विनय सूत्रम्
Technical Details
विनय सूत्रम्
१ प्रव्रज्यावस्तु
[(i) श्रामणेरत्वोपनयम्]
॥नमः सर्वज्ञाय॥
[संग्रहार्थं बोधिसत्त्व]श्चकारासौ गुणप्रभः।
सूत्राणि विनयस्येयं वृत्तिस्तेषां निगद्यते॥
तत्रेदमादिसूत्रम् अथ निर्याणवृत्तम्॥ अथेतिशब्दोऽधिकारार्थम्। आसूत्रसंदर्भपरिसमाप्तेर्निर्याणवृत्तमधिकृतं वेदितव्यम्। प्राप्तिरत्रयानं, न गमनम्। निर्याणं याति निर्याणं निर्याति अनेनेति। तद्यथा-ग्रामं प्राप्तं इ[तिवत्। निः-सब्दोऽपुनरावर्तनख्यापनार्थम्। अपुनरावर्तकं यानं निर्याण] मिति शेषः। निरूपधिशेषनिर्वाणप्राप्तेरुक्तिः। तद्वा अपुनरावर्त्तकं यानम्?। अथ किमिति। निर्यान्ति तदिति निर्याणमिति। अनेन शब्देन सोपधिशेषनिर्वाणप्राप्तिः अत्रोक्ता इति न गम्यते। निर्याति अनेन इति वा मार्गोऽभिहित इति [चेत्], 'यस्मान्न निःशब्दो उपक्रमणार्थमागतः, [नापि पर्यन्तार्थं। एतदाश्रित्य सोपधिशेषनिर्वाणो]क्तिः॥ संसारवृत्तस्योपक्रमभूतं अतो यानं निर्याणं, पर्यन्तगमनं संसारवृत्तस्य वा इति, स च नाश्रितः। किं तर्हि अपुनरावृत्त्यर्थो निःशब्दोऽत्र अभीष्टः। तेन यदेवापुनरावर्त्तकं यानं तस्यैवानेनोक्तिः, नान्यस्य। यतश्च यां समापत्तिकक्षा[मागम्य वज्रोपमाया अनन्तरं सोपधिशेषनिर्वाणसंप्राप्तिः]॥ तत्कक्षातो यद् व्युत्थानेन कक्षान्तरे गमनं न सा न पुनरावृत्तिः। अर्हत्वादितः परिहाणिः सा अन्तर्धानमेव॥ मार्गस्य पुनः प्राप्तिरत्र यानम्, न गमनमिति॥ [तस्मात्] गमनार्थासंश्रयादपि निर्याणत्वाप्रसङ्गः॥ निर्याणगामिवृत्तं निर्याणवृत्तम्॥ वृत्तं पुनरत्रेदं धर्मकाणां [मुद्रा। यद्वृत्तं तदशेषतः विनयेन प्रोक्तं वेदितव्यम्। ततोऽत्रप्रव्र]ज्या विभङ्ग-पोषध-वर्षं- प्रवारणा-कठिन-चीवर-चर्म-भैषज्य-कर्म-प्रतिक्रिया-कालाकालसंपात-भूम्यन्तरस्थचरण-परिकर्म-कर्मभेद-चक्रभेद-अधिकरण-शयनासनवस्तु-इत्यनेनानुक्रमेण कृत्स्नस्य विनयविधेः संनिवेशनम्। यस्मात् अयमत्र अभिसंधिः-न्या[य्या एतेन विधिना प्रव्रज्योपसंपदोः उपलब्धिः। 'एतेषां च एवंविधानां] चेह संग्रहः, एवंविधाश्चात्र वर्ज्याः। इत्यस्य पूर्वं वक्तुं योगः इति आदौ प्रव्रज्यावस्तुनः संनिवेशनम्। शासने प्रविष्टस्य अनुपेते ऽत्र वृत्ते शिक्षानिः क्षेपणादिना इयं शिक्षा। इत्यतोऽनन्तरं विभङ्गस्य [संनिवेशनम्]॥
पोषधवस्त्वादीनामपि इमान्यत्र क्रम-कारणानि-परिपोषणं यथा समात्ताया शि[क्षाया काले-काले सूत्रमाश्रित्य। तस्मात् पोषधावस्तु अभिहि] तम्॥ यस्मिन् काले एकत्रावस्थानेन अर्थसंपत्तिः तदवस्थानगतौ विधिः इत्यतो वर्षवस्तु॥ नियतवासात्मके वर्षवासान्ते दृष्टादिभिः त्रिभिः स्थानैः संघं प्रवारयामीति शुद्धौ सत्यां उत्सर्गदानस्य युज्यमानता इत्यतोऽनन्तरं प्रवारणावस्तु॥ व्यूहबन्धः कश्चिदस्य वर्षावसात्मनो [नियतवास स्य प्रति-कञ्चुकभूतः विद्यते। प्रस्रब्धिविहारितार्थं अवलम्बनीयः। अस्य अनन्तरं तस्य क्रमः इति कठिनवस्तु निवेशितम्॥ पृथक्तत्र नापत्तौ चीवरविभागस्य योगः इति अपगतत्त्वेन तयोः व्यूहबन्धयो चीवरदानस्य कालः इति चीवरविधेः आश्रयणम्। चीवरप्रभेदभुतं ज्ञानं चर्मं इत्यतोनन्तरं चर्मवस्तु [निवेशितम्]॥ न विना रोगप्रतीकारेण एक(ः) पृथग्वा विहर्तु शक्यत इ[ति सहप्रत्या] सन्नाभ्यां पूर्वापरकालाभ्यां प्रथ(म)मेव चीवरदानकाले प्रायशो ग्लान्या पातस्य भावः। तद्गतोऽस्मात् प्रतिक्रियाविधियुक्तरूप इति भैषज्यवस्तु॥ उत्पन्नोत्पन्नेषु एवं विहरतां करणीयेसु अनुष्ठानविधिः, इत्यतोनन्तरं कर्मवस्तु॥ उद्वृत्तानां प्रणिधिकर्मार्हादीनां प्रणिधिकर्मकरणादिना नियमनं प्रत्यापादनं च अवसारणादिना युक्तमित्यतः प्रतिक्रियावस्तु॥ आपन्नसंघावशेषस्य च कालाकालसंपात-भूम्यन्तरस्थचरणवस्तुनोः नियमनप्रत्यापादनार्थं संनिवेशनम्। कौशाम्बक-पाण्दुलोहितक-पुद्गलपरिवासिकवस्तूनि प्रतिक्रियावस्त्वादि नामभिः उक्तानि। संज्ञान्तरनिवेशनप्रयोजनं तत्रैव क्रमे वक्ष्यामः॥ नियमनादौ अनुपतिष्ठतां परिदमनं युक्तरूपमित्यतः परिकर्मवस्तु॥ [पोषध] स्थापनवस्तुनः एतत्संज्ञान्तरं वक्ष्यमाणार्थं द्वैधगतेषु वृत्तमित्येतत्कर्मचक्रभेदवस्तुनी॥ व्यवहारगतो विधिः अतोऽनन्तरं युज्यते। इत्यस्मादधिकरणवस्तु॥ यत्रैतद् सर्वं अन्यश्च कुशलपक्षोऽनुष्ठीयते स्थाने, तद्गतोऽस्माद्विधिः युक्त इति शयनासनवस्तु निवेशितम्॥ क्षुद्रकादीनां चैतद्-प्रभेदभूतत्वात् अनतिरेक एभ्यः इति न पृथक्सूत्रणम्॥ यत्र यस्य योगः ततस्तत्रैव निवेशितम्। आचार्योपाध्याह्यानुज्ञानात् [अनन्तरं] यः प्रव्रज्योपनयविधिः तदुपदर्शनार्थमाह- (२) सर्वस्मिन् सन्निपतिते संघे कृतेदवेषं निपत्य प्रगृहीताञ्जलिं उत्कुटुकस्थं वृद्धान्ते याचितवन्तं त्रिर्ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदौ उपनयेयुः इति पुरा-कल्पः॥ मण्डलके संघैकदेशसन्निपातप्रतिषेधार्थं सर्वस्मिन् इति वचनम्॥ न मण्डलकस्थेऽपि संघै(क)देशे, किंतर्हि तदन्तसीमानिवासिनि सर्वस्मिन्॥ कृतोऽयं वेषोऽनेन इति कृतेदंवेषाः॥ अयमिति बुद्धशासनभिक्षुवेषापदेशः। अपनीतकेशश्मश्रुं भिक्षुवेषं च प्रावृत्रिचीवरं इत्यर्थः। निपत्य इति वृद्धान्त इति यद्वक्ष्यते, तस्य चाभिसंबन्धः। वृद्धान्ते निपत्य पञ्चमण्डलकेन वन्दनां कृत्वा इत्यर्थः॥ प्रगृहीताञ्जलिमिति कृताञ्जलिम्॥ उत्कुटुकस्थमिति उत्कुटुकिकयाऽवस्थितम्। नासनोपविष्टम्। क्वावस्थितमित्याह वृद्धान्ते॥ ननू निषण्णस्य उत्कुटुकिकया वृद्धान्ते प्रगृहीताञ्जलित्वं इत्येतत्संघाधीने कर्मणि-परिभाषायां सर्वकर्माधिकारिकं सूत्रितम्। तत एव इहापि कर्मत्वात् अस्य त्रितयस्य प्राप्तौ सत्यां किमिति पुनर्वचनम्-'वर्तमानकल्पाधिकारिकत्वात् प्रगृहीताञ्जलि' मित्यादेः परिभाषातो अस्त्यस्येह पुराकल्पे सिद्धिरितिवचनम्॥ याचितवन्तमिति किम्। प्रव्रज्योपसंपदौ। याचनं पुनः-"शृणोतु, भदन्ताः संघो, अहमेवं-नामा आकाङ्क्षामिस्वाख्याते धर्मविनये प्रव्रज्योपसंपदं भिक्षुभावम्" इति विस्तरः॥ अनेन मन्त्रेण त्रिर्याचितवन्तं ज्ञप्तिचतुर्थेन कर्मणा इति तिस्रो वाचना ज्ञप्तिचतुर्था यस्मिन् कर्मणि तद् ज्ञप्तिचतुर्थं कर्म, तेन॥ सहप्रव्रज्योपसंपदौ इति प्रव्रज्योपसंपच्च समानकालं, न क्रमेणेति॥ उपनयेयुरिति संघभूता भिक्षवः॥ तथा च मन्त्रः"शृणोतु, भदन्ताः संघो, अयमेवं-नामा आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं यावत् प्राव्राजित उपसंपादित एवं-नामा संघेनेति"॥ इति पुराकल्पः॥ इति-शब्दः प्रकारवाची॥ पुराकल्प इति वर्तमानकल्पात् प्राक् एवं-प्रकारः प्रव्रज्योपसंपद्विधिरित्यर्थः॥ अथ किमिति वर्तमानकल्प एव भगवता न प्राक्प्रज्ञप्तः, किं ना पुराकल्पत्यागेन अस्य विधेः पुनः प्रज्ञपनम्? [इति चेत्], विशुद्धसत्त्वा हि ते तदानीं प्रतिपत्तारः। तेषां न क्रमेण विनियम्यत्वं, न परावष्टंभेन परिशिक्षणं वा। [न] ग्लान्यमेषां, कृतपुण्यत्वात् असत् न संपद्यते-'संपन्ने वा भवन्त्येषां स्वयमेवानुकम्पकाः। आन्तरायिकधर्माणां तदानीं अनापत्तेः। तथाऽपसर्तॄणां इत्यतः पुराकल्पप्रज्ञपनम्। यदा त्वन्यविधा अप्येते जाताः तदोत्तरस्य संप्रत्तं नैव कश्चिदुपयोगः। किमनेनेहोपनिबद्धेन? यद्यप्यनेन कल्पेना[धुना]ऽव्यवहारः, तथापि नास्त्यस्योत्तरादन्यत्वं, परिकरमात्रकं तदस्य यदुत्तरत्र विशेषः। तत्रेदं मन्त्रतन्त्रम्। एतावन्मात्रकमेवासीत्, द्विकमेवैतदासी(त्)। विनयवशादस्य अपरस्यात्रविधेः व्यवस्था-[न]-मित्यास्यार्थस्य ख्यापनार्थं अस्योपनिबन्धः। एवं सप्रयोजनः पुराकल्प उपदर्शितः॥
वर्तमानकल्प इदानी[मुच्यते]-(३) निश्रितस्य कंचिद्भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसंपदौ॥ कंचिद्भिक्षुमिति। नावश्यं, यन्निश्रित्य प्रव्रज्या तमेवोपसंपदिति प्रदर्शनार्थं कंचित्-इति वचनम्। 'कथं निश्रित्य' आह उपाध्यायतया। 'किमर्थ निश्रितस्य' इत्याह तत्र इति। प्रव्रज्योपसंपदपेक्षं। निमित्तसप्तमी चैषा। प्रव्रज्योपसंपन्निमित्तं उपाध्यायत्वेन कंचिद्भिक्षुं निश्रितस्य प्रव्रज्योपसंपदौ भवतः, न यथा पुराकल्पे कंचिदनिश्रितस्यैवेति॥ प्रव्रज्या पुनरत्र यत्तस्यां अर्हवृत्तं श्रामणेरसंवरः, तेनानुसक्ता वेदितव्याः। प्र[व्र]ज्या श्रामणेरसंवरश्च उभयमप्येनं निश्रितस्य। विशेषः पुनरत्र उपाध्यायादेव प्रव्रज्या, संवरः पुनरन्यत इति। निश्रितस्य निश्रयपरिग्रहे विधिमाह-(४) पृष्ट्वा आन्तरायिकं परिशुद्धाय पूर्वो [पाध्यायत्वेना वका]शं कुर्यात्। प्रव्रज्याया यदान्तरायकरं मातृवधादि तदान्तरायिकमत्र अभिप्रेतम्। अतोऽसौ निश्रयः प्रव्रज्यापेक्षमान्तरायिकं पृष्त्वा, न सन्ति चेत् अस्य ते धर्माः ततः परिशुद्धायास्मै पूर्वोपाध्यायत्वेन श्रामणेरोपाध्यायत्वेन अवकाशं कुर्यात्-'अहं भदन्तं प्रव्राजयामि' इति। तथा च ग्रन्थः-"यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति, स तेनान्तरायिकान् धर्मान् पृष्ट उद्गृहीतव्य" इति। संवराणां आनुपूर्व्यं दर्शयन्नाह-(५) नानुपपन्नस्य पूर्वं उपासकत्व-श्रावणेरत्व-भिक्षुत्वानामुत्तरम्। एषामुपासकत्वादीनां पूर्वं-पूर्वं पर्वानुपपन्नस्य तादात्म्योपगत्या अनुपगतस्य उत्तरं उत्तरं पर्व न कार्यम्। व्यवस्थाख्यानमेतद्॥ पृष्ट्वा आन्तरायिकान् प्रव्रज्यापेक्षं आदावुपासकत्वं ग्राहयेत्, ततः श्रामणेरत्वं, ततो भिक्षुत्वं भवति इत्यस्य बोधनार्थं। न त्वेतदर्थं पूर्वस्मिन्नसमात्तेन भवत्युत्तरस्य रूढिरिति॥ भिक्षुसंवरस्य पूर्वं संवरान्तरेणापि रूढौ मुख्यमस्त्येव [मूल]-वचनम्। श्रामणेरसंवरस्तु उपासकसंवरं विभवति इति रूढिः। भिक्षुसंवरः प्रतिशरनं न त्वस्ति[इति] वचनम्। शरणगमणपूर्वकं संवरादानमिति दर्शयन्नाह-(६) शर[ण]गत्यभ्युपग-[मवच]नोपक्रमं उपासकत्व-श्रामणेरत्वाभ्युपगमवचनं कुर्वीत॥ गतिर्गमनम्। शरणगमनस्याभ्युपगमः शरणगत्यभ्युपगमः- बुद्धं शरणं गच्छामीत्यादि। तदभिधायकं वचनं शरणगत्यभ्युपगमवचनम्, तद्वचनम्। उपक्रम आरम्भः। उपासकत्व-श्रामणेरत्वाभ्युपगमवचनं कुर्वीत॥ कोऽसौ? प्रतीपत्ता, अयमर्थः। एवं समादात्रा वक्तव्यम्-"सामन्वाहर भदन्त अहं एवं-नामा बुद्धं शरणं गच्छामि यावत् गणानामग्र्यम्, उपासकं मां भदन्तो धारयतु यावज्जीवम्, समन्वाहर भदन्त अहमेवं-नामा बुद्धं यावत् गणानामग्र्यं। श्रामणेरं मां आचार्यो धारयतु॥" एवं भूतावेव संदर्भौ त्रिः आवर्तयितव्यौ॥ ये[न]तु के[न]चिच्छरणगमनं आदौ त्रिरावर्त्य ततः पश्चादुपासकं मां भदन्तो धारयतु, श्रामणेरं मामाचार्य इत्यभिधीयते, सोऽसौ वेदयितव्यः॥ -यस्मादनयोः संवरसमादानवचसोः, एवं सति, शरणगमनोक्तिः नैव अङ्गभावं प्रतिपद्यते। किञ्च येन प्रागेव शरणगमनमात्रं [अभ्युपगम्यते] तस्य संवरादानकाले शरणगमनस्यावचनीयतापत्तिः॥ अवश्यं चैतद् निर्वाणाशयप्ररूपणार्थं अस्मिन्काले वक्तव्यम्। एवम् ह्येतद् संवरसमादानवचसोः अङ्गं भूतं भवति, नान्यथा। न च निर्वाणाशय-दार्ढ्यमन्तरेण संवरस्योत्थानम्॥ यस्मात् निर्वाणानुगुण्यः संवरः, उपसंपदस्तर्हि शरणगमनवचनमन्तरेण कथं रूढिः? नैष दोषः। उपसंपच्छब्दादेव तदर्थसिद्धेः। सर्वाकरनीयविरतिलक्षणत्वात्, सर्वात्मना हि निर्वाणोपगतिः उपसंपद्। यतः उपसंपदि स्थितः निर्वाणानुगुण्यो व्यवस्थितो भवति॥ कुर्वीत इत्यात्मनेपदं प्रतिपत्त्या एतत् करनीयं इत्येतत्संदर्शनार्थम्। यदत्रपरोऽभिधत्ते शिक्षणं तदिति मन्तव्यं, न दानग्रहणम्, उपोषधेऽपि प्रतिपत्तुरेवैतत्करणीयं इति मन्तव्यम्। यत्ते दानग्रहणधर्मः तत्र इति केचिद् वर्णयन्ति शिक्षणादेव। भ्रान्तिरसौ तेषामिति ज्ञेयम्, तुल्यत्वात्समादानस्य॥ (७) अनन्तरमस्य शिक्षोत्कीर्त्तनं [अभ्युपगमरूपेण] इति॥ अस्य इति उपासकत्व-श्रामणेरत्वाभ्युपगमवचनस्यानन्तरं उपासक-श्रामणेरकशिक्षायाः तच्छिक्षापदानां यथायोगमुत्कीर्तनम्। पूर्वत्र पञ्चानां, उत्तरत्र दशानाम्, केन प्रकारेण इत्याह-अभ्युपगमरूपेण। इतश्च इतश्च प्रतिविरमामि इति, नो तु इदं चेदं च रक्ष्यं यत्त्वया समात्तम् इति॥ (८) स्वयं उपासकतां उपनीय, आरोचकाय संघस्य अर्पयेत् भिक्षवे॥ स्वयमिति प्रकृतत्वात् उपाध्यायः, स हि तत्प्रव्राजने कृतावकाशः। स स्वयमेवोपासकतामुपनीय उपासकसंवरं दत्त्वा। यस्तं प्रव्रज्यापेक्षं संघस्य आरोचयते, तस्मै समर्पयेत भिक्षवे-'आरोचयैन'मिति। भिक्षुसंबन्धादस्येति-कर्तव्यताजातस्य। स्वार्थमेवैतदुपाध्यायस्येति प्रदर्शनार्थमात्मनेपदम्॥ [ज्ञप्त्यादि]-कर्मात्मकत्वादस्य अनुपसंपन्नेनापि संघे प्रव्रज्यापेक्षस्य आरोचनं न विरुध्यत इत्यस्य विकल्पस्य व्युदासार्थं भिक्षवे इति वचनम्। तथा च ग्रन्थः-ततः पश्चात् भिक्षुरध्येषितव्यः-योऽस्यारोचयते इति॥ आरोचकोऽपि (९) 'कच्चित्परिशुद्ध' इति समर्पितारमुपाध्यायं पृष्त्वा, शुद्धं सन्तं प्रव्रज्यापेक्षं आरोचये [त्]- "श्रुणोतु भदन्ताः, संघो समन्वाह्रीयत्ं-अयमेवं - नामा प्रव्रज्यापेक्षो गृहीतावदातवसनः" इत्यादिना मन्त्रेणारोचयेदिति यत्परस्मैपदं तद् परव्यापारेणास्य प्रवृत्तेरस्वार्थत्वात्। न हि अत्र यथा उपाध्याये पुत्र इव प्रवृत्तेः स्वार्थत्वमेवास्य॥ कथं अवस्थिते संघे आरोचयेदित्याह-(१०) सर्वसन्निपाते वा [सन्निषण्णेऽ] नुलयने वा॥ अनुपरिगणिकया इत्यस्येदं विवरणं अनुलयनमिति। परिगणो हि लयनविशेषः॥ येषां संनिधौ आरोच्यते तेषां यो विधिः तद्दर्शयन्नाह-(११) स चेत्परिशुद्ध इति सर्वे ब्रू युः॥ स चेत् यदीर्यर्थः। आरोचनोत्तरकालं प्रव्रज्यापेक्षः॥ (१२) उपाध्यायं याचेत याञ्चामन्त्रेण। उपाध्यायश्चास्य(१३) केश श्मश्रूनव-[तारयेताचूडम्]॥ उपाध्यायत्वेन अधिष्ठापयन् नापितकार्य-संदर्शनार्थं अवतारयेत इति आत्मनेपदम्। न तु एवं मन्तव्यं उपाढ्यायेनैवैतद् स्वयं कर्तव्यमिति। न पारंपर्येण कारितमकारितं मन्तव्यं, अर्थार्थत्वात्प्रवृत्तेः। तस्मात् संपन्नेऽर्थे प्रवृत्तिलोपः। तत्र अप्रतीक्ष्योपाध्यायोपयोगं केशश्मश्रु-अवतारने अन्येन संपादिते न पुनरुपाध्याये-नात्र प्रवर्तितव्यमिति मन्तव्यम्॥ आचूडमिति चूडातोऽन्यत्। दढिकापनयेऽपि न तथा वैरूप्यबुद्धिर्यथा स्यात्। तस्मान्निश्चितोऽयं न वा इति प्रश्नेन विज्ञानार्थमस्य स्थापनम्-(१४) अवतार्यतां चूडेति पृष्टेनानुज्ञाते, तम्॥ अवतार्यतां चूडा इति पृष्टेन सता प्रव्राज्येन यद्यनुज्ञातं भवति, ततोऽनुज्ञाते तेन चूडावतरणे तां चूडां अवतार[येदि]त्यनुवर्तते। एवम[व]तारि तकेशश्मश्रुः (१५) स्नायात्॥ कालानुरूपेणाम्भसा। स्नानोत्तरकालं च (१६) उपाध्यायः काषा[या]णि वस्त्राणि दद्यात्॥ सोऽप्युपाध्यायस्य (१७) पादयोः निपत्य प्रतिगृह्णीत॥ ततः स्वयं तस्य (१८) उपाध्यायः प्रावृणुयात्। प्रावृण्वंश्च षाण्ढ-पण्डक-अव्यञ्जन-उभयव्यञ्जनत्वदोषपरिहारार्थं(१९) व्यञ्जनं प्रत्यवेक्षेत असंचेतितम्॥ न च विनग्नं कृत्वा, अपि तु असंचेतितं-यथाऽसौ न [जा]नी ते 'दृष्टं मेऽनेन व्यञ्जन'मिति। अभ्युपगमादुपाध्यायस्यैतत्कर्म। अन्येनाऽपि भिक्षुणा प्रत्ययितेन कृतमागमितम्। कृतमित्येव उपाध्यायेनेति मन्तव्यम्॥ (२०) प्रव्रज्यामुपनयेत् शरणगमनोपक्रमम्॥ 'अहं एवं-नामा बुद्धं यावद् गणानामग्र्यं, तं भगवन्तं शाक्यमुनिं 'यावत्प्रव्रज्यालिङ्गं समाददे' इत्यनेन म[न्त्रेणोपाध्याय]ः शरणगमनप्रारम्भं प्रव्रज्यामुपनयेत्, न विना शरणगमनेनादिभूतेन इत्यर्थः। नान्वयं संवर ? इति। कोऽस्यां श[र]णगमनोपक्रमत्वेनार्थ इति केचिदाहुः। तदसम्यक्। यस्मात् प्रव्रज्या नाम निवेशनपरित्यागः, सर्वं च सास्त्रवं वस्तु, अभिरतस्य तत्र निवेशनं, तस्मात् संसारवैमुख्यं निवेशनपरित्यागस्य कार्त्स्न्यम्। न च निर्वाणा पाश्रयेण संसारवैमुख्यस्य संपत्तिः। तस्मात्, संवरवत् अत्रापि निर्वाणाशयप्ररूपणं कर्तव्यम् इत्यत्रापि शरणगमनोपक्रमम्। केचित् प्रव्रज्योपनयनमन्त्रे 'प्रव्रज्यालिङ्गं समाददे' इत्यतः पुरस्तात् 'श्रामणेरं मां उपाध्यायो धारयतु' इति पठन्ति' तदयुक्तम्। प्ररूढस्य पुनः प्ररोहाभावतः, समात्तस्य च समादान [अनुपपत्तेः], आचार्येण मन्त्रे चास्य पठितव्येऽनुपपत्तिः। श्रामणेरत्वोपनयनमन्त्रे प्रव्रज्योपगतिरपि तैः पठ्यते-'तं भगवन्तं शाक्यमुनिं यावत्-प्रव्रज्यालिङ्गं समाददे। अर्थहेतोः उपाध्यायस्य नाम गृह्णामि। एवं नाम्नोपाध्यायेन श्रामणेरं मामाचार्यो धारयतु' इति। समात्तस्य च समादानानुपपत्तेः अयुक्तम्॥ (२१) याञ्चानन्तरं वा। इति प्रव्रज्या[मुपन]-येत इति वर्तते। वा शब्दो मतविकल्पार्थः। केषांचित्पाठः-'उपाध्याययाञ्चानन्तरमेव अनवतारितकेशश्मश्रुः प्रव्राजयितव्य, इति। अयमभिप्रायः तेसां-यथा श्रामणेरत्वं एवं केशावतारणादिकमपि प्रव्रजितस्यैव वृत्तमिति। त[त] एव पाठविकल्पस्योपनिबन्धः। एवं प्रव्रज्योपाध्यायः तं-(२२) श्रामणेरत्वोपनायिने अर्पयेत् भिक्षवे। योऽस्य श्रामणेरत्वमुपनयति, श्रामणेरत्वमुपनेतुं शीलमस्येति शामणेरत्वोपनायी। यदस्य शामणेरसंवरोपनेतुः उपनयनाभिज्ञानं प्रति चेतसः प्रगुणत्वं ए(त)दत्र तच्छील्येन आश्रितं वे(दि)तव्यम्। यस्योपनयनार्थं अर्प्यते।सौ-(२३)'कश्चित् परिशुद्ध' इति पृष्ट्वा शुद्धमुपनयेत्॥ (२४) स आचार्य इति॥ य एष श्रामणेरत्वोपनायी स आचार्यो द्रष्टव्यः॥ (२५) रहोनुशासक-कर्मकारक-निश्रयदायक-पाठकाश्च। आचार्या इति। समुच्चयार्थः च-शब्दः॥ कियतैषां आचार्यत्वानां जातत्वमित्याह-(२६) वृत्तेऽर्थे भूतत्वम्। इत्याह-येनार्थेन मन्त्रव्यवस्था, तद्यथा-श्रामणेरत्वोपनयनेन अर्थेन श्रामणेराचार्यत्वे वृत्ते तस्मिन्नवसिते अर्थे, आचार्यत्वादेः भूतत्वम्-जातता। तस्मात् वृत्तेषूपनयनादिषु एषां आचार्यत्वानां जातत्वं वेदितव्यम्। किमुपाध्यायत्वस्यापि येनार्थेन असौ उपाध्यायः तस्मिन्नवसितेऽर्थे जातत्वमित्याह-(२७) अभुपगतावुपाध्यायस्य याञ्चायां तदुद्भूतिः॥ याञ्चाकाले उपाध्यायस्य यऽभ्युपगतिः तस्यां उपाध्यायत्वस्य उद्भूतिः। न प्रव्रज्योपनयने उपसंपन्नलक्षणस्य वा आवृत्तेऽर्थे। येनर्थेन वृत्तेनैषां [आचार्यत्वोपा] ध्यायत्वानां जन्म, तस्यार्थस्य कदा वृत्तता इत्याह-(२८) आवृत्तौ तृतीयेऽङ्गे अन्त्यायां वृत्तत्वम्॥ यत्रावर्त्ती सोऽर्थो, यदंशं आचार्यत्वादीनां वृत्तत्वं सा आवृत्तिः। तस्यां अर्थस्य वृत्तत्व। तिस्रश्च ताश्चावृत्तयः। तत्र न ज्ञायते क[त]रस्यामावृत्तौ आवृत्तेर्वा कतमस्मिन्नंश इति। तत्र इदमुच्यते-तत्र अन्त्यायां पश्चिमा[याम्। तदावृत्ति] स्तस्याः तृतीयो योंऽशः, तस्मिन् तस्यार्थस्य [वृत्तत्वं] मन्तव्यम्॥ उदाहरणेन एनमर्थं प्रज्ञपयति- (२९) तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य॥ परस्य पुनेतुः उत्कीर्तनकाले। श्रामणेरं च ममित्यतः परस्तात् 'आचार्य' इति यत्परोत्कीर्तनं, तत्र श्रामणेरत्वकारके यः उपनेतुः अर्थः श्रामणेरसंवरो नाम, तस्य वृत्त[त्वं मन्तव्यं, आ-] चार्यो धारयतु इत्यत्र मन्तव्यम्, न भदन्तो धारयतु इति॥ (३०) पश्चिमेऽत्र उपाध्यायत्वस्य इति। वृत्तत्वं इति वर्तते॥ अत्रेति परोत्कीर्तनकाले बहूपाध्याययाचने 'समन्वाहर' इति शब्दात् भिक्षुसंबंधोत्कीर्तनात्पराणि उपाध्यायोत्कीर्तनानि। तत्र यत्तृतीयोत्कीर्तनं उपाध्यायेन प्रव्रजिष्यामि उपसंपत्स्ये वा इति, अतः पूर्वं यः [तस्मिन्काले] उपाध्यायार्थः तस्य अम्युपगम[स्य] आत्मनो वृत्तत्वम्। तस्मिन्नेव काले प्रव्रज्यायामुपाध्यायेन इति वक्तव्यम्। उपसंपदि च। यदि पूर्वमेव नोपाध्यायो भवति, नाचार्येण वा, भदन्तेन वा इति। अप्रच्छेदतः चात्र तृतीयोंऽशो वेदितव्यः, नाक्षरपरिमाणतः। एवं हि उपाध्याययाचने त्रयः प्रच्छेदाः भवन्ति- 'अहं एवं-नामा भदन्तमुपाध्यायं याचे'। '[भदन्तो]मे उपाध्यायो भवतु'। 'भदन्तेनोपाध्यायेन प्रव्रजिष्य, उपसंपत्स्ये वा' इति॥ श्रामणेरत्वोपगतौ तु प्रबंधप्रच्छेदौ-शरणगमनं श्रामणेरत्वाभ्युपगमश्च। तत्र पश्चिमं प्रच्छेदं अवान्तरार्थानुगत्या श्रामणेरं मामिति, आचार्यो धारयतु इति द्विधा कृत्वा त्रित्वमध्यवसितम्। कस्मात्पुनः असमाप्तायामेव आबृत्तौ तृतीयेऽङ्गत्वस्य वृत्तत्वं भवति, यद्भूयः कृतं इति कृत्वा सर्वेष्वेव चायं सीमाबन्धादिषु विधिर्द्रष्टव्यः। तदेवं रहोऽनुशासकस्य अपर्यवसितायां रहस्यनुशिष्टौ आचार्यत्वं श्रामणेरत्वोपनायिनोऽत्र काले कर्मकारकस्य एवंविधमिति कृतम्॥ निश्रयदायकपाथकयोः कदा इति न ज्ञायते। अनवस्थितत्वात् निश्रयदानपाठकयोः परिमाणस्य॥ तत्र यावता अनयोः आचार्यता-कृ[त] त्वं तदाख्यायते-(३१) पर्यन्तो निःश्रयदानस्यैकरात्रं निश्रयत्वेन प्रत्युपस्थानम्। एकरात्रः एकोऽहोरात्रः, एकरात्रम्। निश्रयाचार्यस्य निश्रितं प्रति निश्रयत्वेन यत्प्रत्युपस्थानमेव [पर्यन्तत्वं], निश्रयदानस्य पर्यन्तः। तथा च ग्रंथः -'निश्रयाचार्यः कतमः,यस्यान्तिके एकामपि रात्रिं निश्रयेणोषितो भवति' इति। अतः प्रभृति अस्य परिपूर्णरूपत्वं, अर्वाक् तत्स्पृष्टिमात्रकं अगतपर्यन्तं अकृतत्वेन मनसि निलीयमानं न निश्रयसंख्यां गन्तुमर्हति॥ (३२) पाठस्य त्रिरेकगाथा-परिवर्तनम्॥ यस्यान्तिकात् पठनाभिप्रायेण त्रिरेकागाथा परिवर्तिता स पाठाचार्यः। एवं हि पाठस्य पर्यन्तः। तथा च ग्रंथः -'पाठाचार्यः कतमः? यस्यान्तिकात् आवृत्तस्य द्विकाऽपि गाथा त्रिः परिवर्त्यं उद्गृहीता भवति' इति। तद् [य]मत्र आर्षग्रन्थाभिप्रायो लक्ष्यते॥ पाठाचार्येण उक्तस्य पठितुः अनुवदनमुद्ग्रहः। सकृदुक्तौ च स्पृष्टिमात्रकं अपरिपूर्णरूपं पठनं मनसि निलीयते। त्रिःप्रभृति तु गतपर्यन्त इव प्रबन्धोऽवलक्ष्यते। तस्मात् एष न्याय्यः पाठपर्यन्तः इति॥ आचार्यो रत्नसिंहस्तु आह-पाठपर्यन्ताः एवं-विधा एव, यद्दर्शनाट् तेनेदं सूत्रं प्रणीतम्॥ एवं तु युज्यते, यस्माद् यदसौ ग्रन्थं अनपेक्ष्य सूत्रयति॥ तत्रोपपत्तिमाचष्टे, इदं तु युक्तिमन्तरेण सूत्रमात्रमेवोपनिबद्धम्, तस्य नियमेनात्र क्वचिदेवंरूपेण आर्षेण भवितव्यमिति॥ (३३) नाऽपठनाभिप्रायेण उच्चारणे पाठत्वम्। अपठनाभि[प्रायेण]यदुच्चारणं। तद्यथा, स्वाध्यायनिकादौ पाठ एवासौ न भवति। अभ्यसनाभिप्रायेण उच्चारणे अस्य व्यवहारस्य प्रसिद्धत्वात्। तस्मात् नातः आचार्यत्वस्योत्थानम्॥(३४) नान्यथा एनौ उपपदयेत्॥ एनौ आचार्योपाध्यायौ। उपो[च्चारि]पदं उपपदम्। आयुष्मन्तभदन्त-स्थविरोपपदैः नोपपदयितव्यौ। निरुपपदनामग्रहणं तु अनयोः ['वृद्धस्य निरुपपदं नांअ न गृह्णीयात् इत्यनेनैव प्रतिषिद्धं वेदितव्यम्॥ आचार्यः 'आचार्य' एव वक्तव्यः। उपाध्यायश्च 'उपाध्याय' इति॥ (३५) नैवमन्यमिति॥ आचार्योपाध्यायाभ्यामन्यः पुद्गलः उपाध्यायाचार्यशब्दाभ्यां नोपपदयितव्यः॥ (३६) नानुक्त्वा सहितं अर्थहेतोः नाम गृहणामि इत्युपाध्यायनाम गृह्णीयात्॥ सहितमिति उपाध्यायनामग्रहणेन। अर्थहेतोः नाम गृह्णामीत्यनेन वाक्येन सहितं उपाध्यायनाम गृह्णीयात्, नैतत्पदं अनुक्त्वा इत्यर्थः॥ तच्चास्मिन् समनन्तरसहितकरं, यत्र वचने विरतोऽयं प्रवृत्तेः इति बुद्धिः॥ श्रामणेरत्वोपनयविधिः॥
(ii) उपसंपद्विधिः
(३७) संघादुपसंपत्॥ न यथा प्रव्रज्याश्रामणेरत्वोपगमश्च पुद्गलात्, अपि तु संघादुपसंपत्॥ (३८) उपाध्यायतायां उन्मुखीभूतः कर्मकारकं अधीच्छेत् रहोनुशासकं च भिक्षुम्॥ उपाध्यायतायां उन्मुखीभूत इति उपसंपदुपाध्यायत्वेन प्रत्य्पस्थितः। अधीच्छेत् इति अध्येषेत्। रहोनुशासकञ्चेति अधीच्छेत्। भिक्षुमिति रहोनुशासकार्थं भिक्षुग्रहणं, न कर्मकारकार्थम्। कर्मपरिभाषायां यः कर्मविधिरुक्तः तत एव तस्य भिक्षुत्वसिद्धेः॥ (३९) उपाध्यायं याचेत। इति उपसंपाद्यः [संघ] -मध्ये॥ (४०) स स्वयमेनं त्रिचीवरमधिष्ठापयेत्॥ स इति उपाध्यायः॥ स्वयमिति नाऽत्र उच्छ्वासकल्पो मुण्डनादाविव अस्य, स्वयमेतत्कर्तव्यमित्यर्थः। एनमिति उपसंपाद्यम्। सति संभवे, [अधिष्ठापयेत्] छिन्नस्यूतम्, असति अन्यदिति चीवरवस्तुनः प्रतिपत्तव्यम्॥ वेषार्थत्वा अधिष्ठान्, अधिष्ठानानन्तरं एषां प्रावरणमिति मन्तव्यम्॥ (४१) पात्रं चोपदर्श्य मोनं अधिकं पाण्डरे (रं) वेति संघे॥ उपदर्श्य इति संघे इत्यनेनास्य संबन्धः॥ किमर्थमुपदर्शनमित्याह-मोनमधिक पाण्ड[रं]वेति एतद्दोषपरिहारार्थ, एवंविधस्य अधि[ष्ठा]नमन्याय्यम्। उपदर्श्य संघे अधिष्ठापयेत् इत्यनुवर्तते॥ (४२) सुपात्रमिति अनेवंत्वे ब्रू युः सर्वे॥ इति यथासंनिपतिता भिक्षवः। एवं-भावः एवंत्वम्। [तदूनत्वा]-दिदोषोपेतत्वम्। नैवं-त्वं अनैवं-त्वं, एतद्दोषविमुक्तत्वं इत्यर्थः॥ (४३) अपक्रमिते, क इति आख्याप्य रहोनुशासकं उत्साह्य कर्मकारकः संघ एनमनुज्ञापयेत्॥ अपक्रमित इति मण्डलकस्थानादन्यत्र अपनीतोपसंपाद्ये, रहोनुशासकगतस्य कर्मणो न श्रवण, अत्र अपकासनार्थः, नाऽन्यो दृश्यते। तस्मात् यत्र स्थितस्यास्य एतच्छ्रवणं न गच्छति, तत्र इति कर्मविधेः गन्तव्यम्। पुरस्ताद् वक्ष्यते-दर्शनोपविचारे एनं अपकासनेन स्थापयेयुः गणाभिमुखं प्रगृहीताञ्जलिमिति। क इति आख्याप्येति कोऽधीष्टः एवं-नाम्ना एवं-नाम्ना रहोनुशासकः इत्यनेन मन्त्रेण 'अहमेवं-नामा' इत्याख्याप्य रहोनुशासकम्। उत्साह्य इति त्वमेव रहोनुशासकः, उत्सहसे त्वं इत्या दिना एनमिति रहोनुशासकं अनुज्ञापयेत् इति। एतदर्थं कर्मकारकः ज्ञप्तिं कुर्यात्॥ केचित् एतद्गते मन्त्रे यत् संघस्य एवं-नामानं रहोनुशासकं संमन्येत इति पठन्ति तद् अयुक्तम्, कर्मवाचनायाः अपि कर्तव्यताऽपत्तेः, अकारणाच्चास्याः। नैषा संमतिरनुज्ञपनमेतद्, इति व्यवस्था। तद् यदेवं-नामा रहोनुशासकः एवं-नामानं रहसि अनुशिष्यादित्यत्र [अभ्यनुज्ञायां युक्तं, तदनु] ज्ञपनं एवं सूत्रितं, न संमतिः॥ (४४) श्रुणु त्वमिति रहसि अनुशिष्यात्॥ रहोनुशासक इति सामर्थ्यात् गन्तव्यम्॥ श्रुणु त्वमायुष्मन्, अयं ते सत्यकालः इत्यादेः मन्त्रस्य शृणु त्वमित्यनेन पदेन् उल्लिङ्गनम्। तिष्ठ, मा।शब्दितः आगमिष्यसि इत्येनमुक्त्वा इति समनुशिष्टे॥ (४५) समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य॥ इति व्यवस्था॥ श्रुणोतु भदन्तः संघोऽय मनुशिष्तो मया एवं-नामेत्यादिना मन्त्रेण। किमागच्छतु इति आगमणं पृच्छेत्॥ इति संघः॥ (४६) स चेत् परिशुद्ध इति सर्वे ब्रूयुः॥ इति उपसंपादक-भिक्षवः॥ केचिदत्र पूर्वत्र च प्रव्रज्यार्थमारोचनावचने प्रतिवचनं अधीयते-सर्वसंघेन वक्तव्यं स चेत् परिशुद्ध इति। तेन वक्तव्यं परिशुद्ध इति-तदनुपपन्नम्। वक्तुरे[तद्भारारो]पणं, रहोनुशासकेन प्रथममेवाख्यातत्वात्॥ (४७) उपसंपदं कर्मकारको याचयेत्॥ उप[संप]त्प्रेक्षो॥ (४८) अनुज्ञापयित्वा संघं आन्तरायिकं पृच्छेत्॥ आन्तरायिकपरिप्रश्नार्थ ज्ञप्तिं कृत्वा। श्रुणु त्वं आयुष्मन्, अयं ते सत्यकालः, अयं ते ब्नूतकाल इत्यादिना मन्त्रेण आन्तरायिकपरिप्रश्नः॥ (४९) उपसंपदमुपनयेत्॥ ज्ञप्तिचतुर्थेन कर्मणा॥ [अवसरार्थ कर्म]कारकः॥ (५०) छायां वेदयेत अनन्तरं मितामिति। उपसंपदुपनयनान्तरं छायामुपसंपन्नाय वेदयेतेत्यर्थः। अनन्तरं अविलम्बितम्। कथं वेदयेत इत्याह-मितां सशेषकार्यस्य आसनभङ्गायोगात् कर्मकारकादन्येन अस्य मानस्य योगः। तत्पुनः मानमस्य पदादीनां केन इत्याह-(५१) शंकुनां चतुर [ङ्गुलेन एत] त्साधु॥ एतदिति मानं चिरत्वाभावाय चतुरङ्गुलेन मानं शोभनम्॥ (५२) पुरुषत्वेन अस्यानुव्यवहारः॥ साधु इति वर्तते। अस्येति चतुरङ्गुलस्य शंकोः, यावन्तः शङ्कवः तावत् पौरुषीच्छाया वक्तव्या इत्यर्थः॥ (५३) अहोरात्रांशं पूर्वाहणादिकं। वेदयेत इत्यनुवर्तते। पूर्वाहणो मध्याहन् इत्यादि ग्रन्थोत्तम्॥ (५४) समयं च [पञ्चैते॥ वेदये]- त। पञ्चैते इति समयाः (५५) हैमन्तिको, ग्रिष्मिको, वार्षिको, मितवार्षिको, दीर्घवार्षिकः इति॥ परिमाणमेषामुच्यते-(५६) चातुर्मासिकौ पूर्वौ। हैमन्तिको ग्रीष्मिकश्च॥ (५७) मासं परं। इति वार्षिकः॥ (५८) ततो अहोरात्रह् इति। ततो वार्षिकात्परो मितवार्षिकः एको अहोरात्रः॥ (५९) तदूनं अन्त्यो मासत्रयम् इति। तेनै केन अहोरात्रेण ऊनं मासत्रयं, अन्त्यः समयो दीर्घवार्षिकः॥ समयवेदनान्तरं उपसंपन्नमात्राय कर्मकारको -(६०) निःश्रयानारोचयेत्॥ पांसुकूलादयस्ते चत्वारः॥ (६१) पतनीयान् धर्मान्। पाराजिकान्॥ (६२) श्रमणकारकांश्च। आक्रुष्टेनन प्रत्याक्रोष्टव्यमित्यादिकान् आरोचयेदिति वर्तते॥ (६३)संपन्नतां सम्यक्तया च प्रेप्सितस्य उद्ग्राह्य शील सामान्यगतताऽऽरागणे नियुञ्जीत॥ प्रकर्षेणेप्सितं प्रेप्सितं अभिप्रेतम्। यस्ते भूतपूर्व आशासकः 'कच्चिदहं लभेय' इत्यादि इदमस्याभिलषितम्। तस्य संपन्नतामुद्ग्राह्य सत्त्वं,एतर्हि प्रव्रजित-उपसम्पन्नेत्यादिना। सम्यक्ता पुनः सम्पन्नतायाः प्रतिरूपेणोपाध्यायेन इत्यादिना अभिहिता। संपन्नतामुद्ग्राह्य किं कर्त्तव्यम् इत्याह-शील सामान्य गतता-आरागणे नियुञ्जीत॥ यत्र वर्षशतोपसंपन्नेन इत्यादिना शीलेन सामान्यगतता शीलसामान्यगतता। तस्या आरागणं आराधनम्॥ (६४) पात्रिकसंबन्ध-प्रतिबिम्बने नियुञ्जीत। इति सर्वत्र अधिकृतं वेदितव्यम्॥ पात्रिकसंबन्धो मातापितृसम्बन्धः, तस्य प्रतिबिम्बनं-अद्याग्रेण ते उपाध्यायस्य मातृपितृ-संज्ञेत्यादिना। एवं ते सोऽभ्यस्तो गृहिसंबंधः प्रतिबिम्बयितव्यः इति॥ (६५) विनीत-संवासतायाम्। अद्याग्रेण ते सगौरवेण इत्यादिना॥ (६६) प्रयोजनानुष्ठाने॥ अद्याग्रेण ते उद्देष्टव्यमित्यादिना। (६७) संपत्यस्यमानतां असमाख्यातां समात्तपरिज्ञानस्य आचक्षीत॥ इमानि च इमानि ते मया औदारिकौदारिकौ [इत्ये] -वमादिना, संप्रति अनाख्यातस्य समात्तस्य वृत्तस्य परिज्ञामेव संपत्स्यते इति॥ (६८) आदरे नियुञ्जीत॥ 'एषत्वमुपसंपन्न' इति गाथाभ्यां 'प्रास्तदिकस्य' इति अनया क्षणसम्पदो दौर्लभ्यं दर्शयति, यस्मात् असत्स्वपि अन्येषु अक्षणेषु, लब्धेऽपि प्राप्येऽनुकम्पकैः दृष्टि संपन्ने च मनुष्यत्वे बहवोऽत्र अपरिशुद्धिसंख्या अन्तराया [वैरू] प्यं च। तस्मात् दुर्लभा एषा॥ (६९) सोपायाख्यानं च संपादने॥ सहोपायाख्यानेन सोपायाख्यानम्, यदर्थं प्रव्रज्योपसंपत् तत्संपादने नियुञ्जीत-उपसंपन्नस्त्वं आयुष्मन् अप्रमादेन संपादय इत्यनेन। तद्यथा अनुप्राप्तस्त्वं एतत्स्थानं, अभिरतिरिदानीमत्र कर्तव्या इति। सामीच्याम् आदौ त्रिःकरणं संघसंघटितायां अनुशिष्टौ च निष[ण्णस्यो] त्कुटुकिकया पुरतः इष्टके पार्ष्णिभ्यां रहोनुशिष्टौ उपसंपदि स्थितस्य पात्रं वामे पाणौ प्रतिष्थाप्य, प्रतिच्छाद्य दक्षिणेन पाणिना इत्यादेः कर्मवस्तुनि वक्ष्यमाणत्वात् इह अनुपनिबन्धः॥ उपसंपद् विधिः॥
(iii) निश्रयगतम्
(७०) नानवलोक्य निश्रयम् निश्रितकरणीयं कुर्यात्॥ अपृच्छनं अनवलोकनम्, अपृष्त्वा न किञ्चित्कुर्यादित्यर्थः॥ करणीयेषु अवलोकनप्रसक्तस्य किंञ्चित्करणीयस्य अपृष्त्वाऽपि करणमुक्तं भगवता, इत्याह-(७१) मुक्त्वा उच्चारप्रस्रावं दन्तकाष्ठविसर्जनं सोपविचारविहारचैत्याभिवन्दनम्॥ यद् अन्तर्व्यापारसंख्येन कण्डनादिना व्यापारेण अभिव्याप्यते तच्चैत्याङ्गनम्, सोऽत्रोपविचारो युज्यते। सह उपविचारेण सोपविचारः, तत्र चैत्यं, तस्याभिवंदनम्॥ (७२) एकान्नपञ्चाशत्-व्यामपर्यन्ताद्विहारतो गमनम्॥ मुक्त्वा इत्यनुबन्धः। एकान्न[पञ्चाशत्] इति 'आट'-सन्धिः एकान्नपञ्चाशत्-व्यामस्य पर्यन्ताद्यावत् इत्यर्थः॥ यत्र विहारे खातको वा प्राकारो वा अन्यो वा परिवारो विद्यते, तत्र स विहारान्त इति अध्यवसानं युज्यते। अनेकप्राकारादि-सद्भावे सर्वबाह्यः। तस्मात् तत्र तस्य बाह्यपार्श्वमस्य प्रमाणस्यावधिः। यस्तु[नोप]-विचारः तत्र विहारभित्तिरेवावधिः। यदत्र परतः पूर्वोक्तस्योपविचारस्य स्थानं, न तद्गतं चैत्यं अभिवन्दितव्यम्, इत्यत्रोपतिष्ठते॥ परिसर्पणभूतस्य एतदनुज्ञानम्॥ अन्यच्च, अतः चैत्याभिवन्दनमिति तत्र किं प्रतिपत्तव्यम्?-तदर्थ न गन्तव्यम् अनापृष्ट्वा। परिसर्पणार्थं तु गतेन वन्दितव्यमिति॥ द्विविधमेतत्करणीयम्-[आरम्भ]-भुतं अभिनमनभूतं च। तत्र यदारम्भभूतं तस्यैव प्रतिषेधः, अभिनमनभूतस्य तु अप्रतिषेध्यत्वं व्यवतिष्ठते॥ नानापृच्छ्य आलपितव्यं, न संलपितव्यं, न प्रतिसंमोदितव्यं, न प्रतिवचनं दातव्यं, नोदकदिग्धेन पाणिना धर्मितेन पादौ वा मुखं वा हृदयादिकं वा अनुपरिमार्ष्टव्यं, नोदकेन हस्तादेः [परिमार्जनं(?) रजोवकीर्ण]-वस्रादि प्रस्फोटयितव्यं इत्यादेः इति हासपदभूतस्य वृत्तस्य आपत्तेः॥ उपानह-दन्तकाष्ठ-पाठः स्वाध्यायोपसंहाराणां करणप्रतीष्टोः तज्जाटीयस्य भिक्षोरन्तिकादिति विशेषपरिग्रहात् अभिप्रेतमत्र अभिनमनभूतं इति गम्यते। दुष्टोऽत्र प्रव्रजितो ज्ञातः शंकितो वा अनापृष्टो [अपरित्यक्त] व्यो(?), नान्यः। न हि पठति, स्वाध्यायं वा कुर्वति, उपसंहारस्य तदनुरूपे काले करणं इत्यादेः करणयीत्वेन प्रज्ञानम्। अभिनमनप्रकारत्वेन ह्येतस्य मनसि निलयनम्। दुष्टे तु विपक्षानुगतित्वेन एतत्प्रतिभासामाणं आरम्भत्वेन ख्यातिमुपगच्छति। तस्मात् यत्र यत्नः कर्तव्य इत्यत्राभिप्रायो दृश्यते॥ उदकपानस्य अनापृच्छाकरणं अनेन प्रविचारेण कृतं वेदितव्यम्॥ तद्विधं ह्येतद् यद्विधं धर्मितस्य गात्राणामुदकेन संस्पर्शनम्॥ निश्रितवृत्तं उच्यते-(७३) पात्रचीवरकर्मणि, ग्लानोपस्थाने, कौकृत्यप्रतिविनोदने, पापकदृष्टिगतप्रतिनिःसर्गे तीव्रं औत्सुक्यमापद्येत-अहो बत अहं कुर्याम् कारयेयं वा इति॥ रङ्गकर्म अपि अत्र केचित् पठन्ति। तस्य चीवरकर्मणो नातिरेकात् ग्रहणम्॥ (७४) संघे प्रणिधातुकामे-उत्क्षेपणीयादि-प्रणिधिकर्म कर्तुकामे संघे अहो बत संघो निश्रयस्येदं प्रणिधिकर्म न कुर्यात्॥ इति तीव्रमौत्सुक्यमापद्यते, निवर्तते-यावत् आवृहेत् इति सर्वत्रैतदनुषक्तं वेदितव्यम्॥ (७५) कृते अवसारयेत्॥ इति प्रणिधिकर्मणि कृते-अहो बत संघोऽस्य अवसारयेत् इति॥ (७६) परिवा [स]-मूलपरिवासमानाप्य-मूलमानाप्य-आबर्हणार्थिनि निश्रये अहो ब्रत संघो अस्य अप्रिवासादिचतुष्कं दद्यात्, आबर्हणार्थिनि अहो बत आबृहेत् इति॥ (७७) सोऽप्येतदस्मै कुर्यात्, उत्सृज्यावलोकनम्॥ सोऽपि निश्रयः। एतद् पात्रचीवरकर्मादि। अस्मै निश्रिताय कुर्यात्। उत्सृज्यावलोकनं अवलोकनमेकं मुक्त्वा॥ (७८) नोनदशव [षः उपसंपदः उ]-पाध्यायत्व-निःश्रयत्व-अनिश्रितवासान् कुर्यात्॥ उपसंपदाय ऊनदशवर्षः स एतत् त्रयं न कुर्यात्॥ (७९) अनून-दशवर्षोऽपि उपसंपदा, नासमन्वितिः केनचिदनन्तरेभ्यः समायोगेन॥ येऽनन्तरं वक्ष्यमाणाः पञ्चाङ्गिकाः समायोगाः तेभ्यः येन केनचित् एकेनाऽपि समन्वितो योग्यो[नाऽन्य इ]ति भावः।एवञ्च यदुक्तं अपरैरपि पञ्चभिर्धर्मैः समन्वागतेन इत्यत्र न समुच्चयो विज्ञातव्यः एभिः इमैश्च अपरैरिति। अपि तु एभिः तावत्कर्तव्यं इत्युक्तम्, इमैरपि अपरैः इति विकल्पः॥ कुत एतद्?। असंभवात् सर्वासामासां पञ्चिकानां साक्ष्यस्य॥ आद्यायां तु पञ्चिकायां दशवर्ष[त्वाङ्ग] उक्ते दशवर्षो भवत्युपसंपदेति। तदेभिः दशवर्षग्रहणं आदौ सर्वस्य उत्तरस्य एष विषायपरिग्रह इति ख्यापनार्थम्। स्थितार्थत्वं विनये, दशवर्षत्वे सति उपाध्याकरणादौ कारणं। विशेषभूतत्वां शेषस्य तत्राऽस्ति चेत् सविशेषत्वं उत्तमकल्पः। न चेत् एतन्मात्रकमपि अत्रावलम्बि[तव्यम्। यथा] शैक्षत्वादेः विशेषस्य लङ्घ्यत्वम् एवमस्यापि दशवर्षत्वे सति विनये स्थितार्थत्वस्येति। ते इदानीं समायोगां उच्यन्ते। (८०) ग्लानोपस्थान-कौकृत्यप्रतिविनोदन-पापकदृष्टिगतप्रतिनिःसर्ग-अनभिरतिष्ठानप्रमीलनानां करणकारणे सामर्थ्यम्॥ कौकृत्यप्रतिविनोदनकरणसामर्थ्यग्रहणेन [विनये स्थितार्थ-] त्वस्य प्रतिपादनम्। दृष्टिगतप्रतिनिःसर्गग्रहणेन धर्मस्थितौ कुशलत्वस्य। अनभिरतिस्थितिप्रमीलनग्रहणेन अपयुज्यत्वस्य आदेयवाक्यत्वस्य वा॥ नाऽत्र कारणग्रहणेन अशक्तेनाऽपि करणं कृतं मन्तव्यम्। अपि तु विनेयवशात् गम्यत्वे सति, परप्रवर्तनायां व्यापारगमने सामर्थ्यस्य उपगृहीतत्वम्। एवञ्च अत्र भवति अनतिलङ्घ्यस्य कारणस्य विनये स्थितार्थत्वस्य अलङ्घनम्॥ (८१) प्राक्शैक्षत्वात् अपञ्चके स-शीलवत्ता बाहुश्रुत्यम्॥ शैक्षत्वं अशैक्षता इत्यतः प्राक् यत्सहोक्तं पञ्चकं न भवति, तद्यथा-श्रद्धाशीलादिसमायोगाभ्यामन्ये समायोगाः तद् शीलवत्तयाऽपि बाहुश्रुत्येन च सहितं वेदितव्यम्। सह शीलवत्ता-बाहुश्रुत्याभ्यां शीलवत्ता-बाहुश्रुत्यं पञ्चकम्। शीलवत्त अत्र दुःशीलेन सार्धं संवासस्यैव अयोगात् प्रतिविशिष्टा, यथा कल्याणोऽयम् इति मन्यन्ते [सा]ऽस्य वेदितव्या॥ बाहुश्रुत्यं पुनः यस्मिन् समायोगे पिटकानां ग्रहणं विद्यते, तत्र तद्विपक्षभूतानां परप्रवादानां, वस्तु-पद-वाक्याद्यङ्गानां, छन्दोविचित्यादेः, इतिहासवृत्तकानां वा अभिज्ञत्वं यत्र न विद्यते तत्र पिटकानां ग्रहणं बोद्धव्यम्॥ (८२)पिटकाभिज्ञत्वम्॥ सूत्र-विनय-मातृकाभिज्ञत्वं, शीलवत्ता बाहुश्रुत्यं च प्रक्षिप्य पञ्चकम्। विनये उक्तम्-'सूत्रधरो, विनयधरो, मातृकाधरः; सूत्रव्यक्तो, विनयस्य व्यक्तो, मातृकायाः व्यक्तः, सूत्रकुशलो, विनयकुशलो, मातृकाकुशलः, सूत्रकोविदो, विन[य]कोविदो, मातृकाकोविदः' इति। तत्र उद्गृहीतस्या विस्मृतिः सूत्रादिधारणम्, पिटकत्रये चेदम्॥ एकत्र गतस्य इतरत्रदर्शनात् सांकर्येण अवस्थितम्। तथावस्थितस्यास्य विवेकेन परिच्छेदसामर्थ्यं इदं कौशलम्। युक्त्यागमाभ्यां सूत्रादियोजनं कोविदत्वम्॥ तथा योजितेन यत्परप्रतिपादनसामर्थ्यम् एतद् व्यक्तत्वम्॥ सहाविस्मृत्या सर्वमेतद् अभिज्ञत्वमिति सामान्येन अभिज्ञावचनेनोक्तम्॥ (८३) ग्राहेण एषां प्रतिबलत्वम्॥ पिटकानां नानभिज्ञः तेषु तद्-ग्राहणे प्रतिबलो भवति, तस्मात् विशेषस्यैतद् पिटकाभिज्ञवचनं वेदितव्यम्॥ (८४) अधिशीलचित्तप्रज्ञा शिक्षत्ता॥ शिक्षद्भावः शिक्षत्ता, द्वंद्वैकवद्भावः॥ अधिशीलग्रहणेन सर्वस्य विनयवृत्तस्य ग्रहणम्, अधिचित्तग्रहणेन[ध्यानानाम्], अधिप्रज्ञग्रहणेन सत्यदर्शनाभ्यासस्य॥ (८५) प्रतिबलत्वं वा शिक्षणायाम्॥ अधिशीलादाविति संप्रत्ययोत्पादनार्थं वा-शब्दः कृतः, न विकल्पार्थम्। नाशिक्षितः अधिशीलादौ तच्छिक्षणे प्रतिबलो भवति। विशेषस्यैव एतद् 'शिक्षा' इति वचनं इति वेदितव्यम्॥ (८६) एवं अध्याचारविनयं प्रातिमोक्षम्, इति। एवं इति अनेन शिक्षत्ता, प्रतिबलत्वं वा शिक्षणायां इत्यस्य परामर्शः॥ ततश्च द्वावेतौ समायोगौ भवतः। तत्र अध्याचारः आसमुदाचारिकम्, विनयः शेषभूतम्। प्रातिमोक्षशिक्षणाः वस्तुविधयश्च सपरिकराः प्रातिमोक्षः तदाख्यः। तत्र पर्यापन्नानि शिक्षापदानि॥ (८७) श्रद्धा-शील-श्रुत-त्याग-प्रज्ञासंपन्नत्वम्॥ शीलग्रहणेनात्र विनयस्य ग्रहणम्॥ (८८) शील-समाधि-प्रज्ञा-विमुक्ति-तज्ज्ञान दर्शनैः॥ संपन्नत्वमित्यनुबन्धः। शीलसंपन्नग्रहणेन अत्र विनयख्याक्षिप्तत्वं, नान्यथा, भिक्षोशील-संपत्तेः संभवः इति। तज्ज्ञाने इति तच्छब्देन विमुक्तेः परामर्शः, विभुक्तिज्ञानदर्शनमिति॥ (८९) सारब्धवीर्यत्वप्राज्ञत्वं च॥ प्राक्शैक्षत्वाच्छीलवत्ताबाहुश्रुत्यं इत्यस्य च-शब्दात्प्रत्युपस्थानम्। इत ऊर्ध्वं प्राक्शैक्षत्वात् यत्सहोक्तं पञ्चकं न भवति तदारब्धं-वीर्यत्वप्राज्ञत्वाभ्यां च सहोक्तं वेदितव्यम्। शीलवत्ताबाहुश्रुत्याभ्यां च त्रीण्यत्र एककान्युक्तानि-(९०-९२) स्मृतिमत्वम्॥ प्रतिसंलीनत्वम्॥ समाहितत्वम्। इति॥ तेषां एतच्चतुष्क-पूरणम्-शीलवान् भवति बहुश्रुतः, आरब्धवीर्यः, प्राज्ञः, स्मृतिमान्। पुनरेतच्चतुष्कमुक्त्वा प्रतिसंलीनश्च भवतीति वक्तव्यम्। पुनः समाहित इति॥ (९३) शैक्षत्वमिति। शैक्षेण शीलस्कन्धेन समन्वागतो भवति। शैक्षेण समाधि-प्रज्ञा-विमुक्ति-विमुक्तेः ज्ञानदर्शनस्कन्देन इत्यस्य एषा संग्रहः॥ (९४) अशैक्षता इति॥ अशैक्षेण शीलस्कन्धेन इत्यादेः यद् अनयोः धर्मता-विनियतं वृत्तं तत्र यत्साध्वसाधुतापरिज्ञानं, तद् तावत् अनयोः आधिगमिकमेव। यदापत्तिव्यवस्थापरिज्ञानं [यच्च शिष्टस्य] विनयविधेः, तत्राप्येतौ दशवर्षादित्वात् स्वातन्त्र्ये व्यवस्थितौ नियतं कृतप्रयत्नौ इति न अत्र अनतिलङ्ध्यकारणा[द्] अतिलंघनं कृतं वेदितव्यम्॥ (९५) उत्पत्ति-प्रज्ञप्ति-अनुप्रज्ञप्तिः-प्रतिक्षेप-अभ्यनुज्ञा-भिज्ञत्वम्॥ अत एतद् उत्पन्नमिति शिक्षपदोत्पत्तिनिदाने अस्योत्पत्तिशब्देना-भिधानम्। शिक्षापदव्यवस्थापनं प्रज्ञप्तिः। प्रज्ञप्तिग्रःअणेन इयता अन्तिके च स्थूलात्ययो देशयितव्यः इत्यादेः ग्रहणम्। इदमत्र पुनः प्रतिक्षिप्तं अभ्यनुज्ञातं चेति अनुप्रज्ञप्तिः। तद्यथा-उपानदभ्यनुज्ञानेन सणसणापत्तिः इत्यादेः विशेषस्य प्रतिषेधः। अकालभोजनप्रतिक्षेपे च ग्लानस्य वैद्यवचनादभ्यनुज्ञानम्। अत्यन्तमिदं न कर्तव्यमिति हि विधानं प्रतिक्षेपः। तद्यथा-तृणाग्रेणापि मद्यस्यापानं अब्रह्मचर्यादि च। अभ्यनुज्ञा पुनः यस्य करणीयस्य अकरणे वा नाऽस्ति दोषः कामचारोऽत्र प्रवृत्तौ। तद्यथा-परवादिनिग्रहार्थं बहिःशास्त्राणि अध्येयानीत्यादि। अत्र अकरणे करणे [च] न कश्चिदापत्तिदोषः। एतावच्च करणीयाकरणीयपरिज्ञानं प्रतिविनये शेयम्। तदे तद् अविनयाभिज्ञत्वं अधिकं पञ्चकेन ख्यापितं वेदितव्यं, आपत्त्यादिपञ्चकेन च॥
