५. ध्यानपारमितासमासः
Technical Details
५. ध्यानपारमितासमासः
अथ ध्यानविधौ योगं कुर्याज् ज्ञानविवृद्धये।
सुखं हि कर्तुं लोकानां ज्ञानालोकादनुग्रहम्॥ १॥
प्रसीदत्यधिकं ज्ञानं ध्यानान्मनसि निर्मले।
शरदुत्सारितघने नभसीवेन्दुमण्डलम्॥ २॥
विशुद्धशीलः कल्याणैः सहायैः सहितैर्हितैः।
अल्पकृत्यः प्रशान्तात्म स्मृत्यधिष्ठानवेष्टितः॥ ३॥
निवसन् वृक्षमूलेषु शाद्वलास्तीर्णभूमिषु।
अनुपस्कृतरम्येषु वनपुष्पसुगन्धिषु॥ ४॥
ध्यानसाचिव्यधीरेषु संतुष्टजनवेश्मसु।
जननिर्घोषमूकत्वाद् गम्भीरावस्थितेष्विव॥ ५॥
प्रत्यरण्यनिविष्टेषु शून्येष्वायतनेषु वा।
कुञ्जेषु च महीध्राणां सिंहनादानुनादिषु॥ ६॥
यत्र क्व चन वा देशे संसर्गक्लेशवर्जिते।
पर्यङ्केन सुखासीनः शरीरम् ऋजु धारयन्॥ ७॥
उपस्थाप्य स्मृतिमयीं रक्षां अभिमुखीं हृदि।
कृपया कुवितर्काणां कृत्वेवाक्षणघोषणाम्॥ ८॥
प्रज्ञापरिचयस्यायां कालो मे न तु निर्वृतेः।
न हि सत्त्वान् अनिर्वाप्य स्वयं निर्वातुम् उत्सहे॥ ९॥
इति लोकहितावेक्षी बुद्धभावगतस्पृहः।
कुर्यात् सातत्ययोगेन ध्यानारम्भसमुद्यमम्॥ १०॥
न हि विश्रम्य विश्रम्य मथ्नन्नग्निमवाप्नुयात्।
स एव योगो योगेऽपि विशेषाधिगमादृते॥ ११॥
एकत्रैव च बध्नीयाद् दृढम् आलम्बने मनः।
अन्यान्यालम्बनग्राहः क्लिश्नात्येवाकुलं मनः॥ १२॥
विदर्शनाद् वीर्यबलाल्लीयमानं समुद्धरेत्।
उद्धन्यमानं च मनः प्रशमेन निवारयेत्॥ १३॥
सम्यग्गतमुपेक्षितं समाधिबलनिश्चलम्।
तत्रापि वा तन्मयः स्यात् सुगतज्ञानलब्धये॥ १४॥
न च ध्यानसुखास्वादः पारतन्त्र्यमनुक्रमेत्।
न हि स्वसुखमात्रार्थमयम् आरम्भविस्तरः॥ १५॥
शरीरजीवितापेक्षी दैन्योपहतमानसः।
न कुर्याद् वीर्यशैथिल्यमप्यादीप्ते स्वमूर्धनि॥ १६॥
लक्षयित्वा निमित्तानि मनस्तस्य समाधये।
भ्रश्यमानं प्रयुञ्जीत स्मृत्यावहितया पुनः॥ १७॥
मनो निवरणेभ्यश्च विपक्षैर्विनिवर्तयेत्।
स्वेच्छाप्रयातं द्विरदम् अङ्कुशाकर्षणैरिव॥ १८॥
अथ नीवरणव्याधिनाशप्रस्वस्थमानसः।
दारिद्र्यादिव निर्मुक्तो महतो व्यसनादिव॥ १९॥
प्रीतियुक्तेन मनसा कामदोषान् विचारयेत्।
तद्वियोगोपलभ्यां च परां सुखपरम्पराम्॥ २०॥
विद्युदुद्द्योतचपलाः फेनांशुकनिभात्मकाः।
