द्वितीयोऽध्यायः
Technical Details
द्वितीयोऽध्यायः।
प्रथमः पादः।
[72] द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः।
संक्षेपेणाभिधास्यन्ते धर्मा णि(नि)र्वचनादयः॥
[73] नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च।
यस्मान्नान्यद्द्वयं कार्या(या)त्सुखादिनवकत्रयम्॥
[74] नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः।
त्रयानां(णां) वर्गवृत्तित्वेऽप्यर्थमभ्येष्यते परैः॥
[75] विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः।
कायेन्द्रियाद्विशिष्टत्वं द्वयोर्णे(र्ने)त्रेन्द्रियादिवत्॥
[76] ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थोऽभिधीयते।
स्वार्थव्यक्तिषु पञ्चानां चतुर्णां त्वर्थयोर्द्वयोः॥
[77] स्वगोचरोपलब्ध्यादावीषि (शि)त्वमपरे विदुः।
स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः॥
[78] क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु।
फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः॥
[79] सत्त्वाख्या सत्त्ववैचित्र्य(त्र्यं) धृति(तिः) क्लेशोद्भवश्च यैः।
मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता॥
[80] स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश।
स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम्॥
[81] छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात्।
संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात्॥
[82] श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये।
प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम्॥
[83] संभावनानुकूलत्वादधिमोक्षोऽपि नेन्द्रियम्।
कालान्तरफलोत्पादसंदेहाभ्यां न चेतना॥
[84] नाप्रमादोऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात्।
नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः॥
[85] न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः।
जात्यादयो न पारार्थ्यात् निष्क्रियत्वान्न निर्वृतिः॥
[86] कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः।
सुखं च सुमनस्ता च सातं शारीरमानसम्॥
[87ab] वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम्।
[88] षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम्।
तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके॥
[89] दौर्मण(न)स्यं द्विहातव्यं मनोवित्तित्रयं त्रिधा।
नवाभ्यासप्रहेयानि(णि) द्विधा [पञ्च] न तु त्रयम्॥
[90] पूर्वं क्रमोद्भवैः कामे विपाको [लभ्य] ते द्वयम्।
अन्यैः षट् सप्त वाऽष्टौ वा षड् रूपे अन्त्ये तु जीवितम्॥
[91] म्रियमाणै(र्नि)रोध्यन्ते त्रीण्यन्ते अष्टौ तु मध्यमे।
दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः॥
द्वितीयाध्याये
द्वितीयपादः।
[92] आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः।
एकादशभिराप्तिस्तु फलस्यान्त्य[स्य] हानितः॥
[93 ab.] स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा।
[94] कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते।
समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते॥
[95] रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः।
अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते॥
[96] सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मणो(नो)ऽन्विताः।
त्वक्स्त्रीत्वव्यञ्जनैः कामे रूपिणश्चक्षुरादिभिः॥
[97] कामिनः खलु दुःखेन तद्रागी दुर्मण(न)स्तया।
ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा॥
[98] प्रतीत्या(प्रीत्या) भाह्वाधरोद्भूतौ शुभैः स शुभमूलकः।
शैक्षाभ्यां मोक्षमार्गस्थौ [अशैक्षोऽर्हन्] स्वमार्गगः॥
[99] उपेक्षायुर्मणो(नो) युक्तोऽवश्यं त्रयसमन्वितः।
चतुर्भिः कायसुखवान् चक्षुष्मानपि पञ्चभिः॥
[100] स्त्रीन्द्रियाद्यन्वितोऽष्टाभिः दुःखी युक्तस्तु सप्तभिः।
एकादशभिरन्त्याभ्यां सप्त षड्भिस्तदाद्यवान्॥
[101] त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि।
[बहुभिः] ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः॥
[102] अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिण [:]।
त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः॥
[103] सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः।
त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः॥
[104] प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः।
अक्षैकादशकोपेता यदि वाऽष्टादशान्विताः॥
[105] कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः।
त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः॥
[106] [द्विर्ध्यान] जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः।
दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः॥
[107] बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः।
युक्ताः षोडष(श)भिस्त्वेते सर्वभूरिभिन्द्रियैः॥
[108] अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः।
सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः॥
[109] अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः।
द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम्॥
[110] सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः।