(९६) आन्तरायिक-अनान्तरायिकाभिज्ञत्वं आख्यापिताऽनशासकत्वं (च)॥ आत्नरायिक-अनान्तरायिक-अभिज्ञत्वं च आख्यापिता च अनुशासकत्वं चेति विग्रहः। अकरणीयं यद्विनये तद् आन्तरायिकं, करणीयं यत्तद् अनान्तरायिकं, तयोः अभिज्ञ-त्वं विनये स्थितार्थत्वस्य एतद्-द्वयं उद्भावकम्। आख्यापिता पुनः वक्तुं बोधयितुं वा अस्यैतद्-द्वयस्य कौशलभूतं सामर्थ्यं अनालस्यं वा। अनुशासकत्वं व्यातिक्रमे संस्थापनानुरूपं वक्तृत्वं, आलस्ये च अवर्तनानुरूपं आचक्षको भवति, अनुशासक इत्यस्यै[व] पाठस्यार्थ उक्तः॥ केचिदनयोः स्थाने 'अववदति ' 'अनुशास्ति' इति पठन्ति। तत्र अनुशास्ति इति तुल्यं अनुशासको भवतीति-अनेन। अववदतीति मनसिकारार्थं य उपदेशः तस्यानेन अभिधानम्॥ एतदर्थं प्रव्रज्या। तस्मादेषोऽत्र विशेषतो अर्हति, पर्षत्संग्रहं इति वा अस्योपसंग्रहः॥ (९७) सह ग्रहणप्रतिबलत्वेन निश्रयस्योपनिश्रयस्य वा॥ ग्राहणे प्रतिबलत्वं ग्राहण अतिबलत्वं, सह अनेन ग्राहणप्रतिबलत्वेनैत दान्तरायिकाऽभिज्ञत्वादिपञ्चकम्। द्वावेतौ समायोगौ, एको निश्रयगतं अत्र चतुष्के प्रक्षिप्य, अपरः उपनिश्रयगतं इति प्रतिपादनार्थं वा शब्दः। उपाध्याये अन्यत्र प्रक्रामति, निश्रयग्राहणे प्रतिबलत्वमुपयुज्यते। उपाध्याये अन्यत्र वा निश्रये तावत्कालिकाभिप्रायेण प्रक्रामति तिष्ठति च कस्यचि ज्जनस्य वशात् उपनिश्रयग्राहणे (प्रतिबलत्वं) उपयुज्यते॥ (९८) आपत्ति-अनापत्ति-गुरुलघुताभिज्ञत्व-प्रवृत्तप्रातिमोक्षविस्तरत्वम्॥ तत्र आपत्यनापत्ति-अभिज्ञत्वस्य करणीय(-अकरणीय-) विनियोगे निश्रित-प्रत्युपयोगः, गुरुलघुताभिज्ञत्वस्य स्थूलात्ययदेशनायाम्। प्रवृत्तप्रातिमोक्षविस्तरत्वेन विनये अधिष्ठितार्थत्वं दर्शितम्। [त]च्चानेन विस्तरशब्देन विनयस्य गृहीतत्वम्। न च मन्तव्यः प्रातिमोक्षविस्तरशब्दो न बिभङ्गात्-शिष्टस्य वस्तुक्षुद्रकादेः प्रतिपादकः इति। सर्वस्यास्य प्रातिमोक्षविस्तरभूतत्वात्। सर्वस्य आद्यादपि प्रातिमोक्षादुत्थानम्। 'यः पुनः भिक्षु-भिक्शुणीभिः सार्धं' इत्यतः प्रव्रज्यावस्तुनः (उत्थानम्)। 'पोषधं आयुष्मन्त' इति [पोषधव] स्तुनः, 'पोषधविशेषः प्रवारणा ऊनवर्षकाः" इति वार्षिकवस्तुनः। अतव प्रवारणावस्तुनो वर्षावासाभिसंबंधेन व्यवस्थापनात्। 'उद्धृते कठिन" इति कठिनवस्तुनः, "निष्ठितचीवरेण भिक्षुणा" इति चीवरवस्तुनः। 'चीवरपक्षं चर्म-भैषज्यपक्षं चेति' तदुत्थानकारणादेव चर्मवस्तुनः, 'यानि तानि भगवता ग्लाना[नां भिक्षूणां भैषज्यानि अम्यनुज्ञातानि' इति भैषज्यवस्तुनः। 'अनागतानां आयुष्मतां च छन्दं च परिशुद्धिं च आरोचयत, मा समग्रस्य संघस्य भेदय पराक्रमत' इत्यादेः सौशाम्बिकवस्तुनः संघभेदवस्तुनश्च। अतश्च प्रव्रज्यादिकर्म-संसूचकात् अलाभश्च, इहापि तेनेत्यादेश्च कर्मवस्तुनः। संक्रामं तेन भिक्षुणा संघे परिवस्तव्यम् इति [आदिना पाण्डुलोहितवस्तुनः। अकामत्वेन कर्मादिना परिवासवस्तुनः॥ यद् आपत्तिव्यवस्थानस्य पश्चात् करणदेशना संघावशेषप्रतिदेशना च,त् अस्मात् पोषधस्थापनवस्तुनः। 'भिक्षूणां महाविहार' इत्यनेन शयनासनवस्तुनः। अधिकरणसामर्थ्यप्रदर्शनार्थ अपि आपत्तिपोषधव्यवस्थापनात् अधिकरणवस्तुनः। वचणाङ्गभूतं तज्जातीय-अन्यच्छीला (चारो इति) द्विविधत्वेन प्रातिमोक्षः वस्तूनां शेषश्च। क्षुद्रकाणां मातृकागतवस्तूनां च उक्तिः इत्यादीनां निर्देशः पृच्छा। चर्यानिर्देशस्तु पृच्छा-विनीतकरणानि। चर्मवस्त्वादयः दारकेषु। तथाहि एतदनवशिष्टं प्रातिमोक्षविस्तरत्वं न भवति। विभङ्गमात्रेण प्रवृत्ते प्रव्रज्यादिकरणं न भवति, एवं करणीयत्वेष्वपि एतन्मात्रप्रदर्शनत्वात्॥ (९९) वृद्धाभावे नवकं निश्रयेत्॥ यदि वृद्धः येन केनाऽपि प्रतिरूपकेन पञ्चकेन समन्वागतः न स्यात्, तदाऽयं विधिः-भदन्तः भिक्षुः उपसंपदः ऊनषष्तिवर्षः, अनेन प्रातिमोक्षसूत्रं विस्तरेण उद्गृह्य पठित्वा (धारितं) न भवति तेन, अन्यत्र प्रक्रमितं वा तेन, उपालि, अन्यनिश्रयेण भवितव्यम् इति उक्तम्। अत्र षष्टिवर्षः अस्वतंत्रः (=निश्रितः) अपि बाहुश्रुत्यस्य विशेषाभावात् 'वृधाभावे' इत्यादि उक्तम्। (१००) सामीचिं केवलं स्थापयित्वा। इत्यस्मिन् वन्दना न शीलव्रते पर्यांपन्ना, अन्यत्र बृद्धस्य निश्रितेन नवकेन (सह) अनुसंवासयितव्यः इत्यभिप्रायः॥ (१०१) चरेत् अनिश्रितः पञ्चवर्षः पश्चिमसमायोगेन समन्वितः जनपदचारिकाम्॥ आपत्ति अनापत्ति-इत्यादिः पश्चिमसमायोगः, तेन च समन्वितः पञ्चवर्षः अनिश्रितः जनपदचारिकां चरेत्॥ (१०२) नान्यथा त्रैविद्योऽपि॥ पञ्चधर्मैः समन्वागतः, ऊनपञ्चवर्षोऽपि, यतो मार्गात् विनयभ्रष्टोऽपि ततो पञ्चवर्षशीलभाव-समायोगात् दुःखविपरिणतो भवति। अपरिपूर्णवर्षो न भवति इत्यत्र अभिसंधिः दृष्टः। 'त्रैविद्यौऽपि' इति। निश्रये निश्रितार्थं करणीयाकरनीयपरिज्ञानं द्विविधं च परिविनीतम्। तत्र यद्यपि अस्य धर्मता अभिज्ञानत्वात्, पूर्वनिवासज्ञानत्वेन प्रवृत्ति-दर्शनत्वात्, दुष्कर-अल्पसंवित्प्रतिसेवनया आगतसंपदा च करणीयाकरणीयेसु परिज्ञानं सिद्धं भवति। एवं परिविनेयार्थं निश्रयं निश्रयेत्। यदर्थेंन दुःखव्यवहारविनयत्वे पूर्वात्म-सहितभावस्य स्वभावपरिहारात्। अर्हतां पूर्वस्वभावपरिहारः श्रूयते। कश्चिदर्हन् पूजाक्षेत्रः, पूजाक्षेत्रेभ्यः संतीर्णः, आयुष्मान् पिलिन्दवत्सः च गङ्गादेव्यै 'वृषली'र्ति चोदितवान् इत्यादि। अन्यच्च, विनयपरिज्ञानं कथमपि न कृतं भवति, दुष्करत्वात्। स्थूलकुमार्योः सार्धं एकभूमौ अनवस्थानवत् उद्यमेषु च अन्तरायबाहुल्यात्। यतः प्रकरणमिदं विविधं भवति॥] (यदुत) चेत् भदन्त त्रैविद्यः त्रिवर्ष-त्रिमलप्रहीणः, स च पञ्चभिर्धर्मैः समन्वागतः [न] स्यात्, तेनाऽपि अनिश्रितेन जनपदचारिका चरितव्या? नोपालिन् इत्युक्तम्॥ रक्ष्यं चानेन विनयगतं, दूरेण दूरं अपसारयतु एनं परिहृततासंपत्त्यर्थम्। यदध्याचारात् परेषां अप्रसादः स्यात् तत्परिहारार्थम्। शिक्षसु कृतार्थोऽपि अत्रादरवान्, गौरवोत्पादनार्थम्। [शास] नस्थित्यर्थं च प्रसिद्धताद्यतिक्रमो गच्छति। केनचिदतिक्रमे सति इति ध्वंसोऽन्यथा शासनस्य संपद्यते। तस्मात्, यथैव अन्यस्य अत्र अननुज्ञानं तथैव त्रिविद्यस्य॥ निश्रयगतम्॥
(iv) संग्राह्यगतम्
(१०३) माऽसि तीर्थ्यः इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च॥ पृच्छेत् इत्युपाध्यायः। पृच्छेयुः इति परिणातस्य उपसं[पादका इ-] त्यनेन संबंधः। उपसंपादकैरेव स प्रश्नः यो रहोनुशासकेन, तन्नियुक्तत्वात्तस्य॥ (१०४) न-अनाराधितचित्तं, उत्सृज्य शाक्यं आग्नेयं च जटिलं, तीर्थ्यं प्रव्राजयेयुः उपसंपादयेयुर्वा॥ शाक्याग्नेयजात्योः नूनं किञ्चिदाशयसभाग्यं लक्षितम्-'नियतं अनयोः प्रतिपत्तौ सत्यां भा[वतः प्रति-]पत्तिः न कृतकेन " इति॥ यतः एतदनुज्ञातमिति प्रतिपत्तव्यम्-यच्च उक्तं-'ददाम्यहं ज्ञातीनां ज्ञातिपरिहारमि'ति, तत्र ज्ञातित्वं अननुपश्यतां एषां भवतः प्रतिपत्तिः भविष्यतीति भगवताऽबबुद्धम्, ततो ज्ञातिनिमित्तं-परिहारो दत्त इति उक्तमिति। आग्नेयोऽत्र प्रवृत्तः अग्निपरिचरणकर्मणि भावतः, तदाशय [-परिशुद्धौ वर्त-] मानो गृहीत इति वेदितव्यम्, तद्भूतस्य आशयविपत्तेः असंभाव्यत्वात्॥ कृत् एतद् तीर्थ्य-अनाराधितादि-तीर्थ्यान्त-वर्जं[न]म् इति शब्दात् पूर्वतीर्थ्यशब्दं वर्जयित्वा, 'अनाराधितचित्तं' उत्सृज्य 'शाक्यं आग्नेयं च जटिलं तीर्थ्यं' इत्येतच्च अनाराधितशब्दादि-तीर्थ्यशब्दान्तं वर्जयित्वा यदेतद् 'माऽसि' इत्याद्यु[क्तं त-] त्कृत्-संज्ञं वेदितव्यम्। यत्र 'कृत्' इत्युच्यतेतत्र 'माऽसि' इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपर्संपादकाश्च न प्रव्राजयेयुः उपसंपादयेयुर्वा' इति उच्चारितं प्रतिपत्तव्यम्॥ कृत्-प्रदेशा इति उर्ध्वं अत्रैव प्रव्रज्यावस्तुनि क्षुद्रकेषु च एतद्गतेसु। कियता तीर्थ्यः आराधितचित्तो वक्तव्यः इति निर्ज्ञानार्थं आह-(१०५) रत्नानां वर्णस्य तीर्थ्यानामवर्णस्य भुतस्य उक्तौ अकुप्यत्वं आराधितचित्तता॥ न कुप्यतीति अकुप्यम्, अकुप्यद्भावोऽकुप्यत्वम्॥ (१०६) तदर्थ अतद्वन्तमेनं कृतोपासकतान्तं चतुरो मासान् परिवासयेत् संघो दत्वा [परिवासं कर्मणा॥ 'तदर्थमिति' आराधितचित्ततार्थं, तच्च अतद्वन्तं इति अन्(?) आराधितचित्तवन्तम्। 'तद्' इति तीर्थ्यम्। कृतोपासकतान्तं इति उपासकतान्तविधिं कृत्वा उपासकतान्तः। एवं तत्र ज्ञप्तिचतुर्थेन कर्मणा संघः चतुरो मासान् परिवासं दत्त्वा परिवासयेत्॥ परिवासदानो (१०७) संघात् तस्य भक्तम्॥ (१०८) उपाध्यायात् चीवरम्॥ (१०९) कर्तृत्वं कर्मादानस्य (११०) परिपूर्ण] पञ्चदशवर्षोऽसि इति प्रव्रज्यार्थ उपसंक्रान्तं पृच्छेत्॥ उपाध्यायः॥ (१११)नोनं असमर्थं काकोड्डायने, समर्थ वा सप्तवर्षं प्रव्राजये-युः॥ द्वावेतौ न प्रव्राज्यौ-असमर्थश्च पञ्चदशवर्षत्वादूनः समर्थश्च सप्तवर्षत्वात्। न प्रव्राजयेयुः इति बहुवचनं किमर्थम्। आरोचकेन अयं अशुद्ध इति ज्ञात्वा न आरोचयितव्यम्, संघे[न] न अनुज्ञातव्यम्, श्रामणेरत्वोपनायिना श्रामणेरत्वं नोपनेतव्यम् इति उपसंग्रहार्थम्॥ (११२) न एकत ऊर्ध्वै श्रमणोद्देशमुपस्थापयेत्॥ द्वितीयश्रमणोद्देशानुपस्थापने द्वितीयस्याप्रव्राजनमपि आपन्नं तदपवादार्थम् आह-(११३) अरुचिश्चेत् अनकध्यं प्रव्रज्यायां, प्रव्रज्यातिरिक्तं उपसंपादयेत्॥ द्वयोः प्रव्रज्यार्थं एकत्र आवाभ्यां प्रव्रजितव्यम्-इत्येवं निश्चित्य आगतयोः यदि अनैकध्यं पृथक्प्रव्रज्यायां अरुचिः, ततः उभौ प्रव्राज्य एकस्मादतिरिच्यमानः उपसंपाद्यः॥ (११४) ऊनश्चेत् अन्यस्म उपनिश्रित्यर्थं अर्पयेत्॥ विंशतिवर्षत्वाद्यदि ऊनः ततो अन्यस्मै भिक्षवे उपनिश्रयार्थं अर्पयितव्यः॥ यस्य उपनिश्रयार्थं अर्पितः-(११५) नासौ तमाच्छिन्द्यात्॥ येन अर्पितः स एनं (११६) उपसंपादयेत्। अप्रयच्छतो बलात् अनादाय॥ यतः कल्पार्थं परस्य उपनिश्रयेण दानं, न समर्पितकतया, तस्मात् अ[ना]च्छेदः॥ (११७) कृत् दासः॥ कृदित्यनया संज्ञया 'माऽसि" इत्यादेः संज्ञिनो दासे संबन्धिनः प्र्त्युपस्थनम्। अतोऽस्मिन् संज्ञानिदशे योऽतिरिक्तोऽङ्गीक्रियते, स यथार्थं परिणतोऽपियथास्थानंसंनिविशते।वाक्यंचेदमत्रज्ञायते। 'माऽसि दास' इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न दासं प्रव्राजयेयु[रुपसंपा] दयेयुः वा इति॥ (११८) व्यसिस्ते कस्यचित्किंविद्देयं अल्पं वा प्रभूतं वा॥ विगतासिर्व्यसिः। असिशब्दवर्जितः कृत् वाच्यः इत्यर्थः। 'असि' इत्यस्यचस्थाने 'ते' इति वक्तव्यम्, ततश्च इदं वाक्यम्-"मा ते कस्यचित्किंचिद्देयं अल्पं वा प्रभूतं वा" इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न ऋणवन्तं प्रव्राजये[युरुप] संपादयेयुश्च इति मन्त्रात्। अत्र शक्ष्यामि प्रव्रज्योपसंपदं वा आदातुं इति प्रतिजानानं मुक्त्वा, न ऋणवन्तं इति विशेषः प्रतिपत्तव्यः॥ (११९) जीवत्पितृकं अननुज्ञातं ताभ्यां अदूरदेशं प्रव्रज्यापेक्षं सप्ताहं धारयेत्। जीवतः पितरौ यस्यासौ जिवत्पितृकः, ताभ्यामिति मातापितृभ्याम्। ताभ्यां शब्दाच्च मातापित्रोरत्र पितृ-शब्दः इति॥ (१२०) नानारोचितं दूरदेशमपि एनं संघे प्रव्राजयेत्॥ एनमिति जीवत्पितृकं अनुज्ञातम्। ताभ्यां आजीवत्पितृकस्य तु अनुज्ञातस्य वा मातापितृभ्यां अनारोचनमपि निर्दोषमिति प्रतिपत्तव्यम्। तथा वाऽजीवात्पितृके पृच्छापाठः-यस्य तावत् भदन्त मातापितरौ कालगतौ भवतः तिर्यग्योनिगतौ वा त(स्य केशावरो-] पणाय सर्वसंघोऽवलोकयितव्यः,'नो हीदं उपालिन्' इति। दूरदेशग्रहणं किमर्थं कृतम्। यतो अन्यतमया गृहपतिपत्न्या पुत्रः प्रव्रजितः आगत्योक्तः-'त्वं एषां शाक्यपुत्रीयाणां चौराणां मध्ये कस्मात् प्रव्रजितः, एहि गच्चावः", तयाऽसौगृहीत्वा गृहं नीतः। तदेवं चौर्येण समुदाचारोऽत्र आदीनवः, न च दूरदेशके अस्या-भावः, स्वस्थानस्थाभ्यामपि श्रुत्वा कृतस्य आदीनवभुतत्वात्, आगत्यापि च आदीनवकरणस्य संभवत्वात्, तस्मात् दूरदेशमपि इति सूत्रितम्॥ (१२१) युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानम्॥ युक्तमिति नैष नियमः, अवध्याने तेसां भिक्षूणां प्रवृत्तेः इति ख्यापयति॥ (१२२) कृत् अनुज्ञातोऽसि मातापितृभ्यां अन्ते मुक्त्वा दूरदेशकम्॥ अनुज्ञतोऽसि ति माऽसीत्यस्य स्थाने एतद्। कृदिति अनेन उक्तस्यान्ते मुक्त्वा दूरदेशकमित्ययं शब्दोऽधिकः प्रतिपत्तव्यः। ततश्च इदं वाक्यं-अनुज्ञतोऽसि मातापितृभ्यामिति। प्रव्रज्यार्थमित्यादि यावत् नाननुज्ञातं मातापितृभ्यां प्रव्राजयेयुरुपसंपादयेयुर्वा मुक्त्वा दूरदेशकम् इति॥ (१२३) मऽसि ग्लान इत्युपसंपसंक्रान्तं पृच्छेत्॥ प्रव्रज्यार्थमिति प्रकरणात् गन्तव्यम्॥(१२४) मा ते ग्लान्यं किञ्चिदस्तीति वा॥ पाथविकल्पस्य एष उपनिबन्धः। द्वयोः अन्यतरः वक्तव्य इति दर्शयति॥ (१२५) विशेषत उपसंपादकाः॥ पृच्छेदित्यस्य परिणतस्य पृच्छे [यु] रित्यनुषङ्गः भवन्ति खलु पुरुसाणामेते एवं-रूपाः काये कायिकाबाधाः, तद्यथा-कुष्ठं गण्डं [च] इत्यादि-विशेषयुक्तम्। न एतावन्मात्रकं 'माऽसि ग्लान' इति॥ (१२६) न ग्लानं प्रव्राजयेयुरुपसंपादयेयुर्वा॥ आरोचक-प्रव्राजक-श्रामणेरत्वोपनायिसंघानां बहूनां व्यापार इति बहुवचनम्॥ (१२७) कृत् प्राक्प्रणिहितात्॥ "न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं" इत्यतः प्राक् यावन्निर्देशः सर्वत्र कृदिति अधिकृतं वेदितव्यम्। सर्वे ते कृत्संबंधिनः॥ (१२८) नास्ति अस्य प्ररोहणधर्मता इति च॥ योऽत्र प्रतिषिध्यते निर्मितादिः तस्य 'च'-शब्दः प्राक्प्रणिहितादिति संबंधार्थः॥ (१२९) नाशनं एवंविधस्य लिङ्गिनः॥ एवंविधस्येति अप्ररोहणधर्मिनः। लिङ्गि [न] इति प्रव्रजितस्य उपसंपन्नस्य वा॥ गृहस्थभूतस्य तु भिक्षुमध्ये वसतो यात्रिक-प्रयोजनवशात् नाशनं न वा॥ इदानीं कृदादिसंबन्धिनो निर्दिश्यन्ते(१३०) निर्मितः॥ 'माऽसि निर्मित' इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न निर्मितं प्रव्राजयेयुः उपसंपादयेयुर्वा॥ 'नास्त्यस्य प्ररोहणधर्मता, नाशनं एवं-विधस्य लिङ्गिनः' इत्येवं अन्यत्रापि पण्डकादौ योज्यम्॥ (१३१) पण्डकः॥ पाञ्चविध्यमस्येति॥ अस्येति पडाकस्य॥ [पञ्चविधं कतमम्।]॥ (१३२) जात्या-, पक्ष-, आसक्तप्रादुर्भाव-, ईर्ष्या[प्रादुर्भाव]-आपत्कृत् इति॥ जात्या जाति पण्डको, यो जन्मना एव नस्त्री न पुरुषः॥ पक्ष इति यः पक्षे स्त्री पक्षे पुरुषः स पक्षपण्डकः। पक्षोऽर्धमासः॥ आसक्तप्रादुर्भाव इति यस्य परेण उपक्रान्तस्य प्रादुर्भावो भवति [स] आसक्तपण्डकः॥ ईर्ष्यया यस्य परेण उपक्रान्तं स्त्रियं दृष्ट्वा प्रादुर्भावो भवति स ईर्ष्यापण्डकः॥ आ[प]त्कृत् इति आपत्पण्डको, यस्य छेदादिना पुरुषेन्द्रियं विनस्टं भवति॥ (१३३) अन्त्यस्यात्र दोषभक्तु नाशनम्॥ अन्त्यस्येति आपत्पण्डकस्य॥ सपदि पण्डकदोषं भजते, ततो नाशयितव्यो, नान्यथा इत्यर्थः॥ (१३४) स्तेय-संवासिक॥ इत्यस्य लक्षणमाह-जानतो अकृततां विधेः उपसंपदो अप्ररूढतां वा द्वितीयायां संघेन सार्धं कर्मणः प्रत्यनुभूततायां तत्त्वम्। उपसंपद्गतो यो विधिः ज्ञप्त्यादिकः तस्य अकृतत्वं जानतः, कृतत्वेऽपि अरूढतां, यद्यपि विधिकृतो न तूपसंपद्रूढः, ऊनविंशति-वर्षता[दि]ना दोषेणेति। संघेन सार्धं द्वितीयस्य कर्मणः प्रत्यनुभवे तत्त्वं इति स्तेयसंवासिकत्वम्॥ ननूक्तम्-'यतश्चोपालिन्, प्रकृतिस्थैः भिक्षुभिः सार्धं द्वे त्रीणि वा पोषधकर्माणि प्रत्यनुभूतानि भवन्ति इयता स्तेय-संवासिक' इति।अथकस्मात् 'त्रीणि वा' इत्येतन्न सूत्रितम्?-यतो नैतन्नियमकारि वचनम्, अपि तु प्रबन्धस्यैतद् प्रदर्शनम्। प्रबन्धमारभमाणो ध्वस्यत इति। इतरथा द्वे इति अस्य व्यवस्थानस्य 'त्रीणि वा' इत्येतद् उच्छ्वास इति विज्ञायते॥ ततश्च कृत्रिममेतद् प्रज्ञप्तिकं, न धर्मतया व्यवस्थायीत्यापद्यते च॥ अत्र च ग्रन्थोऽपि। कथावस्तुनि स्यात्, येन वस्तुना स्तेयसंवासिको न प्रव्राजयितव्यो नोपसंपादयितव्यः, तेनैव वस्तुना प्रव्राजयितव्यः उपसंपादयितव्य स्यात्[इति चेत्] आह-येन द्वौ त्रयो वा पोषधाः प्रत्यनुभूता भवन्ति, अयं न प्रव्राजयितव्यो नोपसंपादयितव्यः। येन तु सकृत्पोषधः अनुभूतो भवति अयं प्रव्राजयितव्य उपसंपादयितव्यश्चेति, न हि अन्यथा एकंशेन, द्वयप्रत्यनुभवेन अर्हत्वम्॥ युक्तिः पुनः यस्मादत्र प्रथमं प्रवर्तमानः साशंको भवति, नास्य तस्मिन् मिथ्यात्वं प्रकृतितां गतं भवति, प्रबध्नंस्तु तन्मयतां आपद्यत इति॥ ननु अत्र पोषधग्रहणं कृतम्, तदेह कस्मात् अविशेषेण सर्वकर्मप्रत्यनुभावः, उच्यते-संघसंनिश्रये एतद्-करणीये अन्तर्भवनम्, यत् पोषधे तुल्यं वा अन्येषामपि कर्मणां संघाभिनिश्रयत्वम्॥ तस्मात् निदर्शनत्वेन पोपधग्रहणं व्यवस्थितम्॥ अपरिपूर्णं-उपसंपद्-आपत्तिपृच्छाकर्मणि अत्र आगमोऽपि भवति। ज्ञप्तिचतुर्थेन कर्मणा अनुपसंपन्ने संघकर्मणि पोषधे वा प्रवारणायां वा द्वादशपुद्गलो द्दीष्टानुभूतिः, एतावता स्तेयसंवासको भवति इत्युक्तम्। यावत् अनुपसंपन्नेन अकरणीयानुलक्षितं संघस्य प्रव्रज्याऽऽरोचनादि तद् सर्वसंघाघीनत्वात् [संघ?] कर्मपक्षत्वम्। ततः कर्मग्रहणमपि अत्र प्रतिपत्तव्यम्, यदि तस्य प्रव्रज्याऽऽरोचन-श्रामणेरत्वोपपत्ति-रहोनुशासन पारिशुद्धि संग्रह-परिवासाद्यारोचनानां अनुप्राप्तीनां अपि प्रत्यनुभूतस्य स्तेयसंवासिकत्वं व्यवस्थितम्॥ (१३५) तीर्थिकप्रक्रान्तक इति॥ तत्स्वरूपपरिज्ञापनार्थम्-(१३६) समात्तेदं-प्रव्रज्यस्य तद्दृष्टेः निक्षिप्येदं चीवरं तेन ध्वजेन तत्रारुणोद्गमने तत्त्वम्॥ इत्युक्तम्। समात्तेदं प्रव्रज्यस्य इति समादानेन प्रव्रज्या अस्य, तद्दृष्टेरिति तीर्थिकानां दृष्टौ, अस्यां स्थितः तद्दृष्टिकः। चीवरमिदं निक्षिप्य इति सुगतभिक्षुवेषं उत्सृज्य। तेन ध्वजेन इति तीर्थिकस्य ध्वजेन। तत्र इति तीर्थिकस्य अवस्थितौ। अरुणोद्गमने तत्त्वम् तीर्थिकावक्रान्तकत्वम्॥ (१३७) तदकृतमपि स्तेयवत्॥ तथागतवेषमुत्क्षिप्य अभिकांक्षितस्य तीर्थिकस्य अभिकांक्षितलिङ्गेन आच्छाद्य उषिते अरुणोद्गमनं इति। इदं तथागतलिङ्गसमादानम्, न तीर्थिकदृष्टिः। इदं तदकृतम्॥ पश्चात् इमस्मिन्नकृते अन्यथापि तीर्थिकगतत्वं भवति चेत्, तद्यथा स्तेयवत्॥ स्तेयस्याऽपि अन्तर्भूतम्(?) ततो अनुभूतिद्वयमित्यर्थः। (इति)स्तेयसंवासिकत्वं उक्तम्॥ (१३८-१४५) मातृघातकः॥ पितृघातकः॥ अर्हद्घातकः॥ संघभेदकः॥ तथागतस्यान्तिके दुष्टचित्तेन रुधिरोत्पादकः॥ भिक्षुणिदूषकः॥ चतुर्णां पाराजिकानां अन्यतमामापत्तिं आपन्नः [न वेति]॥ न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं प्रव्रज्योपसंपदोः अकरणम्॥ इति निमित्तविपर्ययः इति येन निमित्तेन कलहविवादादिना तर्जनीयादि इष्टकर्मकरणं भवति तस्य विपर्ययः कलहविवादाद्यभावः॥ प्रणिहितानभ्युपगमो हि साधनत्वाभावः॥ (१३४)उपसंपदः क्षान्ति-ज्ञप्तिरिति॥ अक्षान्ता अनुपसंपन्नाः, उपसंपन्नत्वक्षमत्वात् पुनः अन्यक्षान्तिकार्यं न क्षान्तिरिति क्षान्तिकार्यम्। 'भदन्ताः भिक्षवः, तर्जनीयकर्मणः तावत् उपसंपत्करणे उपसंपदितिकरणं अनुपसंपदिति वा करणं (इति)उपमण्डलोपसंपद् उक्ता। उपसंपत्करणे सातिसारे सति, क्षान्तिर्हि ज्ञप्तिः इति निदाने उक्तम्॥ (१४७) उपसंपदं अनुपपन्नश्चेत्, सामग्री पुनः प्रणिधानम्॥ इति उपसंपदः कलहाकरणत्वादि निमित्तविपर्यये अनुपपन्नः चेत् सामग्र्यां पुनः कर्म कर्तव्यमित्यर्थः॥ (१४८) अदर्शनोक्तौ मृषा चेत्, प्रायश्चित्तिकम्॥ इति आपत्तिः मया न दृष्टा इति मृषोक्तौ आपत्तिकरणे अस्य प्रायश्चित्तिकम्॥ एतादृशन्यायवतः मृषावादेषु प्रायश्चित्तिकाभावः न प्रज्ञप्तव्यः॥
