द्वितीयोऽङ्कः
Technical Details
द्वितीयोऽङ्कः
कुणसि घणचन्दणलदापल्लवसंसग्गसीलं पि इमं।
णीसासेहिं तुमं एव्व कअलीदलमारुअं उण्हं॥१॥
व्यावृत्यैव सिताऽसितेक्षणरुचा तानाश्रमे शाखिनः
कुर्वत्या विटपावसक्तविलसत्कृष्णाजिनौधानिव।
यद् दृष्टोस्मि तया मुनेरपि पुरस्तेनैव मय्याहते
पुष्पेषो ! भवता मुधैव किमिति क्षिप्यन्त एते शराः ?॥२॥
नीताः किं न निशाः शशाङ्कधवला नाघ्रातमिन्दीवरं ?
किं नोन्मीलितमालतीसुरभयः सोढाः प्रदोषानिलाः ?
झङ्कारः कमलाकरे मधुलिहां किं वा मया न श्रुतो ?
निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्ते भवान् ?॥३॥
स्त्रीहृदयेन न सोढाः क्षिप्ताः कुसुमेषवोऽप्यनङ्गेन।
येनाद्यैव पुरस्तव वदामि धीर इति स कथमहम् ?॥४॥
चन्दनलतागृहमिदं सचन्द्रमणिशिलमपि प्रियं न मम।
चन्द्राननया रहितं चन्द्रिकया मुखमिव निशायाः॥५॥
शशिमणिशिला सेयं यस्यां विपाण्डुरमाननं
करकिसलये कृत्वा वामे घनश्वसितोद्गमा।
चिरयति मयि व्यक्ताकूता मनाक् स्फुरितैर्भ्रुवो-
र्विरमितमनोमन्युर्दृष्टा मया रुदती प्रिया॥६॥
निष्यन्दत इवानेन मुखचन्द्रोदयेन ते।
एतद् वाष्पाम्बुना सिक्तं चन्द्रकान्तशिलातलम्॥७॥
अक्लिष्टबिम्बशोभाधरस्य नयनोत्सवस्य शशिन इव।
दयितामुखस्य सुखयति रेखाऽपि प्रथमदृष्टयेम्॥८॥
प्रिया सन्निहितैवेयं सङ्कल्पस्थापिता पुरः।
दृष्ट्वा दृष्ट्वा लिखाम्येनां यदि तत् कोऽत्र विस्मयः !॥९॥
यद्धिद्याधरराजवंशतिलकः प्राज्ञः सतां सम्भतो
रूपेणाप्रतिमः पराक्रमधनो विद्धान् विनीतो युव।
यच्चसूनपि सन्त्यजेत् करुणया सत्त्वार्थमभ्युद्यत-
स्तेनास्मै ददतः स्वसारमतुलां तुष्टिर्विषादश्च मे॥१०॥
न खलु न खलु मुग्धे ! साहसं कार्यमीदृक्
व्यपनय करमेतं पल्लवाऽऽभं लतायाः।
कुसुममपि विचेतुं यो न मन्ये समर्थः
कलयति स कथं ते पाशमुद्बन्धनाय ?॥११॥
कण्ठे हारलतायोग्ये येन पाशस्त्वयाऽर्पितः।
गृहीतः सापराधोऽयं कथं ते मुच्यते करः ?॥१२॥
वृष्टया पिष्टातकस्य द्युतिमिह मलये मेयुतुल्यां दधानः
सद्यः सिन्दूरदूरीकृतदिवससमारम्भसन्ध्याऽऽतपश्रीः।
उदूगितैरङ्गनानां चलचरणरणन्नूपुरह्रादहृद्यै-
रूद्वाहस्नानवेलां कथयति भवतः सिद्धये सिद्धलोकः॥१३॥
अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसाम्।
केषाञ्चिदेव मन्ये समागमो भवति पुण्यवताम्॥१४॥
इति द्वितियोऽङ्कः।