अष्टाविंशतितमपरिवर्तः।
यथोक्तबोधिदर्शनादिमार्गसन्दर्शनया सम्पन्नहेतुकैर्मार्गदर्शनाधिगमाद्भिक्षुभिः कृता पूजेत्याह। अथ खल्वित्यादि। गृहीतमान्दारवपुष्पदेवपुत्रसन्निपातो भिक्षुणां पुष्पप्राप्तये पूर्वप्रणिधानबलादित्येवावगन्तव्यम्। अधिगमसम्प्रत्ययलाभादुत्तरोत्तराभिवृद्ध्यर्थं प्रणिधानञ्च कृतवन्त इत्याह। एवञ्च वाचमभाषन्त इत्यादि। अथ खलु भगवन्नित्यादि। व्याख्यातम्। विंशतिकल्पसहस्राणीति। अपरिमितायुषो मनुष्यानारभ्य यावद्दशवर्षायुषो जायन्तेऽयं शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमादपकर्षः प्रथमोऽन्तरकल्पः तेभ्यो दशवर्षायुष्केभ्यः क्रमेणोत्कर्षं गच्छन्तोऽशीतिवर्षसहस्रायुषो भवन्ति। पुनश्च तथैवायुरपकर्षं प्रतिपद्यमाना दशवर्षायुष इत्येवमुत्कर्षापकर्षभेदेनाष्टादशान्तरकल्पास्ततोऽपि दशवर्षायुष्केभ्य एवोत्कर्षं प्राप्नुवन्तोऽशीतिवर्षसहस्रायुष इत्ययमुत्कर्षो विंशतितमोऽन्तरकल्पः। तथा यावानेवान्येषामुत्कर्षणापकर्षणकालस्तावानेव प्रथमस्यान्तरकल्पस्यापकर्षकालः,पश्चिमस्योत्कर्षकाल इति समानकालाः सर्वे भवन्त्येवमेकेनान्तरकल्पेन भाजनानां ध्वंसादेकोनविंशत्या शून्यीभवनाद्विंशतिमन्तरकल्पान् लोकः संवर्तते,विंशतिमन्तरकल्पान् संवृतस्तिष्ठति। तथैकेनान्तरकल्पेन भाजनाभिनिर्वर्तनादेकोनविंशत्या वासनाद्विंशतिमन्तरकल्पान् लोको विवर्तते,विंशतिमन्तरकल्पान् विवृत्तस्तिष्ठत्येवमशीत्यन्तरकल्पसंख्यावच्छिन्नो महाकल्पोऽयं भद्रकल्पादिस्तारकोपमस्तु कल्पा नैवं प्रणिधानकुशलमूलाधिपतेयत्वेनातिदीर्घत्वात्। अतोऽपकर्ष एव काले यथोक्तान्तरकल्पप्रमाणेन कालस्य परिच्छेदाद्विंशतिकल्पसहस्राणीत्युच्यते। बोधिनिमित्तार्थमेवान्येषां सम्यग्ग्रन्थार्थादिद्वारेण प्रज्ञापारमिताप्रत्यर्पणं द्वितीयं कारणं वक्तुमुपोद्वातयन्नाह। येऽहि केचिदानन्देत्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। तथा हि मनुष्येष्वित्यादि। न प्रतिक्रोशयन्तीत्यादि सप्तपदानि यथाक्रमं सर्वाकारज्ञतादिसप्ताभिसमयविलोमनादिति वाच्यानि। न विसंवादयिष्यति प्रणिधानमिति। अनुत्तरबोधिविषये प्रवृत्तप्रणिधानम्। यद्यन्यथाप्रणिधिकरणान्न विसंवादयिष्यत्येवं तत्कुशलमूलं श्रावकप्रत्येकबुद्धत्वाय न दास्यति विपाकमित्यर्थः। उपोद्घातं कृत्वेदानीं तथागतसम्बन्धेन मृदुपरीन्दनार्थमाह। तस्मात्तर्हीत्यादि। परीन्दामि प्रत्यर्पयामि। अनुपरीन्दामि पुनरपि प्रत्यर्पयामि उद्ग्रहणाद्यर्थं प्रत्यर्पणादेवार्यानन्दोऽस्या मातुः सङ्गीतिकार इति केचित्। धारणाद्यर्थ मेव प्रत्यर्पणान्महावज्रधर एव सङ्गीतिकार इत्यपरे। तत्र विप्रणाशनमन्यथाकरणमुत्सर्जनं सर्वथा प्रत्याख्यानम् विस्मरणममनसिकरणम्। पदसामन्तकः पदैकदेशः। कायत्रयप्रापणाद्यथाक्रमं माता जननी जनयित्री। तस्मादेव सर्वज्ञतायाः समुत्पादनादाहारिका मध्यपरीन्दनार्थमाह। उद्ग्रहीतव्येयमित्यादि। अधिमात्रपरीन्दनार्थमाह। यथा तदित्यादि। तत्तदिति कर्तव्यञ्चेत्यादिना सम्बन्धः। तया हीतैषितयेति। तथागतहितैषितया बोधिसत्त्वसम्बन्धेनापि मृदुपरीन्दनार्थमाह। येऽपि त इत्यादि। मध्यपरीन्दनार्थमाह। ये हि केचिदित्यादि। अधिमात्रपरीन्दनार्थमाह। एषा ह्यानन्देत्यादि। बोधिप्राप्तये चाव्यवहितं स्वतः प्रचुरतरप्रज्ञापारमिताभावनादिपुण्यलक्षणं तृतीयं कारणं कथयन्नाह। सचेत्त्वमानन्द श्रावकयानिकानामित्यादि। एकक्षणलवमुहूर्तमपीति क्षणादिग्रहणं यथाक्रमं तीक्ष्णमध्यमृद्विन्द्रियपुद्गलज्ञापनार्थम्।
तत्राध्वपर्यन्तः क्षणः विंशत्क्षणशतं पुनस्तत्क्षणस्ते पुनः षष्टिर्लवः। त्रिंशल्लवा मुहूर्तः।
सर्वान्त्योऽपि हि वर्णात्मा निमेषतुलितस्थितिः।
इति न्यायात्कथं क्षणेनैकेन धर्मं देशयतीति चेदुच्यते। देशकबोधिसत्त्वाधिपत्याच्छ्रोतुः क्षणेनैकेन देशनाधर्मनिर्भासवतः प्रत्ययस्योत्पादात्,तेन तस्य धर्मो देशित इति व्यपदिश्यते। यथोक्तान्येव त्रीणि सम्यक्सम्बोधिप्राप्तिकारणान्यवगन्तव्यानि। तथा चोक्तम्।
बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना।
तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः॥१७॥ इति
यथानिर्दिष्टकारणसहितस्यैव दर्शनमार्गस्य विकल्पाप्रतिभासने सामर्थ्यमिति प्रतिपादयितुमक्षोभ्यतथागतसन्दर्शनानाभासगमनोदाहरणं कथयन्नाह। अथ खलु भगवान्नित्यादि। तत्र सर्वगुणरत्नाकरत्वात् सागरोपमा,गम्भीरधर्मावबोधात् गम्भीरा,सर्वमारविषयातिक्रान्तत्वादक्षोभ्या। दार्ष्टान्तिकमर्थं वक्तुमाह। एवमानन्द सर्वधर्मा इति। चतुर्विधग्राह्यग्राहकविकल्पानां दर्शनमार्गेऽनभाससन्दर्शनार्थं सर्वधर्मा न चक्षुषोऽप्याभासमागच्छन्तीत्यादि पदचतुष्टयम् । एतदेव समर्थयितुमाह। तत्कस्य हेतोरित्यादि। एतदेवं कुत इति। तत्कस्य हेतोरित्याशङ्क्याह। निरीहा हीत्यादि।