हस्तच्छिन्नाः पादच्छिन्ना अङ्गुलीफणहस्तकाः।
अनोष्ठकाश्च चित्राङ्गाः अतिवृद्धा अतिबालकाः॥
खञ्जः काण्डरिकः काणः कुणिः कुब्जोऽथ वामनः।
गलगण्डमूकबधिराः पीठसर्पी (च) श्लीपदः॥
स्त्रीच्छिन्ना भारच्छिन्ना मार्गच्छिन्नाश्च ये नराः।
तालमुक्ताः कन्दलीच्छिन्ना एवं-रूपा हि पुरुषाः॥
-प्रतिक्षिप्ता महर्षिणा॥
प्रासादिकस्य प्रव्रज्या परिशुद्धस्योपसंपदा।
आख्याता सत्यनाम्ना वै संबुद्धेन प्रजानता॥इति॥
हस्तच्छिना इति मणिबन्धमुद्गृह्य येषां हस्ताः छिन्नाः॥ पादच्छिन्ना इति येषां आगुल्फं छेदः ते पादच्छिन्नाः॥ येसां हस्ताङ्गुलयो नागफणसडृशाः अङ्गुलीफणहस्तकाः। येषां ओष्ठकद्वयाभावः ते अनोष्ठकाः॥ येसां काये चित्रचिन्हानि ते चित्राङ्गाः। हस्तादिषु चित्रितः चित्राङ्गाः। अविरतं स्रवन्त इव इत्यादयः॥ अतिवृद्धा इति शतवार्षिकादयः। अतिबालका इति काकोड्डापनेऽसमर्थः असप्तवर्षकः॥ खञ्जा इति पादेन खञ्जगमनाः॥ काण्डरिक इति सक्थिपक्ष-गृध्रसीवातेन संध्वस्तगमनः॥ काणः एकाक्षः॥ कुणिः यस्य मणिबन्धपक्षे चिह्नमात्रहस्ते सति किञ्चिदपि करणे असमर्थः॥ गलगडः ग्रीवा-गण्डिका यस्य स गलगण्डः॥ मूकः वागसमर्थः॥ पीठसर्पि इति आधारार्थं हस्तद्वयं प्रतिष्ठाप्य चतुरूपेण सर्पति। द्वितीयः पर्यायः फक्कः इत्यपि। स्त्रीच्छिन्नः॥ स्त्रीणां उत्कटसेवनया क्षतवीर्यः, यस्य कायः असुखः स्त्रीच्छिन्नः॥ तथैव अक्षमभारधारणात् मार्गगमनातिशयत्वात् च यथानुक्रमेण भारच्छिन्ना मार्गच्छिन्नाश्च॥ तालमुक्ताः, ये सम्यग्भोजने असमर्थत्वात् उदिगरन्ति॥ केचिदेवं वदन्ति-ये निरुद्धक्रमणेन हतग्रन्थित्वात् गमनावरोधेन इव परिक्रमाकारिणः, ये च युवानः कर्षान्तर्व्यांध्यादिभिः तथैव असमर्थिताः अपर्यन्ताः, प्रबलजीर्णतया च उपक्लिष्ट-?-सदृशाः सर्वकार्येषु असमर्थाः ते कन्दलीच्छिन्ना इव, तैः न यौवनहानिः इत्यर्थः॥
इति संग्राह्यगतम्॥
समाप्तं च प्रव्रज्यावस्तु॥
(v) क्षुद्रकादिगतम्
(१४९) कृत् राजभटः। अननुज्ञातं राज्ञा अदूरदेशिकम्॥ इत्यस्मिन् 'न राजभटोऽसि' इति प्रव्रज्यात्वमुपसंक्रान्तं प्रष्टव्यम्। उपसंपादकैरपि राजभटः राज्ञाऽननुज्ञातः अदूरदेशिकः न प्रव्राजयितव्यः उपसंपादयितव्यश्च इति॥ यः प्रव्रज्यावस्तुमार्गं गृह्णाति तस्मै एतेन उपदेष्टव्यम्। यो राजा वा तद्विजितः प्रभुर्वा, तेन येन केनचित् मार्षेंण वा तत्पदसंबद्धः स अत्र अदूरदेशिकः॥ (१५०) कृत् चौरो प्रज्ञातः॥ इति राज्ञा नाऽननुज्ञातः अदूरदेशिकः इत्येतन्निराकरणार्थ पुनः कृच्छब्दः। चौरो] नासि ध्वजबद्धकः इति प्रव्रज्यार्थं उपसंक्रान्तः पृच्छेत् उपसंपादकाश्च, न चौरं ध्वजबद्धकं प्रव्राजयेयुः उपसंपादयेयुर्वा। इत्येतावता एवमपि अत्र विधानस्य भावः॥ प्रज्ञातचौरो ध्वजबद्धकः। यत्र यस्य न प्रज्ञायमानत्वं न तत्र तस्य ध्वजबद्धकत्वम्॥ (१५१) न रथकार-[चर्मकार]-चण्डाल-पुक्कल तद्विधान् प्रव्राजयेत्॥ रथकारः चर्मकारः, तद्विधान् इति अभोक्ष्य-[अनु]श्रामणेरत्वशिक्षमाणत्व-उपसंपादनाऽनर्हत्वं रथकारादीनां अप्रव्राजने निमित्तम्। तस्मात् आसां अपि एतदकरणीयत्वस्य प्रतिपादनम्॥ (१५२) निदर्शनं हस्तच्छिन्नादयः॥ यदेतद् प्रव्रज्यावस्तुनि हस्तच्छिन्न-पादच्छिन्नेत्यादि उक्तं निदर्शनं तद्वेदितव्यम्, न परिसंख्यानम्। येषामेतद् निदर्शनं तानीदानीं उपन्यस्यति—
हरिद्रकेशा हरिकेशा हरितकेशास्तथैव च।
अवदातकेशाश्च ये नरा नागकेषा अकेशकाः।
घातीशिरा बहुशिरा अतिस्थूला विपाटकाः।
खरसूकरशीर्साश्च द्विशीर्षा अल्पशीर्षिकाः।
हस्तिकर्णा अश्वकर्णा गोणमर्कटकर्णकाः।
खरसूकरकर्णाश्च एककर्णा अकर्णकाः।
लोहिताक्षा अतीवाक्षा चुल्लाक्षा अतिपिङ्गलाः।
काचाक्षा बुद्बुदाक्षाश्च एकाक्षाश्चाप्यनक्षकाः।
[हस्ति] नासा अश्वनासा गोणमर्कटनासकाः।
खरसूकरनासाश्च एकनासा अनासकाः।
हस्तिजोडा अश्वजोडा गोणमर्कटजोडकाः।
खरसूकरजोडाश्च एकजोडा अजोडकाः।
हस्तिदन्त अश्वदन्ता गोणमर्कटदन्तकाः।
खरसूकरदन्ताश्च एकदन्ता अदन्तकाः।
अतिग्रीवा अग्रीवाश्च स्कन्धाक्शा अतिकुब्जकाः।
लाङ्गूलच्छिन्ना वाताण्डा एकाण्डा अप्यनण्डकाः।
अतिदीर्घाऽतिह्रस्वाश्च कृशाश्चाऽतिकिलासिनः।
चतुर्भिश्च छविवर्णैः खेलाविकटकास्तथा।
एवं-विधानामपि तं प्रतिक्षेपं अधारयेत्॥
तमिति हस्तच्छिन्नाः पादछिन्नाः इत्येवमादिकं प्रतिक्षेपं एवं विधानामपि प्रधारयेत् इत्यर्थः॥ हरिद्रा इव रक्ता केशा येषां ते हरिद्रकेशाः। सिंहकेशा हरिकेशा॥ नील्या इव रक्ता केशा येषां हरितकेशाः॥ जन्मना एव शुक्ला केषा येसां ते अवदातकेशा, न तु पलितिनः॥ हस्तिन इव येषां केशा ते नागकेशा॥ ताम्रभाजनमिव श्लक्ष्णं विगतकेशशिरो येषां ते अकेशकाः॥ यस्य शिरसि तस्रः चतस्रो वा स्थूलवलयः, याभिः निम्नोन्नतं लक्ष्यते, स घाटोशिरः॥ येषां पिश्वितमिव शरीरं वैपुलवतः॥ [पृथग्वत्] संक्षिप्तकं ते विपातकाः॥ यस्य अतिसंक्षिप्ते वर्तुलाक्षिणी ते संचूर्णाक्षाः [=चुल्लाक्षाः?]॥
शिरसोऽन्तः प्रविष्टत्वात् स्कन्धस्थाने अक्षिणी यस्य असौ स्कन्धाक्षः॥ लाङ्गूलं यस्य प्रस्रवकरणं त[द् यस्य छिन्नं] स लाङ्गूलछिन्नः॥ येसां स्वल्पेनाऽपि व्यापारेण विशिष्टश्रमोत्पत्तिः तेऽतिकिलासिनः, क्लमस्यैतदभिधानम्॥ चतुर्भिश्च छविवर्णैः इति नीलपतीलोहितावदातैः (निन्दितरूपाः)।
ये एवंविधा वर्णविशेषाः तेषां एव प्रतिक्षेपः न तु ये देवानामिव प्रशस्यरूपाः॥ एवं तावत् एवंविधानां प्रव्राजनादिकं प्रतिक्षिप्तम्। प्रव्रजितोपसंपन्नानामेषां अपि संग्रहो न इत्यु पदर्शनाय आह॥ (१५३) न जातिकायदुष्टं प्रव्रजितं उपस्थापयेत्॥ रथकारादिकं अभोक्ष्यं जातिदुष्टम्। हस्तच्छिन्नादिकं वर्णतः संस्थानतो वा कायेन दुष्टं। नोपस्थापयेत्, वासस्थानेऽपि अन्तर्दाने, न अनुपरिवारित्वेन च, न केवलं निश्रयदाने। तथा च भिक्षुणा पर्षद् दूषकपर्षद्, न उपस्थापयितव्या, उपस्थापयति सातिसारो भवति। इत्युक्त्वा कियता पर्षद् दू[षका] पर्षद् इति वक्तव्या?। जातितो वर्णसंस्थानेन च॥ कथं जातितः?। रथकारचण्डालपुक्कसकुलात्॥ कथं वर्णसंस्थानतः? हरिद्रकेशा इत्याद्यत्रोक्तम्॥ (१५४) युज्यते नैकस्योपाध्यायस्य एकेन वचसा उपसंपादनं आत्रयात्। अनेकस्येति द्विप्रभृतेः। एक उपाध्यायः अस्येति एकोपाध्यायः, तस्य। एकेन वचसा इति एकप्रज्ञप्त्या। कि यतोऽनेकस्य इत्याह। आत्रयाट् त्रिभ्यो यावत् युज्यते, न परेण इत्यर्थः॥ 'न गणो गणस्य कर्माणि करोति' इत्यागमात्॥ केचित्-अंगीकृतोपाध्यायभेदं अत्र ग्रन्थं कुर्वते 'लभ्यं भदन्त एककाले एकक्षणे एकेन कर्मकारकेण एकया ज्ञप्त्या द्वाभ्यां कर्माणि कर्तुम्? कृतानि च वक्तव्यानि? न च संघः तेन सा तिसारो भवति'?-' लभ्यं उपालिन् स चेत् कर्मकारको भिक्षुः प्रतिबलो भवति। उपाध्यायानां नामपरिकीर्तनं कर्तुं उपसंपत्प्रेक्षाणां च ज्ञप्तिं च न हापयति कर्म च करोति' इत्यादि॥ आर्य-उपालिनो दासकः पालकश्च श्रामणेरकौ सप्रेमकौ गतौ, अन्योन्यानुरक्षयाऽयुगपत् नोपसंपाद्यौ, [तस्मात् पृथक्] द्वौ नोपसंपद्यते॥ एतन्निदानं एकोपाध्यायस्य अनेकस्य उपसंपादनानुज्ञाने, अस्मान्निदानात् एकोपाध्यायस्य अनेकस्याङ्गीकरणं अत्र निदानात् दृश्यते। इत्येवं अङ्गीकृतं न चैतं प्रयुज्यते॥ (१५५) आभावः तुल्यसमयानां परस्परं सामोचीकरणस्य॥ एककाले एककर्मवाचनोपसंपादितानां, पृथग्वा उपसंपन्नानां, येषां तुल्यसमयः तेसां सामीचीकरणस्य परस्परं अभावः। सामीची वन्दना॥ (१५६) संप्राप्ते प्राथम्यम्॥ तुल्यसमयानां लाभकर्मादानोद्देशादि स्थानं, यः प्रथमं संप्राप्तः 'यथागतिकया लाभो ग्रहीतव्यः' इति वचनात् तस्य लाभग्रहणे प्राथम्यम्॥ कर्मादाने यः पश्चादागतः तेन पूर्वकर्म कर्तव्यम् पश्चादागतः कर्मादाने प्रथमं इति वचनात्। प्रथमं कार्यतादि अयमर्थः। लाभग्रहणे प्रथमं स्थानं संप्राप्ते प्राथम्यम्, कर्मादानकरणे पञ्चात्स्थानं संप्राप्ते प्राथम्यमिति॥ (१५७) न द्व्यङ्गुलादूर्ध्वं आरण्यकः केशान् धारयेत्॥ (१५८) नैतद् अर्वाक्त्वात् ग्रामान्तिकः॥ अर्वाग्भावः अर्वाक्त्वम्। एतस्य द्व्यङ्गुलस्य अर्वाग्भावात् ऊर्ध्वं द्व्यर्घाङ्गुल प्रमाणता संप्राप्ता। यावन्न धारयितव्या इत्यत्र ज्ञानं भव[तीति वेदितव्यम्। ग्रन्थोऽ]त्र-आरण्यकेन भिक्षुणा द्व्यङ्गुला बाला धारयितव्या, अर्वाक् ग्रामान्तिकेन इति॥ केचित्-'द्व्यङ्गुलावर्ता' इति द्व्यङ्गुलस्थाने अधीयते। यद्यस्य पाठस्य द्व्यङ्गुलप्रमाण आवर्तो येषां इत्यर्थः, अनर्थान्तरत्वं पूर्वकात्पाठात्॥ अथ द्व्यङ्गुलस्य आवर्त इत्ययुक्तता। लिङ्गान्तर्धानभूतत्वात् इयतो दीर्घत्वम्, अस्य येन च निदानदोषे शिक्षा पदं प्रज्ञप्तं तद्दोषापातस्य च तदवस्थत्वात्। यस्मात् अतिरिक्तपञ्चाङ्गुलमेत्त्प्रमाणं, प्रव्रज्याकालिकमुण्डनादिविधानात् परतोऽपि मुण्डनादिः करणीयत्वं न्याय्यम्। इत्यत्र अस्य स्थाने विनिवेशनम्॥ (१५९-१६२) न गोलोमकान् केशान् छेदेत्॥ मुक्त्वा व्रणसामन्तकम्॥ न चूडां कारयेत्॥ न संबाधि-[प्रदेशे] रोमकर्म कारयेत्॥ इति॥ न कारयेदिति अनुषङ्गः। संबाध-प्रदेशो गुह्यस्थानम्॥ (१६३) कारयेत् व्रणनिमित्तं अरूढौ अन्यथा विज्ञान् स्थविरस्थविरान् अवलोक्येति॥ अरूढौ अन्यथेति-भगवानाह-'कषायैः (पञ्चभिः ततः) शोधयितव्यम्। पश्चात् यदि स्वास्थ्यं न भवति, सूत्रधर-विनयधर-मातृकाढरान् भिक्शून् आपृस्ट्वा संबाधश्मश्रु कारयितव्यम्' इत्यत्र ग्रन्थः॥ तत्र निदर्शनमेतद्, शोचनविधानं युज्यते इति प्रकारान्तराण्यपि चिकित्सितस्य अवरुद्धानि, स्थविरस्थविरान् भिक्षूनवलोक्य व्रणनिमित्तं प्राणकनिमित्तं वा संबाधे प्रदेशे रोमकर्म कारयितव्यमिति। अपरेषां अत्र ग्रन्थः, तत्र प्रमुखविदितं कृतमिति एत दवलोकनम्। द्वाभ्यां च वृद्धाभ्यां प्रमुखत्वं शीलतो धर्मविनयाभिज्ञतया च, इत्युभयमपि एतद् अवलोक्यगतं संगृहीतम् विज्ञातं तत्र। पिटकधरत्ववचनं विज्ञानम्। प्राणकनिमित्तं अत्र व्रणगतप्राणकाभिप्रायं युज्यते, न यूकाद्यभिप्रायम्। अस्य च व्रणनिमित्तत्वेनैव अन्तःकृतत्वमिति न गृहीतम्॥ (१६४) न अङ्गनाडीमपि [तन्निमित्तं] कारयेत्॥ अतन्निमित्तं इति अव्रणनिमित्तं। जङ्धामुण्डनं अङ्गनाडी॥(१६५) न अन्यत्र काये॥ इति॥
संबाध-अङ्गनाडीभ्यां अन्यत्र काये ग्रीवातः प्रभृति यः कायानुव्यवहारः तत्र एष रोमकर्म-प्रतिषेधः। तस्मान्नानेन केशश्मश्रुणोऽपि कर्तव्यताप्रतिषेधः। नासारोम्णः शातनस्य अभूद्वचनं इति प्रसिद्धे प्रत्ययः॥ मातृका यामत्र ग्रन्थः-केशश्मश्रू स्थापयित्वा तदन्येषु अंगप्रत्यंगेषु रोम न शातयितव्यम्। यः शातयेत् दुस्कृतः स्यात् आपत्तिः इति॥ (१६६-१६८) क्षुरधारकं वा नखच्छेदं भजेत वासीमुखं वा। नैषां मृष्टिं भजेत्॥ भजेत लेखं मलावकृष्ट्यै। न चीवरेण केशश्मश्रू अवतारयेतेति॥ उपरिप्रावरणस्य अत्र ग्रहणं युज्यते, न अन्तर्वाससः। सर्वस्य च न संघाटि-उत्तरासंगयोः एव। अत्र परिभुक्तस्य अन्यदुपरिप्रावरणं युज्यते। इत्यत्र प्रतिक्षेपनिमित्तस्य व्यवस्थापनात्॥ (१६९) धारयेत् केशप्रतिग्रहणम्॥ इति चीवरं केशप्रतिग्रहणम्, तदर्थमेव यस्य उपयोगः। प्रतिगृह्यन्ते अनेन केशाः इति तु निरुक्तिः। चीवरमिति कुत एतद्, 'चीवरं केशप्रतिग्रहनं अधिष्ठानं' इति अधिष्ठानमन्त्रे वचनात्। कथं पुन एतद् विज्ञायते प्रावरणार्थमिति? न पुनः तत्रैव केशानामवतारणार्थमिति। अभावे संकक्षिकाभिधानात्। अप्रतिक्षेपं हि संकक्षिकायां केशावतारणम्॥ (१७०) अभावे संकक्षिकया॥ केशप्रतिग्रहणस्य चीवरस्याभावे संकक्षिकया आवृतया केशश्मश्रू अवतारयेत्॥ (१७१) न संस्तरे। इति न केशश्मश्रू अवतारयेत्। निदानेष्वपि आदावेव नखच्छेदनम् इति एतदन्ते ग्रन्थः॥ (१७२) न यत्र सांधिक-संमार्जनीनिपातः॥ इति विहाराधिकारिकमेतद्॥ (१७३-१७४) अवतारयेत प्रासादादौ जीर्णो ग्लानो वा वातातपवर्षेषु च॥ तं प्रदेशं परिकर्मयेत्॥ निष्केशत्वं निरुदकत्वं च परिकर्मणः। तद्यथा संपद्यते तथा करणीयम्॥ (१७५) संकिर्णे बालोच्छारणम्॥ ससंकारे प्रदेशे इत्यर्थः॥ (१७६) एवं नखच्छेदनम्॥ न संस्तरे इत्यादेः एषोऽतिदेशः। केशप्रतिग्रहे निपुणग्राहिणी क्रियमाणा भूमौ कृता भवति। तस्मात् नात्रच्छेदनेन यत्र सांधिक-संमार्जनी निपातः। इत्यस्य अतिक्रान्तत्वं, परिकर्मभव्यता वा भूमेः। केशश्मश्रु-अवतारणे अस्य परिहारस्य असंभवो वेदितव्यः॥ (१७७) न अनधिष्ठिता भिक्षुणी एषा पुरूषेणावीतरागा केशांश्छेदयेत्॥ एषा इति भिक्षुणी अवीतरागा इति 'अनापत्तिर्यदि वीतरागा स्यात्' इत्यत्र ग्रन्थः। छेदयेत इति मुण्डनस्य चैतदत्रिवं वचनम्। अथ महाप्रजापती गौतमी पञ्चभिः शाक्यायनिकाशतैः सार्ध स्वयमेव केशांश्छेदयित्वा काषायाणि वस्त्राणी आच्छाद्य इति केशच्छेदनस्य उक्तस्य '[एवमेव त्वं गौतमी मुण्डा शोभना]' इति मुण्डात्वेन अभिधानात्; दीर्घत्वात् केशानां अन्य-मुण्डने सनिमित्तमेतदभिधानम्। अन्यत्र अनुव्यवहारः-अवीतरागा भिक्षुनी भिक्षुण्या अनधिष्ठिता न [पुरुषेण] केशांश्छेदयेत् इत्यर्थः॥ (१७८) संरज्यमानां अधिष्ठात्री समनुशिष्यात्-'स्मृतिमुपस्थापय किमस्मिन् क्लेवरे सारमस्ति' इति। संरज्यमानां इति कल्पके तां भिक्षुणीम्॥ (१७९) मातृसंज्ञा भगिन्या दुहितुश्चेति कल्पके [उपस्थापय] इति। संरज्यमानां अधिष्ठात्री समनुशिष्यात् -मात्रादिसंज्ञामुपस्थापय इति॥ (१८०) स्नानं कृतेऽत्र कुर्वीत इति॥ अत्र इति केशश्मश्रु-अवतारणे॥ (१८१) पचाङ्गिकं वा शौचमिति॥ कल्पान्तर-उपादानार्थं वा शब्दः॥ सत्यपि पानीयस्य संभवे, कल्पत एवैतद्-'भिक्षुणा केशप्रतिग्रहणं धारयितव्यम्, स्नातव्यं वा, अन्ततो हस्तपादा प्रक्षालयतिव्याः' इत्यत्र ग्रन्थः॥ (१८२) न नग्नं स्नायात् इति। त्रिमण्डलाच्छादितत्वे परिपूर्णं अनग्नत्वम्। यावत् त्रिमण्डलाच्छादिते रोमाङ्गजातयोः छादित्वम्, तावत् छादितत्वेन सर्वस्य (अपरस्य) अपरिहर्तव्यता इति एतद् अत्र सामर्थ्यात् गन्तव्यम्॥ (१८३)न भिक्षुणी पुरुषतीर्थे स्नायात्, न स्त्रीतीर्थे चूर्णेन इति॥ पुरुषतीर्थे भिक्षण्याः स्नानस्य एव प्रतिषेधः। स्त्रीतीर्थे तु मुद्गचूर्णादिना, केवलस्य (प्रादेशिक स्नानस्य) अप्रतिवेधः। 'द्वादशवर्गिण्यः स्त्रीतीर्थे स्नान्ति, गृहपति-पत्नीनां स्नान्तीनां औद्धत्यं कुर्वन्ति, माषचूर्णादि क्षिपन्ति। भगवानाह-न भिक्षुण्या स्त्रीतीर्थे चूर्णेन स्नातव्यम्' इत्यत्र ग्रन्थः॥ (१८४) कल्प्यते मुद्गादेः गन्धपरिभावितम् चूर्णमिति॥ सर्वाधिकारिताऽत्र॥ (१८५-१८६) प्रतिग्रहणमस्य॥ भैषज्यपरिभावितस्य च ग्लानेन॥ इति, 'कल्पयते' इत्यनुषङ्गः॥ (१८७) न भिक्षुणी योषिति चूर्णं क्षिपेत्॥ स्नानकाले अपि अन्यदाऽपीति-विशेषापरिग्रहात् प्रतिपत्तिः नग्न (त्व)-परिहारप्रसंगेन उच्यते॥ (१८८) नोऽग्रथिताधस्त्यपूर्वपश्चिमनिवसितान्तो निश्रयणीमधिरोहेत्॥ निवसितस्य वाससः पूर्वपश्चिमाधस्त्यः अधस्ताद्भवान्तः अग्रथितो येन इत्यर्थः। कौपीनदुष्टि-परिहारम् एतद्। वृक्षाद्यधिरोहेऽपि च कौपीनदर्शनस्य संवित्तिः। तस्मात् निदर्शनमत्र निश्रयनी-ग्रहणं प्रतिपत्तव्यम्। आपदि अधिरोहे यत्प्रतीकारार्थं योऽदिरोहः तस्य चेत् निवसनस्यैव ग्रथनेनोपरोधः अनुरक्ष्यत्वमस्य। न चेन्नेति, वृक्षाधिरोहानुज्ञानात् गन्तव्यम्॥ (१८९) न अन्यदा एवं स्यात्॥ निश्रयण्यधिरोहणाद् अन्यस्मिन्काले न ग्रथिताधस्त्यपूर्वपश्चिम निवसितान्तेन [सामीचीस्थितेन] भवितव्यमित्यर्थः। अन्तर्मुखस्य कौपीनपक्षत्वं इति तन्नाग्न्यस्य अत्र प्रदेशे परिहरणमुच्यते। (१९०) न अप्रतिच्छन्न-वक्त्राय अवृतिं भजेत॥ अप्रतिच्छन्नस्य वस्त्रादिना या अवृतिः अप्रतिच्छन्नवक्त्राय अवृति स्तां न भजेत्। 'विऱ्ंभमाणेन भिक्षुणा हस्तेन मुखं प्रतिछादयितव्यम्' इत्यत्र ग्रन्थः। निदर्शनमत्र हस्तो व्यवतिष्ठते॥ विजृंभणं च कामकारो यद्विधारणं प्रतीतमधिकृत्य एतदेवमुक्तम्। असति आशक्तौ यदपावरणं न तद्भजने दोषः॥(१९१-१९२) धारयेत् स्नात्रशाटाकम्॥ आसक्तिः द्विपुटे प्राणकानाम्। सक्तिरिति वक्तव्यं ग्रन्थच्छाया-यां संपत्त्यर्थं आ-इति उपादानम्। कारणादेशमेतद्। यस्मात् सक्तिः द्विपुटे वाससि प्राणकानां, तस्मान्न सप्राणकेऽम्भसि तद्विधेन वाससा स्नातव्यमित्यर्थः॥ (१९३) त्रैचीवरिकोऽपि इति॥ धारयेत् स्नात्रशाटकमित्युनुबन्धः। ग्रन्थोऽत्र-"भगवानाह-त्रैचीवरिकेण भिक्षुणा स्नात्रशातको धारयितव्यः" इति॥ केचित् 'अनधिष्ठाय धारयितव्यः' इत्यधी यते, तद्युक्तम्। स्नात्रशाटकं समेत्य अनुत्पादिते संकल्पे नैःसर्गिकस्य उत्थानात् नियतं एष संकल्पोऽत्र उत्पादयितव्यः। अस्य चोत्पादने जातं भवति अत्र मानसस्य अधिष्ठानस्य कर्तव्यत्त्वम्। ततश्च अन्यस्याधिष्ठानस्य करनं युक्तम्, सुकरत्वात् वाचिकस्य अस्मादेव अनुज्ञानात् न अनेनास्य समादानम्रंशो भवतीति वेदितव्यम्॥ (१९४) पत्राणि अभवे दत्त्वा पुरतः पृष्ठतश्च प्रतिगुप्ते प्रदेशे स्नानमिति॥ सर्वे न त्रैचीवरिका एव। [अत्र ग्रन्थः]-अपरेषां स्नात्रशाटकस्य प्राप्तिर्नास्ति, भगवानाह-तैः पत्राणि पुरतः पृष्ठतश्च दत्वा प्रतिगुप्ते प्रदेशे स्नातव्यमिति अविशेषेण एतदभिहितम्॥ (१९५) मोचनेन सक्तस्य प्राणिनः अपगतिः॥ एकपुटात् अत्यासक्तिः द्विपुटे प्राणकानामिति अतः प्रतिपत्तिः। नास्य शाटके द्विपुटत्वस्य अभावः। तस्मात् नानेन सप्राणकेऽम्भसि स्नातव्यमित्यत्र स्थितं वेदितव्यम्॥ (१९६) उदकभ्रमे विहारे एतदिति॥ विहारे चेदिति एतद् स्नानं क्रियते उदकभ्रम एव कर्तव्यं नान्यत्र॥ (१९७) च्छोरणं च द्रवस्य॥ इति पादप्रक्षालनादिकस्य द्रवस्य उदकभ्रम एव च्छोरणं नान्यत्र॥ (१९८-१९९) करणं स्नात्रशालिकायाः॥ [अस्यां] इष्टकास्तारस्य आदानम्॥ [अस्यां] स्नात्रशालिकायाः॥ (२००) उदकभ्रमस्य मोक्षः। स्यन्दनिकायाः शोचनम्॥ भगवानाह-उदकभ्रमो प्रोक्तव्यः॥ स्यन्दनिका भवति, भगवानाह, कालानुकालं शोचयितव्या। अपि तु उदकभ्रमे एव स्नातव्यमिति, तत्संग्रहार्थमाह॥ (२०१) भ्रमे स्नातौ अनुत्थानम्॥ स्यन्दनिकाया इत्यनुबन्धः। स्नातिः स्नानम्। स्यंदनिका इति प्रतिविधेः आख्यानमेतद्। भ्रमे स्नाने सति अनुत्थानं स्यन्दनिकायाः। न तु भ्रमे एव स्नातव्यमिति नियमभूतं, स्नानार्थत्वात् शालिकायाः॥ (२०२) नेट्टनोद्घर्षेण कायं शोधयेत् पादाभ्यामन्यम्॥ न इट्टनेन भिक्षुणा कायो घर्षितव्यः इति ग्रन्थः। अन्यमिति पादव्यतिरिक्तम्। तयोः तु अप्रतिषेधः॥ (२०३) निदर्शनमेतद् तीक्ष्णशौटीरयोः। ईट्टनम् कीदृशस्य द्रव्यस्येत्याह-तीक्ष्णशस्त्रकादि, शौतीरं षौनकादि चित्तविकारसंपादनात्। आज्ञप्तं भगवता-न इट्टनेन कायो घृषितव्य इति। भिक्षवः शुक्त्या घृषन्ति, भगवानाह-मुण्डशुक्तिः करनीया इत्यत्र ग्रन्थः। अत्र हि तीक्ष्णत्वात् शुक्तेः प्रतिषेधः। तस्मात् निदर्शनं इट्टनम्। अन्यस्यापि तीक्ष्णस्य शौटीरस्य च द्रव्यस्य तेना पि कायो नो घृषितव्यः॥ (२०४) अग्निना शुक्तेः शोधनम्॥ प्रतापनमात्रकं च अग्निना अस्याः शोधनम्। अन्यथा शुक्तेर्नाशात्॥ (२०५) न किञ्चित्केनचित् आमुष्टिचैलवर्त्ते(ः) भिक्षुणी उद्धृषेत्॥ न किंचिदिति कायम्, मृदुष्त्रीशरीरम्, मृदुश्लक्ष्णादपि तस्मिन् विकारस्य संपत्तिः। सुनिकृष्टेनापि एतत्करणे स्त्रियः सौटीरपितत्वमिति भिक्षुणीषु सर्वप्रतिषेधः भवति। किञ्चिन्मुष्टि[तः] सुकुमारान्तरं वस्त्रमिति, मुष्टिमात्रत्वेन उक्त्वा चैलवर्त्तेः वचनम्॥ (२०६) न अनपगतसंभावकोदकः चीवराणि प्रावृण्वीत॥ प्राव्रियमाणचीवरविनाशपरिहारार्थमेतद्। तस्मादेषां उदकं अनपगतं यस्य इति गतिः। यः आधानं न इच्छेत्प्रतीक्षितुं, तं प्रति उत्तरौ विधी॥ (२०७-२०८) धारयेत्कायप्रोञ्छनम्॥ अभावे मुहूर्त्तं उत्कुटुकेन स्थित्वा स्नात्रशाटकेन प्रोञ्छनमिति॥ यावता वा अनेन संपन्नेन स्नात्रशाटकप्रोञ्छनार्थसंपत्तिः तावताऽस्य यावत्या कालमात्रया संपत्तिः तदुपलक्षणमत्र मुहूर्तः। स्तोकस्य वा यस्य तस्य मुहूर्तमिति अभिधानमेतद्। उत्कुटुकेन स्थित्वा इति एवं आशु-अपगमस्य अम्भसः कायात् संपत्तिः गुप्तरूपं चैतदवस्थानम्। अतोऽस्य [नाग्न्यस्य] न युक्तं भजनमित्यत्र संश्रयणम्॥ (२०९-२१०) प्रतिषेवेत जेन्ताकम्॥ करण्डस्य करणं उच्छर्करे साधु॥ जेन्ताकार्थं आवासः करण्डकः। उद्गतशर्करम्, उच्छर्करे प्रदेशे करण्डः कर्तव्यः॥ इत्यत्र ग्रन्थः-'संपद्यते अन्यप्रदेशे गतादपि अतो अपरिपूर्णार्थः। उच्छर्करे तु परिपूर्णार्थसंपादकत्वात् साधुत्वं' इत्यर्थः। ए [वम] त्रापि 'साधु' शब्दप्रयोगे वेदितव्यम्। तत्र करण्डे यत्कर्तव्यं तद्दर्शनार्थमाह-(२११) वहिः संवृत्तस्य अन्तर्विशालस्य समुद्राकृतेः वातायनस्य मोक्षो मध्ये॥ करण्डगतभित्तिमध्ये नाऽधो नाऽप्यूर्ध्वमित्यर्थः॥ (२१२) जालवातायनक-वाटिका-चक्रिका-घटिका-सूचीनां अत्र विनिवेशनम्॥ अत्र इति वातायने॥ (२१३) अज[पदकद]ण्डोपस्थापनं च॥ अत्र इत्यस्य संबंधोपनयनार्थः 'च'-शब्दः॥ तेन अजपदकेन दण्डेन वातायने सूची प्रवेश्यते निष्कास्यते॥ (२१४) द्वारे कवाट-अर्गुड-कटकायां घट्टसमायोजनम्॥ द्वार इति करण्डद्वारे॥ (२१५) तप्तजलस्थापनार्थं अभ्यन्तरपार्श्वकपोतमालाकरणम्॥ पिण्डिकाऽत्र कपोटमाला यस्यां [जलघटा] स्थाप्यन्ते॥ (२१६-२१७)
