सप्तमः सर्गः
Technical Details
सप्तमः सर्गः
सिद्धार्थस्योद्यानप्रवेशः
प्रचोदिताश्वः पुनरेव सूतैः प्रतोदहस्तैर्नरलोकवीरः।
आखण्डलोदयानमनोऽभिराममाराममत्यद्भुतमाविवेश॥१॥
विद्यागृहं पञ्चमपाठकानां विकल्पतूणीरमनन्ययोनेः।
गञ्जागृहं षट्पदकामिनीनां क्रीडागृहं किञ्च वसन्तलक्ष्म्याः॥२॥
चराचराणमभिवन्दनीयमागन्तुमुद्यानामहीरुहस्तम्।
मरुद्वशादानमितैः शिरोभिर्बद्धप्रबालाञ्जलयः प्रणेमुः॥३॥
परागसम्पत्सिकतावकीर्णे पर्युक्षिते पुष्परसैः पतद्भिः।
कृतोपहारे गलितैः प्रसूनैरुद्यानमध्ये विजहार वीरः॥४॥
लताङ्गहारैर्ललितालिगीतैर्वनप्रियामञ्जुरवैश्च वाद्यैः।
आरामभूमिं स विलोक्य मेने सङ्गीतशालामिव शम्बरारेः॥५॥
तरुप्रसूनान्यपचेतुकामा वामालका मन्दपदं चरन्त्यः।
कुमारसेवार्थमुपस्थितानां शङ्कां वितेनुस्तरुदेवतानाम्॥६॥
आलापमारामविहारिणीनामाकर्णयन्तो हरिणेक्षणानाम्।
विलज्जमाना इव बद्धमौनास्तस्थुः क्षणं तत्र वसन्तघोषाः॥७॥
मञ्जीरनादच्छलतो ममार्तिं न सुभ्रु ! कुर्या इति नाथतेव।
पदेन पङ्केरुहकोमलेन पस्पर्श काचिच्छनकैरशोकम्॥८॥
अशोकयष्टिस्तरुणीजनस्य पादाम्बुजस्पर्शमिवासहिष्णुः।
नवप्रवालप्रसवापदेशात् कोपानलज्वालमिवोत्ससर्ज॥९॥
सुधामरीचिद्युतिशीतलेन कराम्बुजस्पर्शसुखेन काचित्।
उद्भिद्यमानांकुररोमहर्षं पुत्रागतां प्रापयति स्म चूतम्॥१०॥
असूत सद्यः सहकारशाखी नवांकुरन् पुङ्खितचारुपत्रान्।
अनन्ययोनेरभिमानहेतू नरुन्तुदान् पान्थबधूजनानाम्॥११॥
सौगन्धिकेन्दीवरवासितेन सलीलमन्तर्मुखसम्भृतेन।
पुराणमाध्वीकरसेन काचिदशोकतां केसरमानिनाय॥१२॥
मनोज्ञगन्धैर्वकुलद्रुमाणां स्वयं विकीर्णैः सुमनोनिकायैः।
लताप्रतानेन विचित्रमेका सङ्कल्पयामास विकल्पकाञ्चीम्॥१३॥
उपाहृतैः काञ्चनपुष्पजालैरुदारगन्धैर्नवमल्लिकायाः।
आपूरयन्ती निजकेशपाशमनङ्गतूणीरमिवाबबन्ध॥१४॥
आवर्ज्यशाखां करपल्लवेन प्रसह्य पुष्पापचयोन्मुखायाः।
रुषेव कस्याश्चिदशोकयष्टिस्तिरस्करोति स्म दृशं परागैः॥१५॥
करेण साकं मम कोमलेन स्पर्धामिदं किं परुषं भजेत।
इत्यात्तरोषेव सलीलमेका चूतप्रवालस्य चकार भङ्गम्॥१६॥
सिन्दूरसौन्दर्यसहोदरेण शेफालिकापुष्परजःकणेन।
चकार सख्याः सविलासमेका फालस्थले चारुतमालपत्रम्॥१७॥
आकृष्य शाखाः सदयं लतानामालूय हस्तेन नवप्रवालम्।
माणिक्यभूषामपसार्य कण्ठे निवेशयामास पतिः परस्याः॥१८॥
काचित् प्रगल्भा रमणस्य कर्णे निवेशयन्ती किल कर्णपूरम्।
आवेष्ट्य कण्ठं भुजबन्धनेन कपोलकान्तिं परिचुम्बति स्म॥१९॥
नवप्रसूनैः सकलाङ्गनद्धैर्मनोहराः काश्चन वारिजाक्ष्यः।
अयुग्मबाणायुधदेवतानामाविष्कृतानामवहन्नभिवयाम्॥२०॥