एतदुक्तं भवति। कल्पितो धर्मोऽजानको यस्मादाकाशनिरीहकतया निरीहकस्तथा परतन्त्रोऽपश्यको यतो मायापुरुषोपमत्वेनाचिन्त्यः,परिनिष्पन्नोऽपि न कार्यसमर्थो यस्मादसम्भवत्वेनावेदक इति। उपसंहरन्नाह। एवं चरन्त इत्यादि। का पुनरियं महाबोधिर्यदर्थं यथोक्तकारणत्रयसहायो दर्शनमार्गोऽभिप्रेत इति। महाबोधिमुपोद्घातयन्नाह। सर्वशिक्षापरमपारमितां महाबोधिमित्यादि। तथैव तत्कस्य हेतोरित्याशङ्क्याह। एषा हीत्यादि। उत्क्षिप्य पुनरेव निक्षिपेयुरित्यूर्ध्वमुन्नीय पुनरेव पातयेयुरित्यर्थः। न च तेषामित्यादि विनेयजनप्रतिभासापेक्षयोच्यते। नतु भगवतां विकल्पः समुदाचरति। तत्कस्य हेतोरित्याशङ्क्याह। अप्रमेयेत्यादि निर्विकल्पत्वादिति भावः। नन्वन्यदानादिशिक्षासद्भावे कस्मात्प्रज्ञापारमिताशिक्षा विधीयत इत्याह। यावत्य आनन्द इत्यादि। सामान्येनोपोद्धातं कृत्वेदानीं महाबोधिस्वरूपं कथयन्नाह। अक्षया हीत्यादि। क्षयाभावादक्षयज्ञानस्वभावा महाबोधिः प्रज्ञापारमिता। एतदेव तत्कस्य हेतोरित्याशङ्क्य कथयन्नाह। असत्त्वादिति क्षयाभावादित्यर्थः। एतदेव विस्तारयन्नाह। आकाशस्य हीत्यादि। तत्र प्रत्यक्षेण स्वरूपपरिच्छेदः प्रमाणम्। अनुमानेन विविक्ततावबोधः क्षयः। आगमेनोभाभ्यां वा इयत्तावधारणं पर्यन्तः। अयमभिप्रायः यथाकाशस्य द्रव्याभावमात्रस्वभावत्वात्प्रमाणादि ग्रहीतुं न शक्यते तथा मातुरपीति। एतदेव स्पष्टयन्नाह। तत्कस्य हेतोरित्यादि। ग्रन्थप्रमाणकथनेन प्रमाणादिकमाख्यातमिति चेदाह। न मयानन्देत्यादि। प्रज्ञापारमितायास्तत्त्वरूपाया इति भावः। कस्यास्तर्हि प्रमाणादिकं स्यादित्याह। नामकायेत्यादि। तत्र धर्माणां स्वभावाधिवचनं नामकायास्तेषामेव विशेषाधिवचनं पदकायाः तदुभयाश्रयाक्षराणि व्यञ्जनकायाः। नामादिस्वभावा प्रज्ञापारमिता प्रमाणबद्धा सापि न मुख्यतः प्रज्ञापारमितेत्यर्थः। तदेव स्पष्टयितुमाह। तत्कस्य हेतोरित्यादि। एतदुक्तं परमार्थतस्ताथागतं ज्ञानं प्रज्ञापारमिता तत्प्रतिपादनादुपचारवृत्या ग्रन्थात्मिका प्रज्ञापारमिता तत्त्वत इति। अत एव तत्त्वमधिकृत्याह। न हि प्रमाणवतीयमित्यादि। तत्त्वरूपायाः प्रमाणाकथने कारणं पृच्छन्नाह। केन पुनरित्यादि। परिहारार्थमाह। अक्षयत्वादित्यादि। विविक्तत्वादिति। उत्पादाभावेनानुत्पादज्ञानस्वभावत्वादित्यर्थः। विविक्तस्येति। अनुत्पन्नस्य भावस्य शून्यता नोपलभ्यते धर्मिणोऽसत्त्वादिति भावः। अप्रमेयत्वादिति। क्षयोत्पादाभावेन प्रमातुमशक्यत्वात्। त्रैयध्विकतथागतानां क्षयानुत्पादज्ञानप्रभावितत्वमित्याह। येऽपि ते आनन्द इत्यादि। तत्क्षणिकानित्यतया क्षीणा प्रबन्धानित्यतया परिक्षीणा। उपसंहरन्नाह। तस्मात्तर्हीत्यादि। एतदुक्तम्। क्लेशज्ञेयावरणमलानामुत्पन्नानुत्पन्नत्वेन कल्पितानां,
धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते।