अग्निकरणस्थाने भूमौ इष्टका-स्तार-दानम्॥ अग्नेः अनिर्वाणाय संवर्त्तनम्॥ (इति) वर्तुलीकरणम्॥ (२१८) तदर्थ आयसस्फिजधरणम्॥ तदर्थमिति अग्निसंवर्त्तनार्थम्॥ (२१९) ज्वलत्यग्नौ अक्लमाय प्रवेशपरिहरणम्॥ जेन्ताकशालायाम्॥ (२२०) तमिकानुत्पत्तये सक्तूनां कटुतैलम्रक्षितानां अगनौ प्रक्षेपः॥ अग्निमदः तमिका॥ (२२१) दौर्ग-न्ध्यविनिवृत्तये धूपदानम्॥ यद् तत्सक्तुभिर्दौर्गन्ध्यं कृतम्॥ (२२२-२२३) चिक्कसपिण्डिकया क्षिप्रतैलधरणे प्रतिविधानम्॥ आमलकपिण्डिकया च। कक्षपिण्डिकोऽत्र आसनम्॥ अत्र जेन्ताके कक्षपिण्डकासनम्। नास्य स्नेहेन आसनार्थम्, इत्यस्य अनुज्ञानम्॥ (२२४) तृणैर्भूमेरास्तरनं आद्रैः, औत्पत्तिकेन आर्द्रेण तेमनेन वा॥ तत्र औत्पत्तिकं उत्पत्त्या एव यदार्द्रत्वम्, [तदभावे] तेमनेन यदार्द्रत्वं तत्संश्रयणीयम्, अदाहोऽत्र अर्थः॥ (२२५-२२६-२२७-२२८) कण्डूयनार्थं आयसदर्विकाकरणम्॥ चिद्रेण उपनिबध्य सूत्रकेण अस्याः स्थापनं उपधिवारिकेण गुप्ते प्रदेशे॥ निर्मादिततासंपत्यर्थं अस्यां अग्निकल्पकरणम्॥ अस्नानं तत्र॥ तत्र इति जन्ताके॥ (२२९) शालायाः तदर्थ करणम्॥ तदर्थमिति स्नानार्थम्॥ (२३०)
अनाशाय स्नपयनचीवराणां इष्टकाबद्धगर्त करणम्॥ [स्नपयनची] वराणां अनाशार्थं गर्ते अवतीर्णेन स्नानं उत्तमस्थेन उदकदानम्। इत्यतः आपन्नं वेदितव्यम्॥ (२३१) उदकभ्रमस्य अस्य मोक्षः॥ अस्य इति गर्तस्य॥ (२३२) शिष्टानां अत्युष्णतायां जलस्य आरोचनमिति। उष्णं उदकं इत्यवेत्य परिशिष्टानां प्रव्रजितानां आरोचयेत् इत्यर्थः॥ (२३३) शीतेनास्य भेदः इति॥ उष्णस्य अम्भसः॥ (२३४) सेकादौ अपि॥ सेकाद्यर्थ मपि शीतेन अस्य भेदः॥ (२३५-२३६-२३७-२३८-२३९) पाषी-गोमय-दन्तकाष्ठपरिपुर्णकर्परोपस्थापनम्॥ क्षामता चेत् पुरोभक्तिका(क?)-करणम्॥मध्यपातेन प्रत्युपतिष्थमानं अज्ञातं अत्रैतद्गतो निर्ज्ञानार्थं पृच्छेत॥ [द्वारपालस्य एतदर्थं स्थापनं॥ अप्रवेशार्थं च भिक्षोः] इति॥ मध्यपातेन इति युष्मदन्यतमोऽहं एत्यन्तर्भावेन। एतद्गत इति जेन्ताकगतः। किमयं भिक्षुः उत आजीविकादिः इति [निर्ज्ञानार्थं] पृच्छेत्॥ द्वारपालस्य एतदर्थं स्थापनम् इति अज्ञातस्य मध्यपातेन प्रत्युपतिष्ठमानस्य निर्ज्ञानाय प्रश्नार्थं अप्रवेशार्थं च इति। नायमस्मदन्यतम इति प्रश्नेन अस्य ज्ञातस्य। कीदृशस्य द्वारपालस्य इत्याह भिक्षोः। निदर्शनमेतद् अनुपसंपन्नस्यापि प्रव्रजितस्यः; भिक्षुनीषु वा तत्पक्षस्येव पुद्गलस्य॥ (२४०) नाश्रद्धस्य अत्र प्रवेशं दद्यात्॥ अत्र इति जेन्ताके। प्रत्युपतिष्थमानस्यापि मध्यपातेन, एषोऽत्र अपरो द्वारपालस्यार्थः॥ (२४१) सार्धविहारी-अन्तेवासिकैः अत्र परिकर्मकरणम्॥ अत्र इति जेन्ताके॥ (२४२) नवकेरिति अपरमिति॥ मतान्तरस्यैतत्प्रदर्शनम्। केषांचित् पाथान्तरम्। नवकैः परिकर्म जन्ताके कर्तव्यमिति। रूपदर्शनार्थं परिकर्मणः आह-॥ (२४३-२४४) दीपनकटाहक-तैल-दन्तकाष्ठ-गोमय-मृच्चूर्ण-पाणीयाद्युपस्थापन-काष्ठप्रत्यवेक्षण-उद्वर्त्तन-स्नेहेन स्नपन-संमार्जन-संकारोच्छोरणादौ॥ परिकर्मणः करणं तेसां परस्परेण। इति सार्धं-विहार्यन्तेवासिनां उद्वर्त्तनादेः परिकर्मणः परस्परं करणम्॥ (२४५) पीठशुक्तिकयोः चौक्षतां कृत्वा निक्षेपो यथास्थाने॥ इत्यादि शब्दैर (पेक्षितस्य ? ) परिकर्मणः संग्रहमातृकायां "एतदादिना अग्रतः स्थित्वा "वितपेत्" इत्यन्तम्॥ (२४६) सर्वत्र एष भाण्डे विधिः॥ चौक्षतां कृत्वा यथास्थाणे निक्षेप इति 'एषः'॥ (२४७) सर्वमुपकरणं सुगुप्तके लायितं कुर्यात्॥ न भाण्डग्रहणेन कस्यचिदुपकरणस्य अग्रहणम्, अन्यत्र तु जेन्तकान्तान्। विधानार्थमेतत्सूत्रम्-। (२४८) अल्पशब्दोऽत्र प्रविशेत्॥ जेन्ताके॥ (२४९-२५०) प्रासादिकः। सुसंवृत्तेयः [ईर्यापथ-प्रासादिक-] संप्रजानन्। सुसंवृतः स्वीर्यश्च कायवाचोः अविक्षेपं सुसंवृत्तेयत्वेन दर्शयति। संप्रजानन्नित्यनेन चेतसः। [ईर्यापथ]-प्रासादिकत्वस्य एतत्प्रकारद्वयेन दर्शनम्॥ (२५१) नाग्रतः स्थित्वा वितपेत्॥ न परं वितपंतं व्यवधाय आत्मना वितपेदित्यर्थः॥ (२५२) संगणिकावर्जनमिति॥ अत्रेति वर्तते, कामानुगुणं प्रतिपद्य जेन्ताके वृत्तं, 'संदीपिका च कामानां संगणिका' इति अतोऽस्या वर्जनं अत्र विशेषतः॥ (२५३) आर्यतूष्णीभावावलंबनमिति॥ अत्रेत्येव [संबध्यते]। असद्-विकल्प-तदनुगुणचित्तविनिवर्तनार्थं एतत्सूत्रम्। योनिसो-मनसिकार-संमुखीकरणं आर्य-तूष्णीभवो वेदितव्यः॥ (२५४) त्रिदण्डकादानं गन्तव्ये॥ गमनकाले॥ (२५५) नैकर्चावरः परिक[र्म कुर्यात]॥ जेन्ताकग्रहणमत्र कैश्चित्क्रियते कायगतख्यापितं परस्पर-ग्रहणम्। न भिक्षुभिः जेन्ताके एकचीवरैः परस्परं परिकर्म कर्तव्यमिति। सर्वत्र परिकर्मणि न कायगत एव सर्वत्र च स्थाने, न जेन्ताके एव अस्य विधेः व्यवतिष्ठमानता, इति तन्नाश्रितम्॥(२५६) नैतद् कायस्य अश्रद्धेन कारयेत्॥ 'एतद्' इति परिकर्म, यद् [बाह्यं] भारोद्वहनादिकं कर्म न प्रतिषिध्यते॥ (२५७) अनित्वरा अत्र पूर्वत्र च श्रद्धा अभिसंहिता॥ 'अनित्वरा' इति चिरकालोत्पत्त्या या अनिष्कम्पा सा अनित्वरा। 'अत्र' इति अनन्तरोके परिकर्मविधौ। 'पूर्वत्र च' इति 'नाश्रद्धस्य अत्र प्रवेशं दद्यात्' इत्यत्र। 'अभिसंहिता' इति अभिप्रेता॥ (२५८) न सिंहसमः शृगालसममु(प)तिष्ठेत॥ शीलवता दुःशीलस्य उपस्थापनं न कार्यमित्यर्थः। अपवादोऽस्य क्रियते॥ (२५९-२६०) परमदुःशीलौ आचार्योपाध्यायौ उपस्तिष्ठेत॥ मातापितृग्लानांश्च अगारिकानपि॥ परमोपकारित्वादेषां इत्येतद् अभ्यनुज्ञानम्॥ (२६१) स्नानं संभारकस्नात्रेण॥ [ग्लानः]। अत्र निदानं पठ्यते। ग्लान-ग्रहणं प्रज्ञप्तौ न कृतम्, [न चान्यस्य] अन्यत्र अप्रतिरूपत्वम्। विशेषापरिग्रहात् सर्वाधिकरिकं उपनिबद्धम्। त त्स्वरूपोपप्रदर्शनार्थं आह-॥(२६२) वातहरमूल-गण्ड-पत्र पुष्प-फलक्वाथस्नानं तदाख्यम्॥ संभारकस्नात्राख्यं इत्यर्थः॥ वृंहणं स्नानेऽर्थः। इत्येषां अत्र अङ्गत्वम्। कथं स्नानमित्याह-॥ (२६३-२६४) अभ्यक्षाऽरूक्षतार्थम्। उपस्नानकेन अपगत्यै तस्य॥ तस्य अरूक्षतार्थस्य [तैलादि-] अभ्यंगस्य अपगत्यर्थं उपस्नानकेन, अभ्यक्षा इत्यर्थः॥ (२६५) [पूर्वार्थं] उदकुम्भे पश्चिमे द्वित्रस्नेहबिन्दु-दानम्॥ पूर्वार्थमिति अरूक्षतार्थम्। द्वौ त्रयो वा स्नेहबिन्दवः पश्चिमे उदकुम्भे देयाः इत्यर्थः॥ (२६६) स्नायात् अयोद्रोणिकायाम्। धारयेदेनां ग्लानः इति॥ एनामिति अयोद्रोणिकाम्। धरणं अग्लानेन अस्याः न युज्यते, न उपयोजनं अयस्पिण्डवत्, इत्यस्य प्रतिपत्तव्यम्। [औ]द्धत्यं एवं-जातीयकस्य विनार्थेन करणम्, तच्च सर्वं दुष्कृतमिति गम्यमानत्वात् न सूत्रितम्॥(२६७) दद्यात् उपरि अस्याः पिधानकम्॥ उष्ण स्योदकस्य शीतभावपरिहारार्थम्॥ (२६८) ग्रीवायां चात्र गण्डोपधानिकाम्॥ दद्यात् इति वर्तते। अविलंबितमत्र स्नानम्, अदुःखनार्थम्। अतो अस्याः दानम्॥ (२६९) न यत्र क्व चन पादौ प्रक्षालयेत्॥ विहाराधिकृतमेतद्॥ (२७०) स्थानमस्य प्रनाडिमुखम्॥ 'अस्य' इति पादप्रक्षालनस्य। भगवानाह 'प्रनाडीमुखे प्रक्षालयितव्यम्' इत्यत्र ग्रन्थः॥ (२७१) कारयेरन् पादधावनिकाम्। अनया विना प्रनाडीमुखादौ अर्थसिद्धेर्विधातः। इति कामकारोऽत्र, न नियमः इति संदर्शनार्थम् आदौ क्रियापदस्य प्रयोगः। सांघिकं वस्तु अस्याः स्थानम्। न च सांघिके वस्तुनि एकस्य प्रसंगः इति बहुवचनम्। कस्मिन्प्रदेशे इत्याह-॥ (२७२) उपरिविहारस्य पूर्वदक्षिणकोणे॥ किमाकारमिति -(२७३) कर्माकृतिं खराम्। मलापहरणमत्र अर्थः॥ (२७४) उपस्थापयेत् कठिल्लम्॥ प्रतिग्रहस्यैतन्नाम्। किम्मयं इत्याह-मृण्मयम्, न सुवर्ण-रूप्य-वडूर्य-स्फटिकमयानि कठिल्लानि उपस्थापयितव्यानि, अपि तु मृण्मय[मि]त्यत्र ग्रन्थः। किं-संस्थानम्-॥ (२७५) हस्तिपदबुध्नं कर्णिकावन्तम् इति। अलुठनमत्र अर्थः। कर्णिकावन्त मिति धाव्यमानपादावस्थानार्थं एतत्करणम्। क्व संनिविष्टया कर्णिकया तद्वन्तमित्याह-॥ (२७६) मध्ये संनिविष्टया। किमाकारया इत्याह-॥ (२७७) कदम्बपुष्पाकारया खरया च॥ पादाऽपिच्छलनार्थं खरत्वम्॥ (२७८) प्रक्षाल्य स्थापनं अवाङ्मुखस्य॥ प्रासादिकतार्थ एतत्प्रक्षालनम्। नैर्मल्यं प्रासादिकत्वम्। न चास्य यद् तत्र शौचोदकं अवतिष्ठते। ततः न संपत्तिः, तस्मात् अन्येनाम्भसा इति मन्तव्यम्। 'पादौ प्रक्षाल्य बहिर्विहारस्य प्रनाडीमुखे वा पादोदकं छोरयित्वा पुनः प्रक्षाल्य' इत्यत्र ग्रन्थः। क्व स्थापनमित्याह-॥ (२७९-२८२) तलकोपरि सांधिकस्य। पौद्गलिकस्य लयने कपाटसंघौ॥ पात्रनिर्मादनादि यत्रप्रदेशे विहारे कुर्यात्, तस्या मार्जनं उदकेन प्रलेपनं वा॥ कुन्तफलाकारेण मृदङ्गस्य वा। आकारेणेति वर्तते। केन प्रलेपनमित्याह-॥ (२८३) गोमयेन मृदा वा॥ [इत्युच्यते]॥ (२८४) न विद्यते रत्नार्थतायां प्रलिप्तेः आकारस्य [नियमः]॥ (२८५-२८७) न अपात्रकं प्रव्राजयेयुः उपसंपादयेयुर्वां॥ नोनेन अधिकेन पाण्डुना वा। त्रीणि पात्राणि, ज्येष्ठं मध्यं कनीय इति॥ तत्प्रमाणनिर्ज्ञानार्थ उच्यते-॥ (२८८) शेषेण ऊर्ध्वभागान्त-अनन्तरात् अंगुष्ठोदरात् पक्वतण्डुलप्रस्थस्य ऊर्ध्वं वा, तद्द्वयान्मागधकस्य उद्वाहि ससूपसव्यंजनस्य एतन्मध्यं [तज्ञाय्यम्]॥ ऊर्ध्वभागस्य नाधोभागस्य। अन्ततो नान्यस्मात् प्रदेशादनन्तरं, यद् अंगुष्ठोदरं, पर्वप्रदेशे या अंगुष्ठस्य पृथुता, तन्मात्रम्। ततः शेषेणाधरेण [अंशेन] प्रस्थं वा पक्कानां तण्डुलानां मागधकं, तत ऊर्ध्वं वा द्विगुणं प्रस्थं, यावत् स्वानुरूपव्यंजनसहितं यावदुद्वहति, तदेतद् अनपेतं आप्यं इत्यर्थः। तैल-घृत-मधुः-उदकादीनां द्वात्रींशत्पलानि मागधकः प्रस्थः। अन्येषां अद्रवाणां षोडशेति द्रव्यमात्रव्यंजकानाम्॥ ततः, षोडशानां अत्र पलानां मागधकेन प्रस्थेन अभिधानं इति प्रतिपत्तव्यम्॥ "यत्र द्वौ मागधकौ पक्कतण्डुलप्रस्थौ ससूपव्यंजनौ प्रक्षिप्तौ अङ्गुष्ठोदरेण तित्तिकं न स्पृशतः तद् ज्येष्ठम्। यत्रैकः तत्कनीयो, अत्रान्तरात् मध्यम्।" इत्यत्र ग्रन्थः। व्यंजनीयार्थत्वेन अत्र सूपव्यंजनयोः ग्रहणात् भागशः सूपव्यंजनयोः अत्र तेमनत्वं इति श्रितम्, तस्मात् अनेकत्वे व्यंजन-प्रभेदानां भागशोऽत्र अभिनिश्रेयत्वम्। यावता व्यंजनेन भोजनीयं व्यंजितं भवति, तवतो व्यंजनस्य पात्रप्रमाणे संश्रेयता, न परेण इत्यर्थः। पलस्य देशभेदेन हीन-मध्य-उत्कृष्ट-सांकर्यदोषव्युदासार्थ आम्नायागतं प्रमाणमुच्यते। -"माषोऽष्टरक्तिको ज्ञेयः। तोलो [माषाष्ट] कः स्मृतः॥ तोलं सुवर्णमित्याहुः। पलं त्वष्टसुवर्णकम्"॥ (२८९) न भिक्षुणी ऊर्ध्वं भिक्षुकनीयसः। धारयेत्॥ यद् भिक्षूणां कनीयः तदस्याः जेष्ठम्। कनीयोऽस्याः यावत्पात्र मात्रकपिण्डपातसंपादनं इत्यर्थात् प्रतिपत्तिः॥ (२९०) त्रपुमण्डलकस्य अनयाऽत्र निषादे दानम्। अनया इति भिक्षुण्या। अत्र इति पात्रे। येन प्रदेशेन अस्य निषादो भूमौ तिष्ठापनं सस्तु निषादः, तत्र इत्यर्थः। किमाकारस्य इत्याह-॥ (२९१) बोधिवटपत्रकस्य पाणितलकस्य वा (२९२) परिमाणश्च॥ न केवलं आकाष्रतः परिमाणतोऽपि एतावदेव एतद्देयम्। न अधिकम् अतिक्रमादर्थस्य। मोनसंपत्तेः इत्यर्थः। भूस्पर्शे कोटक-अलगनं अत्र एतद् दानेऽर्थः॥ (२९३) भवति सतत्त्वं याचितेन॥ स-तत्त्वं याचितसपात्रत्वम्। न याचितेनानेन नापात्रकं प्रव्राजयेयुः उपसंपादयेयुर्वा॥ "न वर्षासु अपात्राकः स्यात्"-इत्येवमादिकं अतिक्रान्तं भवति इत्यस्यैतत्करणम्॥ (२९४) तद्वत्पञ्चकम्॥ त्रिचीवरं, निषदनं, परिश्रावणं च यथापात्रेण भवति स-तत्त्वं एवमनेनापि इत्यर्थः॥ "तस्मात् अनुजानामि याचितकैरपि षड्भिः परिष्कारैः प्रव्राजयितव्यम्" इत्यत्र ग्रन्थः। परिस्रावण-निषदनाभ्यां अपि विना न प्रव्रजयितव्यं इति [त्रितयम्]। अतः आपन्नं वेदितव्यम्॥ (२९५-२९६-२९७) न वर्षासु अपात्रकः स्यात्॥ न जनपदचारिकं चरेत्॥ चरेत् सभयतायां कुपात्रकेण। "उपनन्देन अपात्रकः प्रव्राजितः, स भिक्षुभिः सार्धं जनपदचारिकं चरन् कर्वटकं अनुप्राप्तः। तत्र गृहपतिना भिक्षवो भक्तेन उपनिमन्त्रिताः। यावत् तस्य नवप्रव्राज्यस्य पात्रं नाष्ति, स गृहपतिः अवध्यायति भगवानाह-'न भिक्षुणा पात्रेण विना जनपदचारिका चरितव्या। अदत्त-आदायिकैः मुस्यन्ते, भगवानाह-'कुपात्रं नेतव्यं, पात्रं स्थापयितव्यम्, वर्षासु पात्रं उपस्थापयितव्यम्' इत्यत्र ग्रन्थः॥ (२९८-२९९-३००) न प्रव्राजयेत् अभावे॥ न उत्थितः पात्रं कर्षयेत्, प्रक्षिपेत्, शोषयेद्वा॥ मात्रया परिभुंजीत। तद्-भोगप्रदर्शनार्थमाह-॥ (३०१) न अन्येनात्र निःसर्गं अक्षिपेत्। अन्येन इति भाजनान्तरेण। निःसर्गमिति छोरणधर्मकम्॥ (३०२) न अनेन संकारं छोरयेत्॥ नावचं छोरयेत् इति वर्तते॥ (३०३-३०८) न हस्तमुखोदकं दद्यात्॥ न प्रमदनधर्मणा श्रामणेरेण निर्मादयेत॥ न सवालुकेन गो-शकृता॥ न अत्यार्द्रं प्रतिशामयेत। नातिशुष्कं अध्युपेक्षेत। न शिलायां स्थापयेत्॥ तावत्कालिकमेतद् स्थापनम्॥ (३०९) न अशुचौ प्रदेशे॥ (३१०) न यत्र क्व चन॥ प्रदेश इति वर्तते स्थापनं च॥ (३११) नास्मिन् निक्षिपेत्॥ यत्र क्व चन अतिनामनार्थं एष निषेधः, न तत्कालार्थम्॥ (३१२) मालकस्य एतदर्थं करणम्॥ पात्रस्थापनार्थम्॥ मालकमिति गवाक्षकस्य नाम। कथं करणमित्याह-॥ (३१३) उत्तिष्ठतोर्विहारपरिगणयोः न खननेन भित्तेः॥ (३१४) चकोरकस्य आरण्यकैः॥ पात्रस्थापनार्थकरणम्। आकाश-मालकमित्यस्य पाठान्तरेण व्यवहारः किम्मयस्य इत्याह-॥ (३१५) लतामयस्य रज्ज्वा वा। विकारस्य रज्जुमयस्येत्यर्थः॥ (३१६) लिप्तस्य गोमयमृदा॥ (३१७) स-तद्विधपिधानस्य॥ पिधानकमपि अस्य लतामयं रज्जुमयं च आलिप्तं गोमयमृदा कर्तव्यमित्यर्थः॥ (३१८-३१९-३२०) लम्बनमस्य कान्तारिकया वृक्षे साधु॥ न भूमौ स्थापनम्॥ न एनं अन्यत्र नयेत्॥ (इति) चकोरकम्॥ (३२१) प्रक्षिप्तं स्थविकायां नयेत्॥ पात्रम्॥ (३२२) न हस्तेन इति नयेत्॥ (३२३) कक्षया अस्य॥ इति पात्रस्य (३२४) नयनं आलयनकं दत्त्वा॥ (३२५) पृथक्स्थवि[का]सु पात्रभैषज्यकोलाहलानि स्थापयेत्॥ अन्यस्यां पात्रं, अन्यस्यां भैषज्यं, अन्यस्यां लोलाहलमित्यर्थः॥ कोलाहलं पुनः आरा-वध्रिकादिद्रव्यम्॥ (३२६) धारयेदेनः॥ इति पात्रादिस्थविकाः॥ (३२७) न तुल्यावलम्बनानां आसु आलयनकानां निवेशं उपयुञ्जीत॥ आसु इति पात्रादिस्थविकासु न-तुल्यबलम्बनानां आलयनका दातव्या इत्यर्थः। तथा च "आर्य, किमयं मृदङ्गः" इति निदानम्। अतः तुल्यनिवेशोपयोगप्रतिषेधपरं एतद्॥ (३२८) अविस्तीर्णानां च दुःखऽनिच्छुः]॥ न आलयनकानां निवेशं उपयुञ्जीत। किंकार[ण]मित्याह-दुःखाऽनिच्छुः।-(३२९) संकोचासंपत्तये न मतदानम्॥ कस्मिन्प्रदेशे न मतदानमित्याह-॥ (३३०) मध्ये॥ आलयन कमिति प्रकरणात् गन्तव्यम्। पृथक्त्वस्य अस्य मध्ये, न दीर्घस्य इति अर्थात् गन्तव्यम्॥ (३३१) स्थानाय अस्येति अन्तरान्तरे काकपदकदानम्॥ (३३२-३३५) चक्षुरिव पात्रं पालयेत्॥ त्वचमिवसंघाटिम्॥ शिष्टं च चीवरं च॥ न प्रतिसंस्करणमुपेक्षेत॥ बन्धन-पचन-धावन-सेचन-रंजनानि-। उभयं हि पात्रं चीवरं च अपेक्ष्य एतद्वचनम्॥ (३३६) अनुतिष्ठेत् पात्र बन्धनं प्रतिगुप्ते प्रदेशे॥ नाप्र-तिगुप्त एतद् क्रियमाणं अप्रसादवस्तु इति ख्यापनार्थं एतत्सूत्रम्॥ (३३७-३३८) उपस्थापयेत् संघः कर्मारभाण्डिकाम्॥ छिद्रस्यतदिति॥ बन्धनम्॥ (३३९) न तु साधु गुड-जतु-सिक्थ-त्रपु-सीसैः॥ केन तर्हि साधु इत्याह-॥ (३४०) साधु पट्टिका-कीलिका-थिग्गलिका-मकरदन्तिका[भिः]॥ (३४१) चूर्णिकया च। लोहस्य पाषाणस्य वा॥ बन्धनं साधु इति अनुबन्धः॥ (३४२) तैलेन धृष्टिरिति॥ चूर्णिकया। कुतो यावदिति आह-(३४३) आसिक्थ-सादृश्यात्॥ केन धृष्टिः इत्याह-॥ (३४४) लोहेन कुरुविन्देन वा॥ अनेन [चूर्णिकायाः तैलेन आर्द्रीकृत्वा यावत् सिक्थसदृशीभावः ता-[व]त्धृष्टिरित्यर्थः॥ (३४५) उष्णे दानमिति॥ पात्रे इति प्रकरणात् प्रतिपत्तिः। तां च पात्रे दत्तां चूर्णिकाम्॥ (३४६) अवगुण्ठ्य ऊर्जेन (?) मृदाऽनुलिप्य, पाकस्य दानम्॥ इत्यनुषङ्गः। कीदृशस्य पाकस्य दानमित्याह-। मध्यस्य॥ (३४७) धृष्टिस्तैलेन। तस्य बन्धस्य तैलतेमनेन धृष्तिः॥ (३४८) गुड-मृदा मृण्मयस्य इति॥ मृण्मयस्य पात्रस्य गुड-मृदा बन्धः॥ पट्टिका इत्यादेः पञ्चकस्य स्थाने-गुड-मृद्-ग्रहणम्। तस्मात् शेषस्य अतोऽत्र साधुत्वं न इत्याः पूर्वस्यानुषङ्गः यथासंभवं वेदितव्यः॥ भुज्यमानत्वे संस्कारस्य प्रत्युपयोगं उपायः। तत्र कियता कालेन पात्रस्य त[दसंस्कृ] तत्वं, येन तपनार्हता, इत्यत्र उच्यते-॥ (३४९) भुज्यमानत्वे पाक्यत्वं मासषट्कान्ते॥ तदेतद् विशेषोक्तं-मार्ते योत्यते-॥ (३५०) मार्त चेत् पक्षस्य॥ -अन्ते पाक्यत्वं इत्यनुषङ्गः। अभुज्यमानत्वेऽपि यथायोगं पात्रस्य प्रतिसंस्करनं अनुष्ठेयम्॥ (३५१) वर्षाश्चेत्, विरुक्षण-म्रक्षितत्वेन कार्यांन्तराले संयोज्यत्वम्॥ प्राण्युपघानमन्तरेण [अ शक्यतायां] अदेयत्वे वर्षासु पाकस्य अदेयत्वे अवस्थिते, यापनस्य एतदाख्यानम्। द्वयोः उपयोगकालयोः मध्यं कार्यान्तरालम्। तत्र अस्य पात्रस्य विरूक्षणेन म्रक्षितत्त्वेन च संयोज्यत्वम्। कार्यं कृत्वा म्रक्षयित्वा स्थापयितव्यम्॥ अपरत्र कार्यकाले विरूक्षयितव्यं इत्येवमेतत्संयोजनं इत्यर्थत्वात् गन्तव्याम्॥ (३५२) पचनमस्या॥ पात्रस्य॥ (३५३) नैतदात्मना कर्तु अयुक्तम्॥ प्रव्रजितस्य [आत्मना कर्तुं अयुक्तम्] इत्यर्थः॥ (३५४) कटाहकस्य तदर्थं उपस्थापनम्॥ तदर्थमिति पाकार्थम्। कीदृशस्येत्याह-॥ तत्त्वोत्पत्तेः। तद्भावतत्त्वे कटाहकत्वेन एव यस्योत्पत्तिः, तद्भूततया एव यस्य करणं, न घटाद्यवयवद्वयेन इत्यर्थः। किमस्यैव एकस्य, न इत्याह-॥ (३५५) तत्त्वोत्पत्तेः कर्परकस्य वा॥उपस्थापनमित्यनुबन्धः। यथास्य कर्परकामेन कटाहकस्य संपादनार्थं साधु घटादेः भेदनकेन [देशित त्वात्]-॥ (३५६) भस्मना पूरयित्वा साधु भेदनं घटभेदनकेन॥ [कथमिति चेत् घटभेदकेन इत्युक्तम्]। लोहमयस्य एतद् कीलकस्य नाम-॥ (३५७) धारणमस्येति॥ घटभेदनकस्य॥ (३५८) तेन अवच्छादनं अपलायिधूमम्॥ तेन कटाहकेन पात्रस्याऽवच्छादनं कीदृशमित्याह-अपलायीधूमम्। तद्विधं एतत्कर्तव्यं यद्विधेः धूमो न पलायते इत्यर्थः। किं अलिप्तेनैव बहिः कटाहकेन इत्याह-॥ (३५९) दत्ततुषमृत्तिकाबहिल पेन॥ दत्तः तुषमृत्तिकया बहिर्लेपो यस्मिन् तेनेत्यर्थः। अभ्यन्तरे किमदत्तेन अस्य कस्यचित द्रव्यस्य लेपेन इत्याह -॥ (३६०) पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण॥ किं अशुष्केन दत्तालेपेन इत्याह-॥(३६१) उपगतशोषेण। कीदृश्यां किमस्तरायां वा भूमौ निहितस्य पात्रस्य अनेन अवच्छादनं इत्याह-॥ (३६२) कृतपरिकर्मायां भूमौ वा स्तृततुषायां अवकीर्णं रूचिरधूमकरकपिण्याकादिद्रव्यायां निहितस्य अधोबिलम्॥ तुषाणामुपरि रोचनशील-धूमकरकानां पिण्याकादीनां द्रव्याणां अवकीर्णमित्यर्थः। कथं निहितस्य इत्याह-अधो बिलम्। किमतः परं कर्तव्यमित्याह-॥ (३६३) गोमयै। पलालेन वा अवगुण्ठ्य आदीपनम्॥ (३६४) सुशीतलस्य अपनयनमिति। पात्रस्य॥ (३६५) आनिष्पन्न-रंग संपत्तेः आवृत्तिः॥ तावत्पाको देयो यावत् रंगसंपन्नम्॥ (३३६) निर्माद्य निर्माद्य आरोपणम्॥ प्रतिपाकं निर्मादयितव्यमित्यर्थः॥ (३३७) सामन्तकस्य प्राणकानां अनुकम्पया संमार्जनं सेकश्च॥ अम्भसा सामन्तकस्यैव। उक्तं-'न अपात्रकं प्रव्राजयेयुः' इत्येतत्प्रसंगागतं सपरिकरं पात्रविधानम्॥ अपरं प्रव्रज्यावस्तुसंबंधा दुच्यते-॥ (३६८) प्ररोहस्य परिव्यंजनं अज्ञातौ वर्षाग्रस्य उपसंपाद्यांगीकरणम्। प्ररोहस्येति बालप्ररोहस्य। कस्मिन्प्रदेशे इत्याह-। परिव्यंजनं, व्यंजनात्समन्ततः। अज्ञातौ वर्षाग्रस्य उपासंपाद्यस्य अंगीकरणम्। अप्रज्ञायमाने विंशतिवर्षत्वे उपसंपन्निभित्तं व्यंजनसामन्तकेन रोमजन्मनो अंगीकरणमित्यर्थः। व्यज्यते अनेन पुरुषभावः इति व्यंजनम्। पुरुषेन्दिर्यम्॥ (३६९) व्याजेन अस्य प्रत्य्वेक्षणम्॥ अस्येति परिव्यंजनं रोमप्ररोहस्य। कीदृशेन व्याजेनेत्याह-॥ (३७०) ऊर्ध्वनागदन्तक-चीवरवंशस्थ भावावतारणादिना। उच्चे नागदन्तके चीवरवंशेऽवतिष्ठतो वस्त्रादेः भावस्य अवतारण-आरोपणादिना॥ (३७१) न उपसंपत्प्रेक्षं वृक्षमधिरोहयेत्। (३७२) न बहिः सीमां प्रेषयेत्॥ उपसंपत्प्रेक्षमिति। अवदर्शन-उपविचारान्तः अत्र सींआ व्यतिष्ठते। कुतो दर्शनोपविचारान्तः उपसंपादनस्थानं तत्स्थानात्। उच्चलितायां उपसंपादनस्थानम्। तदर्थं व्यापृतात् शासनाधिमुक्तात् शीलवतः च भिक्षोः सोपधिवार-विहारस्थानतो गमने तन्मार्गप्रतिपन्नात्। अन्यद विहार-तदितिकरणीय-चंक्रमण-अतिनामनस्थानगतात्-(३७३) दर्शनोपविचार एनं अपकासने स्थापयेयुः गनाभिमुखं प्रगृहीतांजलिम्॥ एनमिति उपसंपत्प्रेक्षम्। अपकासन इति रहोनुशासकगतस्य कर्मणो अश्रवथं संघमध्यात् अस्य पृथक्ज्ञापनं यत्तदत्र अपकासनग्रहणेन गृहीतम्। अपकासने गणाभिमुखं प्रगृहीताञ्जलीः संघमध्यात् अनपकासितो न कर्तव्यः इत्यर्थः॥ (३४७) न गृहिणो निश्रयानारोचयेत्॥ (३७५) न उपसंपन्नमात्राय न आरोचयेत्॥ निश्रयानिति वर्तते। 'गृहनिश्रिताय निश्रयं न आरोचयेत्'-यावत् 'अप्रव्रजिताय' इति। अस्य पश्चात् अयं ग्रन्थः-अन्यतमः ब्राह्मणदारकः प्रव्रज्योपसंपदार्थं उपाध्यायेन यावत्पिण्डपातं गच्छ इति आज्ञप्तः, तेन आज्ञप्ते सति स्वभिक्षा(याचन) हेतुना उद्विग्नः, किं प्रव्रजितेनाऽपि पिण्डपातः कर्तव्यः इति शिक्षां प्रतिषेधते, भगवता गर्हित्वा उक्तम्-"उपसंपन्नमात्राय चत्वारः निश्रया आरोचयितव्याः" इत्यत्र संग्रहोऽयम्॥ (३७६)यत्र निश्रयाऽभावः तत्र पोषधोपासना-निश्रयप्रतिज्ञा-ग्रहणं च न कर्तव्यम्॥ (३७७) निःश्रयप्रतिज्ञाग्रहणं पूर्वं नानुरक्षितव्यम्॥ निश्रयाभावे "प्रतिज्ञायाः पाश्चात् अर्थसिद्धिः दृश्यते' (इति) एतद्वचनं दृष्टम्, तत्र पुर्वकस्मिन् सति पश्चात् प्रतिज्ञा कर्तव्या इति ज्ञायते, इति वेदितव्यम्॥ (३७८) पश्चादपि द्विमासतोधिकम्॥ पश्चादिति ग्रहणम्। द्विमासतोऽधिकं निश्रयाऽभावे न रक्षितव्यम् इत्यस्य अनुप्रतिषेधार्थं 'अपि'-शब्दः। द्विमासं नाश्रित्यापि निश्रितं कर्तव्यं इत्यत्र ज्ञातव्यम्॥ (३७९) वस्तु-कर्म-उपस्थापकपरिहारेण एनं परीच्छेयुः॥ एवं इति वस्तु, वस्त्वादिपरिहारैः एनं वस्तु परीच्छेयुः। वस्तु-परिहारः इति निश्रय-गृहे परिहारः। निश्रयार्हसंघे पुद्गलबहुलत्वात् परीच्छेयुः, इत्यलम् विस्तरेण॥ (३८०) दहरमध्येषु अभावे वृद्धतरमापृच्छेत्॥ अभावे इति निश्रयस्य। 'वर्षावासे अनिश्रितः, इत्युक्ते वचने निश्रितानां मध्ये एकवर्षीयं आचार्यकालमतीत्य वर्षा-विच्छेदात् विहारे अनिश्रित्य गतानां विहारे अनाश्रयः अपि न कर्तव्यः, कृत्वा तु सातिसारो भवति। अथ च यस्तेषु अतिवृद्धः स प्रष्टव्यः। तदनन्तरं प्रवारितेन आचार्यपरिहारः कर्तव्यः। उक्तग्रन्थे एतद् संगृहीतं भवति। अर्थतः(?) तेसां वृद्धतरो दहरः स निश्रितः। वृद्धतरस्तत्र दहरेण प्रार्थितो भवति, 'निश्चये अनिश्रित' इति वेदितव्यम्॥ (३८१) भावेऽपि उपनिश्रयत्वेन॥ इति निश्रये। भावेऽपि आश्रय स्य आश्रये। दहरेषु वृद्धतरः प्रष्टव्यः। अत्रायं ग्रन्थः -"उपनिश्रयत्वेन अयमेव उपाध्यायसमः भवति। अयमेव तेन प्रष्टव्यः। अयमेव तस्य शिक्षितो भवति, पठितोऽपि पाथितो भवति" इति प्रव्रज्यावस्तुनि निर्माणे (?) उक्तम्॥ (३८२) न अनवलोक्य तज्जातीयं परिकर्मयेत् तेन वा आत्मानम्॥ अत्र तज्जातीयं निकायान्तर-प्रव्रजितं ज्ञातं आशंकितं वा॥ (३८३) निर्दोषं अभावे [निश्रयार्हस्य] प्रवृत्तपर्येषणस्य अनिश्रितस्य वाऽपि॥ निर्दोषमिति निरपवादम्। अभावे इति आश्रयस्य। निरपवादः कस्मिन्निति चेत्-तदर्थं प्रवृत्तपरेषण इत्याद्युक्तम्॥ कियत्कालमिति चेत्-॥(३८४) आपञ्चरात्रनिष्ठानात॥ इत्युक्तम्। यावत्पञ्चरात्रपर्यन्तमित्य्रथः। यावत्पञ्चरात्रत्वं हि 'लाभे अर्हत्वम्'। अत्र ग्रन्थः निदानात्-'अनिशिर्तं देशं, उपालि', यावत् गत्वा परीक्ष्य पञ्चरात्रमुपादाय'॥ (३८५) अर्हत्वं च लाभे॥ इत्युक्तं भवति॥ तदपि अप्रतिहतसंबंधे निश्रयपर्येषणे चेति॥ (३८६-३८७) विश्रम्य आगन्तुको द्वितीये तृतीये वा अन्हि निश्रयं गृह्णीत॥ न एकाहस्य अर्थे॥ इति निश्रयं गृह्णीत इत्येतेन अनुबन्धः॥ (३८८) अन्यं असांनिध्ये निश्रितस्य आपृच्छेत्॥ निश्रयकृतेन 'निश्रितः'। एष कर्मणि क-(=क्तः) (प्रत्ययः) निश्रयत्वेन ग्रहणे इत्यर्थः॥ (३८९) निर्दोंषम-नापृष्टौ गतस्य कर्मादाने अपर-तद्-आगतौ॥ कर्मादाननिमित्तं गतस्य अपरस्य कर्मादानस्य आगमने दोषाभावोऽनापृष्टौ इत्यर्थः। विभङ्गादेतद् शयनासन-शिक्षापदात्। 'निश्रयं गृह्णीतं' इति वर्तते॥ [(३९०) न यस्य तस्यान्तिकात्॥] (३९१) निर्ज्ञाय वृत्त-ज्ञान-परिवारानुग्राहकत्वं प्रश्नादिना अस्य ग्रहणम्॥ वृत्तं च ज्ञानं च परिवारश्च ग्राहकत्वं च अनुवादनादौ प्रवर्तमान तां अस्य पुद्गलस्य प्रश्नेन अन्येन वा समाचारेण ज्ञात्वा निश्रयस्य ग्रहणमित्यर्थः। [कतमेन विधिना इति चेत्]॥ (३९२) संवरवत्॥ इति उपासक-संवरादिवत् मन्त्रादिना विधिना इत्यर्थः॥ प्रगृहीताञ्जलिना संवरस्य ग्रहणम्। अस्य तु-॥ (३९३)-(३९४) प्रपीड्य उभाभ्यां पाणिभ्यां उभौ पादतलौ। परीक्ष्य दानमिति॥ निश्रयस्य किमस्य संवरो रूढः शैक्षश्च। शासने स्थापयितुं इत्येषा परीक्षा॥ (३९५) पुत्र-पितृ-संज्ञयोः निवेशनम्॥ यथासंख्यं निश्रयनिश्रिताभ्यां परस्परम्॥ (३९६) तत्त्वे एव उपाध्याये निश्रितत्वम्॥ तद्भावः तत्ता, तच्छब्देन उपाध्यायस्य परामर्शः। उपाध्याये स्थिते उपाध्ययता एव निश्रित्वम्-[अत्रापि] कर्मणि क्तः। निश्रीयत इति निश्रितः, निश्रय इत्यर्थः। तद्भावे निश्रितत्त्वम्॥ (३९७) तस्मात् अग्रहणमस्य तत्र॥ अस्येति निश्रयस्य। तत्रेति उपाध्याये। एतदुक्तं भवति-यस्मादुपाध्यायत्वे एव निश्रयत्वं, तस्मात् 'न यस्य तस्यान्तिकात्' निश्रयो ग्राह्यः इति॥ (३९८) निरपेक्षतासंपत्तिः उभयोः आत्तनिश्रयध्वंसे कारणम्॥ उभयोरिति निश्रितनिश्रितवतोः साक्षेण क्रमेण वा निरपेक्षतायाः संपत्तिः संपन्नता। आत्तस्य गृहीतस्य निश्रयस्य ध्वंसे कारणम्। एकत्र निरपेक्ष[ता-भूते] तावत् निश्रयस्यानुवृत्तिः यावत् अपरो निरपेक्षाभूतः इति। पर्षंत्संबंध एष या [निश्रित-] निश्रितत्व-उपगतिः, न चैकस्य सापेक्षतायां पर्षत्संबंधस्य अपेतत्वम्, इत्येषा अत्र व्यवस्था॥ [सहदर्शंनात् उपाध्यायस्य उद्घातो निश्रयो वक्तव्यः]-(३९९) सन्निपत्तौ अनौपाध्यायेन अभिमतेन प्रवृत्तिः॥यदुक्ते उपाध्याये संनिहिते नान्यः आप्राप्तव्यः इत्यस्य तत्प्रतिपादनम्। [सापे ] क्षत्वे पर्षत्संबंधापगमस्य। उपाध्यायगतात् निश्रयादन्यो निश्रयः अनौपाध्यायः। सन्निपतनं सन्निपत्तिः, तेन सन्निपत्तौ सत्यां अभिमतेन निश्रयेण निश्रितस्य प्रवृत्तिः। योऽस्य रोचते तस्य निश्रयेण वस्तव्यम् इत्यर्थः॥ (४००)तेनैव तेन॥ तेन उपाध्यायगतेन निश्रयेन सन्निपाते, तेनैव उपाध्यायेन प्रवृत्तिः। [नास्त्यत्र कादाचित्कं अकादाचित्कं च]॥ (४०१) निरन्तरं दुष्टवा उपाध्यायं आसनं मुञ्चेत॥ निदर्शनं उपाध्यायः, अन्यत्राऽपि निश्रये विधेः व्यवस्थानात्॥ (४०२-४०३) त्रिर्दिवसेन निश्रित उपसंक्रामेत् तद्विहारस्थः॥ अरण्यवासी क्रोशे चेत् प्रत्यहम्॥ यदि क्रोशे तदरण्यं भवति, यत्र निश्रयो भवति प्रत्यहमागत्य उपसंक्रामेत् इत्यर्थः॥ (४०४-४०५) पञ्चषैः अहोभिः क्रोशपञ्चके॥ पोषधे च अर्ध-तृतीयेषु योजनेसु॥ अतः परं एक [सीमा त्व]-स्याभावात् निश्रयत्वस्याभावो वेदितव्यः॥ (४०६-४०९) न निश्रितं अवसादनार्थं नावसादयेत्॥ पञ्चावसादना-॥ अनासायो, अनववादः, उपस्थानधर्माभिषैः
असंभोगः, प्रारब्धकुशलपक्षसमुच्छेदो निश्रयप्रतिप्रश्रंभणं च॥ अश्रद्धस्य एतदर्हत्वं कुसीदस्य दुर्वचसो, नाहतस्य, पापमित्रस्य च॥ अवसादनार्हत्वमेव॥ (४१०) अवसादितसंग्रहे अन्यस्य स्थूलात्ययः॥ एवमपि क्रियमाणे यदि असौ क्षमाणे आदरं न कुरुते, तत्र किं कर्तव्यम्-। (४११) अनाऱ्उतौ भिक्षोः प्रगुणीकरणाय प्रयोगः अभिज्ञस्य॥ कीदृशस्येत्याह-अभिज्ञस्य, यस्तत्प्रगुणीकरणाय अभिज्ञः तस्य॥ (४१२) त्यक्तः निमित्तस्य क्षमणं क्षमयतः॥ येन निमित्तेन अवसादितः, तस्य परित्यागे क्षमणम्। न च एवमेव, किं तर्हि, क्षमयतः-॥ (४१३-४१५) न अनर्हमवसादयेत्॥ न अर्हस्य न क्षमेत॥ न अनर्हस्य क्षमेत॥ सर्वथा॥ (४१६-४१८) निष्कासनं अक[र]णीयतायं लयनात्॥ परिस्रावण-कुण्डिके दत्वा सान्तरोत्तरं च श्रामणेरस्य॥ उपसंपत्प्रेक्षश्चेत् पञ्च परिष्कारान्॥ दत्वा निष्कासनमिति अनुबन्धः। परिस्रावणस्य प्रागेव उक्तत्वात्, यदितिनोक्तं (त्रि) चीवरं निषदनं पात्रं चेति पञ्च॥ (४१९) उपसंपन्नस्य च॥ पञ्चपरिष्कारानित्यबन्धः॥ (४२०-४२१) न सिंहनिषुरो भवेत्॥ न विघातसं वर्तनं क्रियाकारं कुर्वीरन्॥ संघभूता भिक्षवः॥ (४२२) पलिगुद्धता पर्थुषितत्वं आस्यस्य॥ (नाशो राधते(?), रात्रिवासादुत्थितेन दन्तकाष्थेन अन्येन वा मुखे, निश्रयस्य अन्यस्य वा वन्दनं अभ्यवहरणं वा अकार्यम् इति अस्यैतत्प्रतिपादनम्। "न भिक्षुणा दन्तकाष्ठं अविसर्ज्यं पिण्डपातः परिभोक्तव्यः। भुक्ते सातिसारो भवति" इति। वस्तुमनान्तरीयके निदाने यदुक्तं-'अप्रतिग्राहित-संनिहिताभ्यवहारः प्रतिक्षेपगतः एषः। अनवेत्य मुखमलं आहारपक्षतां भवद्भिः अतिक्रमः क्रियते इत्यस्य, तदेवं प्रतिपादनम्॥ निश्रयवृत्तौ इहोक्त्तिकं-"सार्धंविहारी अन्तेवासी वा कल्यमेव उत्थाय परिमाण्डलं निवस्य आवृत्य च, दन्तकाष्ठं विसर्ज्य अन्तः सीम्नि चैत्यवंदनं कृत्वा इत्यादि यत्परिशोधत्वं मुखमालस्य तदेतद्दन्तकाष्थं विसृज्य" इत्यत्र वचनम्। अतः एतत्सूत्रम्-॥ (४२३) विसर्जयेद्दन्तकाष्ठम्॥नैतद् प्रतिरूपम्, तस्मात् मुखमालशोधनार्थं अवलंबनीयत्वमस्य। कथं विसर्जयेदित्याह॥ (४२४) प्रतिच्छन्नमेव॥ (४२५) उच्चारप्रस्राविक्रिया च॥ प्रतिच्छन्नमेव॥ (४२६) नोपभोग्यस्य अन्ते वृक्षस्य कुड्यस्य वा॥ अन्ते इति समीपे, यत्र महाजनः सदा आस्ते तदत्र उपभोग्यः, न तत्र दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः॥ (४२७) प्रमाणमस्य द्वादशकाङ्गुलीनां प्रभृत्याऽष्टकात्॥ अस्येति दन्तकाष्ठस्य। आ-अषटकादिपाठेऽत्र संधिः द्वादशाङ्गुलमारभ्य यावत् अष्टांगुलत्वं प्रमाणमस्य इत्यर्थः॥ (४२८) आचतुष्कोत्तरात् अभावे बहुश्लेष्मणः॥ अंगुलिचतुष्कस्य यदुत्तरं अनन्तरं प्रमाणं तद् यावद्भावे पूर्वप्रमाणस्य, बहुश्लेष्मणे दन्तकाष्ठ स्य प्रमाणम्। ग्रन्थोऽस्मिन्- "अत्रान्तरान्मध्यम्, अपि तु ये बहुश्लेष्माणः तैः चतुरंगुलविनिर्मुक्तं दन्तकाष्ठं विसर्जयितव्यम्" इति॥ (४२९) न अयुक्तत्वं विसर्जनस्य लयने कठिल्लकस्योपरि॥ विसर्जनस्य इति प्रकृतत्वाट् दन्तकाष्ठविसर्जनस्य॥ (४३०) नाऽसंपत्तिः अत्र गुप्तेः प्रनाडीमुखे॥ अत्र दन्तकाष्ठविसर्जने प्रनाडीमुखे गुप्तिः प्रतिच्छन्नता संपद्यत एव इत्यर्थः॥ (४३१) हस्तसामं तकस्य अत्र एवं-जातीयके संभाव्यत्वम्॥ अत्रेति प्रणाडीमुखे। एवं-जातीयके इति दन्तकाष्ठविसर्जनजातीयके, पादधावनादौ करणीये। हस्तसामन्तकस्य संभाव्यत्वं न हस्तसामन्तकात् परेण दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः॥ (४३२) जिह्वामस्य अनुनिर्लिखेत्। अस्येति दन्तकाष्थविसर्जनस्य॥ (४३३) उपस्थापयेत् जिह्वानिर्लेखनिकाम्॥ (४३४) सूचीद्रव्यम्॥ सूचीपुटा क्रियते रैति-ताम्र-अयः कांसैः तद्रूपैः इत्यर्थः॥ (४३५) कल्पते अत्रार्थे दन्तकाष्थविदलः॥ अत्रार्थे इति जिह्वानिर्लेपनार्थे॥ (४३६) परस्परं अस्याऽतीक्ष्णतायै धृष्टिः॥ परस्परमिति अन्योन्यम्, अस्येति दन्तकाष्ठविदलस्य॥ (४३७-४३८) न तीक्ष्णेन दन्तं जिह्वां कर्णं चोद्धृषेत्॥ न अशनैः। शनैः उद्धृषेदित्यर्थः॥ (४३९) अबाधयन्तं मांसम्॥ इति दन्तमां सादि॥ (४४०)-न अप्राक्षाल्य दिग्धं मुखमलेन प्रदेशं [अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत्]॥ दन्तकाष्ठस्य पवनं छोरयेत् इत्यनेन संबंधः। असंभवे अम्भसः अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत्। पवनं पुनः अनयोः यथाक्रमं दन्तकाष्थं विदलं च॥ (४४१) न विशब्द्येति॥ यथोक्तं द्वयं छोरयेत्॥ (४४२) निदर्शनमेतद्॥ विशब्दनस्य दन्तजिह्वयोः पवनं, अन्यदपि अनेन आक्षिप्तमित्यर्थः। निदर्शनेन यदाक्षिप्तं तद्दर्शयति-॥ (४४३) उच्चार-प्रस्राव-खेट-सिंघाणक-वान्त-विरिक्तमप्यन्यच्च॥ भवति अखेटभूतं वान्तं, विरिक्तं वानुच्चारभूतम्,-तद्यथा नासाविरेके अतिसारिणश्च, यथा पीतनिर्गमे। तस्मात् उच्चार-खेटाभिधाने सत्यपि वान्त-विरिक्त-ग्रहणम्। उच्चारिदिषु अतिरिक्त [स्य स]र्वस्य उपसंग्रहार्थं अन्यच्च-इतिवचनम्॥ (४४४) निर्मादनस्य अतोऽपि संपत्तिः॥ उषाटुक-गोमयादपि॥ इति दन्तकाष्थविसर्जनात्। उषाटुक-गोमयादपि संपत्तिः-। "दन्तकास्थस्य अलाभे गोमयेन उषाटुकेन च मुखं शोधयितव्यम्" इत्यत्र ग्रन्थः॥ (४४५) चैत्यं अनन्तरं कायकरणीयानुष्ठानात् वन्देत॥ दन्तकाष्ठविसर्जनान्तरं यत्करनियानुष्ठानं, तस्मात्-॥
(a) निश्रितप्रतिपद्
(४४६) अथ निश्रित-प्रतिपत्॥ अथ-शब्दोऽधिकरार्थं नानन्तर्यार्थः। इत ऊर्ध्वं निश्रित-प्रतिपत् अधिकृता वेदितव्या॥ (४४७) अतोऽनन्तरं काल्यं उपसंक्रम्य वन्दनम्॥ अतः इति कायकरणीयानुष्ठानान्तरात् चैत्यवन्दनाट् नियतम्। निश्रितस्य स्वास्थ्यकल्ये कायकरणीयानुस्थानं, इत्यतः काल्यतरं निश्रयस्य इति प्रतिपत्तव्यम्। परिशुद्ध-आस्येन वन्दनस्य अग्रत्वे इष्टव्यत्वात्। अन्यथा निश्रितस्य विघातजातेः। न च मन्तव्यं-उषाटुक दन्तकाष्ठोपनामनं इत्यनेनास्य विरोधः इति, ग्लानादौ अवकाशसद्भावात्॥ (४४८) वार्ता-पृच्छनम्॥ (४४९) उषाटुकदन्तकाष्ठोपनामनम्॥ (४५०)महानसं अवलोक्य आरोचनम्॥ इति यत्तत्र उपकल्पितमनुपानं तस्य आरोचनस्य-॥ (४५१) प्रियस्य उपनाम्यत्वेन मनसिकरणम्॥ इति आरोचिते यत्रासौ प्रीतिं संदर्शयति तस्य प्रियस्य उपनामयिष्यामि अस्येदं इत्येवं मनसिकरणम्॥ (४५२) पात्रनिर्मादनम्॥ (४५३) पिण्डपातिकश्चेत् निश्चयो भवति रावकस्य च॥ रवक्षरक-द्वितीय-नाम्नः निर्मादनम्, रैति शब्दं करोतीति रावकः॥ (४५४) सप्रयोजनं चेत् परिस्रावणस्याऽपि॥ निर्मादनमिति संबंधः। प्रयोजनं पुनः कदाचित् बहिरेव भोक्तव्यं भवति। [तदपि भवति चेत् प्रष्टव्यम्]॥ (४५५) सोऽपि चेत् प्रश्नः॥ पिण्डपतिको भवति, ततः पिण्डपात-प्रवेशार्थं साह्य-असाह्य-प्रवेशाभ्यां किमस्य अभिरुचितमिति ज्ञानार्थं प्रश्नः॥ (४५६) साह्यं चेत्-॥ निश्रयस्य निश्रितेन सह प्रवेशे॥-अभिरुचितं तेनैव निश्रयेन सह प्रवेशः॥ (४५७) विषमादौ पुरतो गतिः॥ (४५८) प्रणीतस्य तस्मै च परिणामनम्॥ यदि प्रणीतः पिण्डपातो लभ्यते, तस्मै परिणामयितव्यो अस्मे देहीति॥ (४५९) असहः चेत्-॥ इति प्रवेशः॥-आगत्य उपदर्शनम्॥ [इति] पिण्ड कस्य। [कीदृशं परिणामयितव्यं इति चेत्-॥) (४६०) वरतरस्य उपनामनम् यत्तत्र प्रपीतखाद्यभोजनं भवति, तन्निश्रयाय उपनामयितव्यं गृहाण इति॥ (४६१) मात्रज्ञऽसौ सर्वत्र स्यात्॥ (इति) निश्रयः॥ (४६२-४६३) उदकस्थालकपूर्णम्॥ कालारोचनम्॥ इति भोजन-कलस्य॥ (४६४) भुक्ते पात्रादिनिर्मादनम्॥ (४६५) स्थापनमस्य॥ निर्मादितस्य पात्रादेः॥ (४६६-४७१) चैत्याभिवन्दनायां उषाटुकोदकाद्युपनयः॥ पादप्रक्षालनगतानुष्ठानम्॥ शयनासनप्रज्ञपनम्॥ प्रतिनिवासनार्पणम्॥ निवासनग्रहणम्॥ पादोदकाधिष्ठानकठिल्ल-उपनामनम्॥ पादशब्दस्य उदकाधिष्ठानाभ्यां प्रत्येकं अभिसंबंधः। पादोदकपादाधिष्ठानां कठिल्लानां उपनामनम्॥ (४७२-२७४) उपानत्-प्रोञ्छनम्॥ असम्मतं उत्थानकारकत्वेन गृहितसंमार्जनीकं दृष्ट्वा अल्पोत्सु कं कुर्यात्॥ गृहीत-सूचीकं च असम्मतं चीवर सेवकत्वेन॥ दृष्ट्वा अल्पोत्सुकं कुर्यात् इति वर्तते। सम्मतं तु उत्थानकारकत्त्वेन [चीवरसेवकत्वेन वा] अल्पोत्सुकं अकुर्वतो नस्ति दोषः॥ (४७५) कल्पिकीकरण-अल्पहरितापादान-पुष्पफल्लोच्चय- दंतकाष्ठोपसंहाराद्यपि श्रमणोद्देशे॥ निश्रयं प्रति करणीयमिति अर्थात् गतिः। पूर्वोक्तं च सर्वं इति 'अपि'-शब्दात्। संघेऽपि व्यापरनीयतायां अस्यैतत्करणीयमिति अनुसाराद् गन्तव्यम्॥ (४७६) अर्गडक-आकोटनेन अभ्यतरस्थं बोधयेत्॥ निश्रयं अन्यं च भिक्षुम्। सर्वाधिकरिकः एष विधिः॥ (४७७)शनैः एतद्॥ अर्गडकाकोटनम्॥ (४७८) नाति वेलम्॥ इति न मुहुर्मुहुः अर्गडकं आकोटयेदित्यर्थः। न त्वेनं विध्येत्॥ (४७९) एन नातिवेगेन प्रपीडयेत्॥ एनं अर्गडकं कवाटद्वितीयसंज्ञं नातिवेगेन क्षिपेदित्यर्थः॥ (४८०)शनः सप्रजानन् आप्रविशेत् निस्क्रामेच्च असंघर्षणेन द्वारशाखे॥ यथा अन्योः धृष्टिः न भवति तथा इत्यर्थः॥ (४८१) सत्कुर्यादेनम्॥ [एन मिति' निश्रयम्। अन्तराले निश्रय-निश्रिताधिकारस्य अविच्चिन्नत्वात् एनं-शब्दो निश्रयपरामर्शार्थः॥ (४८२) आलीयेत॥ एनमित्यनुषङ्गः, संश्लिष्टेन निश्रयस्य विहर्तव्यम्, न दूरीभवितव्यमित्यर्थः॥ (४८३) न तद्विरुद्धमिति॥ आलीयेत इत्यनुबन्धः। निश्रयविरुद्धस्य न उपश्लिष्यात् इत्यथः॥ (४८४) अपत्रपेत अतः॥ अतः इति निश्रयात्। यावदुक्तं भवति-सलज्जेनास्य भवितव्यमिति॥ (४८५) दक्षोऽस्य कृत्ये स्यात्॥ दक्षोऽनलसः, अस्य निश्रयस्य॥ (४८६) सत्कृत्यकारी॥ यदस्य करणीयं तत्सकृत्य कतव्यमित्यर्थः॥ (४८७) प्रासादिकप्रस्थानः॥ प्रासादिकेन अभिक्रमादिना युक्तः॥ (४८८) ह्रीमान् सगौरवः। यद्यपि ह्रीविशेषो गौरवं, तथापि नेतच्छब्दादस्य गतिः इत्यस्य ग्रहणम्। प्रसर-सं कोचो ह्रीः॥ (४८९) सप्रतीश इति॥ परायत्ततासंवेदनरूपो अपत्राप्यविशेषः सप्रतीशता॥ (४९०) नीचचित्तः॥ निहतमानः॥ (४९१) संप्रजानन् अहापयन् स्वकार्यम्॥ ध्यानाध्ययनादिकम्॥ [(४९२) किं-कुशलगवेषी कृत्ये वा॥ एतद्गत-निश्रयग्रहणाऽपृच्छता परिवारदानादौ च अन्यत्र वा निश्रितेन किंकुशलगवेषिणा भवितव्यं, न लोकयात्रापरेण एतत्कर्तव्यं इत्यर्थः॥ (४९३) विक्रियां] आपद्यमानं निवारयेत्॥यद्यसौ निश्रयः कांचिद्विक्रियामापद्येत, स निश्रितेन वारयितव्यः॥ (४९४) अवृद्धौ कुशले अन्यत्र तत्करे समर्पणां याचेत॥ यदि अस्य निश्रितस्य तस्मिन्निश्रये कुशलें न वृद्धर्भवति, ततोऽसौ एनं अन्यस्मिन् कुशलवृद्धिकरे निश्रये समर्पणां याचेत॥ सोऽपि एनं प्रश्नादिना-(४९५) निर्ज्ञाय निश्रयार्हे अर्पयेत्॥ [ततोऽपि ? ] परं निश्रयेण निश्रितस्य करणीयम्-॥ (४९६-४९७-४९८) पापमित्रात् वारणम्॥ कुशले नियोगः॥ तदुपसंहारः॥ कुशलोपसंहारः इत्यर्थः॥ (४९९) [व्युत्था] पनायां आपत्तेः आनुलोमिके जीवितपरिष्कारसंपत्तौ च उद्योगः॥ यथा निश्रितस्य एतद्-द्वयं संपाद्यते तथा निश्रयेण उद्योगः करनीयः। सोऽप्येतद् अस्मै कुर्यात् इति [चतुः]-अतिक्रान्तात्सूत्रात् निश्रितेनापि नि[श्रयस्य] एतद्-द्वयसंपत्तौ उद्योगः कर्तव्यः इति प्रतिपत्तव्यम्॥ (५००) सार्धविहारी अन्तेवासिक-उपाध्याय-आचार्य-समानोपाध्याय समानाचार्य-आलप्तक-संलप्तकसंस्तुतक-सप्रेमकं ग्लानमुपतिष्ठेत॥ आलप्तको हि नाम प्रियतां आलपनादि-प्रियाचरणेन उपनीतः। संलप्तको येन सार्धं अस्य विश्वस्तकस्य कालेन कालं संलापो वर्तते॥ संस्तुतको येन सार्धं अस्य एकत्र [स्थान-] गमनादिना संस्तवोपगमनात् अङ्गाङ्गीभावो जातः। सप्रेमको यद् दृष्ट्वा श्रुत्वा वा विनाऽङ्गाङ्गीभावेन प्रीतिमात्रकमुत्पन्नम्॥ (५०१) पूर्वक्रियाऽभावे उत्तर इति॥ सार्धविहारी-अन्तेवास्यादिणां पूर्वेण उपस्थानकरणस्याभावे उत्तर-उत्तरः उपतिष्ठेत्। सार्धविहारिणा उपस्थानकरणस्याऽभावे अन्तेवासिकः उपतिष्ठेत्, तेन उपाध्यायः, तेन आचार्य इत्यादि। गुरुत्वात् उपाध्या-यस्य ततः पूर्वयोः प्रथमं अर्हत्वं, आचार्यच्च अन्तेवासिकस्य, सार्धांविहारिणो अन्तेवासिकात्। अतश्च प्रत्यसन्नतरत्वात् क्षिप्तस्य पूर्वस्य प्रथमं अर्हत्वम्॥ (५०२) पाथाचार्यस्यापि अत्र गृहीतता॥ इत्याचार्यग्रहणेन च॥ (५०३) साह्ये अशक्तौ निश्रितं येन प्रवृत्तिः॥ साह्य इति ग्लान्यस्य अनेकत्र उपस्थेये॥ अशक्तौ इति यद्येकतः अपि उपस्थातुमशक्तिः, ततो निश्रितमुप[तिष्ठे] दित्यर्थः। कतमं निश्रितमित्याह-येन प्रवृत्ति, यमापृष्ट्वा करणीयं करोति। अन्तरा, यदा यस्य येन अतिपत्तिः, तदा तस्मिन् प्रव्रर्तितव्यम्। अत्ययकारिणां अतिपत्तौ, सर्वमुत्सृज्य इत्यर्थात् गन्तव्यम्॥ (५०४) प्रव्रजितवत् अत्र प्रारब्ध-तल्लिङ्गः॥ अत्रेति ग्लानोपस्थानविषयत्वे, यः प्रव्रज्यार्थं मुण्डनादिना वेषमात्रेण योजितः नाद्यापि प्रव्राजितः स प्रव्रजितवत् द्रस्टव्यः। यथा प्रव्रजितस्योपस्थानं तथा तस्य ग्लानस्य कर्तव्यमित्यर्थ॥ (५०५) न ग्लानं सब्रह्मचारिणं अभ्युपेक्षेरन्॥ (५०६) उपास्थायकं अस्य अभावे ददीरन् आऽन्तात्। अभाव इति सार्धं विहार्यादेः। कुतो यावद्देयम् इत्याह-आऽन्तात् इति। यदि दत्तेनाऽपि एकेन अभवो भवति उपस्थायकस्य, त्ने अशक्त्या संभावनकार्य-असद्भावात् अपरं ददीरन्। एवं यावत्पर्यन्तभूतः संघस्य इत्यर्थः। "सर्वस्याभावे संघेन उपस्थायको देयो ग्लानावस्थां परिच्छिद्य, एको वा द्वौ वा संबहुला वा, अन्ततः सर्वसंघेन उपस्थापनं करणीयम्"-इत्यत्र ग्रन्थः॥ [भैषज्यप्रतिशरणत्वात्-] (५०७) कल्पते भैषज्यं संघतः केवलस्य ग्लानस्य परिभोग इति॥ मुण्डगृहपतिद्रव्ये भैषज्यं [यद्] तत्सांघिकायां ग्लानकोष्ठिकायां स्थापयितव्यम्, ग्लानैः भिक्षुबिः परिभोक्तव्यं इति यत्तस्यैतेन संग्रहः॥ (५०८) असत्वे एतद् उपस्थापकः समादापयेत् इति॥ अभावे सति एतद् उपस्थापकेन समादापयितव्यम्॥ (५०९) असंपत्तौ सांधिकं ददीरन्॥ यदि समादाप्यमानमपि न संपद्यते, ततः सांधिकं देयमित्यर्थः॥ (५१०) अभावे (सांधिकस्य) बौद्धिकं आशरीरगतादिति॥ आमुक्तकमपि यत्प्रतिमायां चैत्ये वा आभरणादिभिरपि यावद्देयं अन्याभावे कः [पुन] र्वादोऽन्यस्येत्यर्थः॥ (५११) पानक-छत्रारोपणादिकारान् एनमुद्दिश्य [सांधिकात्] कुर्युः॥ असंपत्ताविति वर्तते, स्वस्याभावे, सांधिकत्। अस्येति सांघिकस्य (५१२) अभावे अस्य बौद्धिकात्। (५१३) देयत्वं आभ्यां आर्तस्य तेनामृत्यौ सति विभवे॥ आभ्यामिति सांघिकबौद्धिकाभ्याम्, असति तु दाने दोषाभावः॥ (५१४) नोपस्थायकः एनं नोपतिष्ठेत्॥ एनमिति ग्लानम्॥ (५१५) न अर्थ्यां अस्य धर्म्या च आज्ञां विलोमयेत्॥ अर्थ्यामिति जीवितपात्र-प्रतिसंयुक्ताम्। अस्येति ग्लानस्य। धर्म्यामिति पुण्योपस्थान प्रतिसंयुक्ताम्॥ (५१६) नाध्यवसान-वस्तूपयाचितो विधारयेत्॥ अध्यवसानवस्तु यत्र पात्रादौ ग्लानस्य तृष्णा। उपयाचित इति ग्लानेन, उपस्थायकः॥ (५१७) न नाववदेत् इति॥ ग्लानमुपस्थायकः॥ (५१९) नैनं ग्लानो अतिलंघयेत् उपस्थायकेन कृतं अववादं न ग्लानो अतिक्रमेदित्यर्थः॥ (५१९) सांघिकादेनं असौ उपस्थायकः-मरणशंकायां शयनासनादुत्थाप्य पौदगलिके निवेशयेत॥ (५२०) अभ्यंजन-स्नपनपूर्वकताव्याजेन इति॥ अभ्यंजन-स्नपनपूर्वकतया व्याजभूतया निवेशयेत् इत्यर्थंः। व्याजस्य अत्र प्रधानत्वात्, निदर्शनमेतद्-द्वयं वेदितव्यम्॥ (५२१) यत्नवान् तदवस्थापरिच्छेदे स्यात्॥ इति मरणावस्थापरिच्छेदे यस्यां शरीरावस्थायां मरणाशंका भवति तस्यामित्यर्थः। यत्नश्च अत्र मुहुर्मुहुः प्रत्यवेक्षणम्॥ (५२२) तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य॥ तेन ग्लानेन कृतसंक्लेशानां तन्मृतचीवराणां इति यस्यासौ ग्लानस्य उपस्थायकः तस्य एव मृतस्य यदि तानि चीवराणि भवन्ति, न अन्यस्य, तेसां धावनम्। तस्य उपस्थायकस्य करणीयमित्यर्थः॥ (५२३) संघस्य तत्स्थविरः संनिपाते पूर्वगमः स्यात्॥ निश्रय-निश्रितप्रकार एषाः इत्येतस्मिन्नवधौ संघस्थविराधिकारस्य उपन्यासः। संघस्य संनिपाते संघस्थविरः पूर्वंगमो भवेदित्यर्थः॥ (५२४) गमने विलंबितं उदीक्षेत॥ तत्स्थविरः॥ (५२५) तेऽपि एनमिति। येषां असौ स्थविरः, तेऽपि एनं गमनविलंबितं उदीक्षेरन्॥ (५२६) अनिर्गतं च दूरं गत्वा॥ (५२७) ग्रामान्ते च। समीपवाची अत्र अन्तशब्दः॥ (५२८) प्रवेशश्चेत् अत्र अनुयान्तम्॥ प्रवेशश्चेदभिप्रेतो अन्वागच्छन्तं एनं ग्रामान्ते उदीक्षेरन्। उदीक्षमाणानां-(५२९) दूतश्चेत् स्यात् "आगमय यावत्स्थविर आगच्छति" इति ब्रूयुः॥ एनमिति दूतम्॥ (५३०) पाण्युदकदाने च गतत्वे अभ्यवहाराय अस्ति चेत्कालः इति॥ गतत्वे भोजनाय पानकाय वा पाण्युदकदानवेलायां यदि बिलम्बमानानां कालोऽस्ति, ततो दूतमेनं ब्रयुः-"आगमय यावत् संघस्थविर आगच्छति" इति॥ (५३१) असति अत्र उपदेशे अस्यासनं मुञ्चेरन्॥ असति उदीक्षणकाले भोजनादि-उपवेशे संघस्थविरस्य आसनं मोक्तव्यम्॥ (५३२) संनिषण्णतायां [बहिश्च प्र] त्यवेक्षेत॥ संनिषण्णः अन्तर्गृहे, बहिः इति आश्रमपदात्॥ अनयोः अवस्थयोः प्रत्यवेक्षणां संघस्थविरेण कर्तव्यम्॥ माऽत्र कश्चित् दुस्प्रावृतो अनिवस्तो वा इत्येदर्थं-॥ (५३३) दुस्प्रावृतत्वे दुर्निवस्ततायां वा सौष्ठवार्थं अनयोः निमित्तं अस्मै कुर्वीत॥ अनयोः इति दुष्प्रावृतता-दुर्निवस्ततयोः। निमित्तमस्मै इति योऽसौ दुष्प्रावृतो दुर्निवस्तो वा॥ (५३४) अप्रतिवेधे अनन्तरेण कारयेत्॥ यदि असौ दुर्निवस्तः संघस्थविरेण क्रियमाणं निमित्तं न प्रतिविध्यति, ततो यस्तस्याऽनन्तरः तेन कारयेत्॥ (५३५) असंपत्तौ स्वयम्॥ एवमपि सौष्ठवकारणस्य असंपत्तौ स्वयमेव कारयेत्। निमित्तस्य अप्रतिवेधे वचनेन कारयेत्॥ (५३६) न एनान सं [ला] पयेत् नवकान्। येषां स तत्र संघस्थविरः-॥ (५३७) यत्रैषां विहारारण्ययोः वृत्तिः तद्वृत्तं ग्राहयेत् [नियुञ्जीत च]॥ येषामिति नवकानाम्। तद्वृत्तमिति विहारवृत्तं अरण्यवृत्तं च। नियुञ्जीत चेति, न केवलं तद्वृत्तं ग्राहयेत्, अपि तु तस्य वृत्तस्यानुष्ठाने नियोगोऽपि एषां कार्यः॥
(b) पश्चात्-श्रमणः
(५३८) आगन्तुकः प्रत्यवेक्ष्य आ[वा] सिकानां आरोचयेत् शयनासनार्थम्॥ शयनासनार्थं आगन्तुकसंघस्थविरः प्रत्यवेक्षेत, येषां असौ संघस्थविरः आवासिकानां, आरोचयेत् शयनासनार्थम्॥ (५३९) गमिको दिक्-सार्थ-आवास-शयनासन सहायकांश्चग्लान्ये न-सहायित्वेन तोलयित्वा प्रक्रमेत्॥ गमिकः संघस्थविरः। गमिकानामिति अर्थात्प्रतिपत्तिः-यस्यां दिशि गन्तव्यां येन सार्थेन मार्गेण च य आवासः तत्र च गतस्य शयनासनं तद् सर्वं बुद्ध्या युक्तायुक्ततया संतोल्य, सहायकांश्च ग्लान्ये सति न केनचित् कश्चित्परित्यक्तव्यः, इत्येवं तोलयित्वा ततो यथाभिमतस्थानसंपादनार्थं प्रक्रमेदित्यर्थः॥ (५४०) सर्वं पश्चात् मा कस्यचित् किंचित् प्रमुषितमिति अपेत्य आदूरं उत्स्मारयेत्॥ संघस्थविर एव॥ (५४१) अनुद्धतान् अनुन्नड्डत्वे न[व]कान् प्रतिष्ठापयेत्॥ अनुपशमः औद्धत्यम्, स्तब्धत्वं [उन्नडत्वं] तद्विपर्यये प्रतिष्ठापयेदित्यर्थः॥ (५४२) कुशलं च उपगतान् सर्वः सर्वान् इति॥ अनुद्धताननुन्नड्डत्वे प्रतिष्ठापयेत् इत्यनुषङ्गः। न गमिकः स्थविर एव, अपि तु अन्येऽपि। न च नवकानेव अपि तु अन्यानपीत्यर्थः॥ (५४३) संजानीत। गमिकः संघस्थविरः॥ संघचर्या-ईर्या-उपदेश-उद्देशादिं-भक्तलाभ-ग्लानसंविधानादि-करनीय-संपादनेन अनु-[गृ]ह्णीत॥ चर्या-गोचरः। ईर्यापथ-ईर्या। तयोरुपदेशः, अयं गोचरः अयमगोचरः एवं गन्तव्यमित्यादि। उद्देशादि इत्यत्र स्वाध्यायनिकादीनां आदिशब्देन ग्रहणम्॥ (५४४) वर्षोपगतो अनुसंज्ञाय विहारं अप्रतिसंस्कुर्वतः संस्कारयेत्, संस्कुर्वतो अभ्युत्साहयेत्॥ (५४५) पर्षद्गतान् सर्वः कथैषितायां अनुलोमिकधर्मोपसंहारेणानुगृह्णीत॥ स चेत् पर्षद्गताः कथां एषन्ते ततो यो यस्यानुकूलो धर्मोपसंहारः तेन अनुगृह्णीत। सर्वः इति संघस्थविरः, न च वर्षोपगतसंघस्थविर एव॥ (५४६) तूष्णीत्वे र[ता]न् उपेक्षेत॥ तूष्णीभावः तूष्णीत्वम्। आर्यः अत्र तूष्णींभावोऽभिप्रेतः, न मौनमात्रम्॥ (५४७) गृहिणः उपगतान् भक्तान् संविभाजयेत्॥ युक्तमेषां भक्तं दातुमिति। भिक्षून् बोधयित्वा यदि ते भिक्षवः संघस्थविरेण उक्ताः संविभागं न कुर्वन्ति, ते वा गृहिणो भोक्तुं नेच्छन्ति ततः-॥ (५४८) अकरणे अनिष्टौ वा धर्म्यामेतां कथां कृत्वा इदमस्माकं संविद्यते इति ब्रूयात्॥ (५४९) पर्षदं तद्वान् सर्वः प्रत्यवेक्षेत॥ सर्वः पर्षद्वान्, न संघस्थविरः एव इत्यर्थः॥ (५५०) मुधाचारिणं निगृह्णीयात्॥ सर्वः पर्षद्वान् इत्यनुषङ्गः। यथा न वृथा कालमतिनामयति, न निरर्थिकां प्रव्रज्यां करोति तथा कर्तव्यमित्यर्थः॥ (५५१) गमनादि अत्र यथा एतत्कुर्यात्॥ एवं गन्तव्यं, एवं स्थातव्यं इत्यादि संनिवेशापेक्षः 'आदि'-शब्दः॥ 'अत्र' इति पर्षदि। 'यथा एतद्' इति यथा पर्षद्, पर्षदनुरूपं इत्यर्थः॥ (५५२) अ-नानातिर्यक्-कथः स्यात्॥ अत्र इति वर्तते। धर्मविनयादपक्रान्ताऽपार्श्वेन अस्य वर्तिनी, तिर्यक् कथा, नानाकथाविप्रकीर्णाः॥ (५५३-५५४) न पुरः पश्चाच्छमणो गच्छेत्॥ न तिष्ठेदिति॥ पुरतः पश्चात् (वा) श्रमणे न तिष्ठेदित्यर्थ॥ (५५५) उक्तो ब्रूयादिति॥ नानुक्तेन किंचिद्वक्तव्यम्॥ (५५६) संपादयेद्वेति॥ यदस्य उच्यते पुरःश्रमणेन तत्संपादयेत् इत्यर्थः॥ (५५७) न अन्तराकथां अवपातयेत् इति॥ पुरःश्रमणे कथां कुर्वाणे, न अन्तरा-कथां कुर्यादित्यर्थः॥ (५५८) अधर्मं भाषमाणं। (इति) पुरःश्रमणं। प्रतिवदेत्॥ (५५९-५६०) धर्मं अनुमोदेत॥ संपन्नधार्मिकं लाभं प्रतिगृह्णीत॥ इति पश्चाच्छ्रमणः॥ एतत्पश्चात्-श्रमणवृत्तम्॥
(c) कुलोपसंक्रामी-भिक्षुगतम्।
कुलोपसंक्रमिणो वृत्तमुच्यते॥ (५६१) अनुन्नडः। इति सर्वः। कुले स्यात् अनुन्नडः अनवस्थितः॥ गृहादपक्रमितुकामता, अनवस्थितत्वम्॥ (५६२) अवक्षिप्तचक्षुरिति॥ विषयेभ्यः प्रतिसंवृतचक्षुरित्यर्थः॥ (५६३) धर्म्यां गृहिभ्यः कथां कुर्यात्॥ (५६४)दान-दम-संयम-ब्रह्मचर्यवासोपोषध-शरण-गमन-शिक्षापदग्रहणेषु एनान्नियुञ्जीत॥ एनानिति गृहिणः। दमो वशीकरणम्, वशीकृतत्वं चेन्द्रियाणां कायवाचोश्च संयमोऽविसरणं एषाम्, विनयनं विनियतावस्थानम्। ब्रह्मचर्यवासश्च इति प्रव्रजितवृत्तम्, गृहित्वे च यावज्जीविका ग्राम्यधर्मात् प्रतिविरतिः॥ (५६५) सर्वत्र-आपत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत॥ स्मृत इति आपत्तिषु इत्यर्थात् गतिः। कुल[प्रवे] शादौ यद्गमनादिप्रस्थानं आपत्ति-उत्थानद्वारभूतं, तत्र तथा स्मृत्रुपस्थाप्या यथा न किंचिदापद्यते॥ (५६६) न न-शिष्टः अनुगम इति॥ प्रतिपद्येत इत्यनुषङ्ग। नानुशिष्टोऽयं अनुबद्धः, तेन न प्रतिपद्येत। न विलङ्घयेत अस्यानुशासनीमित्यर्थः॥ (५६७) एहि इति स्वागतपूर्व-प्रियालाप्यभिगते स्यादिति॥ एहि इति स्वागतालापी पूर्वं च आगतालपनात् प्रियालापी स्यादित्यर्थः। [अभि]गते इति गृहिणि प्रव्रजिते वा॥ (५६८) उत्तानमुखवर्णः। इति अगहनायमानः॥ (५६९) स्मितपूर्वंगम इति॥ स्मितेन प्रथमं गन्ता, सांमुख्यस्य दाता इत्यर्थः॥ भवति सान्तरेऽपि प्रस्थाने सस्मितत्वमिति, आह-॥ (५७०) विगतभ्रुकुटिःः॥ (५७१) गृही चेदभ्यागतः, धर्म्यां अस्मै कथां कुर्यात्॥ (५७२) [अनागच्छति अत्र ग्रामान्तिकः संरंजनीयं यथा शाक्ति प्रवर्तयेत्]॥ [अनागच्छति इति गृहिनि। ग्रामान्तिको भिक्षुः। संरंजनीयं भोजनादिना] यथाशक्ति प्रवर्तयेत्॥ (५७३) पानीयाऽसनमुपस्थापयेत्॥ आरण्यकेऽपि, पानीयं आसनं चेति विग्रहः॥ (५७४) संमार्ग-शयनासनप्रज्ञपनपानीयस्थापन-चारण-भक्तनिःसर्गान् नवकः कुर्यात्॥ यत्र तत्र समागमे समागमे सर्वमेतत्तेन नवकेन कर्तव्यम्॥ (५७५) उपगच्छेत् विलोमां परिजनक्रियां, न चेत् स्व-परोपघाताय॥ उपगच्छेदिति अध्युपेक्षेत। न चेत् अभ्युपगम्यमाना आत्मनः परेसां वा उपधाताय भवति॥ (५७६) अस्मै चेत्-॥ परिजनस्य सा क्रिया उपघाताय चेत्॥ शक्तौ सत्यां समुच्छिद्य एनां-विलोमां क्रियां अन्याम्॥ धर्म्यां-॥ क्रियाम्॥ उत्पाद्य तथा-॥ परिजनं॥ संज्ञापयेत्॥ (५७७) भङ्गेऽप्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्करणम्॥ इति तस्यां धर्म्यायां क्रियायां उत्पाद्यमानायां तस्य परिजनस्य यदि चित्तभङ्गो भवति दुर्मनस्कताऽप्ररोगे वा अन्येन प्रक्रमणं तस्य प्रतिसंस्करणम्। तथा दानादिना प्रतिसंस्कर्तव्यम्। परिजने यथाऽस्य एतद् द्वयं न भवतीति॥ (५७८) अशक्तत्वे अन्येन प्रक्रमणम्॥ इति समुच्छेत्तुमशक्तत्वे अन्येन प्रक्रमितव्यम्॥ (५७९) न तु तत्प्रत्ययं विगृह्य-॥ परिजनस्य॥ ब्रूयात्॥ (५८०) संघारामेऽपराध्यन्स्तथा कुर्याद्यथा स्वयं ग्राहिकया ग्रहणं गच्छेत्॥ (५८१) अगच्छन्तमनारोच्य सहसा कस्यचित् कुमार-मित्र-अमात्य-भट्ट राजपुत्रेभ्यः पादमूलिकान् ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात्॥ ग्राहयित्वा इति बोधयित्वा। शुद्धिकापर्षद् यत्र न दण्ड्यते तत्र निहन्यात् पराजयेदित्यर्थः। कुमारादिनां तु यत्प्राग्बोधनं तदेतदर्थम् आपराजितः तदाश्रयेण नापकुर्यात् इत्यर्थः॥ उक्तं प्रव्रज्यावस्तुसम्बद्धं भिक्षुगतम्॥
(d) भिक्षुणीगतम्।
भिक्षुणीगतमिदानीमुच्यते॥ तत्र यत् प्रव्रज्योपसंपदोः 'पुरुषः' उक्तं, तदेव स्त्रियामिति अङ्गोकृत्य विशेषः आख्यायते॥ (५८२) भिक्षुणी भिक्षुस्थाने॥ संघैकदेशभूतः [एकभू-] तो वा उपाध्यायरोचकादि यत्र भिक्षुरुक्तो भिक्षुनी तत्र द्रष्टव्या इत्यर्थः॥ किं सर्वस्य भिक्षोः स्थानेऽथ कस्यचिदित्याह-॥(५८३) सर्वस्य प्रव्रज्यायाम्॥ प्रव्रज्याविषये सर्वस्य उपाध्यायादेः भिक्षोः स्थाने भिक्षुणी प्रतिपत्तव्या। उपाध्यायिकार्थ आरोचनं, श्रामणेरीसंवरदाणं इत्येतत्सर्वं भिक्षुणीभिरेव अनुष्ठातव्यम्। नास्त्यत्र भिक्षोरधिकार [इत्यस्य] तत्-प्रतिपादनम्॥ (५८४) उपसंपदि अन्यस्य तद्याचनादौ कर्मकतुः॥ उपसंपदि न सर्वस्य भिक्षोः स्थाने भिक्षुणी द्रष्टव्या। अपि तु उपसंपद्याचनादौ, यः कर्मकर्ता ततोऽन्यस्य भिक्षोः स्थाने भिक्षुणी उपसंपद्याचनात्प्रभृति कर्मकारकोऽत्र भिक्षुरेव न भिक्षुणी इति उक्तं भवति। प्राक् तु उपसंपद्याचना[याः] भिक्षुणी कर्मकारिका, याऽसौ केवलभिक्षुणीसंघमध्ये ब्रह्मचर्योपस्थाने संवृतिं ददाति इति॥ (५८५) अत्राच[य]स्संघः॥ अत्र उपसंपदि याचनादौ भिक्षुसंघः॥ आचयभूतः प्रतिपत्तव्यः। उभयसंघे सन्निपतिते याचनात्प्रभृति कर्म कर्तव्य मित्यर्थः॥ (५८६) कथनं भिक्षुण्यान्तरितं आन्तरायिको स्यात् वा॥ इत्यान्तरायिककथने संघमध्ये क्रियेते-एकं केवलभिक्षुणीसंघमध्ये, ब्रह्मचर्योपस्थान-संवृतिदाननिमित्तद्वयमुभयसंघमध्ये॥ द्वयस्याऽपि एष विधिः प्रतिपत्तव्यः। लज्जानिमित्तमेतदुक्तम्-तस्मात् कामचारविज्ञानार्थं आदौ क्रियापद प्रयोगः॥ (५८७) शिक्षमाणात्वं नाम स्त्रियामपरं पर्व॥ श्रामणेरिकात्वं भिक्षुणीत्वं इत्येतत्पर्वद्वयं पुरुषसाधारणम्। इदं तु तृतीयं अस्याः पर्व। तच्च-॥ (५८८) निश्रितायामेव॥ श्रामणेरिकात्व-भिक्षुनीत्वाभ्यां अविशेषतासंदर्शनार्थः 'एव'शब्दः, यथा इमे पर्वणी। निश्रितायामेवं एतदपीति। अतश्च उपाध्यायिकात्वेन भिक्षुणीं काञ्चिच्च, न तामेव यां श्रामणेरिकार्थं इति प्रतिपत्तिः। तदेवं स्त्रियां त्रित्वमुपाध्यायस्य, पुरुषे तु द्वित्वं इति जातं भवति। कस्यामवस्थायां शिक्षमाणात्वं नाम स्त्रियां अपरं पर्व, कियन्तं वा कालं अस्य चरणं इत्याह-॥ (५८९) श्रामणेरिकात्व-भिक्षुणीत्वयोः अन्तराले वर्षद्वयचरणस्य कालः॥ तावन्तं कालं आचरित्वेन उपसंपादनं इत्येवं कालपरि ग्रहो, न अत्रोर्ध्व चरितव्यमेतद् व्रतमिति। तस्मात् न पूर्णत्वेऽस्य कालस्य प्रागुपसंपत्तेः अशिक्षितव्यं अस्यां शिक्षायाम्, ध्वंसो वा अस्य संवरस्य इति प्रतिपत्तव्यम्। कोऽस्य शिक्षमाणात्व-प्ररोहस्य काल इत्याह-॥ (५९०) तदूनोपसंपत्कालाद्यादिकः प्ररोहस्येति॥ उपसंपत्कालस्यादिः। स द्वि[वि]धोऽस्याः। कुमारिकायाः विंशतिवर्षत्वं, गृहोषितायाः द्वादशवर्षत्वम्। तेन चरणकालेन वर्षद्वयेन ऊन-उपसंपत्कालादिना आदिः, [तदूनोपसं पत्कालादिः] अस्य कालस्य सोऽयं कालः तदूनोपसंपत्कालाद्यादिकः। एषोऽस्य शिक्षमाणात्वप्ररोहस्य कालः। कुमारिकायाः अष्टादशत्वं वर्षाणां, गृहीषितायाः दशवर्षत्वमित्यर्थः॥ ग्रन्थोऽत्र भिक्षुनीविभङ्गे-"या गृहोषिता दश वर्षा, कुमारिकाभूता वा अष्टादशवर्षा। तस्याः द्वे वर्षे शिक्षा संवृतिर्देया" इति॥ उपसंपत्कालस्य अत्र विघौ अंगीकृतस्य विशेषः आख्यायते-॥ (५९१) द्वादशत्वं वर्षाणां उपसंपदि-ऊढतायां आदिः॥ ऊढतायां कृतावाहनतया कृतविवाहतायां, द्वादशत्वं वर्षाणां उपसंपदि कालस्य आदिः॥ (५९२) दानादुत्थानम्। शिक्षमाणात्वस्य इत्यनुषाङ्गः। केन [दा] नादित्याह-॥ (५९३) भिक्षुणीसंघेन॥ कथमित्याह-॥ (५९४) शिक्षासंवृतिरिति दानम्॥ "इयं एवंनामा शिक्षासंवृतिं याचते, यावत्तत्संघः शिक्षासंवृतिं ददाति" इत्येवमादेः मन्त्रस्य एतदुल्लिंगनम्॥ (५९५) अनन्तरमस्य शिक्षोत्कीर्तनम् अस्य शिक्षासंवृतिदानस्य अनन्तरं शिक्षायाः उत्कीर्तनम् -षण्णां धर्माणां, षण्णां अनुधर्माणाम्॥ तत्र षट् धर्माः कतमे—
नै काकिनी प्रव्रजेत् मार्गम्। नदीपारं न संतरेत्॥
न स्पृशेत् पुरुषं, तेन। नौकागारे सह स्वपेत्॥
सांचरित्रं तु नो कुर्यात्। अवद्यं छादयेन्न च॥
