एकक्षणाभिसम्बोधाधिकारः सप्तमः
Technical Details
एकक्षणाभिसम्बोधाधिकारः सप्तमः
विभावितानुपूर्वाभिसमयस्य स्वभ्यस्तीकरणाय तेषामेव क्षणेनैकेनाधिगम इत्येकक्षणाभिसम्बोधः। सोऽपि लक्षणेन चतुर्विध इति।
१- अविपाकलक्षणः
अविपाकानास्रवसर्वधर्मैकक्षणलक्षणेन प्रथम एकक्षणाभिसम्बोधः। इत्याह-
अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात्।
एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः॥१॥
धर्मधातुस्वभावरूपे-
एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः।
एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः॥
इतिन्यायान्न केवलं बहुभिरेकस्य संग्रहः, अपि त्वेकक्षणदानादिज्ञानेन आलम्ब्यमानेन अपगतप्रतिनियतवस्तुग्रहणविपर्ययरूपेण दानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण मुनेः बोधिसत्त्वस्यावबोधो हि एकक्षणाभिसम्बोध इति ज्ञातव्यः।
किमेवं पुनरेकानास्रवज्ञानालम्बने सर्वानास्रवसंग्रह इति चेत् ? लौकिकदृष्टान्तेनाह-
अरघट्टं यथैकापि पदिका पुरुषेरिता।
सकृत्सर्वं चलयति ज्ञानमेकक्षणे तथा॥२॥
इति। यथैकापि पदिका पुरुषेरिता सकृदेकवारं सर्वमरघट्टं सच्छिल्पिपूर्वपरिकर्मसामर्थ्यात् चलयति तथा पूर्वप्रणिधानावेधधर्मधातुसामर्थ्याद् एकस्मिन्नेव क्षणे एकमनास्रवमालम्ब्यमानं सर्वं सजातीयमभिमुखीकारयतीति।
२- विपाकलक्षणः
एवं प्रथमं निर्दिश्य विपाकधर्मतावस्थानास्रवसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधो द्वितीयः। इत्याह-
विपाकधर्मतावस्था सर्वशुक्लमयी यदा।
प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा॥३॥
यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षापगमनेन सकलव्यवदानपक्षविपाकधर्मतावस्था सर्वकलङ्कापगमेन शरदिन्दुज्योत्स्नावत् शुक्लस्वभावा जाता तदा एकस्मिन्नेवक्षणे विपाकावस्थाप्राप्तानाम् अनास्रवधर्माणां बोधात् ज्ञानं प्रज्ञापारमिता एकक्षणाभिसम्बोध इति।
३-अलक्षणलक्षणः
द्वितीयमेवं निर्दिश्य अलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधस्तृतीयः। इत्याह-
स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया।
अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति॥४॥
पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणाः सर्वधर्मा इति संक्लेशव्यवदानरूपाणां धर्माणाम् एकेनैव क्षणेनालक्षणत्वं जानातीत्येवमेकक्षणाभिसम्बोधः।
४-अद्वयलक्षणः
तृतीयमेवं निर्दिश्य अद्वयलक्षणसर्वधर्मैकक्षणलक्षणः एकक्षणाभिसम्बोधश्चतुर्थः। इत्याह-
स्वप्नं तद्दर्शिनञ्चैव द्वययोगेन नेक्षते।
धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति॥५॥
निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावाद् उन्मूलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदशिंनं ग्राहकं नेक्षते, तदा सर्वेऽप्वेवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वम् एकेनैव क्षणेनाधिगच्छतीत्येकक्षणाभिसम्बोध इति।
इति अभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारवृत्तिः।