कामेष्वेकाधिकः काये द्वय्धिकश्चक्षुरादिषु॥
[111] एवं रूपेऽपि विज्ञेयो हित्वा गन्धरसद्वयम्।
चित्तं चैतसिकैः सार्धं संस्कृतं तु स्वलक्षणैः॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्य [अध्यायस्य] द्वितीयः पादः॥
द्वितीयाध्याये
तृतीयपादः।
[112] दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः।
छन्दः स्पर्शोऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः॥
[113] श्रद्धापेक्षाऽप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा।
मूलवीर्यमहिंसा च शुभभूका दशस्मृताः॥
[114] स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धति[:]।
क्लिष्टे षट् अशुभे तु द्वे आह्रीक्यमनपत्रपा॥
[115] मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः।
सूक्ष्मोपणा(ना)हमात्सर्याण्यल्पक्लेशभुवो दश॥
[116] पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः।
तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा॥
[117] भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा।
तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम्॥
[118] यथा संबन्धिसंबन्धाद्विकारोऽम्भसि लक्ष्यते।
तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम्॥
[119] गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी।
इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः॥
[120] चित्तं प्रधानमेतेषां वस्तु मात्रग्रहादिभिः।
बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि॥
[121] अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह।
अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः॥
[122] तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः।
द्वाविंशत्या सहावश्यं शुभं भवति मानसम्॥
[123] चेतसोस्सह विंशत्या चित्तमुत्पद्यतेऽशुभम्।
दृङ्मोहमात्रयुक्तं यत् क्रोधाद्यैस्त्वधिकं वदेत्॥
[124] सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत्।
तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित्॥
[125] साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते।
ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि॥
[126] संप्रयुक्तः संस्कारः समता यस्य पञ्चधा।
विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ॥
[127] विशिष्टाणा (ना) मसद्भावात्प्रसंगो नास्ति रूपिणाम्।
संस्कारग्रहणाच्चैव खादीनां ण(न) प्रसज्यते॥
[128] प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश।
आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते॥
[129ab.] प्राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः।
[130cd.] श्रुतचिन्तामयानां च समापत्तिद्वयस्य च।
[131] नि[:]क्लेशसंस्कृतापूर्व(र्वं) शुभानां तु रजस्वताम्।
आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते॥
[132] क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता।
निवृताव्याकृता ज्ञाननिर्माणमनसां तथा॥
[133] निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा।
अजा तवर्तमाना च कदाचित्तु त्रिधेष्यते॥
[134] एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता।
आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु॥
[135] शुभाऽसंज्ञिसमापत्तिर्ध्यानेऽन्त्ये चित्तरोधिनी।
निःसृतीच्छाप्रवृत्तित्वात् नार्यस्य आप्या प्रयोगतः॥
[136] निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा॥
शुभाऽर्यंस्य प्रयोगाप्या द्विवेद्याऽनियता मता॥
[137] चेतश्चतुष्टयायोगादागमादुपपत्तितः।
निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका॥
[138] गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः।
आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते॥
[139] जातिः स्थितिर्जराणा(ना)शः संस्कृताङ्कचष्टतुयी।
चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः॥
[140] शक्तिहानेर्जरासिद्धिः नान्यत्वात् परिणामिता।
एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति॥
[141] सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः।
आगमादुपपत्तेश्च विनाशोऽपि सहेतुकः।
[142] वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः।
संज्ञाद्यपरणा(ना)मानस्त्रयो नामादयः स्मृताः॥
[143] अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात्।
अनित्यास्ते तु विज्ञेयाः सापेक्षार्थविभावनात्॥
[144] स्वरूपं वेदयंश्च्छब्दो व्यञ्जना दीनि च ध्रुवम्।
अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते॥
[145] परमानु(णु)स्वभावत्वाद् घोषैकत्वं न युज्यते।
तादात्म्यं प्रतिघातित्वात् तत्सिद्धिर्वरणादिभिः॥
[146] स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति।
क्रमवृत्तेर्ण(र्न) शब्देन कश्चिदर्थोऽभिधीयते॥
[147] न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः।
यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत्॥
[148] प्रतिद्योत्यं यथायोगं नियतानियताश्च ते।
नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते॥
[149] सत्त्वाख्याः कामरूपाप्ता निष्यन्दाऽव्याकृतास्तथा।
तथैव च विपाकश्च साभाग्यं[प्राप्तयो द्विधा]।
[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः॥]
[द्वितीयोऽध्यायः समाप्तः॥]