ये विरुद्वत्वं देशकालान्तराननुगमे साध्यसाधनभावाभावात् अनुगमे च नानाकालमेकमक्षणिकं क्षणिकत्वेन विरुध्यत इति।



अनैकान्तिकोऽप्ययं सत्त्वस्थैर्य्ययोर्विरोधाभावादिति। प्रत्रोच्यते।



यत्तावदुक्तं सामर्थ्यं न प्रतीयत इति। तत् किं सर्व्वथैव न प्रतीयते। क्षणभङ्गपक्षे वा।



प्रथमपक्षे सकलकारकज्ञापकहेतुचक्रोच्छेदात् मुखस्पन्दनमात्रस्याप्यकरणप्रसङ्गः। अन्यथा येनैव वचनेन सामर्थ्यं नास्तीति प्रतिपाद्यते तस्यैव तत् प्रतिपादनसामर्थ्यमव्याहतमायातम्। तस्मात् परमपुरुषार्थसमीहया वस्तुतत्त्वनिरूपणप्रवृत्तस्य शक्तिस्वीकारपूर्व्वकैव प्रवृत्तिः। तदस्वीकारे तु न कश्चित् क्वचित् प्रवर्त्तेतेति निरीहं जगज्जायते। अथ द्वितीयः पक्षः। तदास्ति तावत् सामर्थ्यप्रतीतिः। सा च क्षणिकत्वे यदि नोपपद्यते तदा विरुद्वं वक्तुमुचितं, असिद्वमिति तु न्यायभूषणीयः प्रायोविलापः। न च सत्यपि क्षणिकत्वे सामर्थ्यप्रतीतिव्याघातः। तथाहि कारणज्ञानोपादेयभूतेन कार्य्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भेण अस्य भावे अस्य भाव इति अन्वयनिश्चयो जन्यते, तथा कारणापेक्षया भूतलकैवल्यग्राहिज्ञानोपादेयभूतेन कार्य्यापेक्षया भूतलकैवल्यग्राहिणा ज्ञानेन तदर्पितसंस्कारगर्भण अस्याभावे अस्याभाव इति व्यतिरेकनिश्चयो जन्यते। यदाहुर्गुरवः।



एकावसायसमनन्तरजातमन्य-

विज्ञानमन्वयविमर्षमुपादधाति।

एवं तदेकविरहानुभवोद्भवान्य-

व्यावृत्तधीः प्रथयति व्यतिरेकबुद्धिं॥



एवं सति गृहीतानुसन्धायके एवायं विकल्पः। उपादानोपादेयभूतक्रमिप्रत्यक्षद्वयगृहीतानुसन्धानात्। यदाहालङ्कारः।



यदि नामैकमध्यक्षं न पूर्व्वापरवित्तिमत्।

अध्यक्षद्वयसद्भावे प्राक्परावेदनं कथमिति।

नापि द्वितीयोऽसिद्वप्रभेदः। सामर्थ्यं हि सत्त्वमिति सौगतानां स्थितिरेषा। न चैतत् प्रसाधनार्थमस्माकमिदानीमेव प्रारम्भः; किन्तु यत्र प्रमाणप्रतीते वीजादौ वस्तुभूते धर्म्मिणि प्रमाणप्रतीतं सामर्थ्य तत्र क्षणाभङ्ग साधनाय। ततश्चाङ्कुरादीनां कार्य्यादशनात् आहत्यसामर्थ्यसन्देहेऽपि पटुप्रत्यक्षप्रसिद्वं सन्मात्रत्वमवधार्य्यमेव। अन्यथा न क्वचिदपि वस्तुमात्रस्यापि प्रतिपत्तिः स्यात्। तस्माच्छास्त्रीयसत्त्वलक्षणसन्देहेऽपि पटुप्रत्यक्षवलावलम्बितवस्तुभावे अङ्कुरादौ कार्य्यत्वमुपलभ्यमानं वीजादेः सामर्थ्यमुपस्थापयतीति नासिद्विदोषावकाशः।



नापि क्शणिकत्वे सामर्थ्यक्षतिः, यतो विरुद्वता स्यात्, क्षणिकत्वनियतप्राग्भावित्वलक्षणकारणत्वयोविरोधाभावात्, क्षणमात्रस्थायिन्यपि सामर्थ्यसम्भवादिति नादिमो विरोधः। नापि द्वितीयो विरोधप्रभेदः। अवस्तुनो वस्तुनो वा स्वाकारस्य ग्राह्यत्वेऽपि, अध्यवसेयवस्त्वपेक्षयैव सर्व्वत्र प्रामाण्यप्रतिपादनात् वस्तुस्वभावस्यैव क्षणिकत्वसिद्विरिति क्व विरोधः।



