प्रथमोऽङ्कः
Technical Details
नागानन्दम्
प्रथमोऽङ्कः
नान्दी
ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं
पध्यानङ्गशरातुरं जनमिमं त्राताऽपि नो रक्षसि।
मिथ्याकारुणिकोऽसि निर्घृणातरस्त्वत्तः कुतोऽन्यः पुमान्
सेर्ष्यं मारवधूभिरित्यभिहितो बोधौ जिनः पातु वः॥१॥
अपि च-
कामेनाकृष्य चापं हतपटुहाऽऽवल्गिभिर्मारवीरै-
र्भ्रभङ्गोत्कल्पजृम्भास्मितचलितद्दृशा दिव्यनारीजनेन।
सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद् वासवेन
ध्यायन् बोधेरवाप्तावचलित इति वः पातु दृष्टो मुनीन्द्रः॥२॥
श्रीहर्षो निपुणः कविः परिषदप्येषा गुणाग्राहिणी
लोके हारि च बोधिसत्त्वचरितं नाट्ये च दक्षा वयम्।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन-
र्मदूभाग्योपचयादयं समुदितः सर्वो गुणानां गणः॥३॥
द्विजपरिजनबन्धुहिते मद्भवनतटाकहंसि मृदुशीले।
परपुरुषचन्द्रकमलिन्यार्ये कार्यादितस्तावत्॥४॥
पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्य क्रमागतम्।
वनं याम्यहमद्यैव यथा जीमूतवाहनः॥५॥
रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः
कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ।
एवं निन्द्यमपीदमिन्द्रियवशं प्रीत्यै भवेद् यौवनं
भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे॥६॥
तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा ?
यत् संवाहयतः सुखं तु चरणौ तातस्य किं राजके ?
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरोः ?
आयासः खलु राज्यमुज्झितगुरुस्तत्रास्ति कश्चिद् गुणः ?॥७॥
न्याय्ये वर्त्मनि योजिताः प्रकृतयः सन्तः सुखं स्थापिता
नीतो बन्धुजनस्तथात्मसमतां राज्ये च रक्षा कृता।
दत्तो दत्तमनोरथाधिकफलः कल्पद्रुमोऽप्यर्थिने
किं कर्त्तव्यमतः परं कथय वा यत्ते स्थितं चेतसि॥८॥
माद्यद्दिग्गजगण्डभित्तिकषणैर्भनस्रवच्चन्दनः
क्रन्दत्कन्दरगह्वरो जलनिधेरास्फालितो वीचिभिः।
पादालक्तकरक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः
सेव्योऽयं मलयाचलः किमपि मे चेतः करोत्युत्सुकम्॥९॥
दक्षिणं स्पन्दते चक्षुः फलाकाङ्क्षा न मे क्वचित्।
न च मिथ्या मुनिवचः कथयिष्यति किं न्विदम्॥१०॥
वासोऽर्थं दययैव नातिपृथवः कृत्तास्तरूणां त्वचो
भग्नाऽऽलक्ष्यजरत्कमण्डलु नभःस्वच्छं पयो नैर्झरम्।
दृश्यन्ते त्रुटितोज्झिताश्च बटुभिर्मौञ्ज्यः क्वचिन्मेखला
नित्याकर्णनया शुकेन च पदं साम्नामिदं पठयते॥११॥
मधुरमिव वदन्ति स्वागतं भृङ्गशब्दै-
र्नतिमिव फलनम्रैः कुर्वतेऽमी शिरोभिः।
मम ददत इवार्घ्यं पुष्पवृष्टीः किरन्तः
कथमतिथिसपर्य्यां शिक्षिताः शाखिनोऽपि॥१२॥
स्थानप्राप्त्या दधानं प्रकटितगमकां मन्द्रतारव्यवस्थां
निर्ह्रादिन्या विपञ्च्या मिलितमलिरुतेनेव तन्त्रीस्वरेण।
एते दन्तान्तरालस्थिततृणकवलच्छेदशब्दं नियम्य
व्याजिह्याङ्गाः कुरङ्गाः स्फुटललितपदं गीतमाकर्णयन्ति॥१३॥
उल्फुल्लकलमलकेसरपरागगौरद्युते ! मम हि गौरि !
अभिवाञ्छितं प्रसिध्यतु भगवति ! युष्मत्प्रसादेन॥१४॥
व्यक्तिर्व्यञ्चनधातुना दशविधेनाप्यत्र लब्धाऽमुना
विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधाऽयं लयः।
गोपुच्छप्रमुखाः क्रमेण यतयस्तिस्त्रोऽपि सम्पादिता-
स्तत्त्वौघानुगताश्च वाद्यविधयः सम्यक् त्रयो दर्शिताः॥१५॥
स्वर्गस्त्री यदि तत्कृतार्थमभवच्चक्षुःसहस्त्र हरे-
र्नागी चेन्न रसातलं शशभृता शून्यं मुखेऽस्याः स्थिते।
जातिर्नः सकलान्यजातिजयिनी विद्याधरी चेदियं
स्यात्सिद्धान्वयजा यदि त्रिभुवने सिद्धा प्रसिद्धास्ततः॥१६॥
तनुरियं तरलायतलोचने !
श्वसितकम्पितपीनघनस्तनि !
श्रममलं तपसैव गता पुनः
किमिति सम्भ्रमकारिणि ! खिद्यते॥१७॥
उष्णीषः स्फुट एष मूर्द्धनि विभात्यूर्णेयमन्तर्भ्रुवो-
श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्द्धते।
चक्राङ्कञ्च यथा पदद्वयमिदं मन्ये तथा कोऽप्ययं
नो विद्याधरचक्रवर्त्तिपदवीमप्राप्य विश्राम्यति॥१८॥
एक्कतो गुरुवअणं अण्णतो दइअदंसणसुहाइं।
गमणागमणाधिरूढं अज्ज बि दोलएदि मे हिअअं॥१९॥
एकतो गुरुवचनमन्यतो दयितदर्शनसुखानि।
गमनाऽगमनाधिरूढमद्यापि दोलायते मे हृदयम्॥१९॥
अनया जघनाऽऽभोगमन्थरयानया।
अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम्॥२०॥
तापात् तत्क्षणघृष्टचन्दनरसापाण्डू कपालौ वहन्
संसवक्तैर्निजकर्णतालपवनैः संविज्यमानाननः।
सम्प्रत्येष विशेषसिक्तहृदया हस्तोज्झितैः शीकरै-
र्गाढाऽऽयल्लकदुःसहामिव दशां धत्ते गजानां पतिः॥२१॥
इति प्रथमोऽङ्कः।