Digital Sanskrit Buddhist Canon

पंचदशो बिन्दुः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Parallel version Paṁcadaśo binduḥ


 



पंचदशो बिन्दुः



 



चत्वारि सत्यानि



 



१। चत्वारि (आर्य-)सत्यानि। दुःखसत्यं समुदय निरोध मार्गसत्यं॥ दुःखसत्यं कतमत्। एकविधं क्लेशलक्षणं दुःखं। द्विविधं कायदुःखं चित्तदुःखं। त्रिविधं दुःखदुःखं विपरिणामदुःखं संस्कारानित्यतादुःखं। कायिकमध्यात्मदुःखं बहिर्धादुःखं मानसिकमध्यात्मदुःखं बहिर्धादुःखं। पंचविधं पंचोपादानस्कंधाः दुःखं। षड्विधं त्रिधातु (=कामरूपारूप्य )दुःखं त्रिविष (=रागद्वेषमोह)दुःखं। सप्तविधं सप्तविज्ञानस्थितिदुःखं। अष्टविधं दुःखं (तद्यथा)जातिःजरा व्याधिः मरणं अप्रियसंयोगः प्रियविप्रयोगः यत्पर्येषमाणो न लभते तत् सर्वं विविधं (=पंचोपादानस्कंधरूपं)दुःखं। इति दुःखसत्यं॥ (समुदय सत्यं कतमत्)। विविधदुःखहेतवः पंचोपादानस्कंधाः। इति समुदय सत्यं। निरोधसत्यं कतमत्। दुःखसमुदयानामशेषतो निरोधे निरोधालंबना प्रज्ञोच्यते निरोधसत्यं॥ (मार्गसत्यं कतमत्)। आर्याष्टांगिकमार्गभावनोच्यते मार्गसत्यं॥



 



२। चतुःसत्यक्रमो हानाधिगमतो ज्ञातव्यः। स्वयं भावयतः सत्यलक्षणं सत्यतः फलप्राप्तिः भावयितुः पुद्गलस्य न वंचनेत्युच्यते सत्यं। स्थूलावबोधतः क्रमः। औदरिकं दुःखसत्यं सहजं बुध्यते इति प्रथमं दुःखसत्यं। दुःखावबोधाद् दुःखहेतोरनुमानं। ततः समुदेति तत्रोत्पद्यत इति समुदयसत्यं द्वितीयं। अस्य दुःखसत्यस्य यत्रायतने निरोधस्तत्र प्राप्तिर्विमोक्षभावनाया निर्वाणे। इति निरोधसत्यं तृतीयं। एतस्य निरोधसत्यस्य प्राप्तिः कतमा। भावयतः आर्याष्टांगिकमार्गं प्रहीणे संयोजने निरोधसत्यप्राप्तिः। इति मार्गसत्यं चतुर्थं॥



 



३। पंचोपादानस्कंधा नाम फलकाले दुःखसत्यं। हेतुकाले पंचोपादानस्कंधा नाम समुदयसत्यमथो दुःख सत्यमपि। तथाहि। पुरुषः पुत्रोऽपि नाम पितापि॥



 



४। समुदयसत्यं भूयःसंयोजनं। संयोजनानि कतमानि। नव संयोजनानि। रागसंयोजनं प्रतिघ मान अविद्या दृष्टि परामर्श मात्सर्य ईर्ष्यासंयोजनं। त्रैधातुको रागः रागसंयोजनं। सत्त्वेषु चित्तस्य प्रकोपो दोषश्चंडता नाम प्रतिघसंयोजनं। सप्तविधो मानो मानसंयोजनं। त्रिधातुप्रतिसंयुक्तः संमोहोऽविद्यासंयोजनं। त्रिविधा दृष्टिः [सत्काय-अन्तग्राह-मिथ्यादृष्टित्रयं]दृष्टिसंयोजनं। द्वे दृष्टी [दृष्टिपरामर्शशीलव्रतपरामर्शद्वयं]परामर्शसंयोजनं। चतुःसत्येष्वनिश्चयो विचिकित्सा संयोजनं। चित्तस्य कृपणता स्नेहादनुत्सर्गो मात्सर्यंसंयोजनं। द्वेषेण परेष्वसूया ईर्ष्यासंयोजनं॥



 



५। निरोधसत्यं द्विविधं। सास्रवः (=सोपादिः)संयोजनक्षयो (नाम)निरोधः प्रथमविधः। अनास्रवः(=निरुपादिः)प्रतिपदा (निरोधगामिन्या)संयोजनक्षयो (नाम)निरोधो द्वितीयविधः॥



