प्रथमः सर्गः
Technical Details
सिद्धार्थचरित्रं काव्यं
आचार्यबुद्धघोषविरचितं
पद्यचूडामणिमहाकाव्यम्
प्रथमः सर्गः
मङ्गलम्
कारुण्यकल्लोलितदृष्टिपातं कन्दर्पदर्पानलकालमेघम्।
कैवल्यकल्पद्रुममूलकन्दं वन्दे महाकन्दलमर्कबन्धुम्॥१॥
यस्यैकदेशं यतयोऽपि वक्तुं नालं बभूवुर्नलिनासनाद्याः।
शास्तुस्तदेतच्चरितापदानं वक्तुं मनीषा मम मौग्ध्यमेव॥२॥
तथापि तत्राहितभक्तिशक्त्या तदेतदाख्यातुमहं प्रवीणः।
तथाहि तत्पादसमाश्रयेण रजोऽपि लक्ष्मीं कुरुते हि पुंसाम्॥३॥
अस्ति प्रशस्ता कपिलेति नाम्ना काचित् पुरी कामदुघा प्रजानाम्।
यां वीक्ष्य शक्रो निजराजधान्याः श्लाघाभिसन्धिं शिथिलीकरोति॥४॥
सम्भाव्यते यत्र सुधामरीचिः सौधध्वजस्तम्भनिलीनबिम्बः।
मुखारविन्दद्युतिमोषरोषादारोपितः शूलमिवाङ्गनाभिः॥५॥
वीथीषु माणिक्यमयीषु यस्यां ज्योतींषि भान्ति प्रतिबिम्बितानि।
अनङ्गचापादपकृष्यमाणान्मुक्ताफलानीव परिच्युतानि॥६॥
उत्सेधिनो यत्र गृहाः प्रभूणामुदस्तजैत्रध्वजदण्डवाहाः।
आलोलघण्टाक्वणितैरजस्रमभ्यर्थिनो दातुमिवाह्वयन्ति॥७॥
रथ्यासु रत्नोपहितासु यस्यां बिम्बप्रविष्टाः करिणो विभान्ति।
कूलाद्रिकूटा इव कुण्डलीन्द्रसाहायकं कर्तुमधः प्रवृत्ताः॥८॥
पाञ्चालिका यद्गृहपञ्जरेषु प्रपञ्चिताः काञ्चनसञ्चयेन।
भूमाभिभूतारिपुराहृतानां पुष्यन्ति शोभां पुरदेवतानाम्॥९॥
आरुह्य सौधानतिमेघमार्गान् वर्षान्धकारेष्वपि वासरेषु।
कथानभिज्ञा धनगर्जितानां वसन्ति यस्यां वनिता वियुक्ताः॥१०॥
यत्रालयाः काञ्चनकेतुदण्डैरुदञ्चितैर्दोभिरिवातिदीर्घैः।
अपाहरन्तीव कृताभ्यसूयाः शोभां शुनासीरपुरालयानाम्॥११॥
यदङ्गनाः सौधसमीपलग्नामादाय हस्तैरमृतांशुलेखाम्।
निवेशयन्त्यो निजकुन्तलेषु विडम्बयन्ति श्रियमम्बिकायाः॥१२॥
यन्मण्डपाः प्रौढनिदाघतप्ताश्चञ्चत्पताकारसनाञ्चलेन।
आस्वादयन्तीव तुषाररश्मिं सुधारसेन स्वदमानबिम्बम्॥१३॥
विलोक्य चैत्यध्वजसिंहमुद्रां भयाकुले क्वापि गति कुरङ्गे।
निशाकरो यत्र नितम्बिनीनां साधर्म्यमभ्येति सहाननाब्जैः॥१४॥
यच्चन्द्रशालास्वबलाजनानां वितन्वतां विभ्रममण्डनानि।
आदर्शतामाश्रयते निशासु पुरोगतं पूर्णसुधांशुबिम्बात्॥१५॥