स्वप्नवत् पेलवास्वादा वञ्चनार्थमिवोदिताः॥ २१॥
पितृणामपि पुत्रेषु पुत्राणां च पितृष्वपि।
प्रीतिसर्वस्वभूतेषु सुहृत्सु सुहृदामपि॥ २२॥
गुणप्रचयबद्धस्य व्यूढेसु समरेष्वपि।
दर्शितस्थैर्यसारस्य स्नेहसेतोर्विदारिणः॥ २३॥
इह पर्येष्टिदुःखस्य परत्र नरकस्य च।
हेतुभूता यतः कामाः कामयेत न तान् अतः॥ २४॥
यदाश्रयो वितर्कोऽपि प्रज्ञाचक्षुर्निमीलनः।
आत्मनोऽपि परस्यापि विघाताय प्रवर्तते॥ २५॥
आत्मकामैरपि च ये सर्वथापि विवर्जिताः।
परार्थकामस्तान् कामांस्त्यक्त्वा कथमनुस्मरेत्॥ २६॥
तृप्तिरेषां न संप्राप्त्या नाहन्यहनि सेवया।
नैव संनिचयेनापि कोऽन्यो व्याधिरतः परः॥ २७॥
यदास्वादहतो नैव स्वार्थमप्यवबुध्यते।
उन्मत्तपानप्रतिमान् कस्तान् सहृदयः स्मरेत्॥ २८॥
इत्येवं सर्वतो दुष्टान् कामांस्तस्यानुपश्यतः।
ततः संकुचितं चित्तं नैष्क्रम्येऽभिप्रसीदति॥ २९॥
विवेकजं प्रीतिसुखं ततः प्रस्रब्धिलब्धिजम्।
प्राप्नोति चित्तस्यैकाग्र्यं प्रथमध्यानसंज्ञितम्॥ ३०॥
स वितर्कविचाराणां कामानामिव दुष्टताम्।
पुष्यांस्तत्प्रशमान्वेषी समाधिप्रीतिजं सुखम्॥ ३१॥
अध्यात्मसंप्रसादाच्च चित्तैकाग्रतया च तत्।
द्वितीयं ध्यानमित्याहुरद्वितीया महर्षयः॥ ३२॥
उत्प्लवं मनसो दृष्ट्वा प्रीतेरथ विरज्य सः।
तृतीयं ध्यानमाप्नोति स्मृत्युपेक्षासमन्वितम्॥ ३३॥
सुखभोगमपि त्यक्त्वा सुखदुःखनिराकृतम्।
विशुद्धं स्मृत्युपेक्षाभ्यां चेतुर्थं ध्यानमश्नुते॥ ३४॥
अभिज्ञा लभते पञ्च स च तत्रानुगामिनीः।
राज्यस्थ इव धर्मात्मा ह्रीकीर्तिश्रीमतिद्युतीः॥ ३५॥
प्रत्येकजिनलब्धाश्च श्रावकीया व्यतीत्य च।
ता भवन्त्यधिका दूरं परार्थसमुदागमात्॥ ३६॥
स हि मत्सरिणस्त्यागे शीले तद्विकलानपि।
कोपनान् क्षान्तिसौरत्ये कुसीदान् वीर्यसंपदि॥ ३७॥
विक्षिप्तचेतसो ध्याने प्रज्ञायां तन्निराकृतान्।
नियोजयति कारुण्यादश्रान्ताचारविक्रमः॥ ३८॥
अतोऽच्युताभिर्दीप्ताभिर्भाभिर्लोकावभासनम्।
मरीचिभिरिवादित्याः कुरुतेऽनन्तगोचरम्॥ ३९॥
अथ पापकृतः सत्त्वान् पततो नरकादिषु।
क्षीणपुण्यायुषश्चैव देवाञ्छाश्वतमानिनः॥ ४०॥
तैस्तैर्दुःखविशेषैश्च लोकं कारणयाहतम्।
तत्र दिव्यप्रभावेण चक्षुषा सा विलोकयन्॥ ४१॥
तीव्रमायाति कारुण्यं कारुण्यान् न प्रमाद्यति।
