अथ प्रथमं प्रकरणम्
Technical Details
उपायहृदयम्।
अथ प्रथमं प्रकरणम्।
एताद्वादावबोधेन वादधर्मावबोधनम्।
विस्तरेण च गम्भीरोऽयमर्थोऽत्राभिधीयते॥
वादोनकर्तव्यः।कस्मात् ? प्रायेण हि वादकारकाणां सञ्जातविपुलक्रोधमदमत्तानां स्वयं विभ्रान्तचित्तानां मनसोऽनतिमृदुता परपापप्रकाशकत्वं स्वपाण्डित्यानुमोदकत्वञ्चेत्यादयो दोषा बुधिर्निर्भत्सिताः। तस्मादार्यजना असंख्येयोपायैर्विवादछेदकास्तत्परिहारप्रीताश्च विषभाजनपरित्यागादिव। वादकारकाणाञ्चान्तरं वस्तुतो मृद्वपि परं बहिर्बहुदोषं दृश्यते। तस्मात्स्वहितपरहिताभिलाषिणैते विवादधर्माः प्रहेयाः।
अत्रोच्यते। मैवं, नैष वादप्रारम्भः परिभवलाभख्यात्यर्थोऽपि तु सुलक्षणदुर्लक्षणोपदेशेच्छयैव वादस्य प्रारम्भः।
यदीह लोके वादो न भवेत्, मुग्धानां बाहुल्यं स्यात्। ततश्च लौकिकमिथ्याज्ञानकुशलतासहचरभ्रान्तिसमुभ्दूतकुकर्मभिः संसारदुर्गतिः सदर्थहानिश्च।
वादावगमे तु स्वयं सुलक्षदुर्लक्षणशून्यलक्षणपरिज्ञानत्वात् सर्वे मारास्तीर्थिका मिथ्यादृष्टिमनुष्याश्च विहेठनासमर्था अप्रतिबन्धकाराश्च। तस्मात्सत्त्वहितेच्छयेह लोके सद्धर्मस्य प्रचारेच्छया च मयैष सम्यग्वाद आरभ्यते।
यथास्रफलपरिपुष्टिकामेन तत्(फल)परिरक्षणार्थं बहिर्बहुतीक्ष्णकण्टकनिकरविन्यासः क्रियते।
वादारम्भोऽपि तथैवाधुना सद्धर्म्मरक्षणेच्छया न तु ख्यातिलाभाय। यदुक्तं (भवता) पूर्वं [एष वादो] विवादप्रवर्धक इति। तदयुक्तम्। धर्मरक्षणार्थमेव हि वाद आरब्धव्यः।
आह। यदुक्तं पूर्वं भवता यद्येतं वादं जानीयाद्वादधर्मानवगच्छेदिति वक्तव्यमेतस्य लक्षणम्।
अत्रोच्यते। तस्य वादस्याष्टविधो भेदः। तदर्थगतिप्रज्ञानसामर्थ्ये परवादावगमः, यथा धान्यमुप्त्वा सिक्ता चोदकेन तस्य पुष्टिः समृद्धिश्च साध्यते। तृणाद्यनुत्सारणे तूट्कृष्टाङ्कुरा न जायन्ते। यदि कश्चिदेतमष्टाविधं [वादं] शृणुयादर्थन्तु तस्य नावगच्छेत्तदा [तस्य] सर्वेषु वादेषु संशयो भवेत्। यदि कश्चिदेतमष्टविधमर्थं परिजानीयान्नियतमेव सर्ववादधर्मावगमे समर्थो भवेत्।
आह। एतद्वादपरिज्ञानादेव वादधर्मा नियतमवगम्यन्त इति (भवतो)क्तम्। अथ तीर्थिकानां वादधर्माः सन्ति न वा। अत्रोच्यते सन्त्येव। यथा वैशेषिकाणां षट् पदार्थाः। द्रव्यं गुणः सामान्यं विशेषः कर्म समवायश्चेत्यादिकवादधर्मेषु स्ववगतेष्वपि परसूत्रशास्त्राणामप्रतीतिः।
अतो वादनयप्रतिपादनार्थं प्रपञ्चोच्छेदनार्थञ्चैते ऽष्टविधा गम्भीराः सद्वादधर्माः संक्षेपतो मया कथ्यन्ते। दृष्टान्तः सिद्धान्तो वाक्यप्रशंसा वाक्यदोषः प्रमाणं प्राप्तकालवाक्यं हेत्वाभासो वाक्छलम्।
