३४. मित्रवर्गः
Technical Details
३४) मित्रवर्गः
कः पापान्निवारयति?
तन्मित्रं मित्रमित्युक्तं यन्मित्रं साम्परायिकम्।
निवर्तयति यः पापाद् व्यसनाच्चापि रक्षति॥१॥
प्रवेशयति यन्नित्यं तद्धितं साम्परायिकम्।
मित्रं भवति तन्नृणां न मित्रं पापकारकम्॥२॥
संसर्गजा दोषगुणा भवन्ति
अपूतिः पूतिसंश्लेषात् पूतिरेवोपजायते।
न पूतिः पूतसंश्लेषमपूतिं कर्त्तुमर्हति॥३॥
यादृशेन (हि) संश्लेषं कुरुते पुरुषः सदा।
तद्दोषात् सदृशो दृष्टः शुभो वा यदि वाऽशुभः॥४॥
न शुभं दुःखकारकम्
शुभार्थी पुरुषः सर्वानशुभान्नैव सेवते।
तेनासौ दुःखमाप्नोति न शुभं दुःखकारणम्॥५॥
गुणदोषयोर्लक्षणम्
संश्लेषजा गुणाः दृष्टा दोषाः संश्लेषजातयः।
लक्षणं गुणदोषाणामिदमुक्तं स्वभावजम्॥६॥
यशसा युज्यते यो हि नित्यं साधुसमागमात्।
असाधुऽसङ्गमाच्छ्रीघ्रं प्रयाति पुरुषाधमः॥७॥
सत्सङ्गतिफलम्
एतत् सारं सदा कार्य यदसाधुविवर्जनम्।
साधुभिश्च सदा वासो दुष्टाणां च विवर्जनम्॥८॥
दोषान् समुद्धरेद्धीमान् गुणवृद्धिं समाचरेत्।
(साधु) मित्रं प्रकुर्वीत कौसीद्यविमुखो भवेत्॥९॥
न मानिनं कुसीदं वा नित्यं सर्वानुशङ्किनम्।
लिप्तपापमतिक्रूरं मित्रं कुर्यान्न पण्डितः॥१०॥
उद्युक्तं मृदुजातीयं धर्मिष्ठं दोषवर्जितम्।
सम्यग्दृष्टिरचपलं मित्रं सेवेत पण्डितः॥११॥
न पापकं भवेन्मित्रं भवेदुत्तमपौरुषः।
उत्तमं भजमानस्य न दोषेभ्यो भयं भवेत्॥१२॥
कः लघुतां याति?
रूपैश्वर्यकुलादीनि भिद्यन्ते (यस्य) देहिनः।
भयप्रदं तं मातङ्गः प्रयान्तं नैव पश्यति॥१३॥
उद्वृत्तः पुरुषो नित्यं प्रमादाकुलितेन्द्रियः।
लघुतां याति लोकेऽस्मिन् प्रेत्यपापेषु पच्यते॥१४॥
रूपैश्वर्यमदार्था ये ते नराः पापकारिणः।
तेषां न सुशमं (कर्म) प्रेत्यपापेषु पच्यते॥१५॥
रूपैश्वर्यकुलार्था ये न ते तत्त्वस्य भागिनः।
अतत्त्वबुद्धयो बाला न तरन्ति भवार्णवम्॥१६॥
ज्ञानशीलादियुतं कुलं श्रेष्ठम्
एतत्कुलं ये विभवा यच्चान्यत् सुखमिष्यते।
सर्वाण्येतान्यनित्यानि तस्मात्तेषु न विश्रमेत्॥१७॥
न ज्ञानशीलनिर्मुक्तं कुशलं यान्ति पण्डिताः।
येषां ज्ञानं च शीलं च ते कुले महति स्थिताः॥१८॥
चरितुं चामलं शीलं शीलमेव महाद्भुतम्।
महाकुलप्रसूतास्ते (पण्डिताः) वशमानिनः॥१९॥
दानशीलतपोध्यानसत्यैश्वर्यपराक्रमैः।
संयुक्ता ये कुलीनास्ते ये न धर्मविवर्जिताः॥२०॥
नैश्वर्यज्ञानहीनस्य न कुलं नापि सङ्गतिः।
तस्मात्कुलं ज्ञानमयं ज्ञानहीनं न तत् कुलम्॥२१॥
॥इति मित्रवर्गश्चतुस्त्रिंशः॥