 



६। विविधाः परिशुद्धधर्माः। तद्यथा। चतस्रः प्रतिसंविदः। धर्मः निरुक्तिः प्रतिभानं अर्थः। सर्वेषु नामपदेषु सत्यलक्षणतो ज्ञानं धर्मप्रतिसंवित्। सर्ववचनेषु शास्त्रेषु प्रज्ञोच्यते निरुक्ति प्रतिसंवित्। सर्वधर्मेषु सत्यलक्षणतो ज्ञानं प्रतिभानप्रतिसंवित्। सर्वा प्रज्ञा वचनं ध्यानं अभिज्ञाः ज्ञानं नाम अर्थप्रतिसंवित्॥



 



७। स्रोत आपन्नस्य चतस्रोऽक्षयाः श्रद्धाः। बुद्धेऽक्षया श्रद्धा धर्मेऽक्षया श्रद्धा संघेऽक्षया श्रद्धा परिशुद्धशीलेऽक्षया श्रद्धा। अर्हत्फलसंगृहीतेषु सर्वाशैक्षधर्मेषु विविधेषु बुद्धाधिमात्रपुण्यगुणेषु अनास्रवा श्रद्धोच्यते बुद्धऽक्षया श्रद्धा। निर्वाणेऽनास्रवे च अनास्रवसत्ये च शैक्षाशैक्षधर्मेषु च बोधिसत्त्वसत्यपुण्यगुणेषु च अनास्रवा श्रद्धा परिशुद्धोच्यते धर्मेऽक्षया श्रद्धा। अनास्रवमार्गफलप्राप्तौ श्रद्धा चतुर्षु पुरुषयुगेषु अष्टपुरुषपुद्गलेषु सर्वपुण्यगुणेषु बुद्धश्रावकसंघेषु। अश्रद्धान्यतीर्थिकेषु। इत्युच्यते संघेऽक्षया श्रद्धा। अविज्ञप्त्यनास्रवशीलयोरनास्रवा श्रद्धोच्यते शीलेऽक्षया श्रद्धा। परिशुद्धसत्यप्रज्ञासहगता श्रद्धा तस्मादविजेयेत्यनास्रवशीलं। तस्मादेव अक्षया श्रद्धा। इति चतस्रोऽक्षयाः श्रद्धाः॥



 



८। चत्वारि वस्तूनि भवन्ति समाधिं भावयतः। समाधिं भावयतो दृष्टे धर्मे सुखविहारलाभः। समाधिं भावयतो ज्ञानदर्शनलाभः। समाधिं भावयतो भवति प्रज्ञाविवेकः। समाधिं भावयतः आस्रवाणां निरोधस्य लाभः सर्वस्य च कुशलस्य। प्रथमे ध्याने दृष्टसुखविहारस्य च्युत्युत्पादज्ञानाभिज्ञायाः लाभः। इत्युच्यते ज्ञानदर्शनं। उपायेन पर्येषयते पुण्यगुणान् कामधातावविज्ञप्तिशीलं श्रुतचिन्ताभावनानुशंसान् सर्वरूपारूप्यधातुधर्मान् सर्वान् अनास्रवान् संस्कृतान् धर्मान् इत्युच्यते प्रज्ञाविवेकः। वज्रोपम चतुर्थध्यानेन चरमशैक्षचित्तसहसंप्रयुक्तेन आस्रवनिरोधः। इत्युच्यते भावितः समाधिः। आस्रवाणां निरोधलाभश्चतुर्थध्यानसंगृहीतः॥



 



९। चतस्रः प्रतिपदः। दुःखाप्रतिपद्धंधाभिज्ञा दुःखाप्रतिपत्क्षिप्राभिज्ञा सुखाप्रतिद्धंधाभिज्ञा सुखाप्रतिपत्क्षिप्राभिज्ञा। श्रद्धानुसारिणोऽनास्रवधर्मणो मृद्विन्द्रियस्य दुःखाप्रतिपद्धंधाभिज्ञा। धर्मानुसारिणोऽनास्रवधर्मणोऽधिमात्रेन्द्रियस्य दुःखाप्रतित्क्षिप्राभिज्ञा। मौलचतुर्ध्यानेष्वधिमात्रेन्द्रियस्य मृद्विन्द्रियस्य च धर्माभिधा सुखाप्रतिपत्। तत्र को हेतुः। शमथविपश्यनामार्गः समः (तत्र)इति हेतुः। अन्यभूमिषु शमथविपश्यनयोरुच्चावचत्वाद् दुःखा (प्रतिपद्)। द्वयोः स्थानयो रसमापत्यनन्तरध्यानयोः शमथमार्गोऽल्पीयान् विपश्यनामार्गो भूयान्। आरूप्यधातौ विपश्यनामार्गोऽल्पीयान् शमथमार्गो भूयान्। इति दुःखाधिगमत्वाद् दुःखा प्रतिपत्॥