दृष्टान्तो द्विविधः। संपूर्णदृष्टान्त आशिंकदृष्टान्तश्च। सिद्धान्तो निश्चितार्थ इति। वाक्यप्रशंसा वाक्यस्यार्थानुगमः। वाक्यदोषो वाक्यस्य युक्तिव्यत्ययः। प्रमाणं द्विविधज्ञापकहेतुरुत्पत्तिहेतुर्व्यञ्जनहेतुश्च। प्राप्तकाल वाक्यम्। यथा यदि पूर्वं धात्वायतनानि वदेत्। पश्चात्तु पञ्चस्कन्धान् तदैतदप्राप्तकालमित्युच्यते। प्राप्तकालवाक्यं तु वाक्यक्रमावगमे। हेत्वाभासो यथा मरीचाबुदकाभासः, न तु वस्तुत उदकम्। यदि वादी स्वलङ्कृतैर्वाक्यैरुदकमिति वदेत्तदा स हेत्वाभासः। वाक्छलं यथा। नवकम्बल इत्युक्ते तद्दूषयन् वदेत्। वस्त्रं न कालः कथं नव इत्युच्यते। इति छलम्। एवं समामतोऽष्टविधोऽर्थः समाख्यातः। इदानीं क्रमेण तल्लक्षणानि विस्तरेण व्याख्यास्यामः।
आह। उक्तो भवता पूर्वं दृष्टान्तः। कस्तावदुपायो दृष्टान्तस्य स्थापने। अत्रोच्यते। दृष्टान्तवचनं हि यत्र पृथग्जनानामार्याणाञ्च बुद्धिसाम्यं तदा वक्तव्यम्। यथा चित्तं चञ्चलं द्रुतवायुवत्। सर्वेषां जनानां वायुचाञ्चल्यस्य प्रतीतेः। तदा चित्तस्थिरताया निश्चयः। अप्रतीतौ दृष्टान्तालाभः। आह। कस्मात्सदर्थ एव नोच्यतेऽपि तु दृष्टान्तः। अत्रोच्यते। दृष्टान्तवचनं हि सदर्थद्योतनार्थम्।
आह। भवता पूर्वमुक्तम् पृथग्जनानामार्याणाञ्च बुद्धिसाम्यदृष्टान्तलाभ इति। किं साम्यं को वा विशेषः। अत्रोच्यते। पूर्ववत्। वायुदृष्टान्तस्य साम्यमित्युच्यते। आर्याणां निर्वाणप्राप्तिः पृथग्जनानां त्वप्राप्तिरयं विशेष इत्युच्यते।
आह। उक्तं दृष्टान्तलक्षणम्। किं पुनः सिद्धान्तलक्षणम्। अत्रोच्यते। साध्यस्य हेतुभिर्विस्तरेण स्थापनं निर्णयश्च। एतत्सिद्धान्तलक्षणम्।
आह। सिद्धान्तधर्माः कियन्तः। अत्रोच्यते। चत्वारः। सर्वसमः सर्वभिन्न आदौ समः पश्चाभ्दिन्न आदौ भिन्नः पश्चात्समश्च। आह। अधुना भवतैतानि चत्वारि लक्षणानि व्याख्यातव्यानि।
अत्रोच्यते। अर्थस्थापनमिच्छता चतुर्विधं ज्ञानमाश्रयितव्यम्। किं तच्चतुर्विधम्। प्रत्यक्षमनुमानमुपमानमागमश्च।
सर्वसमो यथा, (वादी वदेद-)आत्मात्मीयञ्च न विद्येते, प्रतिवद्यपि वदेदात्मात्मीयञ्च न विद्येत इत्ययं सर्वसमः। सर्वभिन्नो यथा, (वादी वदेत्) पृथगिति प्रतिवादी तु वदेदेकमित्ययम् सर्वभिन्नः। आदौ समः पश्चाभ्दिन्नो यथा, (वादी वदेत्) सर्वं दृष्टधर्मं सत्। आत्मा पुनरप्रत्यक्षोऽपि सग्। प्रतिवादी वदेद्यत्प्रत्यक्षधर्मकं तदेव सदिति