तृतीयोऽङ्कः
Technical Details
तृतीयोऽङ्कः
णिच्चं जो पिबइ सुरं जणस्स पिअसगमं च जो कुणइ।
मह दे दो अबि देवा बलदेओ कामदेओ अ॥१॥
वच्छत्थलम्हि दइआ दिण्णुप्पलवासिआ मुहे मइरा।
सीसम्मि अ सेहरओ णिच्चं वि संठिआ जस्स॥२॥
हरिहरपिदामहाणं पि गव्विदो जो ण जाणइ णमिदुं।
सो सेहरओ चलणेसु तुज्ज णोमालिए पदइ॥३॥
दृष्टा दृष्टिमधो ददाति कुरुते नाऽऽलापमाभाषिता
शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते।
निर्यन्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव मेऽद्य सुतरां प्रित्यै नवोढा प्रिया॥४॥
हुङ्कारं ददता मया प्रतिवचो यन्मौनमासेवितं
यद् दावानलदीप्तिभिस्तनुरियं चन्द्रातपैस्तापिता।
ध्यातं यत् सुबहून्यनमनसा नक्तन्दिनानि प्रिये !
तस्यैतत् तपसः फलं मुखमिदं पश्यामि यत्तेऽधुना॥५॥
खेदाय स्तनभार एव किमु ते मध्यस्य हारोऽपरः ?
श्राम्यत्यूरुयुगं नितम्बभरतः काञ्च्याऽनया किं पुनः ?
शक्तिः पादयुगत्य नोरुपुगलं वोढु कुतो नूपुरौ ?
स्वाङ्गैरेव विमूषिताऽसि वहसि क्लेशाय किं मण्डनम् ?॥६॥
निष्यन्दश्चन्दनानां शिशिरयति लतामण्डपे कुट्टिमान्ता-
नाराद् धारागृहाणां ध्वनिमनु ततुते ताण्डवं नोलकण्ठः।
यन्त्रोन्मुक्तश्च वेगाद् चलति विटपिनां पूरयन्नालवाला-
नापातोत्पीडहेलाहृत कुसुमरजःपिञ्जरोऽयं जलौघः॥७॥
अपि च-
अमी गीतारम्भैमुखरितलतामण्डपभुवः
परागैः पुष्पाणां प्रकटपटवासव्यतिकराः।
पिबन्तः पर्य्याप्तं सह सहचरीभिर्मघुरसं
समन्तादापानोत्सवमनभवन्तीव मधुपाः॥८॥
दिग्धाङ्गा हरिचन्दनेन दधतः सन्तानकानां स्रजो
माणिक्याऽऽभरणप्रभाव्यतिकरैश्चित्रीकृताऽच्छांशुकाः।
सार्द्ध सिद्धजनैर्मधूनि दयितापीताऽवशिष्टान्यमी
मिश्रीभूय पिबन्ति चन्दनतरुच्छायासु विद्याधराः॥९॥
एतन्मुखं प्रियायाः शशिनं जित्वा कपोलयाः कान्त्या।
तापानुर्क्तमधुना कमलं ध्रुवमीहते जेतुम्॥१०॥
एतत्ते भ्रुलतोल्लासि पाटलाऽधरपल्लवम्।
मुखं नन्दनमुद्यानमतोऽन्यत्केवलं वनम्॥११॥
स्मितपुष्पोद्गमोऽयं ते दृश्यतेऽधरपल्लवे।
फलं त्वन्यत्र मुग्धाक्षि ! चक्षुषोर्मम पश्यतः॥१२॥
दिनकरकरामृष्टं बिभ्रत् द्युतिं परिपाटलां
दशनकिरणौः संसर्पद्भिः स्फुटीकृतकेसरम्।
अयि मखमिदं मुग्धे ! सत्यं समं कमलेन ते
मधु मधुकरः किन्त्वेतस्मिन् पिब्बन्न विभाव्यते ?॥१३॥
अनिहत्य तं सपत्नं कथमिव जीमूतवाहनस्याहम्।
कथयिष्यामि हृतं तव राज्यं रीपुणेति निर्लज्जः ?॥१४॥
संसर्पद्भिः समन्तात् कृतसकलवियन्मार्गयानैर्विमानैः
कुर्वाणाः प्रावृषीव स्थगितरविरुचः श्यामतां वासरस्य।
एते याताश्च सद्यस्तव वचनमितः प्राप्य युद्धाय सिद्धाः
सिद्धञ्चोद्वृत्तशत्रुक्षयभयविनमुद्राजकं ते स्वराज्यम्॥१५॥
एकाकिनापि हि मया रभसावकृष्ट-
निस्त्रिंशदीधितिसटाभरभासुरेण।
आरान्निपत्य हरिणेव मतङ्गजेन्द्र-
माजौ मतङ्गहतकं विद्धि॥१६॥
स्वशरीरमपि परार्थे यः खलु दद्यादयाचितः कृपया।
राज्यस्य कृते स कथं प्राणिवधक्रौर्यमनुमनुते॥१७॥
निद्रामुद्रावबन्धान्मधुकरमनिशं पद्मकाशादपास्य-
न्नाशापूरैककर्मप्रवणनिजकरप्रीणिताशेषविश्वः।
दृष्टः सिद्धैः प्रसक्तस्तुतिमुखरमुखैरस्तमप्येष गच्छन्
एकः श्लाघ्यो विवस्वान् परहितकरणायैव यस्य प्रयासःः॥१८॥
इति तृतीयोङ्क।