यच्च गृह्यते यच्चाध्यवसीयते ते द्वे अपि अन्यनिवृत्ती न वस्तुनी स्वलक्षणावगाहित्वे अभिलापसंसर्गानुपपत्तेरिति चेत्। न। अध्यवसायस्वरूपापरिज्ञानात् अगृहीतेऽपि वस्तुनि मानस्यादिप्रवृत्तिकारकत्वं विकल्पस्याध्यवसायित्वं, अप्रतिभासेऽपि प्रवृत्तिविषयीकृतत्वमध्यवसेयत्वम्। एतच्चाध्यवसेयत्वं स्वलक्षणस्यैव युज्यते, नान्यस्य। अर्थक्रियार्थित्वात् अर्थिप्रवृत्तेः। एवञ्चाध्यवसाये स्वलक्षणस्यास्फुरणमेव। न च तस्यास्फुरणेऽपि सर्व्वत्राविशेषेण प्रवृत्त्याक्षेपप्रसङ्गः, प्रतिनियतसामग्रीप्रसूतात्, प्रतिनियतस्वाकारात्, प्रतिनियतशक्तियोगात्, प्रतिनियत एवातद्रूपपरावृत्ते अप्रतीतेऽपि प्रवृत्तिसामर्थ्यदर्शनात्। यथा सर्व्वस्यासत्त्वेऽपि वीजादङ्कुरस्यैवोत्पत्तिः दृष्टस्य नियतहेतुफलभावस्य प्रतिक्षेप्तुमशक्यत्वात्। परं वाह्येनार्थेन सति प्रतिबन्धे प्रामाण्यमन्यथात्वप्रामाण्यमिति विशेषः।



तथा तृतीयोऽपि पक्षः प्रयासफलः। नानाकालस्यैकस्य वस्तुनो वस्तुतोऽसम्भवेप्यतद्रूपपरावृत्तयोरेव साध्यसाधनयोः प्रत्यक्षेण व्याप्तिग्रहणात्। द्विविधो हि प्रत्यक्षस्य विषयो ग्राह्योऽध्यवसेयश्च सकलातद्रूपपरावृत्तं वस्तुमात्रं साक्षादस्फुरणात् प्रत्यक्षस्य ग्राह्यो विषयो मा भूत्। तदेकदेशग्रहणे तु तन्मात्रयोर्व्याप्तिनिश्चायकविकल्पजननादध्यवसेयो विषयो भवत्येव। क्षणग्रहणे सन्ताननिश्चयवत्। रूपमात्रग्रहणे घटनिश्चयवच्च। अन्यथा सर्व्वानुमानोच्छेदप्रसङ्गात्। तथा हि व्याप्तिग्रहः सामान्ययोः, विशेषयोः, सामान्यविशिष्टविशेषयो र्विशेषविशिष्टसामान्ययोर्वेति विकल्पाः। नाद्यो विकल्पः सामान्यस्य वाध्यत्वात्। अवाध्यत्वेऽप्यदृश्यत्वात्। दृश्यत्वेऽपि पुरुषार्थानुपयोगितया तस्यानुमेयत्वायोगात्। नाप्यनुमितात् सामान्यात् विशेषानुमानम्, सामान्यसर्व्वविशेषयोर्वक्ष्यमाणन्यायेन प्रतिबन्धप्रतिपत्तेरयोगात्। नापि द्वितीयो विशेषस्याननुगामित्वात्। अन्तिमे तु विकल्पद्वये सामान्याधारतया दृष्ट एव विशेषः सामान्यस्य विशेष्यो विशेषणं वा कर्त्तव्यः। अदृष्ट एव वा देशकालान्तरवर्त्ती। यद्वा दृष्टादृष्टात्मको देशकालान्तरबर्ती अतद्रूपपरावृत्तः सर्व्वो विशेषः। न प्रथमः पक्षोऽननुगामित्त्वात्; नापि द्वितीयः, अदृष्टत्वात्। न च तृतीयः, प्रस्तुतैकविशेषदर्शनेऽपि देशकालान्तरवर्त्तिनामदर्शनात्।



अथ तेषां सर्व्वेषामेव विशेषाणां सदृशत्वात्। सदृशसामग्रीप्रसूतत्वात् सदृशकार्य्यकारित्वादिति प्रत्त्यासत्त्या, एकविशेषग्राहकं प्रत्यक्षमतद्रूपपरावृत्तमात्रेनिश्चयं जनयदतद्रूपपरावृत्तविशेषमात्रस्य व्यवस्थापकम्। यथैकसामग्रीप्रतिबद्वरूपमात्रग्राहकं प्रत्यक्षं घटे निश्चयं जनयद्घटग्राहकं ब्यवस्थाप्यते। अन्यथा घटोऽपि घटसन्तानोऽपि प्रत्यक्षतो न सिध्येत् सर्व्वात्मना ग्रहणाभावात्। तदेकदेशग्रहणन्त्वतद्रूपपरावृत्तेऽप्यविशिष्टम्। यद्येवमनेनैव क्रमेण सर्व्वस्य विशेषस्य विशेषणविशेष्यभाववत् व्याप्तिप्रतिपत्तिरप्यस्तु। तत् किमर्थं नानाकालमेकक्षणिकमभ्युपगन्तव्यं येन क्षणिकत्वे साधनस्य विरुद्वत्वं स्यात् इति न कश्चिद्विरोधप्रभेदप्रसङ्गः।



न चायमनेकान्तिकोऽपि हेतुः। पूर्व्वोक्तक्रमेण साधर्म्म्यदृष्टान्ते प्रसङ्गविपर्य्ययहेतुभ्यामन्वयरूपव्याप्तेः प्रसाधनात्। ननु यदि प्रसङ्गविपर्य्ययहेतुद्वयवलतो घटे दृष्टान्ते क्षणभङ्गः सिध्येत्तदा सत्त्वस्य नियमेन क्षणिकत्वेन व्याप्तिसिद्वेरनैकान्तिकत्वं न स्यादिति युक्तम्। केवल मिदमेवासम्भवि। तथाहि शक्तोऽपि घटः क्रमिसहकार्य्यपेक्षया क्रमिकार्य्यं करिष्यति।