 



१०। सप्त विज्ञानस्थितयः। कामधातौ सर्वदेवमनुष्याः रूपधातौ स्थापयित्वा प्रथमोपपन्नदेवान् ब्रह्मकायिका देवाः नानाकायनानासंज्ञाः।१। ब्रह्मलोकोपपन्नाः नानाकायैकसंज्ञाः।२। द्वितीयध्यानोपपन्नदेवाः एककायनानासंज्ञाः।३। तृतीयध्यानोपपन्नदेवाः एककायैकसंज्ञाः।४। आकाशानन्त्यायतनोपपन्नदेवाः।५। विज्ञानानन्त्यायतनोपपन्नदेवाः।६। आकिंचन्यायतनोपपन्नदेवाः।७। इति सप्तविज्ञानस्थितयः॥



 



११। दुर्गतौ दुःखा वेदना निहन्ति विज्ञानमिति न षड्विज्ञानस्थितिः। चतुर्थध्यानेऽसंज्ञिसमापत्तौ (च)विज्ञानस्य निहतत्वाद् नैवास्ति षड्विज्ञान स्थितिप्राप्तिः॥



 



१२। नव सत्त्वावासाः। एताः सप्तविज्ञानस्थितयः असंज्ञिसत्त्वाः नैवसंज्ञानासंज्ञायतनं चेति नव सत्त्वावासाः। एतेष्वावासेषु (सत्त्वानां)स्थितत्वात्॥



 



१३। वस्त्राच्छादन-पेयखाद्य-शयनासन (संतोषेण)प्रीत्या (च)क्लेशक्षयो भावनालंबनबलेन मार्गप्राप्तिः। इत्युच्यंते चत्वार्यार्यबीजानि। प्रणीते वा हीने वा वस्त्राच्छादने पेयखाद्ये शयनासने संतोष इति त्रीण्यार्यबीजानि। अर्जने (दुःखं)रक्षणे (दुःखं)क्षये दुःखं। त्रिभिरतेर्दुःखैः कुशलमार्गहानिः। निराहारस्य प्राणिनो न स्थितिः। इत्यधिगन्तव्यः संतोषः। [(ततः)]त्रिदुःखक्षयः।]वैराग्यचित्ते सुखप्रीतिलाभः। इति चतुर्थं (आर्यबीजं)॥



 



१४। अष्टोत्तरशतं वेदनाः चक्षुश्रोत्रघ्राणजिह्वाकायमनःस्पर्शैर्जायन्ते। इत्युच्यंते षट् स्पर्शाः। (ताः स्पर्शजा वेदनाः)भवन्ति त्रिविधाः। चक्षुषा रूपदर्शने सौमनस्यं दौर्मनस्यं उपेक्षा यावत् मनसा धर्मस्मरणे सौमनस्यं दौर्मनस्यं उपेक्षा। तत्र (एकैका)कुशला (वा भवति)अकुशला (वा)। (एवं)कुशला अष्टादश अकुशला अष्टादश। इति षट्त्रिंशत् (पुनः)त्रिधा भिन्ना भवन्त्यष्टोत्तरशतं। (तथाहि।)षट्त्रिंशदतीताः षट्त्रिंशदनागताः षट्त्रिंशत् प्रत्युत्पन्नाः॥ पंच विज्ञानानि न शक्नुवन्ति विवेक्तं तस्मान्न तेषु सौमनस्यं (वा भवति)दौर्मनस्यं (वा)॥



 



१५। चित्तसंस्कारे चैतसिकधर्मसंतानस्य सततमविच्छिन्नं चिन्तनं नाम स्मृतिः। चिंतनहेतुप्रत्यया अनुसरन्ति तान् धर्मान् इति हेतोरावृत्ता भवति चिन्ता। विज्ञानस्मृतिबलं दृढं भवति। इति नातीतधर्मप्रमोषः॥



 



१६। सुप्तः पुरुषः चित्तचैतसिकधर्मान् प्रतीत्य स्वप्नं पश्यति। अहेतुकमप्रत्ययं चापि पश्यति स्वप्नं। एष स्वप्नोऽतीताध्वको वा भवति अनागताध्वको वा। चेत् स्वप्ने जातशृंगपुरुषदर्शनं तर्हि (जागरस्य)पूर्वं गोशृंगदर्शनं ततो मनुष्यस्य किमुपादाय न शृंगोत्पाद इति भृशं चिन्तनं तत एवं स्मरतः प्रसुप्तस्य भवति जातशृंगपुरुषदर्शनं॥