वक्तव्यम्। आत्मा चेदप्रत्यक्षः कथं सन्। अनुमानेन चेदात्मा सन्निति तर्हि प्रत्यक्षपूर्वकमनुमानमिति। अप्रत्यक्षधर्मक आत्मा कथमनुमीयते। यदि पुनरुपमानेनात्मा सन्निति, अथ साधर्म्यपूर्वकमुपमानमित्यात्मा केनोपमीयते। यदि त्वागमेनात्मा सिद्ध इत्युच्यते तदयुक्तम्। दुर्बोधं हि सूत्रम्। कुत्रचित्सन्निति कुत्रचिदसन्निति कथं तत्प्रतीतिरित्ययमादौ समः पश्चाभ्दिन्नः। आदौ भिन्न पश्चात्समो यथा, (वादी वदेद)आत्मात्मीयञ्च न विद्येते। प्रतिवादी तु वदेदस्त्यात्मा, अस्ति पुरुषः। निर्वाणाभ्युपगमस्त्रूभयोर्वादिनोः। अयमुच्यत भिन्नः पश्चात्समः।
अपि चापरिमितानि लक्षणानि सिद्धान्तस्य, तद्यथा द्वादश निदानानि, दुःखं, समुदयः, निरोधः, मार्गः सप्तत्रिंशत्पक्षाः, चत्वारि श्रामण्यफलानीत्यादयो धर्मा बुद्धस्य सम्यगर्था इत्युच्यन्ते।
सन्ध्यापूजा, बलिदानं, धूपदीपनं, तैलदीपनिवेदनमिति चतुर्विधा याज्ञिकतीर्थिकानां क्रिया।
त्रिषष्ट्यक्षराणां चतुर्णां च पदानामर्थ इति शाब्दिकास्तीर्थिकाः।
ओषधिविद्या षड्विधा। ओषधिनाम, ओषधिगुणः, ओषधिरसः, ओषधिवीर्यं, सन्निपातः, विपाकश्चेति भैषाज्यधर्माः।
षट्पदार्था वैशेषिकाणाम्॥
प्रधनस्यैक्यं पुरुषा बहवः। [तेषां च] विमुक्तिरिति सांख्याः।
अष्टौ सूक्ष्माणि यथा। चत्वारि महाभूतानि बुद्धिराकाशो, विद्या, अविद्या, अष्टैश्वर्याणि [तद्यथा] अणिमा, महिमा, लघिमा, प्राप्तिः, प्राकाम्यं, कायविभागः, ईशित्वं तिरोभावश्च। इति योगतीर्थिकाः।
जीवोऽजीवः पापं पुण्यमाश्रवः, निर्जरा, सम्बरः, बन्धः, मोक्षः। पञ्चज्ञानानि [तद्यथा] श्रुतज्ञानं, मतिज्ञानं, अवधिज्ञानं, मनःपर्यायज्ञानं, केवलज्ञानम्। षडावरणानि, दर्शनावरणं, दुःखवेदनीयावरणं, मोहावरणमायुरावरणं, गोत्रावरणं, नामावरणञ्च। चत्वारः कषायाः [तद्यथा] क्रोधः, मानः, लाभः, माया चेति निर्ग्रन्थधर्माः।
अपरेऽपि सन्ति ये वदन्ति सर्वमेकं सभ्दावाज्ज्ञेयम्। सर्वधर्माणां च गुणवत्त्वादैक्यम्, किञ्च प्रधानात् समुत्पन्नं सर्वमेकं ज्ञेयमेकमूलत्वा इत्येवमेकवादिनस्तीर्थिकाः।
अपरे वदन्ति। सर्वं पृथक्। कुत इति चेत्। यथा शिरःपदादि कायात्पृथक्। अपि च लक्षणपृथक्तं यथा वृषभोऽश्वविलक्षणः। तस्मात्सर्वं पृथगिति ज्ञेयम्। इति पृथग्वादिनस्तीर्थिकाः।
अथ कथं सर्वमेकं सभ्दावादिति। यतः सद्धि द्वेधा चेतनमचेतनञ्च। तत्कथमेकं हेतुवैषम्यांदिति। एवं धर्माणां समासतो दूषणम्।