न चैतद् वक्तव्यं समर्थो ऽर्थः स्वरूपेण करोति। स्वरूपञ्च सर्व्वदास्तीत्यनुपकारिणि सहकारिण्यपेक्षा न युज्यत इति, सत्यपि स्वरूपेण कारकत्वे सामर्थ्याभावात्कथं करोति, सहकारिसाकल्यं हि सामर्थ्यं तद्वैकल्यञ्चासामर्थ्यं। न च तयोराविर्भावतिरोभावाभ्यां तद्वतः काचित् क्षतिः। तस्य ताभ्यामन्यत्वात्। तस्मादर्थः समर्थोऽपि स्यात् न च करोतीति सन्दिग्धव्यतिरेकः प्रसङ्गहेतुः।



अत्रोच्यते। भवतु तावत् सहकारिसाकल्यमेव सामर्थ्यं। तथापि सोऽपि तावद्भावः स्वरूपेण कारकः। तस्य च यादृशश्चरमक्षणे ऽक्षेपक्रियाधर्म्मा स्वभावः तादृश एव चेत् प्रथमक्षणे तदा तदापि प्रसह्य कुर्ब्बाणो ब्रह्मणाप्यनिवार्य्यः। न च सोऽप्यक्षेपक्रियाधर्म्मा स्वभावः साकल्ये सति जातो भावाद्भिन्न एवाभिधातुं शक्यः। भावस्याकर्त्तृत्वप्रसङ्गात्। एवं यावद्यावत् धर्मान्तरपरिकल्पस्तावत्तावदुदासीनो भावः। तस्माद्‍यद्रूपमादाय स्वरूपेणापि जनयतीत्युच्यते; तस्य प्रागपि भावे कथमजनिः कदाचित्। अक्षेपक्रियाप्रत्यनीकस्वभावस्य प्राच्यस्य पश्चादनुवृत्तौ कथं कदाचिदपि कार्य्यसम्भवः। ननु यदि स एवैकः कर्त्ता स्यात् युक्तमेतत्। किन्तु सामग्री जनिका ततः सहकार्य्यन्तरविरहवेलायां बलीयसोऽपि न कार्य्यप्रसव इति किमत्र विरुद्वं। न हि भावः स्वरूपेणकरोतीति स्वरूपेणैव करोति। सहकारिसहितादेव ततः कार्य्योत्पत्तिदर्शनात्। तस्माद्याप्तिवत् कार्य्यकारणभावोऽपि, एकत्रान्ययोगब्यवच्छेदेन अन्यत्रायोगव्यवच्छेदेन नावबोद्वव्यः, तथैव लौकिकपरीक्षकाणां सम्प्रतिपत्तेरिति।



अत्रोच्यते। यदा मिलिताः सन्तः कार्य्यं कुर्व्वते तदैकार्थकरणलक्षणं सहकारित्वमेपामस्तु को निषेद्वा? मिलितैरेव तु तत्कार्य्य कर्त्तव्यमिति कुतो लभ्यते? पूर्व्वापरयोरेकस्वभावत्वाद्भावस्य। सर्व्वदा जननाजननयोरन्यतरनियतप्रसङ्गस्य दुर्व्वारत्वात्। तस्मात् सामग्री जनिक नैकं जनकमिति स्थिरवादिनां मनोरथस्याप्यविषयः। दृश्यते तावदेवमिति चेत्। दृश्यतां किन्तु पूर्व्वस्थितादेव सामग्रीमध्यप्रविष्टाद्भावात् कार्योत्पत्तिरन्यस्मादेव वा विशिष्टाद्भावादुत्पन्नादिति विवादपदम्। तत्र प्रागपि सम्भवे सर्व्वदैव कार्य्योत्पत्ति र्न वा कदाचिदपीति विरोधमसमाधाय चक्षुषी निमील्य तत एव कार्य्योत्पत्तिदर्शनादिति साध्यानुवादमात्रप्रवृत्तः कृपामर्हतीति। न च प्रत्यभिज्ञादिबलादेकत्वसिद्विः तत् पौरुषस्य लूनपुनर्जातकेशनखादावप्युपलम्भतो निर्द्दलनात्, लक्षणभेदस्य च दर्शयितुमशक्यत्वात्। स्थिरसिद्विदूषणे चास्माभिः प्रपञ्चतो निरस्तत्वात्। तस्मात् साक्षात् कार्य्यकारणभावापेक्षया उभयत्राप्यन्ययोगव्यवच्छेदः। व्याप्तौ तु साक्षात्परम्परया कारणमात्रापेक्षया कारणे व्यापकेऽयोगव्यवच्छेदः। कार्य्ये व्याप्येऽन्ययोगव्यवच्छेदः। तथा तदतत्स्वभावे व्यापकेऽयोगव्यवच्छेदः। तत्स्वभावे च व्याप्येऽन्ययोगव्यवच्छेदो विकल्पारुढरूपापेक्षया व्याप्तौ द्विविधमवधारंअम्। ननु यदि पूर्व्वापरकालयोरेकस्वभावो भावः सर्व्वदाजनकत्वेनाजनकत्वेन वा व्याप्त उपलब्धः स्यात्तदायं प्रसङ्गः सङ्गच्छते। न क्षणभङ्गवादिना पूर्व्वापरकालयोरेकः कश्चिदुपलब्ध इति चेत्। तदेतदतिग्राम्यं। तथाहि पूर्व्वापरकालयोरेकस्वभावत्वे सतीत्यस्यायमर्थः। परकालभावी जनको यः स्वभावो भावस्य स एव यदि पूर्व्वकालभावी। पूर्व्वकालभावी वा योऽजनकः स्वभावः स एव यदि परकालभावी, तदोपलब्धमेव जननमजननम्बा स्यात्, तथा च सति सिद्वयोरेव स्वभावयोरेकत्वारोपे सिद्वमेव जननमजननम्बाऽसज्यत इति।