 



१७। चित्तविक्षेपश्चित्तभ्रान्तिरुच्यते संमोहः। ग्लाने शरीरे भवति संमोहः। भूतावेशेन भवति संमोहः। पूर्वजन्मप्रत्ययेन भवति संमोहः॥



 



१८। त्रयः स्कंधाः। शीलस्कंधः। समाधिस्कंधः। प्रज्ञास्कंधः॥ शीलस्कंधः कतमः। कामधातौ विज्ञप्ति (शीलं)अविज्ञप्तिशीलं। रूपधातावविज्ञप्तिशीलं॥ समाधिस्कंधः कतमः। चतुर्दश समाधिभावना॥ प्रज्ञास्कन्धः कतमः। त्रिविधा प्रज्ञा। श्रुतमयी चिन्तामयी भावनामयी। कामधातौ द्विविधा श्रुतमयी भावनामयी। आरूप्यधातावेकधा भावनामयी॥



 



१९। द्विविधः संवरः। प्रथम इन्द्रियसंवरः द्वितीयः शीलसंवरः। इन्द्रियसंवरः कतमः। नोपगन्तुं प्राप्य चिन्तयति मातृग्रामं। अग्रजानुजातनुजासंज्ञया पश्यन् स्त्रियं न चिन्तयति न स्त्रीन्द्रियसंज्ञास्मृतिं जनयति यतो भवन्ति भूयःक्लेशाः। प्रत्यवेक्षते कायचित्तविवेकं। इतीन्द्रियसंवरः॥ (शीलसंवरः कतमः।)परिहरति रागं विविधानकुशलान् धर्मान्। अक्लिष्टोऽनापत्तिकचित्तः पूर्णं परिहरति सप्त रागान्। इति शीलसंवरः॥



 



२०। क्लेशः अकुशलकर्म अकुशलकर्मविपाकः। इति त्रीण्यावरणानि। (पंच)आनन्तर्यकर्माणि अत्यन्तगुरुक्लेशेभ्यस्त्रिदुर्गतिविपाकेभ्यो भवन्ति। त्रिषु वस्तुषु चेदेकमपि वस्तु न भवत्यार्यधर्मलाभः। इत्युच्यते आवरणं॥



 



२१। अकुशलवितर्कविचारस्त्रिविधः। रागो द्वेषो मोहः। एते निघ्नन्ति त्रिविधं कुशलवितर्कविचारं अरागं अद्वेषं अमोहं। त्रिविधो व्याधिः। रागो द्वषो मोहः। एषां त्रिविधव्याधीनां त्रिविधं भैषज्यं काये अशुच्यनुपश्यना सत्वेषु मैत्रीभावना द्वादशांगः प्रतीत्यसमुत्पादः। इति त्रिविधं भैषज्यं॥



 



२२। कायभावना शीलभावना चित्तभावना प्रज्ञाभावना। एते धर्माः सर्वान् (एव)अकुशलविपाकान् न प्रतिलभते। लभते वाऽल्पतरविपाकं। प्रत्युत्पन्नेऽध्वनि वा अनागतेऽध्वनि वा लभते विपाकं। कायभावना कतमा। विविधं पश्यत्यनित्यादिकं। शीलभावना कतमा। गृहीत्वा शीलं नापत्तिको भवति सततमनुरक्षति। चित्तभावना कतमा। अकुशलवितर्कपरिहारेण भावयति कुशलवितर्कान्। प्रज्ञाभावना कतमा। विविधं विविनक्ति कुशलधर्मान् वर्धयति प्रज्ञां॥



 



२३। कुशलचारी पुद्गलः क्षिप्रं लभते सुगतिं। अकुशलचारी क्षिप्रं लभते दुर्गतिं। कुशलो वा पुद्गलः पतति दुर्गतौ। अकुशलो वा पुद्गलो जायते सुगतौ। पूर्वजन्मप्रबलहेतुप्रत्ययैः विपाकशेषस्यापरिसमाप्तौ च्युतिकाले चरमचित्तस्य कुशलाकुशलहेतोः कुशलोऽपि पतति दुर्गतौ अकुशलोऽपि जायते सुगतौ॥



 



[इत्यभिधर्मामृतशास्त्रे चतुःसत्यनिर्देशो नाम पंचदशो बिन्दुः॥]


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project