स्तनाभिरामस्तबकोज्ज्वलानां दन्तच्छदापाटलपल्लवानाम्।
मध्ये लतानां निभृतं वसन्तीं सखीं विवेक्तुं न शशाक काचित्॥२१॥
इत्थं कुमारस्य सहावराधैः सलीलमारामविहारभाजः।
आलोकनायेव सहस्रभानुराकाशमध्यं परमध्यरुक्षत्॥२२॥
चण्डातपस्पर्शविवर्धमानमरीचिकावापिविहारदक्षः।
सन्धुक्षयँस्तापमतीव तासां मध्याह्नशंसी मरुदाजगाम॥२३॥
छायास्तरूणामभितः प्रवृत्ताश्चण्डातपे क्षन्तुमिवासमर्थाः।
मूलालवालं मुहुरम्बुसेकसञ्जातशैत्यं शनकैरुपेयुः॥२४॥
विहारसञ्जातपरिश्रमाणां विलासिनीनामलिकस्थलीषु।
प्रदुर्बभूवुः श्रमवारिलेशाः प्रद्युम्नकीर्त्यङ्करनिर्विशेषाः॥२५॥
धर्मोदबिन्दुप्रकरा विरेजुः कपोलपालीषु नितम्बिनीनाम्।
स्नानार्थमानेतुममूः पुरस्तात् तडाकदूता इव सम्प्रयाताः॥२६॥
आरामभूमावतिवाह्य तापं माध्याह्निकं मध्यमलोकपालः।
आसेव्यमानो वरवर्णिनीभिरम्भोविहारार्थमवाप वापीम्॥२७॥
मन्दानिलान्दोलितवीचिमालाडोलायमानोन्मदराजहंसीम्।
सम्फुल्लकल्हारविजृम्भमाणसौरभ्यपूरप्लवमानभृङ्गीम्॥२८॥
कुमुद्वतीकोशपुटावतीर्णमाध्वीकधारामधुरप्रवाहाम्।
उत्तुङ्गकल्लोलवितानरत्नरङ्गस्थलीचंक्रममाणमत्स्याम्॥२९॥
एकत्र फुल्लैर्नवपुण्डरीकैर्गङ्गानुषक्तामिव दृश्यमानाम्।
रक्तारविन्दैरितरत्र भिन्नैः शोणोपगूढामिव शोभमानाम्॥३०॥
पतत्रिपक्षप्रविकीर्णपद्मपरागसिन्दूरितदिग्विभागाम्।
स शीकरासूत्रितदुर्दिनाभालोक्य वापीमधिकं ननन्द॥३१॥
दुढावबद्धायतकेशपाशैः शृङ्गानुषङ्गोज्ज्वलपाणिपद्मैः।
सहावरोधैः स विहार वापीमवातरत् पाशधरप्रभावः॥३२॥
तत्पूर्वमभ्यागतमादरेण तमूर्मिहस्तैः परितभ्य वापी।
कर्णाभिरामैः कलहंसनादैर्वार्त्तानुयोगं मधुरं चकार॥३३॥
अन्तर्विगाढे सति सुन्दरीभिरुद्वेलतां प्राप महातडागः।
जलाशयाः स्त्रीषु कृतानुषङ्गाः कथं नु वेलां न विलङ्घ्यन्ति॥३४॥
कठोरकान्ताकुचमण्डलानामाघातभीता इव वेपमानाः।
कल्लोलमालाः कणिकापदेशान्मुक्तोपहारानुपनिन्युरासाम्॥३५॥
पद्माकरे पङ्कजलोचनाभिर्नरेन्द्रसूनुर्विजहार सार्धम्।
सलीलमन्तःपुरिकाङ्गनाभिः साकं प्रचेता इव वारिराशौ॥३६॥
कान्ताकरोदञ्चितवारिधाराः कान्तस्य वाह्वोरुपरि प्रकीर्णाः।
अयत्नबालव्यजनोपचारचातुर्यधुर्याः क्षणमात्रमासन्॥३७॥
परिस्फुरच्छीकरदन्तुराङ्गं पर्यायवल्गत्कुचकुम्भहारम्।
काश्चित् करैः कान्तमिवापराद्धमास्फालयामासुरमन्दमम्भः॥३८॥
तरङ्गरङ्गे सह भृङ्गगानैः सरोरुहे ताण्डवमादधाने।
हस्ताम्बुजैरात्तमृणालदण्डैरवादयन् वारिमृदङ्गमन्याः॥३९॥
निमज्जनोन्मज्जनरागिणीभिर्नितम्बिनीभिर्निविडस्तडागः।
अशुम्भदम्भोनिधिरन्तरान्तराविर्भवन्तीभिरिवाप्सरोभिः॥४०॥
क्रीडातडाकं क्षितिपालसूनुः केयूरभोगीन्द्रवृतेन दोष्णा।