ननु कार्य्यमेव सहकारिणमपेक्षते। न तु कार्य्योत्पत्तिहेतुः। यस्मात् द्विविधं सामर्थ्य निजमागन्तुकञ्च सहकार्य्यन्तरं ततोऽक्षणिकस्यापि क्रमवत् सहकारिनानात्वादपि क्रमवत् कार्य्यनानात्वोपपत्तेरशक्यं भावानां प्रतिक्षणमन्यान्यत्वमुपपादयितुमिति चेत्। उच्यते। भवतु तावन्निजागन्तुकभेदेन द्विविधं सामर्थ्यं। तथापि यत् प्रातिस्विकं वस्तुस्वलक्षणं अर्थक्रियाधर्म्मकमवश्यमभ्युपगन्तव्यं तत् किं प्रागपि पश्चादेव वेति विकल्प्य यद्दूषणमुग्दीरितं। तत्र किमुक्तमनेनेति न प्रतीमः। यत्तु कार्य्येणैव सहकारिणोऽपेक्षन्त इत्युपत्कृतं तदपि निरुपयोगं। यदि हि कार्य्यमेव स्वजन्मनि स्वतन्त्रं स्याद्युक्तमेतत्। केवलमेवं सति सहकारिसाकल्यसामर्थ्यकल्पनमफलं। स्वातन्त्र्‍यादेव हि कार्य्यं कादाचित्कं भविष्यति। तथा च सति सन्तो हेतवः सर्व्वथाऽसमर्थाः। असदेतत् कार्य्यं स्वतन्त्रमिति विशुद्धा बुद्विः। अथ कार्य्यस्यैवायमपराधो यदिदं समर्थे कारणे सत्यपि कदाचिन्नोपपद्यत इति चेत्। न तत्तर्हि तत् कार्य्यं स्वातन्त्र्‍यात्। यद्भाष्यं।



सर्व्वावस्थासमानेऽपि कारणे यद्यकार्य्यता।

स्वतन्त्रं कार्य्यमेवं स्यान्नतत्कार्य्यन्तथा सति॥



अथ न तद्भावे भवतीति तत्कार्य्यमुच्यते, किन्तु तदभावेन भवत्येवेति व्यतिरेकप्राधान्यादिति चेत्। न। यदि हि स्वयम्भवन् भावयेदेव हेतुः स्वकार्य्यं तदा तदभावप्रयुक्तोऽस्याभाव इति प्रतीतिः स्यात्। नो चेद् यथा कारणे सत्यपि कार्य्यस्वातन्त्र्‍यान्न भवति। तथा तदभावेऽपि स्वातन्त्र्‍यादेव न भूतमिति शङ्का केन निवार्य्येत। यद्भाष्यं।



तद्भावेऽपि न भावश्चेदभावेऽभाविता कुतः।

तदभावप्रयुक्तोस्य सोऽभाव इति तत् कुतः॥



तस्माद् यथैव तद्भावे नियमेन न भवति। तथैव तद्भावे नियमेन भवेदेव। अभवच्च न तत्कारणतामात्मनः क्षमते। यच्चोक्तं, प्रथमकार्य्योत्पादनकाले हृत्तरकार्य्योत्पादनस्वभावः। अतः प्रथमकाल एवाशेषाणि कार्य्याणि कुर्य्यादिति। तदिदं माता मे वन्ध्येत्यादिवत् स्ववचननिरोधादयुक्तं, यो हृत्तरकार्य्यजननस्वभावः स कथमादौ कार्य्यं कुर्य्यात्। न तर्हि तत्कार्य्यकरणस्वभावः न हि नीलोत्पादनस्वभावः पीतादिकमपि करोतीति।