परार्थेष्वप्रमत्तश्च यात्यचिन्त्यप्रभावताम्॥ ४२॥
अथान्यलोकधातुस्थान् सम्पश्यति तथागतान्।
बुद्धक्षेत्रगुणव्यूहान् संघस्यैव च संपदः॥ ४३॥
बोधिसत्त्वर्षभाणां च विशुद्धाचारगोचरम्।
सर्वलोकहितोदर्कं श्रीमच्चरितमीक्षते॥ ४४॥
तत्र च प्रणिधिस्तस्य सुखेनैव समृध्यति।
परार्थपरिणामाच्च शीलस्यैव च संपदः॥ ४५॥
अतिमानुषया श्रुत्या दिव्ययार्थविशुद्धया।
शृण्वन्नुच्चावचा वाचो विदूरेऽप्यविदूरवत्॥ ४६॥
कृपादूरचरैरुक्ताः पारुष्यविरसाक्षराः।
अन्तर्दीप्तस्य कोपाग्नेर्निश्चरन्तीरिवार्चिषः॥ ४७॥
अप्सरोगीतसचिवान् भूषणस्वनशीभरान्।
दिव्यतूर्यनिनादांश्च विनाशैकरसानपि॥ ४८॥
निषेव्यमाणान् रागान्धैरमित्रान्मित्रारूपिणः।
वीक्ष्य व्रजति कारुण्यं तेषां वाञ्चनया तया॥ ४९॥
भयाद्दुःखविशेषाच्च सोऽविस्पष्टपदाक्षरैः।
नारकैरार्तरसितैर्हृदीवाभिहतस्ततः॥ ५०॥
परमालम्बते वीर्यं मज्जागतमहाकृपः।
तीक्ष्णाग्रेण प्रतोदेन सदश्व इव चोदितः॥ ५१॥
नानालोकस्थितेभ्योऽथ जिनेभ्यो धर्मदेशनाः।
शृणोति सर्वसत्त्वानां निर्वाणकाङ्क्षयाक्षयाः॥ ५२॥
ततः स परचित्तेषु विज्ञायानुशयाशयान्।
पुण्याङ्कुरान् रोपयति ज्ञानसाधनवान्नवान्॥ ५३॥
स्मृत्वा पूर्वनिवासं च कल्पकोटिसहस्रशः।
पश्यन् पुण्यानि लोकानां तथेन्द्रियबलाबलम्॥ ५४॥
तदाश्रयवशादृद्ध्या सोऽनेकीकृतविग्रहः।
अवन्ध्यकथनं याति यथाभाजनदेशनात्॥ ५५॥
क्व चिद् अर्कसहस्रदीप्तिनाप्य-
विसंवादितकान्तिसंपदा।
वपुषा मुनिराजलक्षणः
स्फुटचित्रेण समन्तलक्ष्मणा॥ ५६॥
जनयन्नयनोत्सवं नृणां
वचसा ह्लादविशेषमाचरन्।
स करोत्यमृतप्रकाशनं
जिनभावाय जिनाधिमुक्तिषु॥ ५७॥
प्रशमोत्तरया मुनिश्रिया
क्व चिद् अत्यार्थविशिष्टचेष्टया।
कुरुते मुनिशिष्यरूपभृद्वि-
नयं तद्विनयार्हचेतसाम्॥ ५८॥
अभिसारितपादपङ्कजः
सुरचूडामणिभिर्महेन्द्रवत्।
धनदो धनदो यथा क्व चित्
कुह चिद्ब्रह्मवदद्भुतद्युतिः॥ ५९॥
क्व चिद् उन्मिषितत्रिलोचनः
शशीलेखामलमौलिभूषणः।
अमराधिपभासुरद्युतिर्बु-
जगेन्द्रश्रियमुद्वहन् क्व चित्॥ ६०॥
कुलिशानलपिङ्गलाङ्गुलिः
कुह चिद् गुह्यकराजराजवत्।
अमिताजिनलक्ष्मवान् क्व चिद्
गुणरश्मिर्मुनिचन्द्रमा इव॥ ६१॥
स्फुटकौस्तुभरत्नरश्मिभिर्वि-
पुलोरःस्थलभासुरद्युतिः।
