२. धर्मोपदेशवर्गः
Technical Details
(२) धर्मोपदेशवर्गः
गुरुः कीदृग्भवेत्?
यो हि देशयते धर्म क्षेमं निर्वाणगामिनम्।
स सर्वबन्धनच्छेत्ता गुरुर्भवति देहिनाम्॥१॥
छित्त्वा मोहमयं पाशं यो हि देशयते शिवम्।
सन्मार्गदेशकः प्रोक्तो दुर्मार्गविनिवारकः॥२॥
धर्मस्य प्रवरत्वम्
येन धर्मेण मनुजास्तरन्ति भवसागरम्।
सद्धर्मप्रबरः प्रोक्तो न धर्मो लौकिको हि सः॥३॥
क्षेत्राणीमानि चत्वारि विद्यन्ते यस्य देहिनः।
तस्येदं सफलं जन्म कथितं मार्गदेशकैः॥४॥
सकलेन्द्रियतां प्राप्य लब्ध्वा बुद्धस्य शासनम्।
यो न धर्मरतो मर्त्यः स पश्चादनुतप्यते॥५॥
यमसायुज्यम्
व्यासक्तमनसां नित्यं नित्यं कामगवेषिणाम्।
पुत्रदारप्रसक्तानामन्तकोऽभ्येति देहिनाम्॥६॥
चित्तस्य वशीकरणम्
सङ्कल्पदोषमनसं तैस्तैर्दोषैः समाकुलम्।
चित्तं नयत्युपायेन चित्तबद्धा हि देहिनः॥७॥
दुर्दमस्यातिचण्डस्य सिद्धिप्रेप्सोर्विशेषतः।
न चित्तस्य वशं गच्छेत् शत्रुभूतं हि तन्नृणाम्॥८॥
सश्रुतेन सुदिष्टेन भावितेनाप्यनेकशः।
धर्मेण शाम्यते चित्तं जालिनेव यथा हयः॥९॥
सद्धर्मश्रवणफलम्
सद्धर्मश्रवणं कृत्वा पापाद् विरमते पुमान्।
श्रेयसे प्रतिपत्तिं च नित्यमेवोपपद्यते॥१०॥
सद्धर्मश्रवणं कृत्वा मनः प्रहलादमृच्छति।
कुशलं चास्य सुमहत् सन्धाने सम्प्रतीक्षते॥११॥
श्रुत्वा भवति धर्मात्मा श्रुत्वा पापं न कुर्वते।
श्रुत्वा कर्मफलं ज्ञात्वा निर्वाणमधिगच्छति॥१२॥
श्रुत्वा वेदयते धर्म श्रुत्वा बुद्धः प्रसीदति।
श्रुत्वा धर्मं विमोक्षाय यतते पण्डितो नरः॥१३॥
धर्मलक्षणतत्त्वज्ञः श्रुत्वा भवति मानवः।
तस्माच्छ्रुत्वा प्रयत्नेन बुद्धिः कार्या प्रयत्नतः॥१४॥
श्रुत्वा संसारविमुखां कथां सुगतदेशिताम्।
प्रहाय तृष्णां विविधां प्रयाति पदमव्ययम्॥१५॥
चतुर्विधां प्रत्ययितां धर्माणां चोदमव्ययौ।
श्रुत्वा तां ज्ञायते सर्वा पुमान् श्रद्धाविभावितः॥१६॥
स्कन्धायतनधातूनां यदेतल्लक्षणद्वयम्।
श्रुत्वा तज्ज्ञायते सर्व तस्मात् धर्मपरो भवेत्॥१७॥
प्रबला ये त्रयो दोषाः सर्वसंसारबन्धनाः।
ते प्रणश्यन्त्यशेषेण सद्धर्मश्रवणेन वै॥१८॥
प्रवृत्तेर्लक्षणं कृत्स्नं निवृत्तेश्चाप्यशेषतः।
श्रुतिमांस्तत् प्रजानाति तस्माच्छ्रुतमनुत्तमम्॥१९॥
मृत्युकालोपपन्नस्य वेदनार्तस्य देहिनः।