अत्रोच्यते। स्थिरस्वभावत्वे हि भावस्य उत्तरकालमेवेदं कार्य्यं न पूर्व्वकालमिति कुत एतत्। तदभावाच्च कारणमपि उत्तरकार्य्यकरणस्वभावमित्यपि कुतः। किं कुर्म्मः उत्तरकालमेव तस्य जन्मेति चेत्; अस्तु स्थिरत्वे तदनुपपद्यमानमस्थिरतामादिशतु; स्थिष्त्वेप्येष एव स्वभावस्तस्य यदुत्तरक्षण एव करोतीति चेत्। उतेदानीं प्रमाणप्रत्याशा। धूमादग्निरित्यत्रापि स्वभाव एवास्य यदिदानीमत्र निरग्निरपि धूम इति वक्तुं शक्यत्वात्। तस्मात् प्रमाणसिद्वे स्वभावावलम्बनं, न तु स्वभावावलम्बनेन प्रमाणव्यालोपः। तस्माद् यदि कारणस्योत्तरकार्य्यकारकत्वमभ्युपगम्य कार्य्यस्य प्रथमक्षणभावित्वमासज्यते, स्यात् स्ववचनविरोधः। यदा तु कारणस्य स्थिरत्वे कार्य्यस्योत्तरकालत्वमेवासङ्गतम्। अतः कारणस्याप्युत्तरकार्य्यजनकत्वं वस्तुतोऽसम्भवि तदा प्रसङ्गसाधनमिदं। जननव्यवहारगोचरत्वं हि जननेन व्याप्तमिति प्रसाधितं। उत्तरकार्य्यजननव्यवहारगोचरत्वञ्च त्वदभ्युपगमात् प्रथमकार्य्यकरणकाल एव घटे धर्म्मिणि सिद्वं। अतस्तन्मात्रानुबन्धिन उत्तराभिमतस्य कार्य्यस्य प्रथमे क्षणेऽसम्भवादेव प्रसङ्गः क्रियते। न हि नीलकारकेऽपि पीतकारकत्वारोपे पीतसम्भवप्रसङ्गः स्ववचनविरोधोनाम। तदेवं शक्तः सहकार्य्यनपेक्षितत्वात् जननेन व्याप्तः। अजनयंश्च शक्ताशक्तत्वविरुद्वधर्म्माध्यासाद्भिन्न एव। ननु भवतु प्रसङ्गविपर्य्ययबलादेककार्य्यं प्रतिशक्ताशक्तत्वलक्षणविरुद्वधर्म्माध्यासः। तथापि न ततो मेदः सिध्यति; तथाहि बीजमङ्कुरादिकं कुर्व्वद् यदि येनैव स्वभावेनाङ्कुरं करोति तेनैव क्षित्यादिकन्तदाक्षित्यादीनामप्यङ्कुरस्वाभाव्यापत्तिः। नानास्वभावत्वेन तु कारकत्वे स्वभावानामन्योन्याभावाव्यभिचारित्वादेकत्र भावाभावौ परस्परविरुद्वौ स्यातामित्येकमपि बीजं भिद्येत। एवं प्रदीपोऽपि तैलक्षयवर्त्तिदाहादिकं; तथा पूर्व्वरूपमप्युत्तररूपरसगन्धादिकमनेकैः स्वभावैः परिकरितं करोति। तेषाञ्च स्वभावानामन्योन्याभावाव्यभिचाराद्विरुद्वानां योगे प्रदीपादिकं भिद्येत। न च भिद्यते। तन्न ! विरुद्वधर्म्माध्यासो भेदकः, तथा बीजस्याङ्कुरं प्रति कारकत्वं गर्द्दभादिकं प्रत्यकारकत्वमिति कारकत्वाकारकत्वे अपि विरुद्वौ धर्मौ। न च तद्योगेऽपि बीजभेदः। तदेवमेकत्र बीजे प्रदीपे रूपे च विपक्षे परिदृश्यमानः शक्ताशक्तत्वादिर्विरुद्वधर्म्माध्यासो न घटादेर्भेदक इति।



अत्र ब्रूमः। भवतु तावद्वीजादीनामनेककार्य्यकारित्वाद्वर्म्मभूतानेकस्वभावभेदस्तथापि कः प्रस्तावोविरुद्वधर्म्माध्यासस्य। स्वभावानां ह्यन्योन्याभावाव्यभिचारे भेदः प्राप्तावसरो न विरोधः। विरोधस्तु यद्विधाने यन्निषेधो यन्निषेधे यद्विधानं तयोरेकत्रधर्म्मिणि परस्परपरिहारस्थिततया स्यात्। तदत्रैकः स्व्भावः स्वाभावेन विरुद्वो युक्तो भावाभाववत्। न तु स्वभावान्तरेण। घटत्ववस्तुत्ववत्। एवमङ्कुरादिकारित्वं तदकारित्वेन विरुद्वं न पुनर्वस्त्वन्तरकारित्वेन। प्रत्यक्षव्यापारश्चात्र यथा नानाधर्म्मैरध्यासितं भावमभिन्नं व्यवस्थापयति। तथा तत्कार्य्यकारिणं कार्य्यान्तराकारिणञ्च। तद्यदि प्रतियोगित्वाभावादन्योन्याभावाव्यभिचारि णावपि स्वभावावविरुद्वो तत्कारकत्वान्याकारकत्वे वा विषयभेदादविरुद्वे, तत् किमायातमेककार्य्यम्प्रति शक्ताशक्तत्वयोः परस्परप्रतियोगिनीर्विरुद्वयोर्धर्म्मयोः। एतयोरपि पुनरविरोधे विरोधो नाम दत्तजलाञ्जलिः। भवतु तर्ह्येककार्य्यापेक्षयैव सामर्थ्यासामर्थ्ययोर्विरोधः। केवलं यथा तदेव कार्य्यं प्रति क्वचिद्देशे शक्तिर्देशान्तरे चाशक्तिरिति देशभेदादविरुद्वे शक्तयशक्ती तथैकत्रैव कार्य्ये कालभेदादप्यविरुद्वे। यथापूर्व्वं न्निःक्रियः स्फटिकः स एव पश्चात् सक्रिय इति चेत्।



