प्रथमोऽध्यायः
Technical Details
अभिधर्मदीपः
विभाषाप्रभावृत्तिसहितः।
प्रथमोऽध्यायः।
प्रथमः पादः।
[1] यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः।
तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम्॥
[2] सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते।
तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः॥
[3] न कर्म स्वकतोत्सर्गात् ज्ञव्यक्तात्मकता मलाः।
प्राक्पक्षे मुक्त्यभावश्च द्वितीयेऽन्येऽप्युपप्लवाः॥
[4] रूपस्कन्धो हि नेत्राद्या दशायतनधातवः।
धर्मसंज्ञे त्रयस्कन्धाः साऽविज्ञप्तिर्ध्रुवत्रयाः॥
[5] मनःसंज्ञकमन्योऽपि सप्तविज्ञानधातवः।
आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते॥
[6] योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः।
बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान्॥
[7] षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः।
रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः॥
[8] स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः।
स्वात्मना नित्यमवियोगात् समत्वं चित्तचैतसाम्॥
[9] तदाख्या येऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम्।
ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्ष[णम्]॥
[10] अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम्।
नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः॥
[11] धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः।
ज्ञेयोऽवतरणेष्वेव तैः सन्मार्गावतारणात्॥
[12] धर्मस्कन्धप्रमानं (णं) तु सत्यादेरेकशः कथा।
तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः॥
[13] सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः।
प्रोक्तास्तद्भेदतो यस्मादस्मिन्मारो(स्मिमानो) निवर्तते॥
'सत्कायदृष्टिपुष्टत्वात्'
[14] क्लिष्टमेव हि विज्ञानं [द्रष्टव्यं] जन्मणि (नि) श्रयात्।
खधातुः पृथगाकाशाद्रूपायतनसंग्रहात्।
[15] नभः खलु नभो धातोरासन्नो हेतुरेष तु।
भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः॥
[16] प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतोऽपि यत्।
ततोऽपि यद्दवीयोऽर्थं पटिष्ठमितरादपि॥
अभिधर्मदीपे विमाषाप्रभायां वृत्तौ प्रथमा(मा) ध्यास्य द्वितीयः पादः॥
प्रथमाध्याये
तृतीयपादः।
[17] सनिदर्शण (न) आद्यार्थः मूर्त्ताः सप्रतिघा दश।
अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः॥
[18] शेषास्त्रिधा इह सर्वेऽपि रूपधातौ चतुर्दश।
रसगन्धौ सविज्ञानौ धातू हित्वा त्रयोन्तिमाः॥
[19] सास्रवाणा (ना)स्त्रवा अन्त्यास्त्रयः शेषास्तु सास्रवाः।
सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा॥
[20] निर्विकल्पगुणस्वार्थाः अस्मारादनिरूपणात्।
मनोभौमी स्मृतिः पूर्वो द्वितीयो घीर्णि(र्नि)रूपिका।
[21] विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम्।
तस्मादन्यत् त्रिभिः ध्याने प्रथमे चासमाहितम्॥
[22] द्वाभ्यामव्यग्रं एकेन चक्षुःश्रोत्रत्वगाश्रय[म्]।
द्वाभ्यां तदुपरिव्यग्रं एकेनैव समाहितम्॥
[23] उच्छिन्नशुभबीजस्य दर्शणं(नं) सविकल्पकम्।
कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः॥
[24] कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः।
द्विधाप्यकुशलं नास्ति क्लिष्टं चार्यस्य नोत्तमम्॥
[25] नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम्।
क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम्॥
[26] त्रिधेह द्वयमार्यस्य रागिणः सशुभस्य च।
न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम्॥
[27] प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः।
प्राग्विज्ञानानुभूतेऽर्थे चेतस्युत्पद्यते स्मृतिः॥
[28] एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः।
ज्ञातपूर्वेषु विस्मृतिः संप्रजायते॥
[29] दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा।
स्मर्यते सत्तदन्यैश्च नान्योऽन्यं व्योघदृक्क्षये॥
[30] विज्ञानानां तु पञ्चानां यदेकेनानुभूयते।
तत्स्मर्यतेऽपि चान्येन तेन खल्वितरैरपि॥
[31] द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह।
व्यारूप्यरूपणि(नि)वृतेः स्मर्यतेऽष्टाभिरेव तत्॥
[32] रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेन(ण) यत्।
कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत्॥
[33] रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत्।
आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः॥
[34] आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत्।
कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा॥
[35] चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः।
अमूर्ता ध्वनिना सार्धमनुपात्ताः नव द्विधा॥
[36] स्पृश्यं द्विधा सधर्मांशाः सह ता नव भौतिकाः।
