भिक्षुकर्मवाक्य
Technical Details
भिक्षुकर्मवाक्य
नमः सर्वज्ञाय॥
शृणोतु भदन्तः संघ अहमेवंनामा संघा त्प्रव्रज्योपसंपदं भिक्षुभावं याचे यदुपसंपादयतु मां भदन्तः संघोऽनुकम्पकोऽनुकम्पामुपादाय। [एवं त्रिरपि वक्तव्यम्। याचिते पश्चादेकेन भिक्षुणा एवं करणीयं निषद्य प्रज्ञापितव्यम्।] शृणोतु भदन्तः संघः संघात्प्रव्रज्योपसंपददं भिक्षुभावं याचते। सचेत्संघस्य प्राप्तकालं क्षमते अनुजानीयात्संघो यत्संघ एवंनामानं प्रव्राजयते उपसंपादयेदेषा ज्ञप्तिः। [एवं हि कार्यम्।] शृणोतु भदन्तः संघः अयमेवंनामा संघात् प्रव्रज्योपसंपदं [भिक्षुभावं] याचते तत्संघः एवंनामानं प्रव्राजयति उपसंपादयति। येषामायुष्मतां क्षमते एवंनामानं प्रव्राजयन्तं उपसंपादयितुं ते तूष्णीम्। येषां न क्षमते ते भाषन्ताम्। [इयं प्रथमा कर्मवाचना। एवं द्विरपि त्रिरपि।] प्रव्राजितं उपसंपादितमेवंनामा संघेन क्षान्तमनुज्ञातं यस्मात्तूष्णीमेवमेतद्धारयामि।
[एष हि पूर्वविधिः।] समन्वाहर अहमेवंनामा बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्। धर्मं शरणं गच्छामि विरागाणामग्र्यम्। संघं शरणं गच्छामि गणानामग्र्यम्। उपासकं मां भदन्तो धारयतु यावज्जीवम्। समन्वाहर आचार्य यथा ते आर्याः अर्हन्तो यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरता एवमहमेवंनामा यावज्जीवं प्राणानिपातात्प्रतिविरमामि। अनेनाहं प्रथमेनाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीये अनुकरोमि। यथा ते आर्याः यावज्जीवमदत्तादानं काममिथ्याचारं मृषावादं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयप्रमादस्थानात्प्रतिविरताः एवमेवाहमेवंनामा यावज्जीवमदत्तादानं काममिथ्याचारं मृषावादं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरमामि। अनेन पञ्चमेनाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीये अनुकरोमि। भदन्ताः समन्वाह्रियंतां अयमेवंनामा एवंनाम्रः [उपाध्यायात्] गृहीतावदातवसनः अनवतारितकेशश्मश्रुराकांक्षते स्वाख्याते धर्मविनये प्रव्रजितुम्। सोयमेवंनामा एवंनाम्नोपाध्यायेन स्वाख्याते धर्मविनये केशश्मश्रुवतार्य काषायाणि वस्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजिस्यति। किं प्रव्रजतु। समन्वाहर आचार्य अहमेवंनामा आचार्यमुपाध्यायं याचे।
आचार्यो मे उपध्यायो भवतु। आचार्येण उपाध्यायेन प्रव्रजिष्यामि। समन्वाहर उपाध्याय अहमेवंनामा [अद्याग्रे यावज्जीवं] बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्। धर्मं शरणं गच्छामि विरागाणामग्र्यम्। संघं शरणं गच्छामि गणानामग्र्यम्। तं भगवन्तं शाक्यमुनिं शाक्यसिंहं शाक्याधिराजं तथागतं अर्हन्तं सम्यक्संबुद्धं प्रव्रजितमनुप्रव्रजामि। गृहलिङ्गं समुत्सृजामि। प्रव्रज्यालिङ्गं