चतुर्दशः सर्गः
Technical Details
CANTO XIV
ततो मारबलं जित्वा
धैर्येण च शमेन च।
परमार्थ विजिज्ञासुः
स दध्यौ ध्यानकोविदः॥१॥
सर्वेषु ध्यानविधिषु
प्राप्य चैश्वर्यमुत्तमम्।
सस्मार प्रथमे यामे
पूर्वजन्मपरंपराम्॥२॥
अमुत्राहमयं नाम
च्युतस्तस्मादिहागतः।
उति जन्मसहस्त्राणि
सस्मारानुभवन्निव॥३॥
स्मृत्वा जन्म च मृत्युं च
तासु तासूपपत्तिषु।
ततः सत्त्वेषु कारुंण्यं
चकार करुणात्मकः॥४॥
कृत्वेह स्वजनोत्सर्ग
पुनरन्यत्र च क्रियाः।
अत्राणः खलु लोकोऽयं
परिभ्रमति चक्रवत्॥५॥
इत्येवं स्मरतस्तस्य
बभूव नियतात्मनः।
कदलीगर्भनिःसारः।
संसार इति निश्चयः॥६॥
द्वितीये त्वागते यामे
सोऽद्वितीयपराक्रमः।
दिव्यं लेभे परं चक्षुः
सर्वचक्षुष्मतां वरः॥७॥
ततस्तेन स दिव्येन
परिशुद्धेन चक्षुषा।
ददर्श निखिलं लोक-
मादर्श इव निर्मले॥८॥
सत्त्वानां पश्यतस्तस्य
निकृष्टोत्कृष्टकर्मणाम्।
प्रच्युतिं चोपपत्तिं च
ववृधे करुणात्मता॥९॥
इमे दुष्कृतकर्माणः
प्राणिनो यानि दुर्गतिम्।
इमेऽन्ये शुभकर्माणः
प्रतिष्ठन्ते त्रिपिष्टपे॥१०॥
उपपन्नाः प्रतिभये
नरके भृशदारुणे।
अमी दुःखैर्बहुविधैः
पीड्यन्ते कृपणं बत॥११॥
पाय्यन्ते क्वथितं केचि-
दग्निवर्णमयोरसम्।
आरोप्यन्ते रुवान्तोऽन्ये
निष्टप्तस्तम्भमायसम्॥१२॥
पच्यन्ते पिष्टवत्केचि-
दयस्कुम्भीष्ववाङ्मुखाः।
दह्यन्ते करुणं केचि-
द्दीप्तेष्वङ्गारराशिषु॥१३॥
केचित्तीक्ष्णैरयोदंष्ट्रै-
र्भक्ष्यन्ते दारुणैः श्वभिः।
केचिद्धृष्टैरयस्तुण्डै-
र्वायसैरायसैरिव॥१४॥
केचिद्दाहपरिश्रान्ताः
शीतच्छायाभिकाङिक्षणः।
असिपत्त्रवनं नीलं
बद्धा इव विशन्त्यमी॥१५॥
पाट्यन्ते दारुवत्केचि-
त्कुठारैर्बद्धबाहवः।
दुःखेऽपि न विपच्यन्ते
कर्मभिर्धारितासवः॥१६॥
सुखं स्यादिति यत्कर्म
कृतं दुःखनिवृत्तये।
फलं तस्येदमवशै-
र्दुःखमेवोपभुज्यते॥१७॥
सुखार्थमशुभं कृत्वा
य एते भृशदुःखिताः।
आस्वादः स किमेतेषां
करोति सुखमण्वपि॥१८॥
हसद्भिर्यत्कृतं कर्म
कलुषं कलुषात्मभिः।
एतत्परिणते काले
क्रोशद्भिरनुभूयते॥१९॥
यद्येवं पापकर्माणः
पश्येयुः कर्मणां फलम्।
वमेयुरुष्णं रुधिरं
मर्मस्वभिहता इव॥२०॥
इमेऽन्ये कर्मभिश्चित्रै-
श्चित्तविस्पन्दसंभवैः।
तिर्यग्योनौ विचित्रायाः-
मुपपन्नास्तपस्विनः॥२१॥
मांसत्वग्बालदन्तार्थ
वैरादपि मदादपि।
हन्यन्ते कृपणं यत्र
बन्धूनां पश्यतामपि॥२२॥
अशक्नुवन्तोऽप्यवशाः
क्षुत्तर्षश्रमपीडिताः।
गोऽश्वभूताश्च वाह्यन्ते
प्रतोदक्षतमूर्तयः॥२३॥
वाह्यन्ते गजभूताश्च
वलीयांसोऽपि दुर्बलैः।
अङ्कशक्लिष्टमूर्धान-
स्ताडिताः पादपाष्णिभिः॥२४॥
सत्स्वप्यन्येषु दुःखेषु
दुःखं यत्र विशेषतः।
परस्परविरोधाच्च
पराधीनतयैव च॥२५॥
खस्थाः खस्थैर्हि बाध्यन्ते
जलस्था जलचारिभिः।
स्थलस्थाः स्थलसंस्थैश्च
प्राप्य चैवेतरेतरैः॥२६॥
उपपन्नास्तथा चेमे
मात्सर्याक्रान्तचेतसः।
पितृलोके निरालोके
कृपणं भुञ्जते फलम्॥२७॥
सूचीछिद्रोपममुखाः
पर्वतोपमकुक्षयः।
क्षुत्तर्षजनितैर्दुःखै
पीड्यन्ते दुःखभागिनः॥२८॥
आशया समतिक्रान्ता
धार्यमाणाः स्वकर्मभिः।
लभन्ते न ह्यमी भोक्तुं
प्रविद्धान्यशुचीन्यपि॥२९॥
पुरुषो यदि जानीत
मात्सर्यस्येदृशं फलम्।
सर्वथा शिबिवद्दद्या-
च्छरीरावयवानपि॥३०॥
इमेऽन्ये नरकप्रख्ये
गर्भसंज्ञेऽशुचिह्रदे।
उपपन्ना मनुष्येषु
दुःखमर्छन्ति जन्तवः॥३१॥