उच्यते। न हि वयं परिभाषामात्रादेकत्र कार्य्ये देशभेदादविरुद्वे शक्त्यशक्ती ब्रूमः। किन्तु विरोधाभावात्। तद्देशकार्य्य कारित्वं हि तद्देशकार्य्याकारित्वेन विरुद्वं। न पुनर्देशान्तरे तत्कार्य्याकारित्वेनान्यकार्य्यकारित्वेन वा। यद्येवन्तत्कालकार्य्यकारित्वं तत्कालकार्य्याकारित्वेन विरुद्वं। न पुनः कालान्तरे तत्कार्य्याकारित्वेनान्यकार्य्यकारित्वेन वा। तत्कथं कालभेदेऽपि विरोध इति चेत्। उच्यते। द्वयोर्हि धर्म्मयोरेकत्रधर्म्मिण्यनवस्थितिनियमः परस्परपरिहारस्थितिलक्षणो विरोधः। स च साक्षात्परस्परप्रत्यनीकतया भावाभाववद्वा भवेत्। एकस्य वा नियमेन प्रमाणान्तरेण बाधनान्नित्यत्वसत्त्ववद्वा भवेदिति न कश्चिदर्थभेदः। तदत्रैकधर्म्मिणि तत् कालकार्य्यकारित्वाधारे कालान्तरे तत्कार्य्याकारित्वस्यान्यकार्य्यकारित्वस्य वा नियमेन प्रमाणान्तरेण बाधनाद्विरोधः। तथा हि यत्रैव धर्म्मिणि तत्कालकार्य्यकारित्वमुपलब्धन्न तत्रैव कालान्तरे तत् कार्य्याकारित्वमन्यकार्य्यकारित्वं वा ब्रह्मणाप्युपसंहर्त्तुं शक्यते, येनानयोरविरोधः स्यात्। क्षणान्तरे कथित प्रसङ्गविपर्य्ययहेतुभ्यामवश्यम्भावेन धर्म्मिभेदप्रसाधनात्। न च प्रत्यभिज्ञानादेकत्वसिद्विः। तत् पौरुषस्य निर्म्मूलितत्वात्। अत एव वज्रोऽपि पक्षकूक्षौ निक्षिप्तः कथमसौ स्फटिको वराकः कालभेदेनाभेदासाधनाय दृष्टान्तीभवितुमर्हति। न चैवं समानकालकार्य्याणां देशभेदेऽपि धर्म्मिभेदो युक्तो भेदसाधकप्रमाणाभावादिन्द्रियप्रत्यक्षेण निरस्तविभ्रमाशङ्केनाभेदप्रसाधनाच्च। इति न कालभेदेऽपि शक्त्यशक्त्योर्विरोधः स्वसमयमात्रादपहस्तयितुं शक्यः। समयप्रमाणयोरप्रवृत्तेरिति।



तस्मात् सर्व्वत्र विरुद्वधर्म्माध्याससिद्विरेव भेदसिद्विः। विप्रतिपन्नं प्रति तु विरुद्वधर्म्माध्यासाद्भेदव्यवहारः साध्यते। ननु तथापि सत्त्वमिदमनैकान्तिकमेवासाधारणत्वात् सन्दिग्धव्यतिरेकत्वाद्वा। यथा हीदं क्रमाक्रमनिवृत्तो अक्षणिकान्निवृत्तं, तथा सापेक्षत्वानापेक्षत्वयोरेकत्वानेकत्वयोरपि व्यापकयोर्निवृत्तौ क्षणिकादपि। तथाह्युपसपणप्रत्ययेन देवदत्तकरपल्लवादिना सहचरो वीजक्षणः पूर्व्वस्मादेव पुञ्जात् समर्थोजातोऽनपेक्ष आद्यातिशयस्य जनक इष्यते। तत्र च समानकुशूलजन्मसु बहुषु विजसन्तानेषु कस्मात् किञ्चिदेव वीजं परम्परयाङ्कुरोत्पादानुगुणमुपजनयति बीजक्षणान्नान्ये वीजक्षणा भिन्नसन्तानान्तःपातिनः। नह्युपसर्पणप्रत्ययात् प्रागेव तेषां समानासमानसन्तानवर्त्तिनां वीजक्षणानां कश्चित् परम्परातिशयः। अथोपसर्पणात् प्राङ्न तत् सन्तान वर्त्तिनोऽपि जनयन्ति परम्परयाप्यङ्कुरोत्पादानुगुणं वीजक्षणं वीजमात्रजननात्तेषां। कस्यचिदेव वीजक्षणस्योपसर्पणप्रत्ययसहभुव आद्यातिशयोत्पादः। हन्त तर्हि यदभावे सत्युत्पन्नोपि न जनयेदेव। तथा केवलानां व्यभिचारसम्भवादाद्यातिशयोत्पादमङ्कुरं वा प्रति क्षित्यादीनां परस्परापेक्षाणामेवोत्पादकत्वमकामकेनापि स्वीकर्त्तव्यं। अतो न तावदनपेक्षा क्षणिकस्य सम्भविनी। नाप्य पेक्षा युज्यते। समसमयक्षणयोः सव्येतरगोविषाणयोरिवोपकार्य्योपकारकभावायोगादिति नासिद्वः प्रथमो व्यापकाभावः। अपि चान्त्यो वीजक्षणोऽनपेक्षोऽङ्कुरादिकं कुर्व्वन् यदि येनैव रूपेणाङ्कुरं करोति तेनैव क्षित्यादिकं। तदा क्षित्यादीनामपि अङ्कुरस्वाभाव्यापत्तिरभिन्नकारणात्वादिति न तावदेकत्वसम्भवः।