यदि पुनः कश्चिद्वदेद्दुःखसमुदयनिरोधमार्गद्वादशनिदानसंस्कृतादिधर्माणामेकत्वं पृथक्तं वेति सर्वमेतदसद्धेतुकम्। कस्मात्। यद्येकत्वं तदा दुःखान्तवादापत्तिः। यदि पृथक्तं तदा सुखान्तवादापत्तिः। तस्मादुक्तं [एकत्वे पृथक्ते वा]न्तद्वयवादापत्तिः। नैष बुद्धधर्मस्यार्थ इति।
अपि च यथा केचिद्वदन्ति निर्वाणभावः न दुःखं न च सुखम्। कथं ज्ञातमिति चेत्। सर्वे हि धर्माश्चेतनाः सदुःखसुखा निर्वाणं त्वचेतनं कथं सुखं स्यात्।
अपि च केचिद्वादिनः सुखं वदन्ति। कुत इति चेत्। सुखं त्रिविधम्। सुखवेदनासुखं, अनुपघातः, अनाकाङ्क्षा च। निर्वाण आकाङ्क्षाभावान्निर्वाणं सुखम्।
अपि च निर्वाणं नित्यमिति मया पूर्वं ज्ञातम्। इदानीन्तु [वक्तव्यं] संस्कारेभ्यस्तत् पृथक् न वेति केचित्। अत्रोच्यते। निर्वाणं नित्यमिति पूर्वं ज्ञातं किमुच्यते संक्सारैस्तत्तुल्यम्। संस्काराणां स्वभावः परिणामः प्रध्वंसश्च। निर्वाणभावस्य तु नित्यता सुखत्वञ्च। कथं विद्वांस्तत्संस्कारैस्तुल्यं वदेत्।
अन्यच्च केचिदाहुः। आत्मभावस्य रूपवत्त्वे नित्योऽनित्यो वायमिति न निश्चीयते।
अत्रोच्यते। सर्वं मूर्तमनित्यमेव यथा मुर्तो घटो विनाशी। आत्मापि तद्वदिति चेत्तदाऽनित्य एव। आत्मनो मूर्तत्वन्तु सूत्रैर्न समर्थितं, युक्तिहीनञ्चैतत्। यथा रत्नबुध्या सिकतोपलादानं तथा भवतो वचनमतीव मिथ्या। अथ कस्मादात्माऽमुर्त इति चेन्मया पूर्वमुक्तं घटो मूर्तत्वाद्विनाशीति। यद्यात्मैवं स्यात्, तदा सोऽपि विनाशी भवेत्। कथमिदानीं भवता पृच्छ्यते “कस्मादात्माऽमूर्त” इति।
अपरञ्च। अनियतसिद्धान्तलक्षणम्, यथा कश्चित् पृच्छेत्। किं शब्दो वस्तु[भूतो] नित्योऽनित्यो वा। अत्रोच्यते। यद्विभागनिष्पन्नं तदनित्यमेव। शब्दोऽपि विभागनिष्पन्नः कथं नित्यो भवेत्।
अथ किं नाम शब्दो वस्तु[भूतः]। अत्रोच्यते। अनिश्चये कथं प्रश्नः।
अथ किं केवल एवात्मानागतेऽध्वनि सुखदुःखे वेदयते सशरीरो वा।
अत्रोच्यते। एतस्मिच्छरीरे विनष्ट आत्मनोऽपरस्मिञ्छरीरे वेदनम्।
ननु क एष आत्मा योऽनागतेऽध्वनि सुखदुःखे वेदयते। अत्रोच्यते। ‘आत्मा, इति पूर्वमुक्तं भवता। कथं पुनः सन्नसन् वात्मा’ इति पृच्छ्यते। अयुक्तमेतत्।
अथ सिद्धान्तार्थ उक्तः। किं पुनर्वाक्यप्रशंसालक्षणम्। अत्रोच्यते। युक्त्यविरुद्धमनधिकमन्यूनमधिगतपदार्थं वचनधर्मनिबद्धं प्रसिद्धदृष्टान्ताविरुद्धमननुयोज्यञ्च। एभिर्हेतुभिर्वाक्यप्रशंसेत्युच्यते।
ननु किं नाम युक्त्यविरुद्धम्। अत्रोच्यते। विज्ञानमेवात्मेति केचिन्मन्यन्ते सर्वस्काराणां शून्यत्वादनात्मत्वाच्च। न हि सर्वे संस्कारा विज्ञानमिति तदयुक्तम्। संस्कारा हि विज्ञानस्य हेतवः। हेतूनां चानात्मत्वात्, कथं विज्ञानमात्मा।