समाददे। एवं द्विरपि त्रिरपि। समन्वाहर भदन्त अहमेवंनामा [अद्याग्रे यावज्जीवम्] बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्। धर्मं शरणं गच्छामि विरागानामग्र्यम्। संघं शरणं गच्छामि गणानामग्र्यम्। श्रामणेरं मां भदन्तो धारयतु [यावज्जीवम्। एवं द्विरपि त्रिरपि।] समन्वाहर आचार्य यथा ते आर्या अर्हन्तो यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरता एवमेवाहं एवंनामा यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात्प्रतिविरमामि। अनेनाहं प्रथमेनाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीये अनुकरोमि। यथा ते आर्याः अर्हन्तो यावज्जीवमदत्तादानं अब्रह्मचर्यं मृषावादं सुरामैरेयमद्यप्रमादस्थानं नृत्यगीतवादित्रमालागन्धविलेपनवर्णकधारणं उच्चशयनमहाशयनं जातरुपरजतप्रतिग्रहं प्रहाय जातरूपरजतप्रतिग्रहात्प्रतिविरतः एवमेवाहं एवंनामा यावज्जीवमदत्तादानमब्रह्मचर्य्यं मृषावादं सुरामैरेयमद्यप्रमादस्थानं नृत्यगीतवादित्रमालागन्धविलेपनवर्णकधारणं उच्चशयनमहाशयनमकालभोजनं जातरूपरजतप्रतिग्रहं प्रहाय जातरूपरजतप्रतिग्रहात्प्रतिविरमामि। अनेनाहं दशमेनाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीये अनुकरोमि।
समन्वाहर भदन्त अहमेवंनामा भदन्तं उपाध्यायं याचे। भदन्तो मे उपाध्यायो भवतु। भदन्तेन उपाध्यायेन उपसंपत्स्ये। समन्वाहर उपाध्याय अहमेवंनामा इदं चीवरं संघाटीं अधितिष्ठामि कृतनिश्चितं चीवरं परिभोगिकम्। समन्वाहर उपाध्याय अहमेवंनामा इदं चीवरं उत्तरासंगं अधितिष्ठामि कृतनिश्चितं चीवरं पारिभोगिकम्। समन्वाहर उपाध्याय अहमेवंनामा इदं चीवरं अन्तर्वासं अधितिष्ठामि कृतनिश्चितं चीवरं पारिभोगिकम्। समन्वाहर उपाध्याय इदं चीवरं संघाटीं अधितिष्ठामि। आकांक्षमाणःनवं करिष्यामि। अर्धतृतीयमण्डलकं अनन्तरायेण धाविष्ये वितरिष्यामि छेत्स्ये संभंत्स्यामि संग्रन्थिष्ये सेविष्यामि रंक्ष्ये। आसेवकान् वा अत्र आरोपयिष्यामि चीवरं पारिभोगिकम्। समन्वाहर उपाध्याय अहमेवंनामा इदं चीवरं उत्तरासंगं अधितिष्ठामि। आकांक्षमाणः सप्तकं करिष्यामि। अर्धतृतीयमण्डलकं अनन्तरायेण धाविष्ये वितरिष्यामि छेत्स्ये संभंत्स्यामि संग्रन्थिष्ये सेविष्यामि। रंक्ष्ये। आसेवकान् अत्र आरोपयिष्यामि चीवरं पारिभोगिकम्। समन्वाहर उपाध्याय अहमेवंनामा इदं चीवरं अन्तर्वासं अधितिष्ठामि। आकांक्षमाणः पञ्चकं करिष्यामि। अर्धतृतीयमण्डलकं अनन्तरायेण धाविष्ये वितरिष्यामि छेत्स्ये संभंत्स्यामि संग्रन्थिष्ये सेविष्यामि रंक्ष्ये। आसेवकान्वा अत्र आरोपयिष्यामि चीवरं पारिभोगिकम्। समन्वाहर उपाध्याय अहमेवंनामा इदं पात्रं ऋषिभाजनं भिक्षाभाजनं पारिभोगिकम्। एवंनाम्नैवंनाम्नो रहोनुशासकोधीष्टः अहमेवंनामा उत्सहसे त्वमेवंनामा नैवंनामानं