अभिमानपरिवर्तो नाम चतर्शितितमः
Technical Details
XXIV
अभिमानपरिवर्तो नाम चतर्शितितमः।
अथ खल्वित्यादि कथं चानन्देत्यतः प्राक्। आलीनो भवतीति अनुलग्नो भवति। कथमित्याह। एष इत्यादि यावत्परिपूरयिष्यतीति। न ह्येवमित्यादि। यथान्यसूत्रेषु तथागतभाषितं युज्यमानं एवमत्र नास्तीत्यर्थः। गाधः प्रतिष्ठा। आस्वादो रुचिः। नामगोत्रग्रहणं धुतगुणकीर्तनं च पूर्ववत्। उत्सदा उपचिताः काया राशयः इति सप्तमी विवृद्धिः॥
कथं चेत्याद्या पविर्तान्तात् सर्वं सुबोधम्। इत्यष्टमी विवृद्धिः॥
योयमविनिवर्तनीयोऽभिमानो बोधिसत्त्वस्य बव्हनर्थहेतुस्तदुपलक्षितः परिवर्तोऽभिमानपरिवर्तः॥
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां चतुर्विशतितमः परिवर्तः॥