यत्रेन्द्रनीलोपलगोपुराणां विजृम्भमाणाः किरणप्रणालाः।
चण्डांशुबिम्बेऽपि सनीडभाजि क्षणं वितन्वति कलङ्कशङ्काम्॥१६॥
यत्रापगाः स्वच्छजलान्तरालसंक्रान्ततीरस्थितकेलिशैलाः।
मदोष्मणा मग्नसुरद्विपाया महेन्द्रसिन्धोः श्रियमाश्रयन्ते॥१७॥
यत्रौकसां रत्नविनिर्मितानामुच्चावचैरुच्चलितैर्मयूखैः।
वर्षावसानेऽपि महेन्द्रचापैराभाति सन्नद्धमिवान्तरिक्षम्॥१८॥
प्रासादमालासु हिरण्यमयीषु प्रारब्धलीलाः प्रमदा यदीयाः।
सुमेरुशृङ्गेषु विहारिणीनां सुराङ्गनानां द्युतिमाक्षिपन्ति॥१९॥
यत्रालयानां प्रविजृम्भमाणाः प्रभाविरोहाः स्फटिकाचितानाम्।
आसन्नभाजां हरितां हयानां यान्तीव कर्णक्षणचामरत्वम्॥२०॥
मरीचिभिर्यन्मणितोरणानां विसृत्वरैर्विच्छुरितप्रवाहा।
मध्येनभो भाति महेन्द्रसिन्धुः कलिन्दजाकर्बुरितान्तरेव॥२१॥
समुच्छ्रितैः सौधतलेषु यस्यां मत्स्यध्वजैर्मारुतकम्पमानैः।
सार्धं विगृह्णन्ति सपत्नबुद्ध्या मरुत्स्रवन्तीमकराः सरोषम्॥२२॥
रतिश्रमो यत्र विलासिनीनां प्रासादमभ्रङ्कषमाश्रितानाम्।
विनीयते गन्धवहेन मन्दं मन्दाकिनीवीचिविहारभाजा॥२३॥
सुधासनाथेन सुधामयूखः कलासमग्रः करपल्लवेन।
विलिम्पतीव क्षणदासु यस्यां क्रीडागृहाणामुपरिस्थलानि॥२४॥
यत्रेन्द्रनीलोपलकुट्टिमेषु प्रविष्टबिम्बां प्रथमेन्दुलेखाम्।
मृणालखण्डस्पृहया मरालाश्चञ्चूपुटैश्चर्वितुमुत्सहन्ते॥२५॥
अभ्युद्गतं यद्गृहधूपराशिमकाण्डघाटीपटुराहुदर्शम्।
पश्यन् भयेनैव पतिर्दिनानामन्तर्दधात्यम्बुधराटवीषु॥२६॥
बिम्बप्रविष्टाः स्फटिकस्थलीषु वक्रश्रियो यद्वरवर्णिनीनाम्।
विकासिनां व्योमनदीजलेषु सरोरुहाणां वितरन्ति शङ्काम्॥२७॥
सालं यदीयं समतीत्य गन्तुमपारयन् धिक्कृतचक्रवालम्।
पतिस्त्विषामुत्तरदक्षिणार्धव्याजेन तत्पार्श्वभुवा प्रयाति॥२८॥
प्रभञ्जनक्षोभविजृम्भिताभिर्वीचिभिरुल्लङ्घिततीरदेशम्।
खातं यदीयं कलशाम्बुराशिं जेतुं समुद्योगमिवातनोति॥२९॥
कनन्ति कालागरुधूपमिश्रा यत्सौधचीनध्वजवैजयन्त्यः।
कल्लोलभिन्नास्तपनात्मजायाः स्वर्लोकसिन्धोरिव वीचिमालाः॥३०॥
महीपतिस्तत्र बभूव मान्यः शाक्यान्वयः शाश्वतराजलक्ष्मीः।
धर्मानुरोधार्जनशुद्धवृत्तिः शुद्धोदनो नाम यथार्थनामा॥३१॥