रहसि अनुशासितुं एवंनाम्नोपाध्यायेन उत्सहे। शृणोतु भदन्तः संघः अयमेवंनामा भिक्षुरुत्सहते एवंनामानं रहस्यनुशासितुं एवंनाम्नोपाध्यायेन। सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघः इदमेवंनामा भिक्षुरेवंनामानं रहस्यनुशासिष्यति एवंनाम्नोपाध्यायेन। एषा ज्ञप्तिः। शृणुत्वमायुष्मन् अयं ते भूतकालः। अयं सत्यकालः। यच्चाहं किञ्चित्पृच्छामि तत्त्वया लज्जितेन [मा] भूत्वा भूतं च भूततो वक्तव्यं अभूतं च अभूततोऽनिर्वेठयितव्यम्। पुरुषोऽसि।
पुरुषः पुरुषेन्द्रियेण समन्वागतः। परिपूर्णविंशतिवर्षः। परिपूर्णं ते त्रिचीवरं पात्रं च। जीवतस्ते मातापितरौ। अनुज्ञातोसि मातापितृभ्याम्। मासि दासः। मा आहतकः। मा प्राप्तकः। मा वक्तव्यकः। मा विक्रीतकः। मा राजभटः। मा राजकिल्विषी। मा राजतत्थ्यकारी। मा ते राजा पथ्यं कर्म कृतं वा कारितं वा। मासिचौरो धजबन्धकः। मा शणठकः। मा पण्डकः। मा भिक्षुणीदूषकः। मा स्तेनसंवासिकः। मा नानासंवासिकः। मा मातृघातकः। मा पितृघातकः। मा अर्हद् घातकः। मा संघभेदकः। मा तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकः। मा नागः। [मा पशुः।] मा ते कस्यचित्किञ्चिद्देयमल्पं वा प्रभूतं वा शक्नोषि वा उपसम्पदं दातुम्। मासि पूर्वं प्रव्रजितः। चतुर्णां पाराजिकानामन्यतमोऽन्यतमामापत्तिमापन्नः। कश्चिदसि एतर्हि प्रव्रजितः सम्यक् ते ब्रह्मचर्यं चीर्णं। किंनामा त्वम्। किंनामा ते उपाध्यायः। शृणु त्वमायुष्मन्। भवन्ति खलु पुरुषाणामिमे एवंरूपाः काये कायिकाः आबाधाः। तद्यथा कुष्ठं। गंडः। किटिभः। किलासं। दद्रुः कंडुः। कच्छू। रजतम्। विषूचिका। विचर्चिका। हिक्का। ज्वरः। क्षयः। कासः। श्वासः शोषः। अपस्मारो। लोहलिङ्गम्। आटक्करः। पाण्डुरोगः। अङ्गवेदः। गुल्मं रुधिरं। भगन्दरः। अर्शांसि। च्छर्दिः। मूत्ररोगः श्लीपदं। क्लमः। अङ्गदाहः। पार्श्वदाहः। अस्थिभेदः। एकाहिकः। द्वैतीयकः। त्रैतीयकः। चातुर्थिकः। नित्यज्वरः। विषमज्वरः। सन्निपातः। मा ते एवंरूपाः काये कायिका आबाधाः संविद्यन्ते। अन्ये वा एवंरूपाः। यदसि एतर्हि मया पृष्टः। एतदेव सब्रह्मचारिणः [विज्ञाः] संघमध्ये प्रक्ष्यन्ति। तत्रापि त्वया लज्जितेन [मा] भूत्वा भूतं भूततो वक्तव्यम्। अभूतं च अभूततो निर्वेठयितव्यम्। तिष्ठ। मा अशब्दितः आगमिष्यसि। शृणोतु भदन्तः संघः समनुशिष्टो मया एवंनामा रहसि आन्तरायिकान् धर्मान् एवंनाम्नोपाध्यायेन। किमागच्छतु। शृणोतु भदन्तः संघः अहमेवंनामा अर्थहेतो नाम गृह्णामि एवंनाम्नोपाध्यायेन उपसंपत्प्रेक्षः सीहमेवंनामा संघादुपसंपदं याचे एवंनाम्नोपाध्यायेन। उपसंपादयतु मां भदन्तः संघः। अनुकर्तुं मां भदन्तः संघः अनुकम्पकोऽनुकम्पामुपादाय।