अथ सर्वे धर्मां अनित्याः शब्दस्तु नैव सर्वं, तस्माच्छब्दो नित्य इति। अत्रोच्यते। भवता सर्वमित्युक्तम्, कोऽर्थः पुनः शब्दस्य, यो नैव सर्वम्। एतदहेतुकमयुक्तञ्च।
अन्यच्च। सर्वे कृतकधर्मा अनित्या एव। अग्निसन्तानवत्। शब्दोऽपि तथा। तस्मादनित्यः। एतदविरुद्धलक्षणम्।
अथ किमनधिकमन्यूनञ्च। अत्रोच्यते। अहिकन्यूनत्वयोर्लक्षणं पूर्वमुक्तम्। न्यूनत्वं त्रिविधम् हेतुन्यूनत्वं वाक्यन्यूनत्वं दृष्टान्तन्यूनत्वञ्च। यदि कश्चिद्वदेत्। षड्विज्ञानन्यनित्यानि घटवत्। कारणन्तु न वदेत्तदा तद्धेतुन्यूनत्वमित्युच्यते। यदि कश्चिद्वदेहेहोऽयमनात्मा सकारणत्वात्। शब्दोऽप्यनात्मा सकारणत्वादेतदृष्टान्तन्यूनत्वम्।
यदि कश्चिद्वदेदनित्यानि चत्वारि महाभूतानि घटवत्कृतकानि। एतद्वाक्यन्यूनत्वम्। एतद्वीपरीतं तु सम्पन्नमित्युच्यते।
सम्पन्नञ्च यथा। आत्मवाद्येवं प्रष्टव्यः। यदुक्तं भवतात्मेति स नित्योऽनित्यो वा। यद्यनित्यस्तदा संस्कारवद्विनाशधर्मा। नित्य इति चेत्तर्हि कथं निर्वाणस्पृहा। एतत् सम्पन्नलक्षणम्।
अथ किं नामाधिकम्। अत्रोच्यते। अधिकं त्रिविधम्, हेत्वधिकं, दृष्टान्ताधिकं, वाक्याधिकञ्च। यदि कश्चिद्वदेच्छब्दोऽनित्यः सम्योगजः। यथा घटः कृतकोऽनित्यश्च। पुनरपि वदेच्छब्द आकाशस्य गुणः। आकाशोऽमूर्तः शब्दस्तु रूपधर्मा कथमन्योन्यसमाश्रयः। एतद्धेत्वधिकम् यद्युच्यते पञ्चेन्द्रियाण्यनित्यानि प्रतिध्वनिवत्कृतकत्वात्। शब्दोऽपि तथा। कथं तज्ज्ञायते। ओष्ठमुखादिसमुभ्दवत्वात्। तदृष्टान्ताधिकम्। यद्युच्यते ऽणुः सूक्ष्म आकाशस्तु व्यापी। उभावपि नित्यौ। शब्दस्तु न तथा तस्मादनित्य एतदृष्टान्ताधिकम्। अपि च शब्दो ऽनित्यः सकारणत्वात्। नित्य इति चेत्, तदयुक्तम्। कस्मात् ? द्वाभ्यां हेतुभ्याम्। मुर्तोभ्दवत्वादैन्द्रियकत्वाच्च। कथं नित्य इति यच्च समानधर्मकं तत्सर्वमनित्यम्। एतद्वाक्याधिकमुच्यते।
अत्राह। कीदृशं वाक्यं लौकिकानां प्रतिपादनाय स्मर्थम्। उच्यते। यदि मूर्खाय गम्भीरार्थ वदेद्यथा सर्वे धर्मा शून्याः शान्ता निरात्मानो निष्पुग्दला मायावत् निर्माणवत्तत्त्वरहिता इत्यादि तदा तं गम्भीरार्थं विद्वानेव ज्ञातुं शन्कोति पृथग्जनस्तु श्रुत्वा भ्रान्त्यापन्नो भवेत्। एतदप्राप्तकालम्। अथोच्यते। अस्ति धर्माणां कर्म, अस्ति विषाक्रोऽस्ति च बन्धमोक्षडिः। यः करोति सोऽनुभुङ्क्त इत्यल्पबुद्धयोऽपि श्रुत्वावगच्छन्ति यथा वेधकारणिसंयोगेनाग्नेरूत्पत्तिः। यदभिधीयते तद्यदि सत्त्वोपयोगि भवेत्, तदा सर्वेषां [तत्र] प्रतीतिरनुमोदनञ्च। एतत् प्राप्तकालम्।