इति धर्मधातुस्वभावानामाकाशस्येव निरोधोत्पादाभावादेकानेकस्वभावकार्यकारणविचारकप्रमाणाद्युपपन्नभाववैधूर्याद्गगनकमलवद्वा यथाक्रमं मलानां क्षयोत्पादाभावादक्षयानुत्पादज्ञानात्मिका सर्वधर्माविपरीताधिगतिलक्षणा महाबोधिर्यथावत्प्रज्ञापारमिता धर्मकायोऽभिधीयत इति। तथा चोक्तम्।
क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते।
क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रममिति॥२८॥
एवञ्च तत्त्वे निर्दिष्टे केचिद्बहुलतरोपलम्भाभिनिवेशेन भावविनाशाभिसन्धिना क्षीणे क्षीणमिति ज्ञानं क्षयज्ञानमनागतभावानुत्पादाभिसन्धिना चानुत्पादज्ञानं वर्णयन्तीति महाबोधिस्वरूपं विप्रतिपत्तिस्थानत्वेनाहत्य प्रतिपादयितुमाह। गम्भीरमिदमित्यादि। तथैवानुवदन्नाह। अक्षयेत्यादि। आकाशाक्षयत्वात्सर्वधर्मानुत्पादत इति। आकाशस्येव क्षयाभावाद्धर्माणाञ्चोत्पादाभावेन क्षयानुत्पादज्ञानात्मिका महाबोधिरक्षयेत्यर्थः। आदिकर्मिकावस्थायामुपलम्भाभिनिवेशेन भावनायां कस्मादीदृशी प्रज्ञापारमिताऽधिगम्यत इत्याह। कथं भगवन्नित्यादि। नैष दोषो यस्मात्प्रयोगकालमेवारभ्य विनाशोत्पादविगतान्मायोपमान् सर्वधर्मान् भावयतीत्याह। रूपाक्षयत्वेनेत्यादि। प्रकारान्तरेणापि स्पष्टयन्नाह। एवं खलु सुभूत इत्यादि। तत्र पूर्वजन्मनि क्लेशावस्थेहाविद्या तथा पुण्यादिकर्मावस्था संस्काराः तथेह जन्मनि प्रतिसन्धिक्षणे पञ्चस्कन्धविज्ञानम्। सन्धिचित्तात् परेण षडायतनोत्पादात्पूर्वं नामरूपम्। ततो यावदिन्द्रियविषयविज्ञानत्रिकसन्निपातो न भवति,तावत्षडायतनम्। यावद्वेदनात्रयकारणपरिच्छेदसमर्थो न भवति,तावत् त्रिकसन्निपातात्स्पर्शः। मैथुनरागात्प्राक्सुखाद्यनुभवावस्था वेदना। विषयपर्येषणावस्थातः प्राक् कामगुणमैथुनरागसमुदाचारावस्था तृष्णा। विषयपर्येषणावस्थोपादानम्। विषयप्राप्तिहेतुपरिधावनोपार्जितपौनर्भविकं कर्म भवः। तेन कर्मणाऽयत्यां पुनः प्रतिसन्धिर्जातिः। ततः परेण यावद्वेदनावस्था सा जरामरणमित्याद्यन्तयोर्द्वे द्वे मध्यस्थाविति त्रिकाण्डो द्वादशाङ्गः प्रतीत्यसमुत्पादोऽस्य क्षयाभावादक्षयत्वेनेति पूर्ववत्। शाश्वतोच्छेदरहितत्वेनान्तद्वयवर्जिता प्रतीत्यसमुत्पादव्यवलोकना। अनाद्यन्तमध्यं तमिति। मायोपमत्वेन जन्मनाशस्थितिविरहितं प्रतीत्यसमुत्पादं व्यवलोकयति। इत्थंभूत एव प्रतीत्यसमुत्पादो ग्राह्य इत्याह। एवं व्यवलोकयत इत्यादि। तत्र मनसिकारोऽक्षयाभिनिर्हारः। उपायकौशलं प्रतीत्यसमुत्पादविचारणा। तदेव कथयन्नाह। कथं प्रज्ञापारमितायामित्यादि। संवृतेस्तर्ह्युच्छेद इति चेदाह। एवं खलु पुनरित्यादि। अहेतुकमिति