शृणोतु भदन्तः संघः अयमेवंनामा एवंनाम्नः उपसंपत्प्रेक्षः सोऽयमेवंनामा संघादुपसंपदं याचते एवं नाम्नोपाध्यायेन। सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघः यद्वयं एवंनामानं संघमध्ये आन्तरायिकान् धर्मान् पृच्छेम एवनाम्नोपाध्यायेन। एषा ज्ञप्तिः। शृणु त्वमायुष्मन् अयं ते पूर्ववत् सर्वम्। शृणोतु भदन्तः संघः अयमेवंनामा एवंनाम्नः उपसंपत्प्रेक्षः परिपूर्णविंशतिवर्षः। एरिपूर्णमस्य त्रिचीवरं पात्रं। परिशुद्धं आन्तरायिकैर्धर्मैरात्मानं वदति। सोयमेवंनामा एवंनाम्नोपाध्यायेन संघादुपसंपदं याचते। सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः एवंनामानं उपसंपादयेत् एवंनाम्नोपाध्यायेन। एषा ज्ञप्तिः।
शृणोतु भदन्तः संघः अयमेवंनामा एवंनाम्नः उपसंपत्प्रेक्षः पुरुषः परिपूर्णविंशतिवर्षः। परिपूर्णमस्य त्रिचीवरं पात्रं च। परिशुद्धमान्तरायिकैर्धर्मैः आत्मानं वदति। सोऽहमेवनाम्ना उपाध्यायेन संघादुपसंपदं याचते तत्संघः एवंनामानं उपसंपादयति एवंनाम्ना उपाध्यायेन। येषामायुष्मतां क्षमते एवंनामानं उपसंपादयितुं एवंनाम्ना उपाध्यायेन ते तूष्णी। येषां न क्षमते ते भाषन्ताम्। इयं प्रथमा कर्मवाचना। एवं द्विरपि त्रिरपि। उपसंपद्यते संघेन एवंनामा एवनाम्नोपाध्ययेन क्षान्तमनुज्ञातं यस्मात्तूष्णीं एवं एतद्धारयामि। शृणु त्वमायुष्मन् चत्वार इमे तेन भगवता जानता पश्यता तथागतेन अर्हता सम्यक् संबुद्धेन एवं प्रव्रजितोपसंपन्नस्य भिक्षिर्निःश्रया आख्याता यं निःश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद्भिक्षुभावः। उत्सहसे त्वमेवंनामा यावज्जीवं पांसुकुलेन चीवरेण यापयितुम्। उत्सहे। अतिरेकलाभः पटिर्वा प्रावरो वा कोशेयो वा आमिलका वा कृमिवर्णा वा समवर्णा वा दुर्वर्णा वा ऊर्णं वा ऊर्णकं वा शाणकं वा क्षोमकं वा कार्पासिकं वा दुकुलं वा कौत्मपकं वा परान्तकं वा इति यद्वा पुनरन्यदपि कल्पिकं चीवरं संघाद्वा उत्पद्यते पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया। कश्चिदेवंरूपं स्थानमभिसंभोत्स्यसे। अभिसंभोत्स्ये। शृणु त्वमेवंनामन् पिण्डपातं च भोजनानां कल्पिकं सुलभं निःश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपभ्दिक्षुभावः। उत्सहसे त्वमेवंनामा यावज्जीवं पिण्डपातेन भोजनेन यापयितुम्। उत्सहे। अतिरेकलाभः भक्तानि वा तर्पणानि वा यवागूः पानानि व पाञ्चमिकं वा आष्टमिकं वा चातुर्दशिकं वा पाञ्चदशिकं वा नैत्यिकं वा निमन्त्रणकं वा ओत्पातिकं वा इति उत्पिण्डं वा इति यद्वा पुनरन्यदपि कल्पिकं पिण्डपातं संघाद्वा उत्पद्यते पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया। कश्चिदेवंरूपं स्थानं अभिसंभोत्स्ये। अभिसंभोत्स्ये।