विभुः प्रतापानलमेव वीध्रं विवाहसाक्ष्ये विरचय्य वीरः।
यः पर्यणैषीदरिराजलक्ष्मीं कृपाणधाराजलपातपूर्वम्॥३२॥
यः पूर्वमाधाय महाभिषेकं कृतेभकुम्भैर्गलदस्रपूरैः।
पश्चादरीणां हृदयारविन्दैः पुपोष पूजां रणदेवतायाः॥३३॥
पाणौ कृपाणी विरराज यस्य विभूषिताङ्गी पुलकाक्षरेण।
आकारणाय द्विषतां यमेन सम्प्रेषिता शासनपत्रिकेव॥३४॥
निरुद्धभूभृन्महिमातिरेको निःशेषपीताहितवाहिनीशः।
यच्चन्द्रहासो भुवनप्रसादं प्रासूयतागस्त्य इवोदयेन॥३५॥
यो वाहिनीं मेघ इवात्तधन्वा विपक्षभूभृत्कटकप्रभूताम्।
आसारयन्नाकुलराजहंसां चक्रे समुच्चेलकबन्धनृत्ताम्॥३६॥
अलंकृताङ्गाः सुभटान्त्रमाल्यैरादाय शृङ्गानिव नागहस्तान्।
यद्वैरिरक्ताम्बुतरङ्गिणीषु व्यात्युक्षिलीला विदधुः पिशाचाः॥३७॥
प्रशस्तिवध्वा प्रवरस्य यस्य प्रतापदीपाञ्जनसंग्रहाय।
आस्थापितं पात्रमिवेन्द्रनीलमभ्रं घनश्यामलमाबभाषे॥३८॥
आपूरिते निर्भरमन्तरिक्षे यस्याण्डकुक्षिम्भरिभिर्यशोभिः।
पृथ्वीपतीनां यशसः प्रसर्तुमासीत् परेषामिव नावकाशः॥३९॥
यशस्तदीयं यदि नाभविष्यच्छीतांशुशुभ्रं शिशिरोपचारः।
सोढुं प्रतापानलमप्रसह्यमपारयिष्यत् कथमेष लोकः॥४०॥
भुजेन भोगीन्द्रधुरन्धरेण यस्मिन् दृढं भूवलयं दधाने।
प्रत्यर्थिकान्ताभुजवल्लरीभ्यः पपात भूषावलयं विचित्रम्॥४१॥
दयालुमाश्रित्य तमत्युदारं वनीपका नापरमभ्यगच्छन्।
आसाद्य वाराकरमम्बुबाहाः कासारमन्यं किमु कामयन्ते!॥४२॥
तस्यांसधारासदनेऽवतंसमाल्यासवस्यन्दनितान्तशीते।
बहिः प्रतापज्वरविह्वलेव विमुक्तलौया विजहार लक्ष्मीः॥४३॥
तस्याभिषेके सचिवावमुक्तैर्गङ्गादितीर्थोपनतैः पयोभिः।
शत्रुप्रतापानलशक्तितरासि सहैव पुंसां हृदयज्वरेण॥४४॥
सुवर्णरूपं सुमनोनिषेव्यं तुङ्गं सुधर्मास्पदमद्वितीयम्।
तं भूभृतं मेरुमिव प्रपन्नाश्चकाशिरे षड्गुणरत्नसार्थाः॥४५॥
अन्यत्र कर्णः सुधियामसक्तस्तस्यापदानश्रवणे ससज्ज।
अपास्य पीयूषरसं सुराणां रसान्तरे किं रमते रसज्ञा !॥४६॥
सहस्रशस्सन्त्वपरेऽपि भूपास्तेनैव सौराज्यवती धरित्री।
अनेकरत्नप्रभवोऽयुदन्वान् रत्नाकरोऽभून्ननु कौस्तुभेन॥४७॥
महात्मना तेन मखैरजस्रमाहूयमानेष्वमृताशनेषु।