अथ किं प्रतिपत्तिः। उच्यते। अभिहितस्य बाहुल्येऽपि स्मरणसामर्थ्यम्, अर्थानां गाम्भीर्येऽपि तल्लक्षणोपलब्धिः, जनप्रीतिकरश्च साध्यसारः। यथा कश्चिद्वदेत् सर्वे धर्माः शून्या अनीश्वराः सर्ववस्तूनां प्रतीत्यसमुत्पन्नत्वादिति प्रतिपत्तिः।
अथ के वाक्यदोषाः। अत्रोच्यते। पूर्वोक्तविपरीता वाक्यदोषाः। वाक्यदोषाः पुनर्द्विविधाः। किञ्च तद्द्वैविध्यम्। अर्थस्याभेदे पुनरुक्तिः। वाक्यस्य चाभेदे पुनरुक्तिरिति। का नामैकार्थपुनरुक्तिः। यथा कौशिक इत्युक्त्वा पुनर्वदेद्देवेन्द्रः शक्रः पुरन्दरो वेति। इयमुच्यत एतस्यैवार्थस्य नामान्तरपुनरुक्तिः।
नामार्थतुल्यता यथा। इन्द्र इत्युक्त्वा पुनरपीन्द्र इति वदेत्। इयं नामार्थाभेदे पुनरुक्तिः।
यदलङ्कृतमसङ्गं वोक्तं स सर्वो वाक्यदोष इत्युच्यते। अपरञ्च यद्युक्तिसमुपेतमप्यक्रमम् एषोऽपि वाक्यदोष इति।
यथा गाथयोक्तम्।
यथा कश्चिद्देवानामिन्द्रस्य शक्रस्य भार्यां प्रशंमयन् सुवर्णरूपिणीम्॥
कोमलपादहस्तां पश्चाच्च शक्रो देवानामिन्द्रो ऽसुरत्रिपुरविनाशीति तु वदन्नित्यक्रमं वचनमुक्तम्।
अथ कतिविधं प्रमाणम्। चतुर्विधं प्रमाणम्। प्रत्यक्षमनुमानमुपमानमागमश्चेति। चतुर्षु प्रमाणेषु प्रत्यक्ष श्रेष्ठम्। कुतः पुनः प्रत्यक्षं श्रेष्ठमिति चेदपरेषां त्रयाणां प्रमाणानां प्रत्यक्षोपजीवकत्वाच्छ्रेष्ठम्। यथा दृष्टे धूमवत्यग्नौ पश्चाद्धुमदर्शनादग्नेरनुमानम्। तस्मात्प्रत्यक्षं विशिष्यते। यथ च मरीचिदर्शनेनोदकोपमानम्। तस्मात्प्रत्यक्षे पूर्वं ज्ञाते पश्चादुपमानलाभः। .....पश्चात्प्रत्यक्षकाले पूर्वज्ञानं सत्यम्।
ततश्च प्रत्यक्षादेव [प्रमाण]त्रयं ज्ञानमिति ज्ञातम्। इदानीन्तु तत्प्रत्यक्षं कथं सदिति। अत्रोच्यते। पञ्चेन्द्रियज्ञानं कदाचिन्मिथ्या। यत्तु साध्यवसायं सम्यग्धर्मावबोधकं तत्परमम्। ग्रीष्मे मरीचीनामलातचक्रगन्धर्वनगराणां च प्रत्यक्षेऽपि तदसत्।
अपरञ्च। लक्षणास्पष्टत्वाद्दर्शनभ्रमः। यथा रात्रौ स्थाणुं दृष्ट्वा मनुष्य एष इत्युच्यते। अङ्गुल्या चक्षुःपीडनाच्च द्विचन्द्रदर्शनम्। शून्यताज्ञाने प्राप्ते सम्यग्दृष्टिरुच्यते। ज्ञात प्रत्यक्षं तावत्। अथ किमनुमानलक्षणम्। उच्यते तत्पूर्वमुद्दिष्टम्। अधुना व्याख्यायते। अनुमानं त्रिविधं पूर्ववत्, शेषवत्, सामान्यतो [दृष्टं] च। यथा षडङ्गुलिं सपिडकमूर्धानं बालं दृष्ट्वा पष्चाद्धृद्धं बहुश्रुतं देवदत्तं दृष्ट्वा षडङ्गुलिस्मरणात् सोऽयमिति पूर्ववत्।