शृणु त्वमेवंनामन् वृक्षमूलं शयनासनानां कल्पिकं वा सुलभं च यन्निःश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद्भिक्षुभावः। उत्सहसे त्वमेवंनामन् यावज्जीवं वृक्षमूलेन शयनासनेन यापयितुम्। उत्सहे। अतिरेकलामः लयनानि वा माटा वा कूटागाराणि वा हर्म्यका वा हर्मन्तिका वा आमलकपृष्टिका वा दण्डञ्छदनानि वा फलकञ्छदनानि वा गिरिगुहा वा प्राग्मारगुहा वा तृणकुटिका वा पर्णकुटिका वा कृतचंक्रमा वा अकृतचंक्रमा वा इति यद्वा पुनरन्यदपि कल्पिकं शयनासनं संघाद्वा उत्पद्येत पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया। कंचिदेवंरूपं स्थानं अभिसंभोत्स्यसे। अभिसंभोत्स्ये। शृणु त्वमेवंनामन् पूतिमुत्रभैषज्यानां कल्पिकं च सुलभं च यन्निःश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद्भिक्षुभावः। उत्सहसे त्वमेवंनामा यावज्जीवं पूतिमुत्रेन भैष्यज्येन यापयितुम्। उत्सहे। अतिरेकलाभः सर्पिस्तैलं मधु फाणितं कालिकं यामिकं साप्ताहिकं यावज्जीविकं मूलभैष्यज्यं गण्डभैषज्यं पत्रभैषज्यं पुष्पभैषज्यं फलभैष्यज्यमिति यद्वा पुनरन्यदपि कल्पिकं भैषज्यं संघाद्वा उत्पद्येत पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया। कश्चिदेवंरूषं स्थानमभिसंभोत्स्यसे। अभिसंभोत्स्ये।
शृणु त्वमेवंनामंश्चतार इमे तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक् संबुद्धेन एवं प्रव्रजितोपसंपन्नस्य भिक्षोः पतनीया धर्मा आख्याताः यानध्यापद्यमानो भिक्षुः सहाध्यापत्त्या अभिक्षुर्भवत्यश्रमणः अशाक्यपुत्रीयः ध्वस्यते भिक्षुभावात् हतश्रामण्यम् ध्वस्तं मथितं पतितं पराजितप्रत्युद्वार्यमस्य भवति श्रामण्यम्। [तद्यथा तालो मस्तकाछिन्नः अभव्यो हरितत्वाय अभव्यो विरूटिं बुद्धिं विफलतामापत्तुम्।] कतमे चत्वारः। अनेकपर्यायेण कामा विगर्हिताः कामात्मयाः कामनियन्तिकाः साध्यवशकामानां प्रहाणं वर्णितं प्रतिनिसर्गान्तीभावः क्षयो विरागो निरोधः व्युपशमो आसमन्ततः स्तोमितो वर्णितः प्रशस्तः। अद्याग्रेण ते आयुष्मन् सरक्तचित्तेन मातृग्रामश्चक्षुरुपनिधाय न व्यवलोकयितव्यः। कः पुनर्वादी द्वयद्वयसमापत्त्या अब्रह्मचर्यं मैथुनं धर्मं प्रतिसेवितुम्। उक्तं चैतदायुष्मन् तेन भागवता जानता पश्यता तथागतेनार्हता सम्यक् संबुद्धेन। यः पुनर्भिक्षुभिः सार्धं शिक्षासामीचीं समापन्नः शिक्षामप्रत्याख्याय शिक्षादौर्वल्यमनाविष्कृत्याब्रह्मचर्यं मैथुनं धर्मं प्रतिसेवते अन्ततस्तिर्यग्योनिगतयापि सार्धं एवंरूपं स्थानमध्यापद्य सहाध्यापत्त्या अभिक्षुर्भवत्यश्रमणः अशाक्यपुत्रीयः ध्वस्यते भिक्षुभावात् हतश्रामण्यं ध्वस्तं मथितं पतितं पराजितमप्रत्युद्वार्यमस्य भवति श्रामण्यम्। तद्यथा तालो मस्तकाछिन्नः अभव्यो विरुढिं वृद्धिं विपुलतामपत्तुम्। अत्र ते अद्याग्रेण अवद्याचारेण अध्यापत्त्यावद्याचारवैरमण्या तीव्रचतेसा आरक्षस्मृत्या प्रमादे योगः करणीयः। कश्चिदेवंरूपस्थानं नाध्यापस्त्यसे। नाध्यापत्स्ये।