परिष्क्रियाऽजायत पारिजातः परं सुराधीश्वरराजधान्याः॥४८॥
तस्यापदानानि तटस्थिताभिः सङ्गीयमानानि सुराङ्गनाभिः।
आकर्ण्य हर्षाद् द्रवतीव मेरुरद्यापि निष्यन्दजलापदेशात्॥४९॥
तस्मिन् नृपे तन्वति दानवर्षं नैकोऽप्यसम्पूर्णमनोरथोऽभूत्।
महाघने वर्षति बद्धधारमलब्धपूर्त्त्यस्ति सरः किमुर्व्याम् !॥५०॥
नदीव सिन्धोर्नलिनीव भानोः कलेव चेन्दोः कमलेव विष्णोः।
सौदामिनीवाम्बुधरस्य तस्य मायेति नाम्ना महिषी बभूव॥५१॥
तस्याः प्रवालोदरसोदराभं युग्मं पदाम्भोरुहयोर्बभार।
सामन्तकान्तालकवल्लरीणां पुष्पायमाणान् नखपूर्णचन्द्रान्॥५२॥
विजृम्भमाणा नखरत्नदीप्तिः पदस्य तस्याः पतिदेवतायाः।
चकार शङ्कां शरणागतायाः स्वर्भानुभीत्या शशिचन्द्रिकायाः॥५३॥
आकारमत्यद्भुतसन्निवेशं दधानयोर्दशितसौकुमार्यम्।
तज्जङ्घयोस्तादृशकान्तिमत्योर्न चाधिकं नापि समं बभूव॥५४॥
ये दर्शनीया द्विपराजहस्ता ये चाभिजाताः कदलीविशेषाः।
तदूरुकाण्डद्वयजृम्भमाणसौन्दर्यरत्नाकरबिन्दवस्ते॥५५॥
माणिक्यकाञ्चीवलयानुविद्धश्रोणीभरा क्ष्मापतिधर्मपत्नी।
वसुन्धरेवार्णवरत्नगर्भवेलासमालिङ्गितसैकतान्ता॥५६॥
सुरार्णवावर्तमनोज्ञशोभं नतभ्रुवोऽलक्ष्यत नाभिरन्ध्रम्।
कुचाद्रिकान्तिद्रवनिर्झरस्य निम्नीकृतं स्थानमिव प्रपातैः॥५७॥
तस्या वपुःक्षेत्रमनङ्गशालि सौन्दर्यनिष्यन्दजलैर्जिषेक्तुम्।
आसूत्रिता यौवनहालिकेन त्रयीव कुल्या त्रिवली चकाशे॥५८॥
विलग्नमालग्नवलित्रयीकं दरिद्रताजन्मगृहं तदीयम्।
अमर्त्यगङ्गाजलवेणिकाभिराश्लिष्टमाकाशमिवाबभासे॥५९॥
तमालनीला नवरोमराजिस्तस्या बभौ तामरसेक्षणायाः।
विवृण्वती बाल्यदशाविनाशमुत्पातधूमावलिरुत्थितेव॥६०॥
आतन्वतश्चेतसि कोमलाङ्ग्याः कोदण्डशिक्षां कुसुमायुधस्य।
मौर्वी बहिर्बिम्बगतेव मान्या तन्व्याश्चकाशे तनुरोमरेखा॥६१॥
विजृम्भमाणेन विलङ्घ्य वेलां तस्यास्तरुण्याः स्तनमण्डलेन।
निःशेषमाक्रान्तनिजावकाशमासीदवलग्नशेषम्॥६२॥
मृणालिका विभ्रमदीर्घिकाया विद्युल्लता यौवनमेघपंक्तेः।
मङ्गल्यमाला मकरध्वजस्य बाहा बभौ वामविलोचनायाः॥६३॥
आमुक्तमुक्तासरदर्शनीयमाबिभ्रती कण्ठमतीव रेजे।
निष्ठ्यूतमुक्तानिकराभिरामशङ्खोज्ज्वला सागरवीचिकेव॥६४॥