संवृत्या हेतोर्विद्यमानत्वात्। नित्यमित्यादि। तत्रोत्पादहेतोरसत्वान्नित्यः। उत्पन्नस्य विनाशाभावाद्ध्रुवः। आविर्भावतिरोभावरूपेण विवर्तनाच्छाश्वतः। अवस्थान्तरप्राप्तिविरहादविपरिणामधर्मकः। कथं पुनरुपलभ्यमानरूपादीनक्षयाकारेणाभिमुखीकुर्यादित्याह। यस्मिन् समये सुभूत इत्यादि। रूपादिसर्वधर्मानुपलम्भेन सर्वात्मधर्मग्राहप्रहाणाद्दर्शनमार्गव्यापारे द्योतितः स्यात्। यस्मादेवं सर्वधर्मादर्शनमतो ये भावविनाशाभिसन्धिना क्षीणे क्षीणमिति ज्ञानं क्षयज्ञानं भावानुत्पादाभिसन्धिना चानुत्पन्नेऽनुत्पन्नमिति ज्ञानमनुत्पादज्ञानं वर्णयन्ति,तेषां क्षयानुत्पादवैकल्यादेतज्ज्ञानं न घटते। तथा ह्युत्पन्नानुत्पन्नयोर्यथाक्रमं क्षयोत्पत्तिविघातलक्षणनिरोधेनानिरुद्धायां परमार्थतस्तथतारूपायां प्रकृतौ सत्यां कतरद्विकल्पादिरूपमुत्पन्नं क्षीणं कतरच्चानुत्पन्नमनुत्पत्तिधर्मकं जातं दर्शनमार्गबलेन वितथभावाभिनिवेशिनां वादिनां। यावता नैव किञ्चित्। तस्माद्यथोक्तमेव क्षयानुत्पादज्ञानं प्रतिपत्तव्यम्।
तथा चोक्तं -
प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना।
विकल्पजातं किं क्षीणं किञ्चानुत्पत्तिमागतम्॥१९॥इति
अन्यथा तात्त्विकधर्मसत्त्वोपगमे भगवतः सर्वथा विकल्पक्लेशज्ञेयावरणप्रहाणं दुरुपपादं स्यात्। तथा ह्युदयव्ययशून्यत्वान्नास्त्यात्मेति विभावयन्नात्माभिनिवेशं परित्यज्य तद्विविक्तस्वभावं स्कन्धादिकं प्रतीत्यसमुत्पन्नमुदयव्ययधर्मकं समुपलभ्य नीलतद्धियोः सहोपलम्भनियमाच्चित्तमात्रमेवेदं न बाह्यार्थोऽस्तीति मनसिकुर्वन्नपरित्यक्तग्राहकाकारचित्ताभिनिवेशो बाह्यार्थाभिनिवेशं तिरस्कृत्य ग्राह्याभावे ग्राहकाभाव इति निध्यायंस्तामपि ग्राहकाकारलक्षणं विज्ञप्तिमात्रतामवधूयाद्वयज्ञानमेव केवलं भावतो भावरूपमिति निश्चित्य तदपि प्रतीत्यसमुत्पन्नत्वान्मायावन्निःस्वभावं तत्त्वतोऽपगतैकान्तभावाभावादिपरामर्शरूपमिति भावयन् भावनाबलनिष्पत्तौ केषाञ्चिन्मणिरूप्यादिज्ञानवदुत्सारितसकलभ्रान्तिनिमित्ताया मायोपमात्मप्रतिभासधियो निर्विकल्पायाः कथञ्चित् प्रत्यात्मवेद्यायाः समुत्पादे ज्ञेयावरणं सम्यग्योगौ प्रजह्यात्। अन्यथा परैः सर्वदा आकाशस्य द्रव्याभावमात्ररूपधारणवदनाधेयानपनेयस्वरूपधारणाद्धर्म्माणां क्षणिकानां ज्ञानमात्ररूपाणां ज्ञेयलक्षणानाञ्च यदि परमार्थतो विद्यमानता स्यात्तदा प्रतिपक्षभावनया आकाशस्यैव तेषां न किञ्चित् क्रियते। अतो भावाभिनिवेशविपर्यासाविनिवृत्या यद्भगवतः सर्वथा ज्ञेयावरणप्रहाणं धर्माणाञ्चयत्सत्तोपगम्यते तत्परस्परविरुद्धार्थाभ्युपगमे विस्मयस्थानीयं भवेत्। तथा चोक्तम्।