शृणु त्वमायुष्मन् अनेकपर्यायेण भगवता अदत्तादानं प्रतिषिद्धं विगर्हितं अदत्तादानविरति स्तुता स्तोमिता वर्णिता प्रशस्ता। अद्याग्रेण ते आयुष्मन् स्तेयचित्तेन तिलतुषमपि परक्यमदत्तमादातव्यं कः पुनर्वादः पञ्चमाषिकं वा उत्तरपञ्चमाषिकं वा। उक्तमेतदायुष्मंस्तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेन। यः पुनर्भिक्षुर्ग्रामगतमरण्यगतं वा परेषां अदत्तं स्तेयसंख्यातमाददीत यद्रूपेणादत्तादानेन राजा वैनं गृहीत्वा राजमात्रो वा हन्याद्वा संवध्रीयाद्वा प्रवासयेद्वा एवं चैनं वदेत्-त्वं भोः पुरुष चौरोऽसि बालोऽसि मुढोऽसि स्तेनोऽसी त्येवंरूपं स्थानमध्यापद्य सहाध्यापत्त्या अभिक्षुर्भवति [अश्रमणः अशाक्यपुत्रीयः ध्वस्यते भिक्षुभावात् इतश्रामण्यं ध्वस्तं मथितं पतितं पराजितमप्रम्युद्वार्यमस्य भवति श्रामण्यं।] तद्यथा तालो मस्तकाछिन्नः [अभव्यो हरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामापत्तुम्। अत्र ते अध्याग्रेण अवद्याचारेण अध्यापत्त्यावद्याचारवैरमण्यां तीव्रचेतसा आरक्षास्मृत्या प्रमादे योगः करणीयः। किञ्चिदेवरूवं स्थानं नाध्यापत्स्यसे।] नाध्यापत्स्ये। शृणु त्वमेवंनामन् अनेकपर्ययेण भगवता प्राणातिपातो विगर्हितः प्राणातिपातविरतिः स्तुता स्तोमिता वन्दिता प्रशस्त। अद्याग्रेण ते आयुष्मन् [संचि]न्त्य कुन्तपिपिलकोऽपि प्राणेषु जीवितात् न व्यपरोपयितव्यः कः पुनर्वादो मनुष्यविग्रहं वा।
उक्तं चैतदायुष्मंस्तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक् संबुद्धेन। यः पुनर्भिक्षुमनुष्यं वा मनुष्मविग्रहं वा स्वहस्तेन संचिन्त्य जीविताद् व्यपरोपयेत् शस्रं वैनामाघारयेत् शस्त्रधारकं वास्य पर्येषेत् मरणाय वैनं समादापयेत मरणवर्णं वास्यानुसंवर्णयेत्। एवं चैनं वदेत्-हंभोः पुरुष किं त्वया पापकेनाशुचिना दुर्जीवितेन मृतं ते भोः पुरुष जीविताद्वरमितिचिन्तानुमतैश्चित्तसंकल्पैरनकेपर्यायेण मरणाय वैनं समादापयेत् मरणवर्णं वास्य अनुसंवर्णयेत् स च तेन कालं कुर्यादित्येवंरूपो भिक्षुः स्थानमध्यापद्य सहाध्यापत्त्या अभिक्षुर्भवति अश्रमणः अशाक्यपुत्रीयः [ध्वस्यते भिक्षुमावात् हतश्रामण्यं ध्वस्तं मथितं पतितं पराजितमप्रत्युद्वार्यमस्य भवति श्रामण्यम्। तद्यथा तालो मस्तकाछिन्नः अभव्यो हरित्वाय अभव्यो विरुढिं वृद्धिं विपुलतामपत्तुम्। अद्य ते अद्याग्रेण अवद्याचारेण अध्यापत्त्यावद्याचारवैरमण्यां तीव्रचेतसा आराक्षस्मृत्या प्रमादे योगः करणीयः किञ्चिदेवरूपं स्थानं नाध्यापत्स्यसे। नाध्यापत्स्ये।] शृणु त्वमायुष्मन् अनेकपर्यायेण भगवता मृषावादो विगर्हितः मृषावादविरतिः स्तुता स्तोमिता वन्दिता प्रशस्ता।