शेषवत् यथा, सागरसलिलं पीत्वा तल्लवणरसमनुभूय शेषमपि सलिलं तुल्यमेव लवणमिति। एतच्छेषवदनुमानम्।
सामान्यतो दृष्टं यथा। कश्चिग्दच्छंस्तं देशं प्राप्नोति। गगनेऽपि सूर्याचन्द्रमसौ पूर्वस्यां दिश्युदितौ पश्चिमायाञ्चास्तं गतौ। तच्चेष्टायामदृष्टायामपि तद्गमनमनुमीयते। एतत्सामान्यतो दृष्टम्। ननु का श्रुतिः। अत्रोच्यते, सत्यप्राचीनवृद्धबुद्धबोधिसत्त्वदर्शनादार्यसूत्रधर्मश्रवणग्रहणयोर्ज्ञानदर्शनोत्पादसामर्थ्यमेषा श्रुतिरित्युच्यते। यथा सुवैद्यको भेषजकुशलो मैत्रचित्तेन शिक्षकः सुश्रुत इत्युच्यते।
एवमपि यत् कृतसर्वधर्मसाक्षात्कारैर्महाज्ञानैरार्यैः श्रुतं तत् सुश्रुतमुच्यते।
अथ किमुपमानलक्षणम्। अत्रोच्यते। यथा सर्वे धर्मा शून्याः शान्ता मायावत् निर्माणवत्। संज्ञाऽदान्ताश्ववत्, संस्काराः कदलीवत्, कामलक्षणं पिडकवत् विषवत्। एतदुपमानमुच्यते। एवं चत्वारो हेतवः। तदवगमनं हेतुज्ञानमित्युक्तम्।
अथ के हेत्वाभासाः। अत्राच्यते। हेत्वाभासा एतेषु वादधर्मेसु महादोषा एव ज्ञेयाः। शीघ्रञ्चापहर्तव्याः। अथेदानीं हेत्वाभासा व्याख्यास्यन्ते। हेत्वाभासानां लक्षणान्यपरिमितानि संक्षेपतस्त्वष्टावेव। वाक्छलं, सामान्यछलं, संशयसमः, कालातीतः, प्रकरणसमः, वर्ण्यसमः, सव्यभिचारः, विरुद्धः।
नन्वेतेऽष्टौ धर्मा विस्तरेण विवेक्तव्याः। उच्यते। नव इति चतुर्विधम्। नवः, नव, न वः, नव इति।
यथा कश्चिदाह। यो मय परिहितः स नवकम्बलः। अत्र दूषणं (वदेत्) यभ्दवता परिहितं तदेकमेव वस्त्रं कथं नवेति। अत्र प्रतिवेदेन्मया नव इत्युक्तं तथाच नवः कम्बलः नतु नवेति। अत्र दूषयेत्कथं नव ? नवलोमैर्निर्मितत्वान्नव इत्युक्ते प्रतिवादी वदेत् तत्त्वतोऽपरिमितानि लोमानि कथं नवलोमानीत्युच्यते।
अत्राह। नव इति मया पूर्वमुक्तं न तु नवसंख्या। अत्र दूषणम्। तद्वस्त्रं युष्माकमेवेति ज्ञातं कस्मादेतन्न वः कथ्यते। अत्रोत्तरम्। मया नव इत्युक्तं किन्तु न व इति नोक्तम्। अत्र दूषणम्। भवतः कायं कम्बलो वस्त इति प्रत्यक्षमेतत्। कथमुच्यते न वःकम्बलः। अयं हेत्वाभास इत्युच्यते वाक्छलं च।
अपरञ्च वाक्छलम्। यथा गिरिर्दह्यत इत्युक्ते, दूषणम्। तत्त्वतस्तृणतरवो दह्यन्ते कथं गिरिर्दह्यत इत्युक्तम्। एतद्वाक्छलमित्युच्यते।
अपि च छलं द्विविधं। पूर्ववत् सामान्यञ्चेति। यथा। संस्कृता धर्माः श्रून्याः शान्ता आकाशवदित्युक्ते, दूषणम्। यद्येवं, उभयोरपि शून्यत्वमभावश्च, तदा निःस्वभावा धर्मा आकाशतुल्या इति सामान्यछलम्।