तदाननेन्दुं भुवि निस्सपत्नं निर्मातुकामेन पितामहेन।
अकारि पद्मं ध्रुवमात्तगन्धमन्तःकलङ्कं च सुधांशुबिम्बम्॥६५॥
तरुप्रवालाश्चलसौकुमार्यात् सिन्धुप्रवालाः स्थिरकर्कशत्वात्।
न जग्मुरस्या नलिनेक्षणाया बिम्बाधरौपम्यकथाप्रसङ्गम्॥६६॥
बिम्बाधरोष्ठद्युतिरायताक्ष्यास्तस्या विलासस्मितविप्रकीर्णा।
सन्ध्येव बन्धुकरुचिश्चकाशे चन्द्रातपैः शारितसन्निवेशा॥६७॥
नितान्तकान्तालिकचन्द्रलेखानिष्यन्दसौन्दर्यमहाप्रणाली।
सीमान्तरेखा नयनान्तनद्योर्नासा बभासे नवयौवनायाः॥।६८॥
कस्तूरिकाकल्पितपत्रलेखस्तस्याः कपोलः शशिमण्डलश्रीः।
आक्रम्य तस्थौ मुकुरस्य शोभामम्भोदवातैर्मलिनोदरस्य॥६९॥
बभूव तस्या नयनोत्पलस्य नीलोत्पलस्यापि महान् विशेषः।
अमोघमस्त्रं कुसुमायुधस्य पूर्वं द्वितीयं तु तपःसु शीर्णम्॥७०॥
तस्या विशालेन विलोचनेन विलासगर्भेण विजीयमानाः।
अद्यापि वासं वनकन्दरेषु ह्रियेव कुर्वन्ति कुरङ्गशावाः॥७१॥
सौभाग्यवाराकरवीचिकाभ्यां तारुण्यकल्पद्रुमशाखिकाभ्याम्।
भ्रूवल्लरीभ्यां वदनं तदीयं बभाविवाब्जं भ्रमरावलीभ्याम्॥७२॥
रराज राजीवविलोचनाया ललाटरेखा रचितालकान्ता।
आलक्ष्यनामाक्षरबिन्दुपंक्तिरनङ्गजैत्रध्वजपट्टिकेव॥७३॥
विलोलदृष्टिद्वयलोभनीयं तस्या मुखं साम्यमुपाचकार।
परिप्लुतान्तःपरिवर्तमानपाठीनयुग्मस्य पयोरुहस्य॥७४॥
गोरोचनागौररुचिश्चकाशे स षट्पदश्यामलकेशपाशा।
धूमोद्गमैर्धूसरिताग्रभागा मान्योदया मङ्गलदीपिकेव॥७५॥
अर्धासिकां भर्तुरनन्यलभ्यां भद्रासने सैव परं प्रपेदे॥
अन्याः किमर्हन्त्यपहाय लक्ष्मीं वक्षोनिवासं मधुसूदनस्य॥७६॥
महीपतिर्मान्यगुणोज्ज्वलायां तस्यां महिष्यां तनयाभिलाषी।
प्रदीपधूपप्रमुखैः पदार्थैः स देवताराधनतत्परोऽभूत्॥७७॥
ममज्ज तीर्थेषु जजाप मन्त्रं ततान दानानि तपश्चकार।
शुश्राव धर्मं सुजनं सिषेवे स पुत्रहेतोः सह धर्मपत्न्या॥७८॥
इति गतवति पुण्यैर्दीर्घदीर्घेऽपि काले,
पतिरवनिपतीनां पुत्ररत्नं न भेजे।
तदपि च ववृधे तत्प्रार्थना तस्य पुंसां
विरमति न हि यत्नः कार्यसिद्धेः पुरस्तात्॥७९॥
इति बुद्धघोषाचार्यविरचिते पद्यचूडामणिनाम्नि महाकाव्ये
सिद्धार्थचरिते प्रथमः सर्गः॥