अद्याग्रेण ते आयुष्मन् हास्यप्रेक्षणोऽपि संप्रजानमृषावाक् न भाषितव्या कः पुनर्वादोऽसन्तमसंविद्यमानमुत्तरसनुष्यधर्मं प्रलपितुम्। उक्तं चैतत् आयुष्मन् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक् संबुद्धेन। यः पुनर्भिक्षु[रनभिजानन्नपरिजानन्न] सन्तमसंविद्यमानमुत्तरमनुष्यधर्ममलमार्यविशेषाधिगमं ज्ञानं वा दर्शनं वा स्पर्शविहारतां वा प्रतिजानीयादिदं जानामीदं पश्यामीति स परेण समयेन समनुयुज्यमानो वा असमनुयुज्यमानो वा आपन्नो विशुर्द्धिं प्रेक्ष्यैवं वदेदजानन्नेवाहमायुष्मनतोऽवीचं जानामीति पश्यामिति[रिक्तम् तुच्छं मृषाव्यपलपनमन्यत्राभिमानात् अयमपि भिक्षुः पाराजिको भवत्यसंवास्यः।] कि जानासि। दुःखं जानामि। समुदयं निरोधं मार्गं जानामि। किं पश्यसि। देवान् पश्यामि। नागान् यक्षान् गन्धर्वान् किन्नरान् महोरगान् प्रेतान् पिशाचान् कुम्भाण्डान् कटपुतनान् [पश्यामि। देवाः अपि मां पश्यन्ति। नागाः यक्षाः गन्धर्वाः किन्नराः महोरगाः प्रेताः पिशाचाः कुन्भाण्डाः कटपूतनाः अपि मां पश्यन्ति। देवानां शब्दं शृणोमि। नागानां यावत्कटपूतानां शब्दं शृणोमि। देवाः अपि मम शब्दम् शृण्वन्ति। नागाः यावत्कटपूतनाः अपि मम शब्दं शृण्वन्ति। देवानां दर्शनाय डपसंक्रमामि। नागानां यावत्कटपूतानां दर्शनाय उपसंक्रमामि। देवाः अपि मां दर्शनाय उपसंक्रामन्ति नागाः यावत्कटपूतनाः अपि मां दर्शनाय उपसंक्रामन्ति। देवैः सार्धमालपामि संलपामि प्रतिसंमोदे सातत्यं समापद्ये। नागैः यावत्कटपूतनैः सार्धमालपामि संलपामि प्रतिसंमोदे सातत्यं समापद्य। देवाः अपि मया सार्धमालपन्ति संलपन्ति प्रतिसंभोदन्ते सातत्यं समापद्यन्ते। नागा यावत्कटपूतनाः अपि मया सार्धमालपन्ति संलपन्ति प्रतिसंमोदन्ते सातत्यं समापद्यन्ते। अलभ्ये वसन् अनित्यसंज्ञया लभ्योहमस्मि इत्यात्मानं प्रतिजानीते। अनित्ये दुःखसंज्ञया दुःखे अनात्मसंज्ञया आहारे प्रतिकूलसंज्ञया सर्वलोके अनभिरतिसंज्ञया आलोकसंज्ञया प्रहरणसंज्ञया विरागसंज्ञया निरोधसंज्ञया मरणसंज्ञया। अलम्ये वसन् अशुभसंज्ञया न शुभसंज्ञया अलम्मोहमस्मि इत्यात्मानं प्रतिजानीते। विनीलकसंज्ञया विपूयकसंज्ञया व्यात्माककसंज्ञया विपद्मकसंज्ञया विखादितसंज्ञया विलोहितकसंज्ञया विक्षिप्तकसंज्ञया। अस्थिसंज्ञया शून्यताप्रत्यवीक्षणसंज्ञया लश्योऽहमस्मि इति प्रतिजानीते।
अलम्ये वसन् प्रयमस्य ध्यानस्य द्वितीवस्य तृतीयस्य चतुर्थस्य धानय्य मैत्र्याः करुणायाः मुदितायाः उपेक्षायाः आकाशान्त्यायतनस्य विज्ञानानन्त्यायतनस्य अकिञ्चिन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्य स्रोतापत्तिफलस्य सकृदागामिफलस्य अनागामिफलस्य [अर्हत्त्वफलस्य] ऋद्धिविषयस्य दिवस्स श्रोतस्य चेतःपर्यायस्य पूर्वनिवासस्य चयुत्युपहानस्य अनर्हन्नेव समानोऽहमस्मि अष्टविमोक्षध्यायी इत्यात्मानं प्रतिजानीते। अन्यत्र प्रतिमानात् इत्येवंरूपं