ननु रूपान्तरेण करोति। तथा हि वीजस्याङ्कुरं प्रत्युपादानत्वं क्षित्यादिकं तु प्रति सहकारित्वं। यद्येवं सहकारित्वोपादानत्वे किमेकन्तत्वं नाना वा। एकञ्चेत कथं रूपान्तरेण जनकं। नानात्वे त्वनयोर्वीजाद्भेदोऽभेदो वा। भेदे कथं वीजस्य जनकत्वं ताभ्यामेवाङ्कुरादीनामुत्पत्तेः। अभेदे वा कथं वीजस्य न नानात्वं भिन्नतादात्म्यात्। एतयोर्वा एकत्वमेकतादात्म्यात्। यद्युच्येत। क्शित्यादौ जनयितव्ये तदुपादानम् पुर्व्वमेव क्षित्यादिवीजस्य रूपान्तरमिति। न तर्हि वीजन्तदनपेक्षं क्षित्यादीनां जनकं। तदनपेक्षत्वे तेषामङ्कुरोद्भेदानुपपत्तेः। न चानुपकारकाण्यपेक्षन्त इति त्वयैवोक्तं। न च क्षणस्योपकारसम्भवोऽन्यत्र जननात् तस्याभेद्यत्वादित्यनेकत्वमपि नास्तीति द्वितीयोऽपि व्यापकाभावो न सिद्वः। तस्मादसाधारणानैकान्तिकत्वं गन्धवत्त्ववदिति। यदि मन्येतानुपकारका अपि भवन्ति सहकारिणोऽपेक्षणीयाश्च कार्य्येणानुविहितभावाभावात् सहकरणाच्च। नन्वनेन क्रमेणाक्षणिकोपि भावोऽनुपकारकानपि सहकारिणः क्रमवतः क्रमवत्कार्य्येणानुकृतान्वयव्यतिरेकानपेक्षिष्यते। करिष्यते च क्रमवत् सहकारिवशः क्रमेण कार्य्याणीति व्यापकानुपलब्धेरसिद्वेः। सन्दिग्धव्यतिरेकमनैकान्तिकं सत्त्वं क्षणिकत्वसिद्वाविति॥



अत्र ब्रूमः। कीदृशं पुनरपेक्षार्थमादाय क्षणिकेसापेक्षानपेक्षत्वनिवृत्तिरूच्यते। किं सहकारिणमपेक्षत इति सहकारिणास्योपकारः कर्त्तव्यः।



अथ पूर्व्वावस्थितस्यैव वीजादेः सहकारिणा सह सम्भूयकरणं। यद्वा पुर्व्वावस्थितस्येत्यनपेक्षमिलितावस्थस्य करणमात्रमपेक्षार्थः। अत्र प्रथमपक्षस्यासम्भवादनपेक्षैव क्षणिकस्य कथमुभयव्यावृत्तिः। यद्यनपेक्षः क्षणिकः, किमित्युपसर्पणप्रत्ययाभावेऽपि न करोति। करोत्येव यदि स्यात्। स्वयमसम्भवी तु कथं करोतु। अथ तद्वा तादृग्वा आसीदिति न कश्चिद्विशेषः। ततस्तादृक्स्वभावसम्भवेप्यकरणं सहकारिणि निरपेक्षतां न क्षमत इति चेत्। असम्बद्वमेतत्। वर्णसंस्थानसाम्येप्यकर्त्तुस्तत्स्वभावताया विरहात्। स चाद्यातिशयजनकत्वलक्षणः स्वभावविशेषो न समानासमानसन्तानवर्त्तिषु वीजक्षणेषु सर्व्वेष्वेव सम्भवी किन्तु केषुचिदेव कर्म्मकरकर पल्लवसहचरेषु। नन्वेकत्र क्षेत्रे निष्पत्तिलबनादिपूर्व्वकमानीयैकत्र कुशूले क्षिप्तानि सर्व्वाण्येव वीजानि साधारणरूपाण्येव प्रतीयन्ते, तत् कुतस्त्योऽयमेकवीजसम्भवी विशेषोन्येषामिति चेत्।