दश सावयवा मूर्ताः त एव दश संचिताः॥
[37] रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः।
दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा॥
[38] पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः।
अमूर्त्ता नौपचयिकाः त्रिधा शेषाः ध्वनिर्द्विधा॥
[39] चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाऽप्नुयात्।
द्वादशाध्यात्मिका ज्ञेयाः बाह्याष्षड्विषयात्मकाः॥
[40] त्रयोऽन्त्यास्त्रिविधाः शेषा भावनापथसंक्षयाः॥
न रूपमस्ति दृग्धेयं नाक्लिष्टं नाविकल्पकम्॥
[41] सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः॥
सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते॥
[42] चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते।
पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरणि (ति) तीरणात्॥
[43] समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते।
क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैक्षे च पश्यतः॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः॥
प्रथमाध्याये
चतुर्थपादः।
[44] चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरमृ।
आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः॥
[45] एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः।
अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतोऽन्यथा॥
[46] अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात्।
प्रदीपादिप्रभावश्चेत् न समं तत्समुद्भवात्॥
[47] सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शणा(ना)त्।
सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत्॥
[48] न ह्यू र्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः।
विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः॥
[49] नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः।
विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः॥
[50] त्रयाणां(णां) त्रीण्यपि स्वाणि(न) तनोर्विज्ञानमप्यधः।
मनस्त्वनियतं योगिवैश्वरूप्यं प्रदर्शितम्॥
[51] सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः।
सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः॥
[52] अध्वाद्याः स्कन्धपर्यायाः धर्माद्या वस्तुनः सतः।
ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः॥
[53] स्वात्म्यगोचरकार्यानां(णा)मेकत्वादेकधातुना।
चक्षुरादिद्विभावेऽपि द्व्युत्पत्तिः कर्मतृ(त्रि)त्वशात्॥
[54] [असाधारण]वैशिष्ट्यादैश्वर्यादान्तरङ्गय्तः।
सत्यप्यणे (ने) कहेतुत्वे विज्ञानं तैर्विशेष्यते॥
[55] नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा।
सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः॥
[56] प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः।
तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः॥
[57] घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम्।
पश्चिमस्याश्रयोऽतीतः पञ्चानां तैः सहापि च॥
[58] निश्रित्य खल्वनागम्यं निश्रयांश्चतुरोऽथ वा।
अनास्रवेन (ण) मार्गेंण चक्षुर्धातुर्निरुध्यते॥
[59] अनागम्यं तु निश्रित्य गन्धधातुर्णि(र्नि)रुध्यते।
मनोधातुरणा(ना)गम्यं यदि वा सप्तनिश्रयात्॥
[60] अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः।
धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत्॥
[61] चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः।
कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति॥
[62] तस्मादनुशयान्धातोरेकर्त्रिशज्जहाति च।
पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा॥
[63] रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम्।
तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चना॥
[64] चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च।
परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते॥
[65] न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ।
गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः॥
[66] कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि।
तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम्॥
[67] आर्यस्तु कामवैराग्यं करोत्यनुशयानपि।
चतुरः परिजानाति पर्यादत्तेऽपि च त्रयम्॥
[68] परिजानन्मनोधातुमारूप्येभ्यो विरज्यते।
जहात्यनुशयांस्त्रींश्च पर्यादत्ते त्रयं तथा॥
[69] परिजानन्खलु प्रीतिं तामेव प्रजहात्यसौ।
आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान्॥
[70] परिजानन्सुखं योगी प्रजहाति तदेह च।
शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु॥
[71] द्विविज्ञेयाः गुणाः पञ्च हेतुः सर्वे क्षराक्षराः।
अन्यत्र धर्मधात्वर्था(धी)च्छड्बाह्या नेन्द्रियात्मकाः॥
अभिधर्मदीपे विभाषा [प्रभायां वृत्तौ प्रथमोऽध्यायः।]