भिक्षुः स्थानमवपद्य सहाध्यापत्त्या अभिक्षुर्भवति। अश्रमणः अशाक्यपुत्रीयः ध्वस्यते भिक्षुभावात् हतमस्य भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितं अप्रत्युद्वार्यमस्य भवति श्रामण्यम्। तद्यथा तालो मस्तकाच्छिन्नः अभव्यो हरितत्वाय अभव्यो विरूढिं वृद्धिं विपुलतां आपत्तुम्। अत्र मे अद्याग्रेण अनध्याचारे अनध्यापत्त्या अनध्याचारवैरमण्यां तीव्रचेतसा आरक्षस्मृत्या प्रमादे योगः करणीयः। किञ्चिदेवं स्थानमध्यापत्स्ये। नाध्यापत्स्ये। [इमे खलु पतनीया धर्मा आख्याताः। अतः श्रमणकारकाः धर्मा आख्यातव्याः।] शृणु त्वमायुष्मन् चत्वारः इमे तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक् संबुद्धेन श्रमणकारकाः धर्माः आख्याताः कतमे चत्वारः। अद्याग्रेण ते आयुष्मता-
आऱ्उष्टेन न प्रत्याक्रोष्टव्यम् रोषितेन न प्रतिरोषितव्यम्।
ताडितेन न प्रतिताडितव्यम् भण्डितेन न प्रतिभण्डितव्यम्॥
किञ्चिदेवंरूपं स्थानं अध्यापत्स्यसे। न अध्यापत्स्ये। शृणु त्वमायुत्मन् यस्ते अभूत् पूर्वमाशाकः कश्चिदहं लभेयं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं च। सत्वमेतर्हि प्रव्रजितं उपसंपम्नम् प्रतिरूपेण उपाध्यायेण प्रतिरूपाभ्यामाचार्याभ्यां समग्रेण संघेन [ज्ञ]प्तिचतुर्थेन कर्मणा अकोप्येन अनास्थापनर्हेण यत्र वर्षशतोपसंपन्नेन भिक्षुणा शिक्षायां शिक्षितव्यं तत्र तदहोपसंपन्नेन इति यत्र समानशीलता समानशिक्षता समानप्रातिमोक्षसूत्रोद्देशता सा अद्याग्रेण आरागयितव्या न विरागयितव्या। अद्याग्रेण ते उपाध्यास्यान्तिके पितृसंज्ञा स्थापयितव्या उपाध्यायेनापि तवान्निके पुत्रसंज्ञा उपस्थापयितव्या अद्याग्रेण ते उपाध्यायो यावज्जीवं उपस्थापयितव्यः। उपाध्यायेनापि त्वं ग्लानः उपस्थापयितव्यः आमरणाय वा व्युत्थानाय वा। अद्याग्रेण ते सगौरवेण विहर्तव्यम् सप्रतिशेण सभयवशवर्त्तिना सब्रह्मचारिषु स्थविरेषु मध्येषु नवकेषु। अद्याग्रेण ते उद्देष्टव्यम् पठितव्यं स्वाध्यायितव्यं स्कन्धकौशल्यं धातुकौशल्यं करणीयं आयतनकौशल्यं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं धूःच तेन निक्षेप्तव्या अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै इमानि च ते मया औदारिकौदारिकानि शिक्षापदानि आख्यातानि अन्यानि वा तानि अन्वर्धमासं प्रातिमोक्षसूत्रोद्देशे उद्दिश्यमाने श्रोष्यसि अन्यानि च ते आचार्योपाध्यायाभ्यां ग्राहयिष्यन्नि। समानोपाध्यायाः समानाचार्याः आप्तकाः संलप्तकाः संसुतका सप्रेमकाः। एष त्वमुपसंपन्नो वरप्रज्ञस्य शासने। यथेमां न विरागयसि दुर्लभं क्षण[संपदम्।] प्रासादिकः प्रव्रज्यापरिशुद्धस्योपसंपदः। आख्याताः सत्यनाम्ना वै संबुद्धेन प्रजानता। एष त्व[मुपसंपन्नो] प्रमादे संपादय॥
समाप्तं कर्मवाक्यम्।