ममन्थ भूभारधुरन्धरेण मन्थाद्रिणा सिन्धुमिवाब्जनाभः॥४१॥
क्षोणीभुजा कुंकुमवारिधारा यन्त्रप्रयुक्ता रमणीमुखेषु।
पपात पंकेरुहकाननेषु प्रभेव भानोः प्रथमावतारा॥४२॥
वामभ्रुवस्तं मणिशृङ्गमुक्तैरवाकिरन् कुंकुमवारिपूरैः।
तथागतः सोऽयमतीव रेजे सपल्लवश्रीरिव पारिजातः॥४३॥
कस्याश्चिदाविष्कृतचन्द्रिकायाः कराब्जयन्त्रप्रहिताम्बुधारा।
पपात पत्युर्मणिमौलिबन्धे गङ्गेव देवस्य जटाकलापे॥४४॥
स्वहस्तयन्त्रप्रहिताभिरद्भिः पिधाय कस्याश्चन नेत्रयुग्मम्।
विटः परस्या विनिमीलिताक्ष्याश्चुचुम्ब बिम्बाधरमादरेण॥
कयाचिदभ्यर्णजुषः सलीलं कान्तस्य कण्ठे प्रहिताम्बुधारा।
चेतोभुवा चित्तमृगं ग्रहीतुं व्यापारिता वागुरितेव रेजे॥४६॥
वक्त्रे मनोज्ञस्मितचन्द्रिकाऽभूद् वक्षोरुहे निर्झरकान्तिरासीत्।
मध्ये बभूवाभ्रसरिद्विलासो वामभ्रुवां मज्जनवारिधारा॥४७॥
आप्लावयामास करोदकेन वक्त्रं स कस्याश्चन मानवत्याः।
तदेव तन्मानपरिग्रहस्य जलाञ्जलिप्रक्रममाललम्बे॥४८॥
निमज्य कासाञ्चिदुदञ्चितानां वक्षोरुहाः प्रक्षरदम्बुधाराः।
चकाशिरे चञ्चुपुटापकृष्टमृणालनाला इव चक्रवाकाः॥४९॥
निराकृते काऽपि तरङ्गवातैः स्तनोत्तरीये सति लज्जमाना।
कुचस्थलं नव्यनखव्रणाङ्कं डिण्डीरपिण्डेन तिरश्चकार॥५०॥
कस्याश्चिदन्तःसलिले निमज्य समुच्चलन्त्याः सरसं मुखाब्जम्।
समुज्जिहानस्य समुद्रमध्यात् तारापतेर्बिम्बमिवाबभासे॥५१॥
अम्भोविहाराकुलितैः पयोभिरपाकृतेष्वञ्जनमण्डनेषु।
रोषादिवान्तःपुरमुन्दरीणां नेत्रारविन्दान्यरुहणीबभूवुः॥५२॥
पयोधराः पङ्कजलोचनानां पाथोविहारे पतदम्बुधाराः।
नागेन्द्रकुम्भा इव नद्धहाराः सनिर्झरौघा इव शैलशृङ्गाः॥५३॥
अनङ्गसाम्राज्यमहाभिषेककुम्भाविवाम्भोरुहलोचनायाः।
वक्षोरुहौ मङ्गलशृङ्गसंस्थैरवाकिरन् वारिभरैः परस्याः॥५४॥
बिभूषणैर्विद्रुम-पुष्यराग-वैडूर्य-गारुत्मत-पद्मरागैः
अङ्गच्युतैरम्बुजलोचनानां रत्नाकरोऽभूत् कमलाकरोऽपि॥५५॥
एवं स कृत्वा सरसीविहारं सहावरोधैः सरसीरुहाक्षः।
उत्तीर्य तस्यास्तटसन्निविष्टं बद्धोपचारं सदनं विवेश॥५६॥
तत्रानुरक्तैः सह मित्रवर्गैः सङ्कल्पिताकल्पविकल्पवेषः।
रसोत्तरव्यञ्जनपाकहृद्यमाहारमार्यः परमभ्यनन्दत्॥५७॥
विचित्रपट्टास्तरणोपपन्नं विकीर्णपुष्पप्रकरं कुमारः।
अभ्यन्तरस्थापितभद्रपीठमास्थानिकं मण्डपमध्यवात्सीत्॥५८॥
तत्र क्षोणीरमणतनयो मण्डपे वाणिनीनां
नृत्तारम्भैर्निरुपमरसैर्वाद्यघोषैर्मनोज्ञैः।
वीणानादैः श्रवणसुभगैर्वेणुनादैश्च हृद्यैः।
श्रीमानह्नस्त्रिभुवनगुरुः शेषमेष व्यनैषीत्॥५९॥
इति बुद्धघोषचरिते पद्यचुडामणिनाम्नि महाकाव्ये सप्तमः सर्गः॥