उच्यते। कारणं खलु सर्व्वत्र कार्य्ये द्विविधं दृष्टमदृष्टञ्च सर्व्वास्तिकप्रसिद्वमेतत्। ततः प्रत्यक्षपरोक्षसहकारिप्रत्ययसाकल्यमसर्व्वविदा प्रत्यक्षतो न शक्यं प्रतिपत्तुं। ततो भवेदपि कारणसामग्रीशक्तिभेदात्तादृशः स्वभावभेदः केषाञ्चिदेव वीजक्षणानां येन त‍एव वीजक्षणा आद्यातिशयमङ्कुरम्बा परम्परया जनयेयु र्नान्ये वीजक्षणाः। ननु येषूपसर्पणप्रत्ययसहचरेषु स्वकारणशक्तिभेदादाद्यातिशयजनकत्वलक्षणो विशेषः सम्भाव्यते, स तत्रावश्यमस्तीति कुतो लभ्यमिति चेत्। अङ्कुरोत्पादादनुमितादाद्यातिशयलक्षणात् कार्य्यादिति ब्रूमः। कारणानुपलब्धेस्तर्हि तदभाव एव भविष्यतीति चेत्। न दृश्यादृश्यसमुदायस्य कारणस्यादर्शनेप्यभावसिद्वेः कारणानुपलब्धेः सन्दिग्धासिद्वत्वात्। तदयमर्थः। पाणिस्पर्शवतः क्षणस्य न भेदभिन्नान्यकालक्षणाद्भेदो वेति मतद्वये मितिबलं यस्यास्त्यसौ जित्वरः। तत्रैकस्य बलं निमित्तविरहः कार्य्याङ्गमन्यस्य वा। सामग्री तु न सर्व्वथेक्षणसहा कार्य्यन्तु मानानुगममिति॥



तदेवं नोपकारोऽपेक्षार्थ इत्यनपेक्ष्यैव क्षणिकस्य सहकारिषु नोभयव्यावृत्तिः। अथ सम्भूयकरणमपेक्षार्थः। तदा यदि पूर्व्वस्थितस्येति विशेषणापेक्षा तदा क्षणिकस्य नैवं कदाचिदित्यनपेक्षैवाक्षीणा। अथ पूर्व्वास्थितस्येत्यनपेक्ष्यमिलितावस्थितस्यैव करणमपेक्षार्थस्तदा सापेक्षतैव नानपेक्ष। तथा च नोभयव्यावृत्तिरित्यसिद्वः प्रथमो व्यापकानुपलम्भः। तथैकत्वानेकत्वयोरपि व्यापकयोः क्षणिकाद्व्यावृत्तिरसिद्वा। तत्तद्यावृत्तिभेदमाश्रित्योपादानत्वादिकाल्पनिकस्वभावभेदेऽपि परमार्थत एकेनैव स्वरूपेणानेककार्य्यनिष्पादनादुभयव्यावृत्तेरभावात्। यच्च वीजस्यैकेनैव स्वभावेन कारकत्वे क्षित्यादीनामङ्कुरस्वाभाव्यापत्तिरन्यथा कारणाभेदेऽपि कार्य्यभेदेऽपि कार्य्यस्याहेतुकत्वप्रसङ्गादित्युक्तं तदसङ्गतं। कारणैकत्वस्य कार्य्यभेदस्य च पटुनेन्द्रियप्रत्यक्षेण प्रसाधनात्। एककारणजन्यत्वैकत्वयोर्व्याप्तेः प्रतिहतत्वात्। प्रसङ्गस्यानुपदत्वात्। यच्च कारणाभेदे कार्य्याभेद इत्युक्तं तत्र सामग्रीस्वरूपं कारणमभिप्रेतं सामग्रीसजातीयत्वे न कार्य्यविजातीयतेत्यर्थः। न पुनः सामग्रीमध्यगतेनैकेनानेकं कार्य्यं न कर्त्तव्यं नाम। एकस्मादनेकोत्पत्तेः प्रत्यक्षसिद्वत्वात्। न चैवं प्रत्यभिज्ञानात् कालभेदेप्यभेदसिद्विरित्युक्तप्रायम्। न चेन्द्रियप्रत्यक्षं भिन्नदेशं सप्रतिघं दृश्यमर्थद्वयमेकमेवोपलम्भयतीति क्वचिदुपलब्धं येन तत्रापि भेदशङ्का स्यात्। शङ्कायाम्बा पटुप्रत्यक्षस्याप्यपलापे सर्व्वप्रमाणोच्छेदप्रसङ्गात्। नापि सन्दिग्धव्यतिरेकः। क्षित्यादेर्द्रब्यान्तरस्य वीजस्वभावत्वेनास्माभिरस्वीकृतत्वात् अनुपकारिण्यपेक्षायाः प्रत्याख्यानात्। व्यापकानुपलम्भस्यासिद्वत्वायोगात्। तदेतौ द्वावपि व्यापकानुपलम्भावसिद्वौ न क्षणिकात् सत्त्वन्निवर्त्तत इति नायमसाधारणो हेतुः। अपि च विद्यमानो भावः साध्येतरयोरनिश्चितान्वयव्यतिरेको गन्धवत्तादिवदसाधारणो युक्तः। प्रकृतव्यापकानुपलम्भाच्च सर्व्वथार्थक्रियैवासती उभाभ्याम्बादिभ्यामुभयस्माद्विनिवर्त्तितत्वेन निराश्रयत्वात्। तत् कथमसाधारणानैकान्तिकी भविष्यत्यलं प्रलापिनि निर्ब्बन्धेन। तदेवं शक्तस्य क्षेपायोगात् समर्थव्यवहारगोचरत्वं जननेन व्याप्तमिति प्रसङ्गविपर्य्यययोः सत्त्वे हेतोरपि नानैकान्तिकत्वमतः क्षणभङ्गसिद्विरिति स्थितम्॥



इति साधर्म्यदृष्टान्तेऽन्वयरूपव्याप्त्या

क्षणभङ्गसिद्विः समाप्ता॥



कृतिरियं महापण्डितरत्नकीर्त्तिपादानामिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project