सत्ता च नाम धर्माणां ज्ञेये वावरणक्षयः।
कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया॥२०॥ इति
यस्मादेवं भावाभिनिवेशेन मुक्तेरनुपपत्तिरतोऽपवादसमारोपरूपमपनयनप्रक्षेपं कस्यचिद्धर्मस्याकृत्वेदमेव प्रतीत्यसमुत्पन्नं संवृत्या तथ्यरूपं रूपादिनिःस्वभावादिरूपतो निरूपणीयमेवञ्च मायागजेनापरमायागजपराजयवद्विपर्यासनिर्वृत्या तत्त्वदर्शी विमुच्यत इति प्रतिपत्तव्यम्।
तथा चोक्तम्।
नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किञ्चन।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते॥२१॥ इति
यथोक्ताविपर्ययस्ततत्त्वभावनया सकलविपक्षधर्मातिक्रम इति। माराणां वैमनस्यप्रतिपादनेनाह। यस्मिन् समये सुभूत इत्यादि। पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह। प्रज्ञापारमिताविहारेण हीत्यादि। उपसंहरन्नाह। तस्मात्तर्हीत्यादि। ननु मुख्यतो दर्शनमार्गस्य महाबोधिकारणत्वात्कथं प्रज्ञापारमितायां चरितव्यमित्युक्तमिति। तत्कस्य हेतोरित्याशङ्क्य। प्रकृतमेव दर्शनमार्ग विस्तरेण वक्तुमाह। प्रज्ञापारमितायां हीत्यादि। प्रत्येकमेवं निर्दिश्य समुदायत्वेन वक्तुं पुनरप्याह। प्रज्ञापारमितायामित्यादि। षट्पारमितापूर्णाधिवचनमेतद्यदुत प्रज्ञापारमितेति। प्राग्वचनात् प्रज्ञापारमिताचर्ययैव षट्पारमिता भावनापरिपूरिं गच्छन्तीत्यर्थः। इह तु ग्रन्थसंक्षेपस्याभिप्रेतत्वादुपलक्षणत्वेन प्रत्येकं दानादिपारमिताचर्ययापि षडेव पारमिता भावनानिष्पतिं प्रतिपद्यन्त इत्यवगन्तव्यम्। तथाचोक्तं पञ्चविंशतिसाहस्रिकायाम्। "इह सुभूते बोधिसत्त्वस्य दानं ददतः सत्त्वेषु मैत्रं कायवाङ्मनस्कर्म प्रत्युपस्थितं भवत्येवं शीलपारमिता। तस्यैव प्रतिग्राहकाणामाक्रोशपरिभाषादिक्षमणेन क्षान्तिपारमिता। तस्यैव याचकाक्रोशपरिभाषादिभिर्दानोत्साहापरित्यागाद्वीर्यपारमिता। तस्यैव च तद्दानं सर्वाकारज्ञतायां परिणामयतः श्रावकप्रत्येकबुद्धभूमिविक्षेपचित्ताभावेन ध्यानपारमिता। तस्यैव दानं ददतो मायाबुद्धिप्रत्युपस्थापनेन कस्यचिदुपकारापकारादर्शनात्प्रज्ञापारमिते"ति। एवं शीलं रक्षतो यावत्प्रज्ञां भावयतः प्रत्येकं षट्पारमितापरिपूरिसंग्रहो यथा सूत्रं वाच्यः। तस्मादेतदुक्तं भवति। दानादिषट्पारमितानां प्रत्येकमेकैकभावे दानादौ यः परस्परं सर्वपारमितासंग्रहः,सोऽत्रैकक्षणिको मूर्धाभिसमये दुःखधर्मज्ञानक्षान्तिसंगृहीतस्त्रिमण्डलविशुद्धिप्रभावितः षट्त्रिंशदाकारनिर्जातो दर्शनमार्गोऽवसातव्य इति।