इत्येते शिक्षमाणायाः। षट्-धर्माः परिकीर्तिताः॥
षट् अनुधर्माः कतमे।-
जातरूपं न गृह्णीयात्। न गुह्ये रोम शातयेत्॥
न खनेत् पृथिवीं चाऽपि। न छिन्द्यात् हरितं तृणम्।
नाऽप्रतिग्राहितं स्वादेत्। स्वादेत्संनिहितं न च॥
उक्ता इमेऽनुधर्माः षट्। शिक्षमाणेषु शिक्षणात्॥
(५९६) न अलब्धब्रह्मचर्योपस्थान-संवृतेः उपसंपद्॥ उपसंपद् अत्र ब्रह्मचर्यम्, तस्योपस्थानं उपजननं, ब्रह्मचर्योपस्थानाय संवृतिः ब्रह्म्चर्योपस्थानसंवृतिः, सा न लब्धा यया सा इयं अलब्धब्रह्मचर्योपस्थानसंवृतिः, तस्याः। उपसंपद् न भवति, [यस्मात्] उपसंपदार्था सैषां संवृतिः। क्षेत्रतायां नियमनं इत्यतो अस्यां अलब्धार्था नोपसंपद्। कदा अस्याः दानम्-(५९७) रहोनुशासनादूर्ध्वं तद्दानम्॥ तस्य ब्रह्मचर्योपस्थानसंवृतेः दानम्॥ केनेत्याह--॥ (५९८) संघेन॥ प्रकृतत्वात् भिक्षुणीसंघेन प्रतिपत्तिः॥ किं एवमेव अस्या दानमित्याह-॥ (५९९) पृष्ट्वा आन्तरायिकम्॥ तदेवं अस्याः त्रयः आन्तरायिकप्रश्नाः भवन्ति। एको-रहोनुशासिकया भिक्षुण्या, द्वितीयः-केवलभिक्षुणी संघमध्ये ब्रह्मचर्योपस्थान-संवृत्यंगभूतः, तृतीयः उभयसंघे याचितायामुपसंपदि उपसंपदङ्गभूतः। यचनमत्र याचिते। कर्मादानं इत्यतः प्राप्तम्, ततोऽस्यामपि याचितायामेव दानं युक्तरूपं, इत्याह-॥ (६००) याचितायामिति॥ याचितायां ब्रह्मचर्योपस्थानसंवृतौ अस्याः ब्रह्मचर्योपस्थानसंवृतेर्दानं, न अयाचितायामित्यर्थः॥ (६०१) पंचत्वं चीवरेषु॥ भिक्षुण्याः त्रिचीवरं, कुसूलकं संकक्षिका च अधिके॥ (६०२) निश्रयेषु विवृक्षमूलत्वम्॥ विवर्जितवृक्षमूलत्वं, वृक्षमूलं वर्जयित्वा अन्ये त्रयोऽस्याः निश्रयाः॥ (६०३) अष्टत्वं पतनीयेषु॥ 'स्पर्शः पंजरनिक्षेपः प्रतिच्छादो निवारणं' इत्यधिकाश्चत्वारः॥ (६०४) गुरुधर्मारोचनम्॥ अष्टौ गुरुधर्मा आरोचयितव्याः। ते पुनः-"उपसंपद् भिक्षुभ्यः। प्रतिपक्षं चाववादपर्येष्टिः॥ नाऽभिक्षुक आवासे। कुत्रचि वर्षोपगमनं च॥ भिक्षोराप त्सुचोदनम्। अरोषणं वन्दना च नवकस्य॥ उभयगणात् मानाप्यम्। प्रवारणा चेति गुरुधर्माः॥" कस्मिन् काले तदारोचनमित्याह-॥ (६०५) पतनीयश्रमणकरकान्तराले॥ (६०६) कृत्-षट्के॥ 'पूर्वप्रव्रजिते' ति-अतो यावत्कृत् इति अस्य यः संज्ञावान् 'माऽसि' इति प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत् उपसंपादकाश्च न प्रव्राजयेयुरुपसंपाद[ये]युर्वा इति स प्रतिपत्तव्यः इत्यर्थः॥ (६०७) नास्ति अस्याः प्ररोहणधर्मता इति च॥ एतच्च अत्र विधिषट्कं प्रतिपत्तव्यम्। नाशनं एवंविधस्य लिङ्गिनः इत्येतत्सर्वाधिकारिकत्वात् वक्तव्यम्। पुनरिहेति वेदितव्यम्। कतमत्षट्कमित्याह-॥ (६०८)-(६१३) उभयव्यंजना॥ संभिन्नव्यंजना॥ सदाप्रस्रवणी॥ अलोहिनी॥ नैमित्तिकी॥ केयं नैमित्तिकी नाम इत्याह-॥ निमित्तमात्रभूतव्यंजना तदाख्या॥ निमित्तमात्रभूतं व्यंजनं यस्याः तस्याः नैमित्तिकीति आख्या, संज्ञा॥ (६१४) पूर्वप्रव्रजिता। माऽसि उभयव्यंजना' यावत् 'माऽसि पूर्वं प्रव्रजिता' इति प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत्॥ यावत्'नास्ति अस्याः प्ररोहणधर्मता' इत्येष अत्र नयः प्रतिपत्तव्यः॥
क्षुद्रकादिप्रव्रज्यावस्तुगतम्॥
(vi) पृच्छागतम्। (a) संवर-असंवरौ
(६१५) न अमनुष्यगतिकौत्तरकौरवकयोः सवरस्य क्षेत्रत्वम्॥ मनुष्यगतेः अन्यस्यां गतौ उपपन्नः, मनुष्यगतिकत्वेऽपि औत्तर-कौरवकः [च]; नैषां संवरः आरोहति इत्यर्थः॥ (६१६) न ततीयस्यां परिवृत्तौ व्यंजनस्य॥ संवरस्य न क्षेत्रत्वमित्यनुबन्धः॥ यस्य त्रिर्-व्यंजनं परिवर्तते, न तस्य संवरो रोहतीत्यर्थः॥ (६१७) न प्रथमद्वयोः द्वस्तिरिति॥ न प्रथमद्वितीययोः व्यंजनपरिवृत्योः ध्वंसः संवरस्येत्यर्थः। क्षुद्रकेभ्यः एतद्विधिद्वयं सादृश्याद् हृष्टम्॥ (६१८) उत्थानं गृह्यमाणत्वे॥ समादीयमानत्वे व्यंजनपरिवृत्तौ सत्यां उत्थानं संवरस्य॥ "उपसंपदापेक्षिणो व्यंजनं परिवर्तते-उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः॥ आह-अनुपसंपन्नो वक्तव्यः॥ भिक्षुभ्यो हि भिक्षुण्या उपसंपदा भिक्षुणीभावः पर्येषितव्यः" इति अत्र ग्रन्थः॥ निदर्शनमत्र पुरुषस्यव्यञ्जनपरिवृत्तिः। निराशङ्क-तरत्वात् अन्यत्वमत्र विधेः। उपसंपद्यमानावस्थोऽत्र उपसंपत्प्रेक्षी गृहीतः, प्राक्परिवृत्तो भिक्षुमात्रसंनिपातस्य अयोगात्॥ (६१९) अनुपाध्यायकतायां तद्वतः॥ तद्वतः इति उपाध्यायवतः। संवरस्य विनाऽपि उपाध्यायेन भवति उत्थानम्॥ (६२०) अनुपसंपन्नत्वेऽस्य॥ उपाध्यायस्योप संपन्नत्वेऽपि उपाध्यायवतः संवरस्य भवत्युत्थानम्?-॥ (६२१) न, जानानेऽस्य अभिक्षुत्वम्॥ न उत्थानं उपाध्यायवतः संवरस्य जानाने समादातरि अस्योपाध्यायस्य अभिक्षुत्वं अनुपसंपन्नत्वं ध्वस्ततां वा। ग्रन्थोऽत्र-'उपसंपदापेक्षी स्तैन्यसंवासिकेन उपाध्यायेन उपसंपाद्यते, उपसंपन्नो वक्तव्यः, अनुपसंपन्नो वक्तव्यः?-। आह-यदि जानीते स्तैन्यसंवासिको मे उपाध्यायः इत्यनुपसंपन्नो वक्तव्यः।यदि न जानाति, उपसंपन्नो वक्तव्यः॥ एवं पूर्वापन्नकेन उपाध्यायेन"........इत्यादि॥॥ आदिव्यग्रकेणागारिकेण उपाध्यायेनेति। ननु च अनुपाध्यायत्वेऽपि संवरस्योत्थानम्, तत्कथं जानाने अस्याऽभिक्षुत्वं न भवति, यस्मात् विपन्नो जाना[ती] त्याशयो भवति, शीलेऽनाहतो भवति, अनर्थो वा शीलेन इत्यतः एतदुत्थानम् [इति चेत्, तन्न]। नाजानाति अनुपाध्यायतां यावत्, तस्मात् अविरोधोऽत्र अनुत्थानस्य॥ यत्तु उपाध्यायस्य अनुपसंपन्नत्वे संवरस्य उत्थानमुक्तं संघमधिकृत्य एतद्, संघस्यानुपसंपन्नतां जानानेन भवति उत्थानं, न उपसंपत्प्रेक्षी [इती]॥ (६२२) नैनं प्रत्याचक्षणे॥ संवरमुखत्वात् उपाध्यायस्य तद्-प्रत्याचक्षणे नास्ति संवरस्य उत्थानम्॥ ग्रन्थोऽत्र-उपसंपद्यमानः उपाद्यायं प्रत्याख्यातं उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः?-आह-अनुपसंपन्नो वक्त[व्य] इति॥ (६२३) न अनयोः नाम-अनुद्भावने॥ अनयोः क्षेत्रोपाध्यायोः समादात्रा [कर्म] कारकेण वा नामानुत्कीर्तने न भवति संवरस्य उत्थानम्॥ (६२४) न संघस्य तद्योनेः॥ समादातृ-कर्मकारकाभ्यां अन्यतरेणाऽपि संघस्य नाम्नोऽनुद्भावने, तद्योनेः, संघयोनेः, तद्वंशस्य, संवरस्य न भवत्युत्थानम्॥ ग्रन्थोऽत्र-"समादातारं प्रति त्रयः पुद्गलाः अनुपसंपन्नाः, आत्मनो नाम न आचष्टे, उपाध्यायस्य नाम नाचष्टे, उपसंपदं च न जानाति" इति॥कर्मकारकं प्रति अयं ग्रन्थः -"त्रयाणां नाम न परिकीर्तयति-उपाध्यायस्य, उपसंपदाप्रेक्षिनः, संघस्य च। उपसंपन्नो वक्तव्यः, अनुपसंपन्नो वक्तव्यः इति। [आह-अनुपसंपन्नो वक्तव्य इति]। अप्रत्युपस्थापनमेतद्, गृहीतृत्वेन यदत्र समादातुः आत्मनो नामाऽनुकीर्तनम्। संघस्यैतद् प्रत्युपस्थापनम्। अनुगृहीतत्वेन यत् संघस्या नेन नामानुद्भावनम्। यद् कर्मकारकेण समादातुः तद्विषयत्वस्य उपनीतेः तदकरणम्। यत्संघस्य संघकर्तृकत्वस्य उपनीतेः तद्करणम्। यदुपाध्यायस्य कर्मकारकेण नामाऽनुद्भावनं, तदपि संघकर्तृकत्वस्यैव उपनीतेः अकरणम्। यस्मात् यत्र कर्मणि तत्र संघस्य कर्तृत्वप्रतिपत्तिः, ततोऽन्यस्य तत्कर्मणः करणम्। यदुपाध्यायस्य समादात्रा नामानुद्भावनं, तद् यस्य कर्मणः करणं सोपाध्यायकस्य, न तत्र तस्य विषयत्वेन प्रत्युपस्थानम्। तदनुत्थानं एषां नामानुद्भावने संवरस्य॥ (६२५) नऽगारिक-तीर्थिकध्वजे॥ प्रत्येकं ध्वजशब्दस्य परिसमाप्तिः। आगारिकध्वजे तीर्थिकध्वजे इति बहुव्रीहिश्चात्र समासः। आगारिकध्वजो ध्वजो यस्य, तीर्थिकध्वजो ध्वजो यस्य। आभ्यां ध्वजाभ्यां गृहीताभ्यां न भवति संवरस्योत्थानम्। वेषश्चात्र ध्वजः॥ (६२६) न नग्नकुपित पुँफालिनीषु॥ संवरस्योत्थानं इत्यनुषङ्गः। समादानतो नग्नीभूतस्य तीर्थिकध्वजः इति अनेनैव संग्रहात्। अन्यार्थं नग्नग्रहणम्, प्रमुक्तप्रग्रहत्वं अस्यामवस्थायां चित्तस्य इति संवरस्यानुत्थानम्। कुपितत्वे स्थैर्यभङ्गः। पुंफालिणीं तावता भदन्ता उपसंपादयन्ति, उपसंपन्ना वक्तव्या अथ अनुपसंपन्ना? [आह]-अनुपसंपन्ना वक्तव्या। उपसंपादकाश्च सातिसारा इति। पुंफालिनी पुरः यत्संयोगात् पुरुषो म्रियते॥ (६२७) न निमित्तविपर्ययाऽनभ्युपेतौ उत्क्षिप्तकस्य॥ स-दृष्टेः विरति आशयस्य संवरसंपत्तिः, तस्मात् येन निमित्तेन आपत्त्यदर्शनादिना-उत्क्षेपणीयं कर्मकृतं भवति, तद्विपर्यय-अनभ्युपगमे नाष्ति संवरस्य उत्थानम्। निदर्शनमत्र उत्क्षिप्तकः। सर्वप्रणिहितेषु एष विधिः। कलहकरणादि-आशयस्यापि अविरति-आशयत्वात्॥ (६२८) दुष्कृतमात्रकं अपूर्व-पर्वतायाम्। विना उपासकत्वेन श्रामणेरत्वोपगतौ, विना श्रामणेरत्वेन भिक्षुत्वोपगतौ दुष्कृतमात्रकं भवति, न अनुत्थानं संवरस्य॥ ग्रन्थोऽत्र- "आगारिक-अप्रव्रजितकं उपसंपादयन्ति, उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्य इत्याह-'उपसंपन्नः, उपालिन्, उपसंपादकाश्च आपद्यन्ते दुष्कृता [पत्ति]मिति"॥ (६२९-६३०) अयाञ्चायामुपाध्यायस्य अन्तरायिकयाऽप्रश्ने॥ उभयत्र अत्र दुस्कृतमात्रकम्, न अनुत्थानं संवरस्येत्यनुषरङ्गः॥ (६३१) प्रतिज्ञानेऽस्य असतो दाने॥ असतो इति असंविद्यमानस्य, समादात्र अन्तरायिकस्य 'अस्ति मेऽन्तरायिकम्' इति प्रतिज्ञाने संवरस्य दाने दुष्कृतमाट्रकं, न अनुत्थानम्॥ निदानेष्वत्र ग्रन्थः-"अन्तरायिकैः तावत् भदन्त धर्मैः समन्वागतम्, 'समन्वागतोऽस्ति'इति वदन्तं उपसंपादयन्ति। उपसंपन्नो वक्तव्योऽनुपसंपन्नो वक्तव्यः, आह-'उपसम्पन्नः' उपसंपादकास्तु सातिसाराः" इति। तद् अत्र अन्तरायिकं अभिप्रेतं व्यवतिष्ठते, यद्विधे तु अहमुपसंपन्नः॥ (६३२) न पुरुषानुकृतित्वं स्त्रिया, स्त्र्य नकृतित्वं च पुरुषस्य व्यंजनान्तरप्रकारः॥ नात्र अनुत्थानं संवरस्य, एतत्प्रदर्शनं-व्यञ्जनान्तरस्य प्रकारत्वात् अत्रोत्थानं न स्यात्। न चैतदेष भवति-॥
(b) आक्षिप्तत्वम्॥
(६३३) आक्षिप्तत्वमस्य हस्तच्छिन्नादिना। अस्य पुरुषस्य अनुकृतित्वस्य हस्तच्छिन्नाः पादच्छिन्ना इत्यादिना आक्षिप्तत्वम्, आक्षिप्तत्वाच्च दुष्कृतामा[त्रमि]त्युक्तं भवति॥ (६३४) पापलक्षण-भिन्नकल्पद्वीपान्तरजयोः॥ अनयोरपि हस्तच्छिन्नादिना आक्षिप्तत्वमित्यर्थः॥ "पापलक्षणं उपसंपादयन्ति" [इति] यावदुपसंपन्नो वक्तव्यः। भिक्षवस्तु उपसंपादकाः आपद्यन्ते दुष्कृतामिति" पापलक्षणे ग्रन्थः॥ [निदान]-द्वीपान्तरजोऽपि ग्रन्थः-जम्बुद्वीपका भिक्षवः पूर्वविदेहकमुपसंपादयन्ति, उपसपन्नो वक्तव्यः'.......... यावद्-'उपसंपन्नः, उपालिन्'। 'उपसंपदकास्तु सातिसाराः'। [इति] विस्तरेण चक्रपेयालं कर्वत्यम्॥ संस्थान-प्रमाण-दशाभेदो मनुष्याणां यत्र द्वीपे तन्मात्रव्युदाशसवरं अत्र द्वीपग्रहणं व्यवतिष्ठते। एतदत्र भिन्नकल्पग्रहणेन विशेषितमुखादिभेदोऽपि अत्र कल्पभेदोऽभिप्रेतः। एवं च एकद्वीपकानामपि एष मुख-कर्णप्रावरणादीनां प्रतिक्षिप्तत्वं वेदितव्यम्॥ (६३५) एकनख-समुद्रलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश-अन्तर्बहिर्द्वि-कुब्ज-षट्सहिताऽनङ्गुलि-पक्ष्म-नकुल-किंपिल-विपरीत-मिलित-शिक्य-कश्मीलित-अक्षाक्ष-अक्षिशाल-शन्त्र-दर्द्रु-विचर्चिक-पीत-अवदात-रक्त-नाडीकर्ण-कण्डु-पिण्ड-स्थूलकच्छु-अण्डलाङ्गूलप्रतिच्छन्न-मूढ-अजिह्व-एकहस्तपाद-[अहस्तपाद]-नीलकेश-हस्त्यश्वश्वगोमेषमृगमत्स्याहि-दीर्घबहुशीर्ष-तालकङ्ठशूलेर्यापथच्छिन्नेभ्यश्च अनाबाधिकानां, ग्लानेन च इतरेषाम्॥ एकनखादीनां च अधुक्तानां [हस्त] छिन्नादिना आक्षिप्तत्वं, इतरेसां तु आबाधिकानां, ग्लानेन 'माऽसि ग्लानः' इत्यनेन आक्षिप्तत्वं इत्यर्थः॥ एकनखो, यस्य एकमेव नखम्। समुद्रलेखो, यस्य मुद्रायुक्तमिव लेखं शरीरावयवः। पक्षहेतो, यस्य एकं पार्श्वं शुष्कम्। लिङ्गशिरा, यस्य लिङ्गाकारं शिरः। गुल्मकेशो यस्य विदूषकस्य इवाऽन्तरागुल्मेन अवस्थिताः केशाः। अन्तर्बहिद्विकुब्ज इति प्रत्येकं कुब्जशब्दस्य परिसमाप्तिः, अन्तः कुब्जो बहीः कुब्जः अन्तर्बहिः कुब्ज इति, उक्तमेतद् अन्यत्र-'काणः, कुणिः,कुब्जोऽथ, वाम' इति, प्रभेदसंदर्शनार्थं त्वेतद्। षट्-सहिताऽनङ्गुलि[रिति] अङ्गुलिशब्दस्य प्रत्येकं परिसमाप्तिः। षड्ङ्गुलिः सहिताङ्गुलिः अनङ्गुलिश्चेति। ष्डङ्गुलित्वं, सहिताङ्गुलित्वं, (अनङ्गु)लित्वमात्रकम्। अङ्गुलिफणाहस्तकत्वेनाऽत्र सक्ताङ्गुलित्वस्य अन्तर्भावः। पक्ष्म-नकुल-किंपिल-विपरीत-मिलित-शिक्य-कश्मीलित-अक्षाक्ष-इति अक्षशब्दस्य प्रत्येक समाप्तिः-पक्षमाक्षः, नकुलाक्षः, किंपिलाक्षः, विपरीताक्षः, मिलिताक्षः, शिक्याक्षः, कश्मीलिताक्षः, अक्षाक्षः। पक्ष्माक्षो, यस्य अक्ष्णोऽन्तः चर्मपुटे पक्ष्मसंभवः। [नकुलाक्षः यस्य अक्षः नकुलाक्षवत्।] उलूकाक्षः किंपिलाक्षो [कपिलाक्षाक्षत्वात्] रक्षाक्षः सदृशाक्षो वा। अपाङ्गसमीपवर्ति यो अक्ष्यवयवः स यस्य नासासमीपे, तत्समीपवर्ति च अपाङ्गं समेत्य, असौ विपरीताक्षः। यस्य विगतनासावंशे परस्परं अक्षिणी-संश्लेष्टे, असौ मिलिताक्षः। शिक्याक्षो, यस्य शिक्यवत् अतिलंबिते अक्षिणी। गलितपक्ष्मरोमत्वात् विगलद्रक्तमासवत् अक्ष्णः पर्यन्तो यस्य असौ कश्मीलिताक्षः। अक्षाक्षः इति अक्षयोः अक्षिणी यस्य असौ अक्षाक्षः। अक्षिशाल-शन्त्र दर्द्रु-विचर्चिका इति अक्षिशब्दस्य प्रत्येकं निपातः। अक्षिशालः, अक्षिशन्त्रः, अक्षिदर्द्रुः अक्षिविचर्चिका। अतिविशाले यस्य अक्षिणी असौ विशालाक्षः॥ पीतावदातरक्तनाडीकर्ण इति कर्णशब्दस्य प्रत्येकं निपातः-पीतकर्णः, अवदानकर्ण, रक्तकर्णः, नाडीकर्ण इति॥ कण्डु-पिण्ड-स्थूलकच्छुरिति कच्छुशब्दस्य प्रत्येकं संबन्धः-कण्डुकच्छुः, पिण्डकच्छुः, स्थूलकच्छुरिति॥ अण्डलाङ्गुलप्रतिच्छन्न इति अण्डाभ्यां लाङ्गूलः प्रतिच्छन्नः अस्य इति अण्डलाङ्गूलप्रतिच्छन्न इति अण्डाभ्यां लाङ्गूलः प्रतिच्छन्नः अस्य इति अण्डलाङ्गूलप्रतिच्छनः॥ मूढ-अजिह्व-एकहस्तपाद इति, मूढ इत्यनेन उपसंपदं न जानातीत्यस्य संगृहीतत्वम्॥ अजिह्व इति [जिह्वाही] नस्य। मूकवधिर इति मूकग्रःअणेन सत्यां जिह्वायां वक्तुमसमर्थः जिह्वाहीनः, अन्यस्य अजिह्व इति उक्तत्वात्॥ [एकहस्तपादः इति एकशब्दस्य] हस्तपादशब्दयोः प्रत्येकं संबन्धः- एकहस्तः, एकपादः, अहस्तपाद इति॥ नीलकेश इति अहरितभूतं नीलं, तस्मात् हरितग्रहणेन नीलस्योक्तत्वम्॥ हस्ति-अश्व-श्व-गो-मेष-मृग-मत्स्य-अहि-दीर्घ-बहुशीर्ष इति शीर्षशब्दस्य प्रत्येकं अभिसंबंधः-हस्तिशीर्षः अश्वशीर्षः, श्वशीर्षो, गोशीर्षः, मेषशीर्षः, मृगशीर्षः, मत्स्यशीर्षंः, अहिशीर्षः, दीर्घशीर्ष, बहुशीर्षः इति। 'सर्वनीलः सर्वपीतः सर्वलोहितः सर्वावदात' इति एतदपि यत्पठ्यते, एषामपि चतुर्भिः भूतं छवि-वर्णैः इत्युक्तत्वम्॥ तालकण्ठ[वत्-शूल-] शूलच्छिन्न-ईर्यापथच्छिन्न इति॥ (६३६) चौरेण दस्योः॥ आक्षिप्तत्वमिति अनुषङ्गः। पापवृत्तिरूपता सामान्येन। ननु नैव अस्य अतः पृथक्त्वम्?-भवनि हि अदस्युभूतोऽपि चौरः सघृणः परहरणः, सर्वेण सर्वं यद्भूयसा यस्य वा अभिप्राणातिपातप्रवर्त्ता। दस्युश्च अचौरभूतः निर्घृणो वध्यघातकादिः। तस्मात् पृथक्त्वमेवास्य भवति॥
(c) अनुज्ञा
(६३७) पितृ-वत् पित्राशयत्वे अनुज्ञायां राजा॥ पित्राशयत्वेन राज्ञाऽनुज्ञातः पितृभ्यामेवानुज्ञातो द्रष्टव्यः। राजानुज्ञया प्रव्राजिते [अदोषो] द्रष्टव्यः इति भावः॥ (६३८) परिगृहीत्रोः अनुज्ञान-धारणा-आरोचनेषु पितृत्वम्॥ असत्यपि जनकत्वे मातापितृपरिग्रहेण अवस्थितयोः अनुज्ञाने सप्ताहधारणे संघे च आरोचने [माता-] पितृत्वं, न जनकयोरेव परिगृहीतृत्वेन अवस्थितयोः इत्यर्थः। "पुत्रकृतकं तावत्, भदन्त, उपसंपादयन्ति, कस्य सकाशा[दव]सारितव्यः?-यस्य पुत्रत्वमुपगतः, एवं धीतिकृतिका यस्य धीतित्वं उपगतिका"-इत्यत्र ग्रन्थः॥ (६३९) न अमनुष्यगतिकयोः॥ अनुज्ञानधारणाऽरोचनेषु पितृत्वं इत्यनुषङ्गः॥ "यस्य तावत्, भदन्त, मातापितरौ कालगतु भवतः, तिर्यग्योनिगतौ वा, तस्य केशावरोपणाय सर्वसंघोऽवलोकयितव्यः?-नो हीदं, उपालिन्" इत्यत्र ग्रन्थः॥ (६४०) न अतः आनन्तर्योत्थाणम्॥ अमनुष्यगतिकाभ्यां पितृभ्याम् आनन्तर्योत्थानम्॥ (६४१) जनकाभ्यामेतद्, परिवृत्तव्यंजनाभ्यामपि॥ अपुंस्त्वमपि मातृगतात्वेऽपि तुष्क स्त्रीत्वं उत्थानमानन्तर्यस्य॥ (६४२) एतद्-कृत्वं मातृघातकादौ तत्त्वम्॥ एतत्कृत्वं आनन्तर्यकृत्वं, यद् माटृघातकादेः प्रव्राजनं प्रतिषिद्धं तत्र आनन्तर्यकृत्वं तत्तु प्रतिपत्तव्यम्। आनन्तर्यकारी न प्रव्राज्यः इत्येवं पुन स्तद्। न सर्वमातृघाटको न प्रव्राज्य इत्येवं च। तिर्यग्योनिगतमातृघातकस्य अप्रतिषिद्धं भवति प्रव्राजनम्॥
(d) संकीर्णम्
कस्मिन् भिक्षुण्यां कृते भिक्षुणीदूषकत्वं जातं भवति, भिक्षुण्याऽपि भिक्षुदूषकत्वं भवति, केनार्थेन एतदुभयमित्याह-॥ (६४३) दूषकत्वं अब्रह्मचर्येण स्वादयतोः, अपराजितत्वे॥ "कियता, भदन्त, भिक्षुणीदूषको वक्तव्यः? -येन अब्रह्मचर्येण, [उपालिन्], भिक्षुणी दूषिता भवति" इति ग्रन्थः। किं यत्तच्चेतसोः अस्योत्थानमित्याह?- स्वदयतोः। गम्यऽपि दूषकत्वस्योस्थानं, गन्तर्यपि इत्यस्य संदर्शनार्थं अत्र द्विवचनम्। नो तु सहिते प्रतियोगिस्वादनेन दूषकत्वस्य उत्थानम्, इत्यस्य न हि अन्य-प्रदोषेण अन्यस्य संबंधः, इति अनङ्गत्वं अत्र प्रतियोगिस्वादस्य। वीतरागदूषणे च दूषकत्वानुत्थानप्रसंगात्। 'छन्दशः' इति यद्वचनं, एषोऽत्र आगमः। स्वेच्छया इत्यस्य अर्थः। पाराजितत्वेऽपि भिक्षु-भिक्षुणीत्वं विद्यते किम्, तदवस्थयोः नाऽप्यनयोः दूषणे दूषकत्व मित्यत्र आह- अपराजितत्वे। ग्रन्थोऽत्र -"अष्टौ तावत्, भदन्त, पुद्गला प्रत्येकवस्तुभीः भिक्षुणीं दूषयन्ति। दुष्टा सा भिक्षुणी वक्तव्या? दुष्टा, उपालिन्, वक्तव्या। कतराः तत्र पुद्गला भिक्षुणी-दूषका वक्तव्याः?-आह, न कश्चिदिति। निपातने वा आमर्षणे वा अपराजितत्वं भिक्षुण्या इति हि एतद् अदूषकत्व-विज्ञानम्। कथं तर्हि ?-अन्येनार्थेन निपतितायां, निकुब्जयां वा, अस्वीकुर्वत्यां, आमर्षण-परामर्षन-संप्रवेशने, निपात्यापि अस्वीकारे तया निपातनस्य। स्वयं वा संस्पृशन्त्या पुरुषगात्रं, पुरुषस्योपक्रान्तिः॥(६४४) अर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य हीनायां योषिति॥ शिक्षां प्रत्याख्याय हीनायां वृत्तायां स्त्रियां व्यंजनपरिवृत्त्या पुंस्त्वोगतौ अर्हत्वं प्रव्रज्योपसंपदोः। न-स्त्रीत्वावस्थायां इव अनर्हत्वं इत्यर्थः॥ (६४५) असाधारणं च पाराजयिकं अध्याचरितवत्याम्॥ 'अर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य हीनायां योषिति'-इत्यनुबन्धः॥ (६४६) आवासिकानां स्त्रीपसंपादने अङ्गत्वं॥ पोषधवस्तु अत्र ग्रन्थः-"यदुक्तं भगवता भिक्षुणी भिः भिक्षूणामन्तिके भिक्षुणीभावः पर्येषितव्यः इति कतमेसां भिक्षूणां आवासिक-नैवासिकानां, उपालिन्", इति। तत्स्थानगता वासस्थं भिक्षुसंघं उपनिश्रित्य भिक्षुणीनां वासः। ततः कालेन कालं अववाद-अनुशासनीमार्गणात्, न च निश्रयातिक्रमो युक्तः इत्येतद् विज्ञानम्। आवासिकत्वमेवात्र विरोपिततरत्वेन विशिष्यमाणं नैवासिकत्वं व्यवतिष्ठते॥ (६४७) ध्वंसो भवत्वस्य [उत्सृ]ष्टौ॥ भवद्भाव्ये भवत्वं जायमानत्वमित्यर्थः। गृह्यमाणे संवरे तस्य संवरस्य यद्भवत्वं तस्य तदवस्थस्य उत्सृष्टौ प्रत्याख्यानादिना उत्सर्गे ध्वंसो भवति। आवेध एष संवरस्य यज्जायमानत्वम्। न च आनेघस्य प्रत्युदावृत्तिः लङ्घनादौ दृश्यते। तस्मात्, न भवत्यस्याऽजायमानत्वे संवरस्य प्रत्युदावृत्तिः इति यो मन्येत तन्नाभिनिवृत्त्यर्थ एतत्सूत्रम्। मुक्तकेषु अत्र ग्रन्थः--"उपसंपन्नस्ताबत्, उपालिन्, गृहित्वं प्रतिजानानो अनुपसंपन्नो वक्तव्यः। प्रागेव उपसंपद्य मान इति॥ पृच्छा प्रायं प्रव्रज्यावस्तुगतम्॥
विनयवृत्तौ [स्वव्याख्या नतः] प्रव्रज्यावस्तु समाप्तम्॥