का तावदुत्पत्तिरिति। अत्रोच्यते। सत उत्पत्तिरिति। यथा मृदो घटत्वत्त्वाद्धटोत्पादकत्वम्। यदि मृदो घटत्ववत्त्वं तदा मृदेव घटः स्यात्। तदा तदुत्पत्तये कृतं कुम्भकाररज्जुचक्रसंयोगेन। यदि मृदः सभ्दावेन घटोत्पादकत्वं, तदोदकस्यापि सभ्दावेन घटोत्पादकत्वं स्यात्। यद्युदकस्य सभ्दावेन घटानुत्पादकत्वं कथं तर्हि मृदो घटोत्पादकत्वम्। इति सामान्यछलम्।
किं नाम संशयहेत्वाभासलक्षणम्। उच्यते। स्थाणोर्मनुष्यसादृश्यात्, रात्रौ तं दृष्ट्वा, एष स्थाणुः पुरुषो वेति विमर्शः। अयं संशयहेत्वाभास इति।
कः पुनः कालातीतहेत्वाभासः। उच्यते। यथा कश्चिद्वदेन्नित्यः शब्दः। शब्दमयत्वाद्वेदोऽपि नित्य इति। अत्र दूषणम्। इदानीं भवता शब्दस्य नित्यताकारणमप्रतिष्ठाप्य कथं वेदो नित्य इत्युच्यते।
अत्र वदेद्यथाकाशमरूपत्वान्नित्यं तथा शब्दोऽप्यरूपत्वान्नित्यः। तद्वचने पश्चादप्युक्ते सोऽर्थः सिध्यति। अत्र दूषणं कालतीतमेतद्वचनम्। यथा गृहे दग्ध उदाकान्वेषणं भवतोप्येवमिति कालातीतः।
अथकोनामप्रकरणसमः ? (आत्मनः) शरीर भिन्नत्वादात्मा नित्यः। यथा (घटस्य) आकशभिन्नत्वाद्वटोऽनित्यः। अयं प्रकरणसम इत्युच्यते।
अत्र दूषणम्। यद्यात्मा शरीरभिन्नत्र्वान्नित्य इति, तदा (घटस्य) आकाशभिन्नत्वाद्वटोऽनित्यः। अयम् प्रकरणसम इत्युच्यते।
अत्र दूषणम्। यद्यात्मा शरीरभिन्नत्वान्नित्य इति, तदा (घटस्य) शरीरभिन्नत्वाद्वटोऽपि नित्यः स्यात् शरीरभिन्नत्वेऽपि घटोऽनित्य इति चेत्, तर्ह्यात्मापि शरीरभिन्नत्वात् कथं नित्यः। इति प्रकरणसमः।
को नाम वर्ण्यसमः। उच्यते। यथा नित्यमाकाशमस्पर्शत्वात्। मनोविज्ञानमपि तथा। अयं वर्ण्यसम इत्युच्यते।
कः सव्यभिचारः। उच्यते। यथा पञ्चविषया अनित्या इन्द्रियग्राह्यत्वात्। चत्वारि महाभूतान्यपि तथा तस्मादनित्यानि।
अत्र दूषणम्। कूर्मरोम लवणगन्धश्च निराभासमात्रं मनोविज्ञानोपलभ्यत्वात्किमनित्यमिति सव्यभिचारः।
अथ को नाम विरुद्धः। उच्यते। विरुद्धो द्विविधः। दृष्टान्तविरुद्धो युक्तिविरुद्धश्च। यथात्मा नित्योऽमूर्तत्वात्, वृषभवत्। अयं दृष्टान्तविरुद्धः।
युक्तिविरुद्धो यथा, ब्राह्मणस्य क्षत्रकर्मानुपालनं मृगयादिशिक्षा च, क्षत्रियस्य ध्यानसमापत्तिरिति युक्तिविरुद्धः। एवम्भूतौ धर्मावज्ञा अबुद्धैव सत्यं मन्यन्ते।
ननु किमविरुद्धम्। अत्रोच्यते। एतभ्दिन्नमविरुद्धमित्यभिधीयते।
इति हेत्वाभासाः।
॥ इति प्रथमं प्रकरणम्॥