तथा चोक्तम्।
एकैकस्येव दानादौ तेषां यः सङ्ग्रहो मिथः।
स एकक्षणिकः क्षान्तिसङ्गृहीतोऽत्र दृक्पथ॥२२॥ इति
एवंविधविकल्पानां प्रागेव प्रहाणसम्भवात् कथमस्यां प्रकर्षपर्यन्ताधिगमावस्थायां प्रहाणं निर्दिश्यत इति चेत्। नायं दोषो यस्मात्सूक्ष्मगुह्यानुप्रवेशमहाभिज्ञाविबन्धकसम्मोहौ तद्वीजं च दशम्यां भूमौ प्रहीयत इत्यार्यसन्धिनिर्मोचनादिसूत्रे पठयते। तस्माद्यथोक्तसवासनसंमोहनिदानसमुच्छेदेन निदानिनामेवंविधग्राह्यग्राहकचतुर्विकल्पानां प्रकर्षपर्यन्ताधिगमस्वभावत्वेन दशम्यां भूमौ प्रतिविद्धे मूर्धाभिसमये नियमात् प्रहाणं प्रतिपद्यते। अन्यत्र कादाचित्कं प्रहाणमिति पूर्वाचार्याः। मन्दबुद्धीनां व्युत्पादनादनुग्रहाभिप्रायेण यथानिर्दिष्टविकल्पानां विषयभेदात् प्रत्येकं नवधा भेदः कृतः। तीक्ष्णबुद्धीनामवज्ञानिराकरणाय नातिप्रभेदस्तथा प्रतिपक्षाणामित्यवगन्तव्यम्। अयं पुनरिह समासार्थः। यथोदिता ग्राह्यग्राहकविकल्पाः सर्व एव विपर्याससमुत्थाः। स च विपर्यासोऽनादिकालीनभावाद्यभिनिवेशलक्षणस्तस्माद्विपरीतालम्बनाकारतया तद्विरोधिनैः स्वाभाव्यज्ञानात्प्रहीयत एव। तस्मिन् प्रहीणे तन्मूला ग्राह्यविकल्पादयः कथमवस्थानं लभेरन्निति। अस्मिंश्च दर्शनमार्गे समुत्पन्ने कामरूपारूप्यधातुभेदेन प्रत्येकं चतुर्विकल्पनवप्रकारतयाऽष्टोत्तरशतग्राह्यग्राहकविकल्पप्रहाणेन तत्संगृहीतविकल्पजनकवासनाक्लेशाष्टोत्तरशतप्रहाणं प्रतीत्यसमुत्पादधर्मतयोपलभ्य तत्र वशित्वार्थं तामेव पुनःपुनभावयतीत्याह। सर्वाणि चोपायकौशल्यानि इत्यादि। दर्शनमार्गप्राप्तो योगौ क्लेशज्ञेयावरणभयाभावात् सिंहविजृस्भितं नाम समाधिं समापद्योत्तरकालमविद्याप्रत्ययाः संस्कारा इत्याद्यनुलोमं जरामरणनिरोधो जातिनिरोधादित्यादि प्रतिलोमं प्रतीत्यसमुत्पादं निरूपयति। इदमत्रोपायकौशलं प्रतिपत्तव्यम्॥
तथा चोक्तम्।
स समाधिं समापद्य ततः सिंहविजृम्भितम्।
अनुलोमं विलोमञ्च प्रतीत्योत्पादमीक्षते॥२३॥इति
दर्शनमार्गमेवमभिधाय विपक्षप्रहाणादिकमाधारप्रतिपत्तिपूर्वकं सुबोधमित्याधारं भावनामार्गं वक्तुमाह। सर्वोपायकौशल्यानि सुभूत इत्यादि। सर्वोपायकौशल्यमत्र भावनामार्गः। स पुनर्नवानुपूर्वसमापत्तिसङ्गृहीतस्ताः पुनरवस्कन्दसमापत्तिसङ्गृहीता इत्यवगन्तव्यम्। तस्मादेतदुक्तं भवति। प्रथमध्यानमारभ्य यावन्निरोधं गत्वा ततो निरोधमारभ्य यावत्प्रथमध्यानमागम्यैवमनुलोमप्रतिलोमक्रमद्वयेन चतुर्ध्यानचतुरारूप्यनिरोधलक्षणा नवसमापत्तीर्गत्वाऽऽगम्य पुनः प्रथमं