न व्यथा श्रुतमालम्ब्य स्वल्पापि हृदि जायते॥२०॥
सम्यग्ज्ञानेन ये दग्धाः क्लेशवृक्षाः समन्ततः।
न तेषामुद्भवो भूयः कदाचिदुपलभ्यते।२१॥
अप्रमादविदग्धं हि श्रुतं सर्व सुखोदयम्।
श्रेयसश्व श्रुतं मूलं तस्माच्छ्रुतपरो भवेत्॥२२॥
सद्धर्मश्रवणं श्रुत्वा वृद्धांश्चोपास्य पण्डितः।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम्॥२३॥
धर्मेण वर्तते श्रुत्वा दुःखान्मुच्येत वै यथा।
श्रुत्वा भवति मैत्र्यात्मा तस्माच्छ्रेयः परं श्रुतम्॥२४॥
कायवाङ्मनसां बुद्धिः श्रुत्वा भवति देहिनाम्।
तस्मात् सद्बुद्धिकामो यस्तेन श्रोतव्यमादरात्॥२५॥
श्रुत्वा भावं समाश्रित्य दृढवीर्यपराक्रमम्।
तरन्ति पुरुषास्तूर्ण त्रिभव विपुलं महत्॥२६॥
श्रुत्वा यः पुरुषः सर्वैर्धनवानभिजायते।
अश्रुतार्थधनैर्युक्तं दरिद्रं प्राहुस्तं बुधाः।२७॥
सद्धर्मनाशफलम्
सद्धर्मधननष्टस्य गुरुणा वर्जितस्य च।
विफलं जीवितं चेष्टं पापैरुपहतस्य च॥२८॥
प्रमादादीनामनिष्टफलसाधनत्वम्
प्रमादिनः कुसीदस्थ पापमित्रस्य देहिनः।
जीवितं निष्फलं दृष्टं बीजमुप्तं यथोसरे॥२९॥
शास्त्रप्रामाण्यम्
श्रुतदृष्टिविनिर्मुक्तमर्थमाहुर्विचक्षणाः।
न चक्षुर्भ्यां विनिर्मुक्तमर्थमित्यभिधीयते॥३०॥
धर्मसेवनाग्रहः
यो हि धर्म परित्यज्य अधर्ममनुतिष्ठति।
स भैषज्यं परित्यज्य व्याधिमेवोपसेवते॥३१॥
सेवतां सेवतां पुंसां धर्मो भवत्यनेकशः।
वर्षाणां समवायेन यथोद्यानं प्रवर्धते॥३२॥
इह वज्रासने भूमिर्न संसारेऽन्यथा भवेत्।
बोधिचित्तसमुत्थानं बोधिप्राप्तिस्तथोत्तमा॥३३॥
धर्मचारी प्रशान्तात्मा कायोत्थायी समाहितः।
अवश्यं शुभभागीस्यात् स प्रमादेन वञ्चितः॥३४॥
ज्ञानसेवनाग्रहः
तस्माज्ज्ञानगुणान्मत्वा ज्ञानं सेवेत पण्डितः।
नह्यज्ञानेन संयुक्तं पुमान् कश्चित् प्रतिभवेत्॥३५॥
धर्मानुसारिणी श्रद्धा
धर्मानुसारिणी श्रद्धा यथा याति सुखावहा।
सातिदुर्गतिसन्यक्ता व्यसनेषु महद् बलम्॥३६॥
प्रदीपकल्पा तमसि व्याधितानामिवौषधम्।
अर्थानां नेत्र भूता सा दरिद्राणां महद्बलम्॥३७॥
भवाद्यैर्ह्रियमाणानां पूर्वभूता सुखावहा।
प्रमादमदमत्तानां सा प्रमादविघातिका॥३८॥
शान्तपदप्राप्तेः फलम्
स हि यत्तत्पदं शान्तं निर्वाणमुनिभिर्वृतम्।
तत् प्रापयत्यखेदेन सम्यग्ज्ञानपुरःसरम्॥३९॥
॥इति धर्मोपदेशवर्गः द्वितीयः॥