गरुडध्वजराजदृक् क्व चित्
कुह चिच्चैव हलायुधद्युतिः॥ ६२॥
सितशक्तिरचिन्त्यशक्तिमान्
कुह चिच्चारुशिखण्डिवाहनः।
उदयास्तनगेन्द्रभूषणः
शशिसूर्यामलरूपवान् क्व चित्॥ ६३॥
कुह चिद् धुतभुङ्मरुत्वतां
वपुषान्यत्र नराश्रयाशिनाम्।
वारुणद्युतिम् उद्वहन् क्व चित्
कुह चिन्मन्मथचारुविग्रहः॥ ६४॥
ललितां प्रमदानराकृतिं
नरनारीरतिसंगलालसः।
क्व चिद् एव तपोधनश्रियं
विदधत् कामविरक्तमानसः॥ ६५॥
हृदयानि हरन्नृणां क्व चिद्
गुरुशिष्यक्षितिपालवृत्तिभिः।
नरकेष्वपि च परभावतो
विदधद्दुःखविमोक्षणक्षणम्॥ ६६॥
जगताम् अधिमुक्तिविस्तरैरथ
सोऽनेकविधैर्विचेष्टितैः।
करुणागुणसंततस्ततः
कुरुते लोकहितं ततस्ततः॥ ६७॥
समवाप्य विशेषसंपदं
विपुलां ध्यानगुणश्रयादिमाम्।
प्रयतेत विशेषवत्तरं
निधिचिह्नेष्वविसंवदत्स्विव॥ ६८॥
कुशले स्थितिरप्यनूर्जिता
किम् अहानिः शिथिलव्रतोचिता।
प्रयतेत विवृद्धये ततः
परिहाणिस्तु विपर्ययादतः॥ ६९॥
सुलभश्च समाधिरुद्यमाद्
अनुरक्षा पुनरस्य दुष्करा।
सहसा विजिगीषुणा यथा
विजितस्य प्रशमप्रतिक्रिया॥ ७०॥
मनसः परिवृत्तिलाघवं
परमं तत्र न विश्वसेदतः।
अनवाप्य महीमिवाचलाम्
अचलां भूमिमभीरदुर्गमाम्॥ ७१॥
अभिसंस्कृत[मार्गचारिणः]
पतनान्ता हि समाधिविस्तराः।
अत उत्तममार्गभावनाम्
अवलम्बेत विकल्पवर्जनात्॥ ७२॥
सुचिनित्यसुखात्मकल्पनं
कपटम् संस्कृतदम्भसंभवाम्।
समवेक्ष्य न भावकल्पना-
प्रणयव्यापृतमानसो भवेत्॥ ७३॥
विशदेऽप्युपलम्भसंभवे
व्रजति क्लेशशरव्यताम् अतः।
व्यतियाति तु मारगोचरं
तमनर्थं प्रशमय्य सर्वथा॥ ७४॥
न हि निश्रयदोशदुषितो
भवति ध्यानविधिर्विशुद्धये।
चलतानुगतो हि निश्रयः
सखटुङ्कस्तत एव कथ्यते॥ ७५॥
व्यवहारविधिप्रसिद्धये
प्रतिपत्तद्भवतीति कथ्यते।
न हि किं चिद् उदेति कुत्र चित्
सदसत्संभवयुक्त्यसंभवात्॥ ७६॥
गगनेन समानमानसस्त्रि-
भवादप्यु अथ वीतनिश्रयः।
अविकल्पितधीरचेष्टितो
वचनेनाप्रतियत्नशोभिना॥ ७७॥
कुरुते स च लौकिकीं क्रियां
जगदेकान्तहितानुवर्तिनीम्।
न समाधिबलाच्च हीयते
वशवर्तित्वमवाप्य चेतसः॥ ७८॥
ततः परं परहिततत्परोद्यतैः
समाधिभिर्विधिविहितप्रयोजनैः।
विवर्धते घनसमये यथोदधिः
सरिद्वधूसमुपहृतैर्नवाम्बुभिः॥ ७९॥
॥ ध्यानपारमितासमासः॥