ध्यानं समापद्य ततो व्युत्थाय निरोधमेवं यावन्नैवसंज्ञानासंज्ञायतनानिरोधं समापद्य ततो व्युत्थायानन्तरसमापत्तिमालम्ब्य कामावचरं विज्ञानं मर्यादारूपेणावस्थाप्योपायकौशल्यबलेन व्युत्थाय तदेव विज्ञानमसमाहितमामुखीकृत्य ततो निरोधं ततोऽसमाहितं ततो निरोधमेकं परित्यज्य नैवंसंज्ञानासंज्ञायतनं ततोऽसमाहितं ततो द्वयं परित्यज्याकिञ्चन्यायतनं ततोऽसमाहितमेवं यावदष्टौ परित्यज्य प्रथमं ध्यानं समापद्य ततोऽसमाहितमित्येकादिपरित्यागेनानिरोधं यावद्विसदृशद्वारेण गच्छतीत्यतुल्यगामवस्कन्दसमापत्तिं वशित्वलक्षणां भावनामार्गस्वभावां सर्वोपायकौशल्यात्मिकां परिग्रहीतुकामेन प्रज्ञापारमितायां चरितव्यमिति।
तथा चोक्तम्-
कामाप्तमवधीकृत्य विज्ञानमसमाहितम्।
सनिरोधाः समापत्तीर्गत्वाऽऽगम्य नव द्विधा॥२४॥
एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात्।
अवस्कन्धसमापत्तिरनिरोधमतुल्यता॥२५॥ इति
पञ्चविंशतिसाहस्रिकायाममुमेवार्थमधिकृत्य विस्तरेण पुनरिह सुभूते बोधिसत्त्वो महासत्त्वो विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसम्पद्य विहरतीत्याद्यभिधानान्न सन्देहः कार्यः। यस्त्वाह।
गत्वाऽऽगम्य द्विधा भूमिरष्टौ श्लिष्टैकलंधिताः।
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा॥ इति
वचनात्कथमेवमवस्कन्दसमापत्तिरिति। किं खलु वायसस्य पायसेन सालक्षण्यमन्यदेवेदं प्रस्थानम्।
यस्मादित्थंभूतोपायकौशलवतां बोधिसत्त्वानामसंख्येयकल्पकोटिनियुतशतसहस्रप्रस्थानापरिमितबुद्धपर्युपासनेन हेतुमहत्त्वेन भावनामार्गस्य प्रतिविशिष्टता स्यादित्यदोषः। तथागतानुस्मरणपूर्वकं भावनामार्गालोचनं विधेयमित्याह। यस्मिन् समये सुभूते इत्यादि। दिवसस्यात्ययेनेति। दिवसपर्यवसानेनाप्यन्तशोऽच्छटासङ्घातमात्रकमित्यर्थः। भावनामार्गाभ्यासस्य प्रचुरविचित्रानुशंसपरिदीपनार्थमाह। यश्च सुभूते औपलम्भिक इत्यादि। प्रज्ञापारमितामभिनिर्हरेदिति भावनामार्गमुत्पादयेत्। गतिप्रश्नपरिहारभेदेन पुनरप्यनुशंसं कथयन्नाह। तथागतसमन्वाहृतस्य हीत्यादि। का गतिरिति। कीदृशी सभागता नान्या गतिरित्यपि तु सम्यक्सम्बोधिगतिः इमेऽपि सुभूते गुणा इति। इमेप्यनुशंसा इति बहुपुण्यप्रसवनादिगुणास्तथागतसमन्वाहारादयोऽनुशंसाः॥
अभिसमयालंकारालोकायां प्रज्ञापारमिताव्याख्यायामवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः॥
The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Subscribe to our newsletter for latest updates about the canon text of our project